तत्र यद् अन्ये मन्यन्ते—धर्मस्यार्थः फलं, तस्य कामः, तस्य चेन्द्रिय-प्रीतिः, तत्-प्रीतेश् च पुनर् अपि धर्मादि-परम्परेति—तच् चान्यथैवेत्य् आह द्वाभ्यां—
धर्मस्य ह्य् आपवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥
कामस्य नेन्द्रिय-प्रीतिर् लाभो जीवेत यावता ।
जीवस्य तत्त्व-जिज्ञासा नार्थो यश् चेह कर्मभिः ॥ [भा।पु। १.२.९-१०]
आपवर्ग्यस्य—यथा-वर्ण-विधानम् अपवर्गश् च भवति ॥ योऽसौ भगवति सर्वात्मन्य् अनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-द्वारेण, यदा हि महा-पुरुष-पुरुष-प्रसङ्गः [भा।पु। ५.१९.१९-२०] इति पञ्चम-स्कन्ध-गद्यानुसारेण अपवर्गो भक्ति-योगः1 । तथा च स्कान्दे रेवा-खण्डे—
निश्चला त्वयि भक्तिर् या सैव मुक्तिर् जनार्दन ।
मुक्ता एव हि भक्तास् ते तव विष्णो यतो हरे ॥ इति ।
अत उक्त-रीत्या भक्ति-सम्पादकस्येत्य् अर्थः ॥
टीका च—अर्थाय फलत्वाय । अर्थोनोपकल्पते योग्यो न भवति । तथाअर्थस्य अप्य् एवं-भूत-धर्माव्यभिचारिणः कामो लाभाय फलत्वाय न हि स्मृतस् तत्त्व-विद्भिः । कामस्य विषय-भोगस्य इन्द्रिय-प्रीतिर् लाभः फलं न भवति, किन्तु यावता जीवेत तावान् एव कामस्य लाभः । तादृश-जीवन-पर्यन्त एव कामः सेव्य इत्य् अर्थः । जीवस्य जीवनस्य च पुनर् धर्मानुष्ठान-द्वारा कर्मभिर्य इह प्रसिद्धः स्वर्गादिः सोऽर्थो न भवति, किन्तु तत्त्व-जिज्ञासा एवेति ।
तद् एवं तत्त्व-ज्ञानं यस्या भक्तेर् अवान्तर-फलम् उक्तं, सैव परमं फलम् इति भावः ॥
किं तत्त्वम् ? इत्य् अपेक्षायां पद्यम् एकं तूदाहृतम्—
वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् ।
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥ [भा।पु। १.२.११] इति ।
अद्वयम् इति तस्याखण्डत्वं निर्दिश्यान्यस्य तद्-अनन्यत्व-विवक्षया तच्-छक्तित्वम् एवाङ्गीकरोति । तत्र शक्ति-वर्ग-लक्षण-तद्-धर्मातिरिक्तं केवलं ज्ञानं ब्रह्मेति शब्द्यते । अन्तर्यामित्वमय-माया-शक्ति-प्रचुर-चिच्-छक्त्य्-अंश-विशिष्टं परमात्मेति । परिपूर्ण-सर्व-शक्ति-विशिष्टं भगवान् इति । विवृतं चैतत् प्राक्तन-सन्दर्भ-त्रयेण ।
-
भक्तिः (छ, ज, झ, ञ, य) ↩︎