एतद्-अनन्तरं विराड्-धारणाम् उक्त्वा तद्-अपवादेनापि तां भक्तिम् आह—
स सर्व-धी-वृत्त्य्-अनुभूत-सर्व
आत्मा यथा स्वप्न-जनेक्षितैकः ।
तं सत्यम् आनन्द-निधिं भजेत
नान्यत्र सज्जेद् यत आत्म-पातः ॥ [भा।पु। २.१.३९]
टीका च—सर्वेषां धी-वृत्तिभिरनुभूतं सर्वं येन, स एक एव सर्वान्तर्-आत्मा । तम् एव सत्यं भजेत । अन्यत्र उपलक्षणे न सज्जेत । यत आसङ्गाद् आत्मनः पातः संसारो भवति । एकस्य तत्-तद्-इन्द्रियैः सर्वानुभूतौ दृष्टान्तः—स्वप्न-जनानाम् ईक्षितायथा इति । स्वप्नेऽपि कदाचिद् बहून् देहान् प्रकल्प्य जीवस् तत्-तद्-इन्द्रियैः सर्वं पश्यति, तद्वत् । ईश्वरस्य तु विद्या-शक्तित्वान् न बन्धःइत्य् एषा ।
अत्र स्व-धी-वृत्तिभिः पश्यन्न् एव सर्वेषां धी-वृत्तिभिर् अपि सर्वं पश्यतीत्य् एव । तथोक्तम्, स ऐक्षत [बृ।आ।उ। १.२.५, ऐ।उ। १.१.२] इत्य् अत्र सर्व-धी-वृत्ति-सृष्टेः पूर्वम् अपि तच्-छ्रवणात् । तथा स्वप्न-देहानाम् ईश्वर-कर्तृकत्वेऽपि जीव-कर्तृक-प्रकल्पन-कथनं तत्-सङ्कल्प-द्वारैवेश्वरः करोतीत्य् अपेक्षायाम् उक्तम् ।
“यः सर्व-धी” इत्य् अनुक्तत्वात्, सत्यं**1 भजेत** इति योजयितव्यस्य कर्तुर् विद्यमानत्वात्, अयम् एवार्थः—स तथाभूत-विराड्-धारणा-सिद्धो योगी विराड्-गताभिः सर्वाभिर् धी-वृत्तिभिर् ज्ञानेन्द्रियैर् अनुभूतं सर्वं विराड्-गतं येन तथा-भूतोऽपि सन् तं सत्यम् आनन्द-निधिं विराड्-अन्तर्यामिनं श्री-नारायणम् एव भजेत । अन्यत्र विराड्-गते तद्-धारणावान्तर-फले च कुत्रापि न सज्जेत्, यतः सज्जनाद् आत्म-पातः संसार एव स्यात् ।
तस्य सर्वानुभूतौ दृष्टान्तः—आत्मा स्वप्न-द्रष्टा जीवो यथा स्वप्न-गतानां सर्वेषां जनानां तद्-उपलक्षितानां वस्तूनां च एक एव ईक्षिता भवतीति तद्वत् । अत्र तम् इत्य् अनेन स ऐक्षत इति, स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इति श्रुति-प्रसिद्ध-परानपेक्ष-ज्ञानादि-सिद्धेः, तथा सन्ध्ये सृष्टिर् आह हि [वे।सू। ३.२.१], माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात् [वे।सू। ३.२.३] इति न्याय-प्राप्तेन स्वप्नस्यापि कर्तृत्वेन जाग्रद्-आदि-मय-जगत्-कर्तृत्वस्य पूर्णत्व-प्राप्तेर् वैलक्षण्यं दर्शितं । सत्यादि-द्वयेन परम-पुरुषार्थत्वं चेति विज्ञेयम् ॥
॥२.१॥ श्री-शुकः ॥ २४-२६ ॥
-
“स तं” इति पाठान्तरं कानाइलाल-अधिकारिणा धृतम्। ↩︎