०३२

किं च—

एतावान् एव यजताम् इह निःश्रेयसोदयः ।
भगवत्य् अचलो भावो यद् भागवत-सङ्गतः ॥ [भा।पु। २.३.११]

टीका च—पूर्वोक्त-नाना-देवता-यजनस्यापि संयोग-पृथक्त्वेन भक्तियोग-फलत्वम् आह—एतावान् इति । इन्द्रादीन् अपि यजताम् इह तत्-तद्-यजने भागवतानां सङ्गतोभावो भक्तिर् भवतीति यद् एतावान् एव निःश्रेयसस्य परम-पुरुषार्थस्य उदयो लाभः । अन्यत् तु सर्वं तुच्छम् इत्य् अर्थः॥ इत्य् एषा ।

अत्र इन्द्रम् इन्द्रिय-कामस् तु[भा।पु। २.३.२] इत्य्-आद्य् उक्तम् इन्द्रिय-पाटवादिकं पृथक्त्वेन फलम् । भागवतेन संयोगे तु भावः फलं । खादिर-यूप-संयोगे यागस्य फल-वैशिष्ट्यवद् इति ज्ञेयम् ॥

॥२.३॥ श्री-शुकः ॥ ३१-३२ ॥