०३५

तद् एवाह—

श्व-विड्-वराहोष्ट्र-खरैः संस्तुतः पुरुषः पशुः ।
न यत्-कर्ण-पथोपेतो जातु नाम गदाग्रजः ॥ [भा।पु। २.३.१९]

श्वादि-तुल्यैस् तत्-परिकरैः सम्यक्-स्तुतोऽप्य् असौ पुरुषः पशुः । तेषाम् एव मध्ये श्रेष्ठश् चेत्, तर्हि महा-पशुर् एवेत्य् अर्थः ॥