००५

व्यतिरेकेणाह—

धर्मः स्वनुष्ठितः पुंसां वासुदेव**-कथासु1 यः ।**
नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥ [भा।पु। १.२.८]

वासुदेव-तोषणाभावेनयदि2 तत्-कथासुतत्-तल्-लीला-वर्णनेषु रतिं रुचिं नोत्पादयेत्, तदा श्रमः स्यान् न तु फलम् । कथा-रुचेः सर्वत्रैवाद्यत्वात् श्रेष्ठत्वाच् च सैवोक्ता । तद्-उपलक्षणत्वेन भजनान्तर-रुचिर् अप्य् उपदिष्टा । एव-शब्देन प्रवृत्ति-लक्षण-कर्म-फलस्य स्वर्गादेः क्षयिष्णुत्वम् । हि-शब्देन तत्रैव च, तद् यथेह कर्म-जितो लोकः क्षीयते [छा।उ। ८.१.६] इति सोपपत्तिक-श्रुति-प्रमाणत्वम् । [निर्णीते केवलम् इत्य् अमर-कोषात्]3 केवलम् इत्य् अव्ययेननिवृत्ति-मात्र-लक्षण-धर्म-फलस्यासाध्यत्वं,4 सिद्धस्यापि नश्वरत्वम्, तत्रापि तेनैव हि-शब्देन यस्य देवे परा भक्तिर् [श्वे।उ। ६.२३] इत्य्-आदि-श्रुति-प्रमाणत्वम्, नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितम् [१.५.१२] इत्य्-आदि, श्रेयः-सृतिं भक्तिम् उदस्य ते विभो क्लिश्यन्ति ये केवल-बोध-लब्धये [भा।पु। १०.१४.४]इत्य्-आदि, आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्य् अधोऽनादृत-युष्मद्-अङ्घ्रयः [भा।पु। १०.२.३२] इत्य्-आदि वचन-प्रमाणत्वं च सूचितम् ।

श्लोक-द्वयेन भक्तिर् निरपेक्षा, ज्ञान-वैराग्ये तु तत्-सापेक्षे इति लभ्यते । तद् एवं भक्ति-फलत्वेनैव धर्मस्य साफल्यम् उक्तम् ।


  1. विष्वक्सेन- (ख, च) ↩︎

  2. वासुदेवालम्बनाभावेन (छ, ज, झ, ञ, य) ↩︎

  3. नोत् इन् छ, ज, झ, ञ, य। प् सेएम्स् तो हवे रेजेच्तेद् थिस् रेअदिन्ग् इन् अ लतेर् एदितिओन्। ↩︎

  4. केवल-शब्देन (छ, ज, झ, ञ, य) ↩︎