श्री-ब्रह्म-नारद-संवादेऽपि—
सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् ।
यद् अहं चोदितः सौम्य भगवद्-वीर्य-दर्शने ॥ [भा।पु। २.५.९]
अग्रे च सर्व-शास्त्र-समन्वयेन—
नारायण-परा वेदा [भा।पु। २.५.१५-१६] इत्य्-आदि ।1
श्री-नारायण एवोपास्यत्वेन परस् तात्पर्य-विषयो येषां, ते वेदाः । नन्व् अन्येऽपि देवास् तत्रोपास्यत्वेनाभिधीयन्ते ? सत्यं, तेऽपि नारायणाङ्ग-प्रभवत्वेनैव तथा वर्ण्यन्त इत्य् अर्थः । येऽपि तद्-आश्रया लोकास् तत्-पद-प्राप्ति-हेतवः । मखाश् च ते तत्-परा एव, तद्-आनन्दांशाभास-रूपत्वात् तत्-साधनत्वाच् चेति भावः ।
तथा योगोऽष्टाङ्गः साङ्ख्यं च । तत्-साध्यं तपश् चित्तैकाग्र्यम् । तत्-साध्यं ब्रह्म-ज्ञानं च तत्-परं, तदीय-सामान्याकार-प्रकाशत्वात् तज्-ज्ञानस्य योग-तपसोस् तत्-साधनत्वाच् चेति भावः । किं बहुना ?गतिस् तत्-प्राप्यं ब्रह्मापि तत्-परा, तदीय-सामान्याकार-प्रकाशत्वेन तद्-अधीनाविर्भावत्वात् । तद् उक्तं श्री-मत्स्य-देवेन सत्यव्रतं प्रति—
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु। ८.२४.३८] इति ॥
॥ २.५ ॥ श्री-ब्रह्मा नारदम् ॥ ४१-४२ ॥
-
नारायण-परा वेदा देवा नारायणाङ्गजाः नारायण-परा लोका नारायण-परा मखाः नारायण-परो योगो नारायण-परं तपः नारायण-परं ज्ञानं नारायण-परा गतिः ↩︎