००२

किं च—

एवं स्व-चित्ते स्वत एव सिद्ध
आत्मा प्रियोऽर्थो भगवान् अनन्तः ।
तं निर्वृतो नियतार्थो भजेत
संसार-हेतूपरमश् च यत्र ॥ [भा।पु। २.२.६]

टीका च—तदा तेन किं कर्तव्यं ? हरिस् तु सेव्य इत्य् आह—एवं विरक्तः सन् तं भजेत । भजनीयत्वे हेतवः—स्व-चित्ते स्वत एव सिद्धः । यत आत्मा, अत एव प्रियः । प्रियस्य च सेवा सुख-रूपैव । अर्थः सत्यः, न त्व् अनात्मवन् मिथ्या । भगवान् भजनीय-गुणश् च, अनन्तश् च नित्यः । य1 एवं-भूतस् तं भजेतनियतार्थो निश्चित-स्वरूपः2 । तद्-अनुभवानन्देन3 निर्वृतः सन्, इति भक्तेः स्वतः सुखात्मकत्वं दर्शितम् । किं च, यत्र यस्मिन् भजने सति संसार-हेतोर् अविद्याया उपरमो नाशो भवति ॥इत्य् एषा ।अत्र च-कारात् तत्-प्राप्तिर् ज्ञेया ॥

॥२.२॥ श्री-शुकः ॥२॥


  1. यत (य) ↩︎

  2. निश्चल-स्वरूपः (छ, ज, झ, ञ) ↩︎

  3. भगवद्- (छ, ज, झ, ञ, य) ↩︎