श्री-कुमारोपदेशेऽपि ज्ञानोपदेशानन्तरम्—
यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या
कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः ।
तद्वन् न रिक्त-मतयो यतयोऽपि रुद्ध-
स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥
कृच्छ्रो महान् इह भवार्णवम् अप्लवेशां
षड्-वर्ग-नक्रम् असुखेन तितीर्षयन्ति ।
तत् त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं
कृत्वोडुपं व्यसनम् उत्तर दुस्तरार्णम् ॥ [भा।पु। ४.२२.३९-४०]
टीका च—तम् अवेहि [भा।पु ४.२२.३७] इति ज्ञानम् उपदिष्टम् । तस्य दुष्करत्वेन भक्तिम् उपदिशति द्वाभ्यां, यत्-पाद-पङ्कजेत्य्-आदिकम् आरभ्य ।1 ननु ब्रह्मविद् आप्नोति परम् [तै।उ। २.१.१] इति श्रुतेः कथं यतयो नोद्ग्रथयन्तीत्य् उच्यते ? तत्राह—कृच्छ्र इति । अप्लवेशां न प्लवस् तरण-हेतुर् ईट् ईशो येषां, तेषाम् इह तरणे महान् कृच्छ्रः क्लेशः । ते ह्य् असुखेनयोगादिनाइन्द्रिय-षड्-वर्ग-ग्राहं2 भवार्णवं तितीर्षन्ति । तत् तस्माद् । उडुपं प्लवम् । दुस्तरार्णं दुस्तरार्णवम् ॥ इत्य् एषा ।
समान-प्राप्ययोर् अपि पथोर् एकस्य दुर्गमत्व-कथनेनान्यस्याभिधेयत्वं स्वत एव सिध्यति । अत्र तितीर्षन्ति मात्रं, न तु तरन्तीत्य् अर्थो ज्ञेयः ।
॥४.२२॥ श्री-सनत्-कुमारः श्री-पृथुम् ॥४८॥
-
“यत् पादेत्य्-आदिकम् आरभ्य” इत्य् अत्र “यस्य पाद-पङ्कजयोः पलाशानि अङ्गुलयस् तेषां विलासः कान्तिस् तस्य भक्त्या स्मृत्या कर्माशयम् अहङ्कार-रूपं हृदय-ग्रन्थिं कर्मभिर् एव ग्रथितम् । रिक्ता निर्विषया मतिर् येषाम् । निरुद्धः प्रत्याहृतः स्रोतो-गण इन्द्रिय-वर्गो यैः । अरणं शरणम् ॥” इत्य् अतिरिक्त-पाठः झ-ग्रन्थे उपलभ्यते ॥ ↩︎
-
योगादिना नोत् इन् य। ↩︎