०२२

तद् एवं द्वाविंशत्या1 तद्-भजनस्यैवाभिधेयत्वं दर्शयित्वा पूर्वोक्तं सर्व-शास्त्र-समन्वयम् एव स्थापयति—

स एवेदं ससर्जाग्रे भगवान् आत्म-मायया ।
सद्-असद्-रूपया चासौ गुण-मय्य् अगुणो विभुः ॥ [भा।पु। १.२.३०] इत्य्-आदि ।

टीका च—ननु जगत्-सर्ग-प्रवेश-नियमनादि-लीला-युक्ते वस्तुनि सर्व-शास्त्र-समन्वयो दृश्यते, कथं वासुदेव-परत्वं सर्वस्य ? तत्राह—स एवेति चतुर्भिर् इत्य् एषा । इदं महद्-आदि-विरिञ्चि-पर्यन्तम् । एवं प्रवेशादिकाप्य् उत्तर-श्लोकेषु द्रष्टव्या ॥

॥१.२॥ श्री-सुतः श्री-शौनकम् ॥१९-२२॥


  1. द्वाविंशत्या ओन्ल्य् इन् ब् ग्रोउप्। ↩︎