तत्राजानज-देव-स्तुति-द्वारैवोत्तरम्—
पानेन ते देव कथा-सुधायाः
प्रवृद्ध-भक्त्या विशदाशया ये ।
वैराग्य-सारं प्रतिलभ्य बोधं
यथाञ्जसान्वीयुर् अकुण्ठ-धिष्ण्यम् ॥
तथापरे चात्म-समाधि-योग-
बलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वाम् एव धीराः पुरुषं विशन्ति
तेषां श्रमः स्यान् न तु सेवया ते ॥ [भा।पु। ३.५.४५-४६]
अकुण्ठ-धिष्ण्यं वैकुण्ठ-लोकम् इति टीका । विशदाशयाः प्रोज्झित-कैतवाः सेवैक-पुरुषार्थाः । [ये तु ज्ञान-सङ्गिनस् तेषां साधन-साध्ययोः कनिष्ठत्वम् आह—तथेति ।]1 अपरे मोक्ष-मात्र-कामाः । तन्-मात्र-पुरुषार्थेऽपि तेषां श्रमः स्यात् । सेवैक-पुरुषार्थास् तेषां सेवया श्रमो न स्यात् । सदैव सेवया परमानन्दम् अनुभवताम् आनुषङ्गिकत्या मोक्षश् च स्याद् इत्य् अर्थः ॥
॥ ३.५ ॥ अजानज-देवाः श्री-महत्-स्रष्टृ-पुरुषम्2 ॥ ४४ ॥