०५१

एतद् एव श्री-नारदेनापि स्फुटीकरिष्यते अन्वय-व्यतिरेकाभ्यां । यथाह—

तज् जन्म तानि कर्माणि तद् आयुस् तन् मनो वचः ।
नॄणां येन हि विश्वात्मा सेव्यते हरिर् ईश्वरः ॥
किं जन्मभिस् त्रिभिर् वेह शौक्र-सावित्र-याज्ञिकैः ।
कर्मभिर् वा त्रयी-प्रोक्तैः पुंसोऽपि विबुधायुषा ॥
श्रुतेन तपसा वा किं वचोभिश् चित्त-वृत्तिभिः ।
बुद्ध्या वा किं निपुणया बलेनेन्द्रिय-राधसा ॥
किं वा योगेन साङ्ख्येन न्यास-स्वाध्याययोर् अपि ।
किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः ॥
श्रेयसाम् अपि सर्वेषाम् आत्मा ह्य् अवधिर् अर्थतः ।
सर्वेषाम् अपि भूतानां हरिर् आत्मात्मदः प्रियः ॥ [भा।पु। ४.३१.९-१३]

यतो जन्मादेर् हरि-सेवैव फलम् अतस् तद्-विहीनं सर्वं व्यर्थम् इत्य् अर्थः ।शुक्र-सम्बन्धि1 जन्म विशुद्ध-माता-पितृभ्याम् उत्पत्तिः । सावित्रम् उपनयनेन । याज्ञिकं दीक्षया । विबुधानाम् इव दीर्घायुषापि । वचोभिर् वाग्-विलासैः । चित्त-वृत्तिभिर् नानावधान-सामर्थ्यैः । इन्द्रिय-राधसा तत्-पाटवेन। योगेन प्राणायामादिना । साङ्ख्येन देहादि-व्यतिरिक्तात्म-ज्ञान-मात्रेण । सन्न्यास-वेदाध्ययनाभ्याम् अपि । अन्यैर् अपि व्रत-वैराग्यादिभिः श्रेयः-साधनैः ।इति टीका ॥

अथ श्रेयसाम् इत्य्-आदि-टीका च—नन्व् एषां नाना-फल-साधनानां हरि-सेवनाभाव-मात्रेण कुतो वैयर्थ्यम् ? तत्राह—श्रेयसां फलानाम् आत्मैवावधिः पराकाष्ठा । अर्थतः परमार्थतः, आत्मार्थत्वेनैवान्येषां प्रियत्वाद् इत्य् अर्थः । भवतु, आत्मावधिः । हरेः किम् आयातम् ? तत्राह—सर्वेषाम् अपीति । आत्मा आत्मदश् च अविद्या-निरासेन स्वरूपाभिव्यञ्जकः । ऐश्वरेणापि रूपेण बलि-प्रभृतिभ्य इव आत्म-प्रदःप्रियश् च परमानन्द-रूपत्वात् ॥इत्य् एषा ।

अत्र सर्वेषां भूतानां शुद्ध-जीवानाम् अपि आत्मा परमात्मेति ज्ञेयम् । रश्मि-स्थानीयानां जीवानां सूर्य-स्थानीयत्वात् तस्य । तद् उक्तम्—

तस्मात् प्रियतमः स्वात्मा सर्वेषाम् एव देहिनाम् ।
तद् अर्थम् एव सकलं जगच् चैतच् चराचरम् ॥
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।
जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥ [भा।पु। १०.१४.५४] इति ।

आत्मानौ जीव-तादात्म्यापन्न-ब्रह्मेश्वराख्यौ । ददाति यथायथं स्फोरयति वशीकारयति च यः, स आत्मद इति स्वाम्य्-अभिप्रायः ॥


  1. य रेअद्स् ओन्ल्य् थेसे पोर्तिओन्स् ओफ़् थे चोम्मेन्तर्य्- शौक्रं शुक्र-सम्बन्धि जन्म विशुद्ध-माता-पितृभ्याम् उत्पत्तिः । सावित्रम् उपनयनेन । याज्ञिकं दीक्षया । इन्द्रिय-राधसा तत्-पाटवेन । अत्र साङ्ख्येन देहादि-व्यतिरिक्तात्म-ज्ञान-मात्रेण इति टीका । ↩︎