००१

अत्र पूर्वं सन्दर्भ-चतुष्टयेन1 सम्बन्धो व्याख्यातः । तत्र पूर्ण-सनातन-परमानन्द-लक्षण-पर-तत्त्व-रूपं सम्बन्धि च ब्रह्म परमात्मा भगवान् इति त्रिधाविर्भावतया शब्दितम् इति निरूपितम् । तत्र च भगवत्त्वेनैवाविर्भावस्य परमोत्कर्षः प्रतिपादितः । प्रसङ्गेन विष्ण्व्-आद्याश् चतुः-सनाद्याश् च तद्-अवतारा दर्शिताः । स च भगवान् स्वयं श्री-कृष्ण एवेति निर्धारितम् ।

परमात्म-वैभव-गणने च तटस्थ-शक्ति-रूपाणां चिद्-एक-रसानाम् अपि अनादि-पर-तत्त्व-ज्ञान-संसर्गाभाव-मय-तद्-वैमुख्य-लब्ध-च्छिद्रया तन्-माययावृत-स्वरूप-ज्ञानानां तयैव सत्त्व-रजस्-तमो-मये जडे प्रधाने रचितात्म-भावानां जीवानां संसार-दुःखं च ज्ञापितम् । यथोक्तम्2 एकादशे श्री-भगवता—

आत्मापरिज्ञान-मयो विवादो
ह्य् अस्तीति नास्तीति भिदात्म-निष्ठः ।
व्यर्थोऽपि नैवोपरमेत पुंसां
मत्तः परावृत्त-धियां स्व-लोकात् ॥[भा।पु। ११.२२.३३] इति ।

ततस् तद्-अर्थं परम-कारुणिकं शास्त्रम् उपदिशति3 । तत्र च ये जीवा ये केचित् जन्मान्तरावृत्त-तद्-अर्थानुभव-संस्कारवन्तः,4 ये च तदैव वा लब्ध-महत्-कृपातिशय-दृष्टि-प्रभृतयः, तेषां तादृश-पर-तत्त्व-लक्षण-वस्तूपदेश-श्रवणारम्भ-मात्रेणैव तत्-कालम् एव युगपद् एव तत्-साम्मुख्यं तद्-अनुभवोऽपि जायते । यथोक्तं—किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् [भा।पु। १.१.२] इति । ततस् तेषां नोपदेशान्तरापेक्षा । यादृच्छिकम् उपदेशान्तर-श्रवणं तु तल्-लीलादि-श्रवणवत्5 तदीय-रसस्यैवोद्दीपकं, यथा श्री-प्रह्लादादीनाम् ।

अथान्येषां तच्-छ्रवण-मात्रेण तादृशत्वं जीवायमानम् अपि कालादि-वैगुण्येन बीजम् इव बीजायमानम् अपि कामादि-वैगुण्येन बीजम् अपि [काल्पादि]-दोषेण6 प्रतिहतं तिष्ठति ।

नैतन् मनस् तव कथासु विकुण्ठ-नाथ
सम्प्रीयते दुरित-दुष्टम् असाधु तीव्रम् ।
कामातुरं हरष-शोक-भयैषणार्तं7
तस्मिन् कथं तव गतिं विमृशामि दीनः ॥ [भा।पु। ७.९.३९]

इति दीनं-मन्य-श्री-प्रह्लाद-वचनानुसारेणान्येषाम् एव तत्-प्राप्तेः । अत एवोक्तं ब्रह्म-वैवर्ते—

यावत् पापैस् तु मलिनं हृदयं तावद् एव हि ।
न शास्त्रे सत्य-बुद्धिः स्यात् सद्-बुद्धिः सद्-गुरौ तथा ॥
अनेक-जन्म-जनित-पुण्य-राशि-फलं महत् ।
सत्-सङ्ग-शास्त्र-श्रवणाद् एव प्रेमादि जायते ॥ इति ।

ततो मुख्येन तात्पर्येण पर-तत्त्वे पर्यवसितेऽपि तेषां पर-तत्त्वाद्य्-उपदेशस्य किम् अभिधेयं प्रयोजनं चेत्य् अपेक्षायां तद्-अवान्तर-तात्पर्येण तद्द्वयम् उपदेष्टव्यम् । तत्राभिधेयं तद्-वैमुख्य-विरोधित्वात् तत्-साम्मुख्यम् एव । तच् च तद्-उपासना-लक्षणं, यत एव तज्-ज्ञानम् आविर्भवति । प्रयोजनं च तद्-अनुभवः । स चान्तर्-बहिः-साक्षात्कार-लक्षणः, यत एव स्वयं कृत्स्न-दुःख-निवृत्तिर् भवति ।

तद् एतद् उभयं8 यद्यपि पूर्वत्र सिद्धोपदेश एवाभिप्रेतम् अस्ति, यथा “तव गृहे निधिर् अस्ति” इति श्रुत्वा कश्चिद् दरिद्रस् तद्-अर्थं प्रयतते लभते च तम् इति, तद्वत्, तथापि तच्-छैथिल्य-निरासाय पुनस् तद्-उपदेशः । तद् एवं तान् प्रत्य् अनादि-सिद्ध-तज्-ज्ञान-संसर्गाभाव-मय-तद्-वैमुख्यादिकं दुःख-हेतुं वदन् व्याधि-निदान-वैपरीत्य-मय-चिकित्सा-निभं तत्-साम्मुख्यादिकम् उपदिशति—

भयं द्वितीयाभिनिवेशतः स्याद्
ईशाद् अपेतस्य विपर्ययोऽस्मृतिः ।
तन्-माययातो बुध आभजेत् तं
भक्त्यैकयेशं गुरु-देवतात्मा ॥[भा।पु। ११.२.३७]

टीका च—[ननु किम् एवं परमेश्वर-भजनेन ? अज्ञान-कल्पित-भयस्य ज्ञानैक-निवर्तकत्वादित्याशङ्क्याह—भयम् इति ।]9 यतो भयं तन्-मायया भवेत्, ततो बुधोबुद्धिमान् तम् एव्आभजेद् उपासीत ।

ननु भयं द्वितीयाभिनिवेशतोभवति । स च देहाद्य्-अहङ्कारतः । स च स्वरूपास्फुरणात्। किम् अत्र तस्य माया करोति ? अत आह—ईशाद् अपेतस्येति । ईश-विमुखस्य तन्-मायया अस्मृतिः स्वरूपास्फूर्तिर् भवति, ततो विपर्ययो देहोऽस्मीति । ततो द्वितीयाभिनिवेशाद्10 भयं भवति । एवं हि प्रसिद्धं लौकिकीष्व् अपि मायासु । उक्तं च भगवता—

दैवी ह्य् एषा गुणमयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥[गीता ७.१४] इति ।

एकया अव्यभिचारिण्या भक्त्याभजेत् । किं च, गुरु-देवतात्मा गुरुर् एव देवता ईश्वरआत्मा प्रेष्ठश् च यस्य तथा-दृष्टिः सन्न् इत्य् अर्थः । इत्य् एषा ॥

॥११.२॥ कविर् विदेहम् ॥१॥


  1. तत्र पूर्व-सन्दर्भ-चतुष्टयेन (ज, य) ↩︎

  2. तथा चोक्तम् (ज, य) ↩︎

  3. उद्दिशति (ग, च) ↩︎

  4. जन्मान्तर-कृत- (ख), जन्मान्तरावृत- (ग, च) ↩︎

  5. तत्-तल्-लीला- (च, छ, झ, ञ) ↩︎

  6. बीजायमानम् अपि कालादि-वैगुण्येन तद् इव दोषेण (छ); बीजायमानम् अपि कामादि-वैगुण्येन तद्-इतर-दोषेणैव (य); बीजायमानम् अपि कालादि-वैगुण्येन बीजम् इव दोषेण (छ); बीजायमानम् अपि कामादि-वैगुण्येन बीजम् अपि दोषेण (प्) ↩︎

  7. हरष इति छान्दसः। ↩︎

  8. द्वयम् (छ, ज, झ, ञ) ↩︎

  9. प् दोएस् नोत् इन्च्लुदे थिस् पोर्तिओन् ओफ़् श्रीधरऽस् टीका। ↩︎

  10. देहाद्य्-अभिनिवेशात् ↩︎