ततश् च,
नष्ट-प्रायेष्व् अभद्रेषु नित्यं भागवत-सेवया ।
भगवत्य् उत्तम-श्लोके भक्तिर् भवति नैष्ठिकी ॥ [भा।पु। १.२.१८]
नष्ट-प्रायेषु, न तज्-ज्ञानम् इव सम्यङ्-नष्टेष्व् एवेति भक्तेर् निरर्गल-स्वभावत्वम् उक्तम्। भागवतानां भागवत-शास्त्रस्य च1 सेवया भक्तिर् अनुध्यान-रूपा नैष्ठिकी सन्ततैव भवति ॥
-
वा (छ, ज, झ, ञ, य) ↩︎