००८

सा चैवं दुर्लभा भक्तिः श्री-हरि-तोषणे प्रयुक्तात् स्वाभाविक-धर्माद् अपि लभ्यते इति । तस्माद् धरि-तोषणम् एव तस्य परम-फलम् इत्य् आह—

अतः पुम्भिर् द्विज-श्रेष्ठा वर्णाश्रम-विभागशः ।
स्वनुष्ठितस्य धर्मस्य संसिद्धिर् हरि-तोषणम् ॥[भा।पु। १.२.१३]

स्वनुष्ठितस्य बहु-प्रयत्नेनाच्छिद्रम् उपार्जितस्य इति तुच्छे स्वर्गादि-फले तत्-प्रयोगोऽतीवायुक्त इति भावः ॥