श्री-भागवताविर्भाव-कारणे श्री-नारद-व्यास-संवादेऽपि—
नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं
न शोभते ज्ञानम् अलं निरञ्जनम्
कुतः पुनः शश्वद् अभद्रम् ईश्वरे
न चार्पितं कर्म यद् अप्य् अकारणम् ॥ [भा।पु। १.५.१२] इत्य्-आद्य् उदाहृतम् ।
टीका च—निष्कर्म ब्रह्म तद्-एकाकारत्वान् निष्कर्मता-रूपं नैष्कर्म्यम् । अज्यते अनेनेत्य् अञ्जनम् उपाधिः, तन्-निवर्तकं निरञ्जनम् । एवं-भूतम् अपि ज्ञानमच्युते भावो भक्तिस् तद्-वर्जितं चेद् अलम् अत्यर्थं न शोभते सम्यग् अपरोक्षाय न कल्पत इत्य् अर्थः। तदा शश्वत् साधन-काले फल-काले च अभद्रं दुःख-रूपं यत् काम्यं कर्म, यद् अप्यकारणम् अकाम्यं तच् चेति चकारस्यान्वयः । तद् अपि कर्म ईश्वरे नार्पितं चेत् कुतः पुनः शोभते ? बहिर्-मुखत्वेन सत्त्व-शोधकत्वाभावातित्य् एषा ।
तद् एवं ज्ञानस्य भक्ति-संसर्गं विना कर्मणस् तद्-उपपादकत्वं विना व्यर्थत्वं व्यक्तम् ।
किं च—जुगुप्सितं धर्म-कृतेऽनुशासतःस्वभाव-रक्तस्य महान् व्यतिक्रमः ॥ [भा।पु। १.५.१५]इत्य्-आदिकम् उक्त्वाह—
त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर्
भजन्न् अपक्वोऽथ पतेत् ततो यदि ।
यत्र क्व वाभद्रम् अभूद् अमुष्य किं
को वार्थ आप्तोऽभजतां स्व-धर्मतः ॥ [भा।पु। १.५.१७]
टीका च—
इदानीं तु नित्य-नैमित्तिक-स्वधर्म-निष्ठाम् अप्य् अनादृत्य
केवलं हरि-भक्तिर् एवोपदेष्टव्या इत्य् आशयेनाह—त्यक्त्वेति ।
ननु स्वधर्म-त्यागेन भजन् भक्ति-परिपाकेन यदि कृतार्थो भवेत् तदा न काचिच् चिन्ता । यदि पुनर् अपक्व एव म्रियेत ततो भ्रश्येद् वा, तदा तु स्वधर्म-त्याग-निमित्तोऽनर्थः स्याद् इत्य् आशङ्क्याह—ततो भजनात् पतेत् कथञ्चिद् भ्रश्येन् म्रियेत वा यदि तदापि भक्ति-रसिकस्य कर्मानधिकारान् नानर्थ-शङ्का अङ्गीकृत्याप्य् आह । वा-शब्दः कटाक्षे ।यत्र क्व वा नीच-योनाव् अपि अमुष्य भक्ति-रसिकस्य अभद्रम् अभूत् किम्? नाभूद् एवेत्य् अर्थः । भक्ति-वासना-सद्-भावाद् इति भावः । अभजताम् अभजद्भिस् तु केवलं स्वधर्मतः को वार्थ आप्तःप्राप्तः ?अभजताम् इति षष्ठी सम्बन्ध-मात्र-विवक्षया इत्य् एषा ॥
॥ १.५ ॥ श्री-नारदः श्री-व्यासम् ॥२३॥