ततश् च यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [भा।पु। ५.१८.१२] इत्य्-आद्य्-अनुसारेण भगवत्-स्वरूपादि-ज्ञानं ततोऽन्यत्र वैराग्यं च तद्-अनुगाम्येव स्याद् इत्य् आह—
वासुदेवे भगवति भक्ति-योगः प्रयोजितः ।
जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहैतुकम् ॥ [भा।पु। १.२.७]
अहैतुकं शुष्क-तर्काद्य्-अगोचरम् औपनिषदं ज्ञानम् आशु ईषत् श्रवण-मात्रेण जनयतीत्य् अर्थः ।