तच् च त्रिधाविर्भाव-युक्तम् एव तत्त्वं भक्त्यैव साक्षाद् अपि1 क्रियत इत्य् आह—
तच् छ्रद्दधाना मुनयो ज्ञान-वैराग्य-युक्तया ।
पश्यन्त्य् आत्मनि चात्मानं भक्त्या श्रुत-गृहीतया ॥ [भा।पु। १.२.१२]
भक्त्या तत्-कथा-रुचेर् एव परावस्था-रूपया प्रेम-लक्षणया । तत्पूर्वम् एवोक्तं तत्त्वम्।2 आत्मनि शुद्धे चेतसि पश्यन्तिच । ज्ञान-मात्रस्य का वार्ता ? साक्षाद् अपि कुर्वन्तीत्य् अर्थः । कीदृशं तत् ? आत्मानं स्वरूपाख्य-जीवाख्य-मायाख्य-शक्तीनाम् आश्रयम् । ज्ञान-वैराग्य-युक्तया[ज्ञानं च वैराग्यं च, ताभ्यां युक्तया]3 स्वात्मजाभ्यां ताभ्यां सेवितया । अत एव च ते मुनयः पृथक् च विशिष्टं च स्वेच्छया पश्यन्तीत्य् आयाति । तद् एवं **“श्रुत-गृहीतया"“मुनयः"“श्रद्दधाना”**इति पद-त्रयेण तस्या एव भक्तेर् दौर्लभ्यं दर्शितम् ।
सद्-गुरोः सकाशाद् वेदान्ताद्य्-अखिल-शास्त्रार्थ-विचार-श्रवण-द्वारा यदि सा [भक्तिः]4 आवश्यक-परम-कर्तव्यत्वेन ज्ञायते, पुनश् च—
भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया ।
तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन् यतो भवेत् ॥ [भा।पु। २.२.३४]
इतिवद् यदि विपरीत-भावना-त्याजकौ मनन-योग्यता-मननाभिनिवेशौ स्यातां, ततः श्रद्दधानैश् च सा भक्तिर् उपासन-द्वारा लभ्यते इति । अतः श्रुतिर् अपि तद्-अर्थम् आगृह्णाति—आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [बृ।आ।उ। २.४.६] इति । अत्र निदिध्यासनम् उपासनम् । दर्शनं साक्षात्कार उच्यते ॥