एवं प्राक्तनाध्यायाभ्यां कर्म-योग-ज्ञानेभ्यः श्रेष्ठत्वम् उक्त्वा, तद्-उत्तराध्यायेऽपि सर्व-देवतोपासनेभ्यः श्रेष्ठत्व-प्रवचनेन भगवद्-भक्ति-योगस्यैवाभिधेयत्वम् आह—ब्रह्म-वर्चस-कामस् तु यजेत ब्रह्मणः पतिम् [भा।पु। २.३.२] इत्य्-आद्य्-अनन्तरम्—
अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा।पु। २.३.१०]
टीका च—अकाम एकान्त-भक्तः उक्तानुक्त-कामो वा सर्व-कामो वा । पुरुषं पूर्णं परंनिरुपाधिम् इत्य् एषा । तीव्रेण दृढेन स्वभावत एव अनुपघात्येनेति विघ्नानवकाशतोक्ता । कामना तु यथा-कथञ्चित् कृतेनापि स्यात् । यथोक्तं भारते—
भक्त-क्षणः क्षणो विष्णोः स्मृतिः सेवा स्व-वेश्मनि ।
स्व-भोज्यस्यार्पणं दानं फलम् इन्द्रादि-दुर्लभम् ॥इति1 ।
तद् उक्तं श्री-कपिलेन श्री-कर्दमं प्रति—न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्-अर्हणम् [भा।पु। ६.२१.२४] इति ।
अथवा, यत्-तत्-कामस् तीव्रेणैव यजेत । ततश् च शुद्ध-भक्ति-सम्पादनायैवान्ते पर्यवसिष्यतीत्य् अभिप्रायेण सविशेषणम् उपदिष्टम् । तद् अनेन एकान्त-भक्तेषु मुमुक्षौ वा तद्-भक्ति-योगस्यैवाभिधेयत्वं किं वक्तव्यम् अपि तु सर्व-कामेष्व् अपीति तद् एव सर्वथापि निर्णीतम् ॥
-
नोत् फ़ोउन्द्। ↩︎