०१०

तत्रैवान्तिम-भूमिका-पर्यन्तां सुगमां शैलीं वक्तुं धर्मादि-कष्ट-निरपेक्षेण युक्ति-मात्रेण तत्-प्रथम-भूमिकां श्री-हरि-कथा-रुचिम् उत्पादयंस् तस्य गुणं स्मारयति—

यद्-अनुध्यासिना युक्ताः कर्म-ग्रन्थि-निबन्धनम् ।
छिन्दन्ति कोविदास् तस्य को न कुर्यात् कथा-रतिम् ॥ [भा।पु। १.२.१५]

कोविदा विवेकिनः । युक्ताः संयत-चित्ता यस्य हरेर् अनुध्या अनुध्यानं चिन्तन-मात्रम् एव असिः खड्गः, तेन ग्रन्थिं नाना-देहेष्व् अहङ्कारं निबध्नाति यत्, तत् कर्म छिन्दन्ति । तस्यैवम्भूतस्य परम-दुःखाद् उद्धर्तुः कथायां रतिंरुचिं को न कुर्यात् ?

[११]

नन्व् एवम् अपि तस्य कथा-रुचिर् मन्द-भाग्यानां च न जायत इत्य् आशङ्क्य तत्र सुगमोपायं1 वदन्, ताम् आरभ्य नैष्ठिकी-पर्यन्तां भक्तिम् उपदिशति पञ्चभिः—

शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः ।
स्यान् महत्-सेवया विप्राः पुण्य-तीर्थ-निषेवणात् ॥ [भा।पु। १.२.१६]

भुवि पुरु-पुण्य-तीर्थ-सदनान्य् ऋषयो विमदाः [भा।पु। १०.८७.३५] इत्य्-आद्य्-अनुसारेण प्रायस् तत्र महत्-सङ्गो भवति इति तदीय-टीकानुमत्या च पुण्य-तीर्थ-निषेवणाद् धेतोर् लब्धा यदृच्छया या महत्-सेवा तया वासुदेव-कथा-रुचिः स्यात् । कार्यान्तरेणापि तीर्थे भ्रमतो महतां प्रायस् तत्र भ्रमतां तिष्ठतां वा दर्शन-स्पर्शन-सम्भाषणादि-लक्षणा सेवा स्वत एव सम्पद्यते । तत्-प्रभावेण च तदीयाचरणे श्रद्धा भवति । “तदीय-स्वाभाविक-परस्पर-भगवत्-कथायां किम् एते सङ्कथयन्ति ? तत् शृणोमि ? इति तद्-इच्छा जायते । तच्-छ्रवणेन च तस्यां रुचिर् जायत इति । तथा च महद्भ्य एव श्रुता झटिति कार्य-करीति भावः । तथा च श्री-कपिल-देव-वाक्यम्—सतां प्रसङ्गान् मम वीर्य-संविदो भवन्ति हृत्-कर्ण-रसायनाः कथाः [भा।पु। ३.२५.२५] इत्य्-आदि ।

[१२]

ततश् च,

शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः ।
हृद्य् अन्तःस्थो ह्य् अभद्राणि विधुनोति सुहृत्-सताम् ॥ [भा।पु। १.२.१७]

कथा-द्वारा अन्तः-स्थो भावना-पदवीं गतः सन् हृदि अभद्राणि वासनाः ॥


  1. तत्रोपायं (छ, ञ), तत्रोपायान् (ज, य) ↩︎