श्री-रुद्र-गीतेऽपि—
इदं जपत भद्रं वो विशुद्धा नृप-नन्दनाः ।
स्व-धर्मम् अनुतिष्ठन्तो भगवत्य् अर्पिताशयाः ॥
इत्य् उक्त्वाह—
तम् एवात्मानम् आत्म-स्थं सर्व-भूतेष्व् अवस्थितम् ।
पूजयध्वं गृणन्तश् च ध्यायन्तश् चासकृद् धरिम् ॥ [भा।पु। ४.२४.६४-६५]
अथ तम् एव पूजयध्वं, न तु स्वधर्मानुष्ठानाग्रहादिकम् अपि कुरुध्वम् इत्य् एव-कारार्थः । आत्मस्थं स्वान्तर्यामित्वेन स्थितम् । तद्वद् अपरेष्व् अपि भूतेष्व् अवस्थितम् आत्मानं परमात्मानं गृणन्तः कीर्तयन्तो ध्यायन्तश् चेत्य् अन्यत्र मनो-वचो-व्यापारोऽपि निषिद्धः । असकृद् इति एकस्यां पूजायां समाप्यमानायाम् एवान्यारब्धव्या, न तु
कर्माद्य्-आग्रहेण विच्छेदः कर्तव्य इत्य् अर्थः ॥
॥ ४.२४ ॥ श्री-रुद्रः प्रचेतसः ॥ ५० ॥