नन्व् अन्यान् भैरवादीन् देवान् अपि केचिद् भजन्तो दृश्यन्ते ? सत्यं, यतस् ते सकामाः । किन्तु मुमुक्षवोऽप्य् अन्यान् न भजन्ते । किम् उत तद्-भक्त्य्-एक-पुरुषार्था इत्य् आह—
मुमुक्षवो घोर-रूपान् हित्वा भूत-पतीन् अथ ।
नारायण-कलाः शान्ता भजन्ति ह्य् अनसूयवः ॥ [भा।पु। १.२.२६]
भूत-पतीन् इति पितृ-प्रजेशादीनाम् उपलक्षणम् । अनसूयवो देवतान्तरानिन्दकाः सन्तः ॥