एतद्-अनन्तराध्यायेऽपि तथैवाह—
यावन् न जायेत परावरेऽस्मिन्
विश्वेश्वरे द्रष्टरि भक्ति-योगः ।
तावत् स्थवीयः पुरुषस्य रूपं
क्रियावसाने प्रयतः स्मरेत ॥ [भा।पु। २.२.१४]
परे ब्रह्मादयोऽवरे यस्मात् । कुतः ? विश्वेश्वरे द्रष्टरि, न तु दृश्ये, चैतन्य-घनत्वात् । भक्ति-योगः, केचित् स्वदेहान्तर्-हृदयावकाशे प्रादेश-मात्रं पुरुषं वसन्तं चतुर्भुजम्[भा।पु। २.२.८] इत्य्-आदिनोक्त-साधन-लक्षणाभिनिवेशः । क्रियावसाने आवश्यक-कर्मानुष्ठानानन्तरम् । अनेन कर्मापि भक्ति-योग-पर्यन्तम् इत्य् उक्तम् ॥