तस्य च परमानन्दैक-रूपत्वेन स्वतः-फल-रूपस्य साक्षात्-कारस्यानुषङ्गिकं फलम् आह—
भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥[भा।पु। १.२.२१]
हृदय-ग्रन्थिर् उपाध्य्-अहङ्कारः1 । सर्व-संशयाश् छिद्यन्त इति श्रवण-मननादि-प्रधानानाम् अपि तस्मिन् दृष्ट एव सर्वे संशयाः समाप्यन्ते इत्य् अर्थः । तत्र श्रवणेन तावज्-ज्ञेय-गतासम्भावनाश् छिद्यन्त इति, मननेन तद्-गत-विपरीत-भावना, साक्षात्कारेण त्व् आत्म-योग्यता-गतासम्भावना-विपरीत-भावने इति ज्ञेयम् । क्षीयन्ते तद्-इच्छा-मात्रेणैव तद्-आभासो न2 किञ्चिद् एव तेष्व् अवशिष्यत इत्य् अर्थः ।