०१७

अत्र प्रकरणार्थे सद्-आचारं दर्शयन्न् उपसंहरति—

अतो वै कवयो नित्यं भक्तिं परमया मुदा ।
वासुदेवे भगवति कुर्वन्त्य् आत्म-प्रसादनीम् ॥ [भा।पु। १.२.२२]

आत्म-प्रसादनीं मनसः शोधनीम् । न केवलम् एतावद्-गुणत्वं तस्याः, किं च परमया मुदेति कर्मानुष्ठानवन् न साधन-काले साध्य-काले1 वा भक्त्य्-अनुष्ठानं दुःख-रूपं, प्रत्युत सुख-रूपम् एवेत्य् अर्थः । अत एव नित्यं साधक-दशायां सिद्ध-दशायां च तावत् कुर्वन्ति इत्य् उक्तम् ॥

॥१.२॥ श्री-सूतः ॥ १७ ॥


  1. फल-काले (ख) ↩︎