किं च—
यथा तरोर् मूल-निषेचनेन
तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः ।
प्राणोपहाराच् च यथेन्द्रियाणां
तथैव सर्वार्हणम् अच्युतेज्या ॥ [भा।पु। ४.३१.१२]
टीका च—किं च, नाना-कर्मभिस् तत्-तद्-देवता-प्रीति-निमित्तान्य् अपि फलानि हरि-प्रीत्या भवन्ति । केवलं तत्-तद्-देवताराधनेन तु न किञ्चिद् इति सदृष्टान्तम् आह—यथेत्य्-आदिका ॥
॥ ४.३१ ॥ श्री-नारदः प्रचेतसः ॥५२॥