०४३

श्री-विदुर-मैत्रेय-संवादेऽपि । तत्र प्रश्नो यथा—

तत् साधु-वर्यादिश वर्त्म शं नः
संराधितो भगवान् येन पुंसाम् ।
हृदि स्थितो यच्छति भक्ति-पूते
ज्ञानं स-तत्त्वाधिगमं पुराणम् ॥ [भा।पु। ३.५.४]

अत्र शं सुख-रूपं वर्त्म इति टीका च । भक्ति-पूते प्रेम-विमले । स-तत्त्वं तत्त्वं1 तच् च ब्रह्म-भगवत्-परमात्मेत्य्-आद्य्-आविर्भावः ॥

॥ ३.५ ॥ श्री-विदुरः श्री-मैत्रेयम् ॥ ४३ ॥


  1. ज्ञानं (प् छन्गेद् हेरे)। ↩︎