अत एव स्वयं तं श्लाघ्यते— सत्-सेवनीयो बत पूरु-वंशो यल् लोक-पालो भगवत्-प्रधानः । बभूविथेहाजित-कीर्ति-मालां पदे पदे नूतनयस्य् अभीक्ष्णम् ॥ [भा।पु। ३.८.१] तस्मात् कथोपलक्षिता भक्तिर् एव परं श्रेय इति भावः ॥ ॥ ३.८ ॥ श्री-मैत्रेयः ॥ ४५ ॥