अतो यच् च ज्ञानम् उपदिष्टं, तद् अपि तद्-उपदेशाव्यर्थता-सम्पादनेच्छा-मात्रेण अनुष्ठीयमानं तेन भक्ति-रसाद् एव कृतम् इत्य् आह—
सनत्-कुमारो भगवान् यद् आहाध्यात्मिकं परम् ।
योगं तेनैव पुरुषम् अभजत् पुरुषर्षभः ॥
भगवद्-धर्मिणः साधोः श्रद्धया यततः सदा ।
भक्तिर् भगवति ब्रह्मण्य् अनन्य-विषयाभवत् ॥ [भा।पु। ४.२३.७-८]
तेनैव द्वारीकृतेन ॥
॥४.२३॥ श्री-मैत्रेयः ॥४९॥