एवं प्रसन्न-मनसो भगवद्-भक्ति-योगतः ।
भगवत्-तत्त्व-विज्ञानं मुक्त-सङ्गस्य जायते ॥ [भा।पु। १.२.२०]
एवं पूर्वोक्त-प्रकारेण प्रसन्न-मनसस् ततो मुक्त-सङ्गस्य त्यक्त-कामादि-वासनस्य भक्ति-योगतः पुनर् अपि क्रियमाणात् तस्माद् विज्ञानं साक्षात्कारो मनसि बहिर् वा भावनां विनैवानुभवो यः, स जायते ॥