तथाच,1 स्थिरं सुखं चासनम् आस्थितो यतिर् यदा जिहासुर् [भा।पु। २.२.१५] इत्य्-आदिना, यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानाम् उत यद् विहारम् [भा।पु। २.२.२२] इत्य्-आदिना च, क्रमेण सद्यो-मुक्ति-क्रम-मुक्त्य्-उपायौ ज्ञान-योगाव् उक्त्वा, ततोऽपि श्रेष्ठत्वं भक्ति-योग-हेतु-भगवद्-अर्पित-कर्मणोऽप्युक्त्वा साक्षाद् भक्ति-योगस्य कैमुत्यम् एवानीतम् । यथा—
न ह्य् अतोऽन्यः शिवः पन्था विशतः संसृताव् इह ।
वासुदेवे भगवति भक्ति-योगो यतो भवेत् ॥ [भा।पु। २.२.३३]
टीका च—सन्ति संसरतः पुंसो बहवो मोक्ष-मार्गास् तपो-योगादयः । समीचीनस् त्व् अयम् एवेत्य् आह—न हीति । यतोऽनुष्ठिताद् भक्ति-योगो भवेत्, अतोऽन्यः शिवः सुख-रूपो निर्विघ्नश् च नास्त्य् एव इत्य् एषा । **यच्-**छब्देनात्र भगवत्-सन्तोषार्थकं कर्मोच्यते, स वै पुंसां परो धर्म [भा।पु। १.२.६]इत्य् उक्तेः ॥
-
अनन्तरं (य) ↩︎