०५६

अग्रे च—

तत्रोपाय-सहस्राणाम् अयं भगवतोदितः ।
यद् ईश्वरे भगवतियथा यैर् अञ्जसा रतिः ॥ [भा।पु। ७.७.२९]

तत्र पूर्वोक्ते त्रिगुणात्मक-कर्मणां बीज-निर्हरणेऽपि उपाय-सहस्राणां मध्ये अयम् एवोपायः भगवता श्री-नारदेन मां प्रत्युपदिष्टः । यैर् उपाय-सहस्रैः सिद्धाद् यद् यस्माद् उपायाद् यथा यथावद् ईश्वरे भगवति अञ्जसा व्यवधानान्तरं विनैव रतिः प्रीतिर् भवति । अतः कर्म-बीज-निर्हरणम् अपि तस्यानुषङ्गिकम् एव फलम् इति भावः ॥