अनन्तरं श्री-शौनकेनापि व्यतिरेकोक्त्या तस्यैवाभिधेयत्वं दृढीकृतम् । यथाह—
आयुर् हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ ।
तस्यर्ते यत्-क्षणो नीत उत्तम-श्लोक-वार्तया ॥ [भा।पु। २.३.१७]
असौ सूर्यः । उद्यन् उद्गच्छन् अस्तं च यन् गच्छन् । हरति वृथा-गामित्वाद् आच्छिनत्तीव । यद् येन क्षणोऽपि येन नीतौत्तमः श्लोक-वार्तया, तस्यायुः ऋते वर्जयित्वा, तावतैव सर्व-साफल्याद् इति भावः ॥