०२९

स च भक्ति-योगः सर्व-वेद-सिद्ध इत्य् आह—

भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया ।
तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन्यतो भवेत् ॥ [भा।पु। २.२.३४]

टीका च—

भगवान् ब्रह्मा । कूटस्थो निर्विकारः, एकाग्र-चित्तः सन्न् इत्य् अर्थः । त्रिस् त्रीन् वारान् कार्त्स्न्येन साकल्येन ब्रह्म वेदम् अन्वीक्ष्य विचार्य । यत आत्मनि हरौ रतिर् भवेत्, तद् एव मनीषया अध्यवस्यत् निश्चितवान् इत्य् एषा ।

त्रिर् अन्वीक्ष्य इति कर्म-ज्ञान-भक्ति-प्रतिपादकतयाभिप्रेत्येति ज्ञेयम् ।]अत्राप्य्1 उपसंहारानुरोधेनात्म-शब्दस्य हरि-वाचकता । निरुक्तं च—आतत्वाच् च मातृत्वाद् आत्मा हि परमो हरिः[तन्त्रे] इति ।

अथवा, भगवान् स्व-प्रकाश-सार्वज्ञ्यादि-गुणः परमेश्वरोऽपि सर्व-वेदाभिधेय-साराकर्षण-लीलार्थं त्रिर् अन्वीक्ष्य तत्र शास्त्र-विदन्तराणाम् ईक्षणम् अनुकृत्य । अनन्त-वैकुण्ठ-वैभवादि-मयानाम् अनन्त-विरिञ्च-पाठ्य-भेदानां वेदानां तथेक्षणं च तेनैव सम्भवतीत्य् आह—कूटस्थ एक-रूपतयैव काल-व्यापीति । अत एवोक्तं स्वयम् एव—

किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ [भा।पु। ११.२१.४२] इति ।

[श्री-शुकेन च, निगम-कृद् उपजह्रे भृङ्ग-वद् वेद-सारम् [भा।पु। ११.२९.४९] इति ॥


  1. नोत् इन् थे ब् ग्रोउप्। ↩︎