०३०

अथ किं तत्, यतस् तत्र रतिः स्यात् ?]तथैव1 यच् छ्रोतव्यम् [भा।पु। १.१९.३८] इत्य्-आदिना प्रश्नस्योत्तरत्वेनोपसंहरति—

तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवान् नृणाम् ॥ [भा।पु। २.२.३६]

च-कारात् पाद-सेवादयोऽपि गृह्यन्ते । अनन्तरं च श्रवणादि-फलं यद् दर्शितं तत् तूदाहृतम्—

पिबन्ति ये भगवत आत्मनः सतां
कथामृतं श्रवण-पुटेषु सम्भृतम्
पुनन्ति ते विषय-विदूषिताशयं
व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥ [भा।पु। २.२.३७] इति ।

अत्र पूनन्तीत्य् अनेन पूर्वोक्तः स्थूल-धारण-मार्गः परिहृतः । भक्ति-योगस्यैव स्वतः पावनत्वाद् अलं तत्-प्रयासेनेति ॥

॥ २.२ ॥ श्री-शुकः ॥ २८-३० ॥


  1. नोत् इन् ब् ग्रोउप्। ↩︎