०५५

तथा चित्रकेतुं प्रति श्री-सङ्कर्षणोपदेशान्तेऽपि दृष्ट-श्रुताभिर् मात्राभिर् [भा।पु। ६.१६.६२] इत्य्-आदौ, मद्-भक्तः पुरुषो भवेद् इत्य् अग्रत उदाहार्यम् ।

असुर-बालानुशासनेऽपि—

कौमार आचरेत् प्राज्ञो धर्मान् भागवतान् इह ।
दुर्लभं मानुषं जन्म तद् अप्य् अध्रुवम् अर्थदम् ॥
यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् ।
यद् एष सर्व-भूतानां प्रिय आत्मेश्वरः सुहृत् ॥ [भा।पु। ७.६.१-२]

इहैव मानुष-जन्मनि भागवतान् धर्मान् आचरेत्, यतोऽर्थदम् एतज्जन्म । देवादि-जन्मनि महा-विषयावेशात्, पश्व्-आदि-जन्मनि विवेकाभावाच् च, मानुषं जन्म च प्राप्य न विलम्बेतेत्याह—कौमारे, कौमारम् आरभ्य इत्य् अर्थः । यतस् तद् अपि जन्म अध्रुवं पुनर् दुर्लभं च । शास्त्रस्य च प्राधान्येन मनुष्यम् अधिकृत्य प्रवृत्तत्वात् तद्-अनुवादेनोक्तिर् इयम् । तद्-बुद्ध्य्-आदि-साम्येन मानुषत्वम् आरोप्यैवेति ज्ञेयम् ।

तत्र भागवत-धर्माचरणस्यैव युक्तत्वं दर्शयति—यथा हीत्य्-आदि । इह पुरुषस्यविष्णोःपादोपसर्पणम् एव यथा अनुरूपं योग्यम् इत्य् अर्थः । यद् यस्माद् एष भूतानां स्वभावत एव प्रियः प्रीति-विषयः प्रेम-कर्ता च । तत्र हेतुः—आत्मा परमात्मा । पादोपसर्पणे हेत्व्-अन्तरं यस्माच् चैष ईश्वरः कर्तुम् अकर्तुम् अन्यथा-कर्तुं समर्थः । सुहृत् सर्वेषां हितं चिकीर्षुश् चेति ॥

तद् एतद् उपक्रम्योपसंहरति—

धर्मार्थ-काम इति योऽभिहितस् त्रि-वर्ग
ईक्षा त्रयी नय-दमौ विविधा च वार्ता ।
मन्ये तद् एतद् अखिलं निगमस्य सत्यं
स्वात्मार्पणं स्व-सुहृदः परमस्य पुंसः ॥ [भा।पु। ७.६.२६]

ईक्षा आत्म-विद्या । तद् एतत् सर्वं निगमस्य अर्थ-जातं स्व-सुहृदः स्वान्तर्यामिनः परमस्य पुंसस् तस्मै स्वात्मार्पण-साधनं चेत्, तर्हि सत्यं मन्ये सत्य-फलत्वात् । यद् वा, सत्यम् अर्थ-क्रिया-कारकं सफलम् इति यावत् । अन्यथा धर्मादीनां निष्फलत्वम् एवेति भावः ॥

॥ ७.६ ॥ श्री-प्रह्लादोऽसुरबालकान् ॥५५॥