०३४

ननु जीवनादिकम् एव तेषाम् आयुषः फलम् अस्तु ? तत्राह—

तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्य् उत ।
न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥ [भा।पु। २.३.१८]

न मेहन्ति न मैथुनं कुर्वन्ति । तान् अपि नराकारान् पशून् मत्वाह—अपर इति ॥