०१४

तदैव त्रि-भुवन-विभव-हेतवेऽप्य् अकुण्ठ-स्मृतिर् [भा।पु। ११.२.५३] इत्य्-आद्य्-उक्त-रीत्या सर्व-वासना-नाशात् चित्तं शुद्ध-सत्त्व-मग्नं सत् भगवत्-तत्त्व-साक्षात्कार-योग्यं भवतीत्य् आह—

तदा रजस्-तमो-भावाः काम-लोभादयश् च ये ।
चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ [भा।पु। १.२.१९]

रजश्तमश् च ये च तत्-प्रभावा भावाः कामादयः, एतैर् इत्य् अन्वयः ॥