ततो वासुदेव एव भजनीय इत्य् उक्तम् । सर्व-शास्त्र-तात्पर्यं च तत्रैवेत्य् आह द्वाभ्याम्—
वासुदेव-परा वेदा वासुदेव-परा मखाः ।
वासुदेव-परा योगा वासुदेव-पराः क्रियाः ॥
वासुदेव-परं ज्ञानं वासुदेव-परं तपः ।
वासुदेव-परो धर्मो वासुदेव-परा गतिः ॥ [भा।पु। १.२.२८-९]
टीका च—वासुदेवः परस् तात्पर्य-गोचरो येषां ते । ननु वेदा मख-परा दृश्यन्ते इत्य् आशङ्क्य तेऽपि तद्-आराधनार्थत्वात् तत्-परा एवेत्य् उक्तम् । योगा योग-शास्त्राणि । तेषाम् अप्य् आसन-प्राणायामादि-क्रिया-परत्वम् आशङ्क्य, तासाम् अपि तत्-प्राप्त्य्-उपायत्वात् तत्-परत्वम् उक्तम् । ज्ञानं ज्ञान-शास्त्रम् ।
ननु तज्-ज्ञान-परम् एवेत्य् आशङ्क्य, ज्ञानस्यापि तत्-परत्वम् उक्तम् । तपोऽत्र ज्ञानम् । धर्मो धर्म-शास्त्रं दान-व्रतादि-विषयम् ।
ननु तत्-स्वर्गादि-परम् इत्य् आशङ्क्य, तस्यापि तद्-अधीनत्वात् तत्-परत्वम् । गम्यत इति गतिः स्वर्गादि-फलम् । सापि तद्-आनन्दांश-प्रकाश-रूपत्वात् तत्-परैवेत्य् उक्तम् । यद् वा, वेदा इत्य् अनेनैव तन्-मूलत्वात् सर्वाण्य् अपि शास्त्राणि वासुदेव-पराणीत्य् उक्तम् ।
ननु वेदानां तेषां मख-योग-क्रियादि-नानार्थ-परत्वान् न तद्-एक-परत्वम् इत्य् आशङ्क्य मखादीनाम् अपि तत्-परत्वम् उक्तम् इति द्रष्टव्यम् इत्य् एषा ।
अत्र योगादीनां कथञ्चिद् भक्ति-सचिवत्वेनैव तत्-परत्वं मुख्यं द्रष्टव्यम् । वेदाश् च कर्म-काण्ड-परा एव ज्ञेयाः, केषाञ्चित् साक्षाद्-भक्ति-परत्वम् अपि दृश्यत इति—
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे।उ। ६.२३] इत्य्-आदेः ।