०४७

तथा—

एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।
तीव्रेण भक्ति-योगेन मनो मय्य् अर्पितं स्थिरम् ॥ [भा।पु। ३.२५.४४]

तीव्रेण दृढेन योग-कर्मादिभिर् अभङ्गुरेण शुद्धेनेत्य् अर्थः । तेनैव भक्ति-योगेन श्रवणादिना मय्य् अर्पितं सत् मनः स्थिरं भवतीति यद् एतावान् एव निःश्रेयसस्य परम-पुरुषार्थस्याविर्भावः ।1 अत्रास्मिन् इत्य् अनेनान्यस्मिंस् तु एतावतोऽप्य् अधिकोऽस्तीति2 व्यज्यते ॥

॥३.२५॥ श्री-कपिल-देवः ॥४६-४७॥


  1. भक्ति-योगेन श्रवणादिना मय्य् अर्पितं सत् मनः स्थिरं भवतीति यद् एतावान् एव । इति छ-य पाठः। प्रोबब्ल्य् थे रेअदिन्ग् फ़ोर् अल्ल् थे ब् ग्रोउप्। ↩︎

  2. नस्तीति (य्) ↩︎