०२४

तद् एवं भक्तिर् एवाभिधेयं वस्त्व् इत्य् उक्तम् । तथैव श्री-शुक-परीक्षित्-संवादोपक्रमेऽपि—

श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः ।
अपश्यताम् आत्म-तत्त्वं गृहेषु गृह-मेधिनाम् ॥ [भा।पु। २.१.२] इत्य्-आदि ।

गृहेष्व् इत्य्-आदिकम् उपलक्षणं बहिर्मुखानाम् । आत्म-तत्त्वं भगवत्-तत्त्वं, तथा निगमयिष्यमानत्वात् ॥