तद् एवं कर्म-ज्ञान-वैराग्य-यत्न-परित्यागेन भगवद्-भक्तिर् एव कर्तव्येति मतम् । कर्म-विशेष-रूपं देवतान्तर-भजनम् अपि न कर्तव्यम् इत्य् आह सप्तभिः । तत्रान्येषां का वार्ता, सत्य् अपि श्री-भगवत एव गुणावतारत्वे श्री-विष्णुवत् साक्षात्-परम-ब्रह्मत्वाभावात् सत्त्व-मात्रोपकारकत्वाभावाच् च, प्रत्युत रजस्-तमो-बृंहणत्वाच् च, ब्रह्म-शिवाव् अपि श्रेयोऽर्थिभिर् नोपास्याव् इत्य् अत्र द्वौ श्लोकौ परमात्म-सन्दर्भे [१२-१३] एवोदाहृतौ—
सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर्
युक्तः परम-पुरुष एक इहास्य धत्ते ।
स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः ॥ [भा।पु। १.२.२३]
पार्थिवाद् दारुणो धूमस् तस्माद् अग्निस् त्रयीमयः ।
तमसस् तु रजस् तस्मात् सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [भा।पु। १.२.२४] इति ।
सत्त्व-तनोः सत्त्व-शक्तेः । त्रयी-मयस् त्रय्य् उक्त-कर्म-प्रचुरः । दारु-स्थानीयं तमः । धूम-स्थानीयं रजः । अग्नि-स्थानीयं सत्त्वं । त्रय्य् उक्त-कर्म-स्थानीयं ब्रह्म । [पार्थिवाद् इति यथा धूमोऽंशेनाग्नीयो भवति, दारु तु तथा नेति, अत्र स्वल्पं त्रयीमयत्वं भवति । एवं यथा रजसः सत्त्व-सन्निहितत्वं तथा तमसो नेति । ब्रह्म-सन्निहितत्वं स्वल्पं ज्ञेयम् । ततश् च]1 त्रय्य्-उक्त-कर्म यथाग्नाव् एव साक्षात् प्रवर्तते नान्ययोस् तद्वत् पर-ब्रह्म-भूतो भगवान् अपि सत्त्व एवेत्य् अर्थः ।
देवतान्तर-परित्यागेनापि भगवद्-भक्तौ सद्-आचारं प्रमाणयति—
भेजिरे मुनयोऽथाग्रे भगवन्तम् अधोक्षजम् ।
सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तान् इह ॥ [भा।पु। १.२.२५]
अथ अतो हेतोः । अग्रे पुरा । सत्त्वं विशुद्धं विशुद्ध-सत्त्वात्मक-मूर्तिं भगवन्तम् । प्रकृत-सत्त्वातीतत्वं च तस्य विवृतं भगवत्-सन्दर्भे [१००] । अतो ये तान् अनुवर्तन्ते, त इह संसारे क्षेमाय कल्पन्ते ।
-
थिस् पोर्तिओन् ओन्ल्य् इन् ख, ग, च। ↩︎