००३

तत्र यद्यपि श्रवण-मननादिकं ज्ञान-साधनम् अपि तत्-साम्मुख्यम् एव, ब्रह्माकारस्यानुभव-हेतुत्वात्, अत एव तत्-परम्परोपयोगित्वात् साङ्ख्याष्टाङ्ग-योग-कर्माण्य् अपि तत्-साम्मुख्यान्य् एव, तथा तेषां कथञ्चिद् भक्तित्वम् अपि जायते,1 कर्मणस् तद्-आज्ञा-पालन-रूपत्वेन तद्-अर्पितत्वादिना च करणात्, ज्ञानादीनां चान्यत्रानासक्ति-हेतुत्वादि-द्वारा भक्ति-सचिवतया विधानात्, तथापि पूर्वं भक्त्याभजेत् [११.२.३७] इत्य् अनेन कर्म-ज्ञानादिकं नादृतं, किन्तु साक्षाद्-भक्त्या श्रवण-कीर्तनादि-लक्षणयैव भजेत इत्य् उक्तम्।

तथैव स-हेतुकं श्री-सूतोपदेशोपक्रमत एव दृश्यते ।यथाह—स2 वै [१.२.६]इत्य्-आदिना अतो वै कवय [१.२.२२]इत्य् अन्तेन ग्रन्थेन । तत्र—

स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे ।
अहैतुक्य् अप्रतिहता ययात्मा सुप्रसीदति ॥३॥[भा।पु। १.२.६]

यत् खलु महा-पुराणारम्भे पृष्टं सर्व-शास्त्र-सारम् ऐकान्तिकं श्रेयो ब्रूहीति । तत्रोत्तरं—स वै इत्य्-आदि । यतो धर्माद् अधोक्षजे भक्तिस् तत्-कथा-श्रवणादिषु रुचिर् भवति, धर्मः स्वनुष्ठित [भा।पु। १.२.८]इत्य्-आदौ व्यतिरेकेण दर्शयिष्यमाणत्वात् । स वै स एव । स्वनुष्ठितस्य धर्मस्य संसिद्धिर् हरि-तोषणम् [भा।पु। १.२.१३] इति वक्ष्यमाण-रीत्या तत्-सन्तोषणार्थम् एव कृतो धर्मः परः सर्वतः श्रेष्ठः, न निवृत्ति-मात्र-लक्षणोऽपि, वैमुख्याविशेषात् । तथा च श्री-नारद-वाक्यम्—नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितम् इत्य्-आदौ, कुतः पुनः शश्वद् अभद्रम् ईश्वरे न चार्पितं कर्म यद् अप्य् अकारणम् [भा।पु। १.५.१२] इति । अतो वक्ष्यते अतः पुम्भिः [भा।पु। १.२.१३]इत्य्-आदि । ततः स एवैकान्तिकं श्रेय इत्य् अर्थः । अनेन भक्तेस् तादृश-धर्मतोऽपि अतिरिक्तत्वम् उक्तम् ।

तस्या भक्तेः स्वरूप-गुणम् आह—स्वत एव सुख-रूपत्वाद् अहैतुकी फलान्तरानु-सन्धान-रहिता । अप्रतिहता तद्-उपरि सुखद-पदार्थान्तराभावात् केनापि व्यवधातुम् अशक्या च । जातायां च तस्यां रुचि-लक्षणायां भक्त्यां तयैव श्रवणादि-लक्षणः साधन-भकि-योगः प्रवर्तितः स्यात् ।


  1. उपजायते (ख) ↩︎

  2. द्वाविंशत्या इत्य् अधिक-पाठः (छ, ज, झ, ञ, य) ↩︎