०२५

निगमयति—

तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम् ॥ [भा।पु। २.१.५]

टीका च—सर्वात्मा इति प्रेष्ठत्वम् आह—भगवान् इति सौन्दर्यम् । ईश्वर इत्य् आवश्यकत्वं हरिर् इति बन्ध-हारित्वम् । अभयं मोक्षम् इच्छता इत्य् एषा । मोक्षस् तु सर्व-क्लेश-शान्ति-पूर्वक-भगवत्-प्राप्तिर् एवेति ज्ञेयम् ॥