श्री-ऋषभ-देव-कृत-स्व-पुत्र-शिक्षणेऽपि ये वा मयीशे [भा।पु। ५.५.३] इत्य्-आदिकं, मत्तोऽप्य् अनन्तात्[भा।पु। ५.५.२५] इत्य्-आदिकं चाग्रे दर्शनीयम् । ब्राह्मण-रहूगण-संवादान्तेऽपीदम् अस्ति—
रहूगण त्वम् अपि ह्य् अध्वनोऽस्य
सन्न्यस्त-दण्डः कृत-भूत-मैत्रः ।
असज्-जितात्मा हरि-सेवया शितं
ज्ञानासिम् आदाय तराति-पारम् ॥ [भा।पु। ५.१३.२०]
ज्ञानम् अत्र भवत्य् आश्रयत्वम्1 एव ।
-
आश्रयम् (ब् ग्रोउप्) ↩︎