यथोक्तम् एतद्-अनन्तरं श्री-रहूगणेनैव—
अहो नृ-जन्माखिल-जन्म-शोभनं
किं जन्मभिस् त्व् अपरैर् अप्य् अमुष्मिन्
न यद् धृषीकेश-यशः-कृतात्मनां
महात्मनां वः प्रचुरः समागमः ॥
न ह्य् अद्भुतं त्वच्-चरणाब्ज-रेणुभिर्
हतांहसो भक्तिर् अधोक्षजेऽमला ।
मौहूर्तिकाद् यस्य समागमाच् च मे
दुस्तर्क-मूलोऽपहतोऽविवेकः ॥ [भा।पु। ५.१३.२१-२२]
स्पष्टम् ॥
॥५.१३॥ श्री-ब्राह्मणो रहूगणम् ॥५३-५४॥