०३६-४०

तस्याङ्गानि च निष्फलानीत्य् आह पञ्चभिः—

बिले बतोरुक्रम-विक्रमान् ये
न शृण्वतः कर्ण-पुटे नरस्य ।
जिह्वासती दार्दुरिकेव सूत
न चोपगायत्य् उरुगाय-गाथाः ॥ [भा।पु। २.३.२०]

न शृण्वतः अशृण्वतो नरस्यये कर्ण-पुटे ते बिले वृथा-रन्ध्रे इत्य् अर्थः । असती दुष्टा ॥

भारः परं पट्ट-किरीट-जुष्टम्
अप्य् उत्तमाङ्गं न नमेन् मुकुन्दम् ।
शावौ करौ नो कुरुते सपर्यां
हरेर् लसत्-काञ्चन-कङ्कणौ वा ॥ [भा।पु। २.३.२१]

पट्ट-वस्त्रौष्णीषेण किरीटेन वा जुष्टम् अपि । अप्य्-अर्थे वा-शब्दः ।

बर्हायिते ते नयने नराणां
लिङ्गानि विष्णोर् न निरीक्षतो ये ।
पादौ नृणां तौ द्रुम-जन्म-भाजौ
क्षेत्राणि नानुव्रजतो हरेर् यौ ॥ [भा।पु। २.३.२२]

द्रुम-जन्म-भाजौ द्रुमवज्जन्मभजेते इति तथा वृक्ष-मूल-तुल्याव् इत्य् अर्थः ॥

जीवञ् छवो भागवताङ्घ्रि-रेणुं
न जातु मर्त्योऽभिलभेत यस् तु ।
श्री-विष्णु-पद्या मनुजस् तुलस्याः
श्वसञ् छवो यस् तु न वेद गन्धम् ॥ [भा।पु। २.३.२३]

श्री-विष्णु-पद्यास् तत्-पाद-लग्नायाः ॥

तद् अश्म-सारं हृदयं बतेदं
यद् गृह्यमाणैर् हरि-नाम-धेयैः
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्र-रुहेषु हर्षः ॥ [भा।पु। २.३.२४]

अश्मवत् सारो बलं काठिन्यं यस्य । विक्रिया-लक्षणम् अथेतियदा तद्-विकारोन भवेत्, तदा नेत्रादौ जलादिकं न भवतीत्य् अर्थः । इदम् एवान्वयेन श्रीमता राज्ञा दृढीकरिष्यते—सा वाग् यया तस्य गुणान् गृणीते [भा।पु। १०.८०.३-४] इत्य्-आदिभ्याम् । तद् एवं श्री-शुक-वाक्यारम्भाध्याय-त्रयाभिधेयत्वेन श्री-भक्तिर् एव लब्धा ।

टीका च—

तत्र तु प्रथमेऽध्याये कीर्तण-श्रवणादिभिः ।
स्थविष्ठे भगवद्-रूपे मनसो धारणोच्यते ॥[भा।दी। २.१.१]
द्वितीये तु ततः स्थूल-धारणातो जितं मनः ।
सर्व-साक्षिणि सर्वेशे विष्णौ धार्यम् इतीर्यते ॥[भा।दी। २.२.१]
तृतीये विष्णु-भक्तेस् तु वैशिष्ट्यं शृण्वतो मुनेः ।
भक्त्य्-उद्रेकेण तत्-कर्म-श्रवणादर ईर्यते ॥ [भा।दी। २.३.१]इत्य् एषा ॥

॥ २.३ ॥ श्री-शौनकः श्री-सूतम् ॥ ३३-४० ॥