ननु काम-लोभोऽपि लक्ष्मी-पति-भजने भवत्य् एव । तर्हि कथम् अन्यांस् ते भजन्ते ? तत्राह—
रजस्-तमः-प्रकृतयः सम-शीला भजन्ति वै ।
पितृ-भूत-प्रजेशादीन् श्रियैश्वर्य-प्रजेप्सवः ॥ [भा।पु। १.२.२७]
रजस्-तमः-प्रकृतित्वेनैव पित्रादिभिः समं शीलं येषां, सम-शीलत्वाद् एव तद्-भजने प्रवृत्तिर् इत्य् अर्थः ॥