यद्य् एवं श्री-हरि-सन्तोषकस्यापि धर्मस्य फलं श्रवणादि-रुचि-लक्षणा भक्तिर् एव, तद्-अनुगतास् तत्-प्रवर्तिताश् च1 ज्ञान-वैराग्यादि-गुणा इत्य् आयातं, तदा साक्षाच्-छ्रवणादि-रूपा भक्तिर् एव कर्तव्या ।किं तत् ? तद्-आग्रहेणेत्य् आह—
तस्माद् एकेन मनसा भगवान् सात्वतां पतिः ।
श्रोतव्यः कीर्तितव्यश् च ध्येयः पूज्यश् च नित्यदा ॥ [भा।पु। १.२.१४]
एकेन कर्माद्य्-आग्रह-शून्येन2 । श्रवणम् अत्र नाम-गुणादीनां, तथा कीर्तनं च॥