English
3.06
[There are several different editions of the Kṛṣṇa-sandarbha. The Bengali edition appears to be earlier than the Vrindavan edition published by Haridas Shastri in 1983. The additions found in the Vṛ edition are probably authentic, as there is clear evidence Jiva Goswami made extensive corrections and emendations in some of his books after they were sent to Bengal with Shrinivas Acharya in around 1580. The Vṛ version more closely resembles the Krama-sandarbha readings.
The second GGM edition follows the Puridas version, with additions based on the previous work.
The third edition. A very large number of errors were detected. So anyone with an earlier version should discard it. Further work on this edition has however created new defects in its critical apparatus. It could likely be corrected by comparing the Y readings to the P edition. There still appears to be work left on the text here and there.
Texts used by Puridas:
- (ka): MS from the library of Vanamali Lal Goswami of Vrindavan.
- (kha): MS obtained from Vaishnava Charan Das of Keshi Ghat Thor in Vrindavan.
- (ga): MS 123 from Ganga Mata Math in Jagannath Puri.
- (gha) MS 2396D from Dhaka Univers ity library.
- (ṅa): MS 1443 from Banga Sah itya Parishad (Kolkata).
- (ca): A MS obtained in Bengal.
- (cha): Printed edition of Shyama Lal Goswami, Bengali year 1307.
- (ja): Printed edition (ed.) Pran Gopal Goswami of Nabadwip, Bengali year 1332.
To this we add for reference where appropriate:
- (Y) Yadavpur Univers ity edition.
- (P) Puridas edition.
- (H) Haridas Shastri edition.
3.04 Sarva-saṁvādinī completed and integrated to the text.
3.06 2016.06.23
श्री-श्रील-जीव-गोस्वामि-प्रभुपाद-विरचिते
षट्-सन्दर्भात्मक-श्री-श्री-भागवत-सन्दर्भे
चतुर्थः श्री-कृष्ण-सन्दर्भः
श्री-वृन्दावननाथाय भगवते श्री-कृष्णाय नमः ॥
तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ ।
दाक्षिणात्येन भट्टेन पुनर् एतद् विविच्यते ॥ओ॥
तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ओ॥
[१]
अथ पूर्वं सन्दर्भ-त्रयेण1 यस्य सर्व-परत्वं साधितं, तस्य श्री-भगवतो निर्धारणाय सन्दर्भोऽयम् आरभ्यते । तत्र प्रथमस्य द्वितीये वदन्ति [भा।पु। १.२.११] इत्य्-आदिना2 तद् एकम् एव तत्त्वं ब्रह्मादितया शब्द्यत इत्य् उक्तम् । तद् एव ब्रह्मादि-त्रयं तृतीये विविच्यते । ब्रह्म त्व् इह—
यत्रेमे सद्-असद्-रूपे प्रतिषिद्धे स्व-संविदा ।
अविद्ययात्मनि कृते इति तद् ब्रह्म-दर्शनम् ॥ [भा।पु। १.३.३३] इत्य्-आदिना ।
तत्र विविक्तम् अप्य् एकाकाराविर्भावतया संशयाभावात्तत्-तन्-निर्धारणार्थं तत्-तद्-वचनं नोद्ध्रियते । श्री-भगवत्-परमात्मनोस् तु नानाविर्भावत्वात् तानि वचनानि तत्-तन्-निर्धारणार्थम् उद्ध्रियन्ते3 । तत्रेश्वरो नाम4 निराकारो नास्तीति प्राङ्5 निर्णीतम् । परमात्म-शब्देन च सर्वान्तर्यामि-पुरुषः प्रतिपादितस् तेष्व् एव सन्दर्भेषु । तथा च सति तस्मिंस् तृतीयाध्यायारम्भ एवम् आभास्यम् ।
ननु पूर्वं ब्रह्मादितया त्रिधैव तत्त्वम् एकम् उक्तम् । तत्र ब्रह्मणः किं-लक्षणं भगवत्-परमात्मनोर् वा, तत्रतत्र विशेषः कश्चिद् वाकिम् अस्तीति6 श्री-शौनकादि-प्रश्नम् आशङ्क्यश्री-सूत7 उवाच—
जगृहे पौरुषं रूपं भगवान् महद्-आदिभिः ।
**सम्भूतं षोडश-कलम् आदौ लोक-सिसृक्षया ॥ [**भा।पु। १.३.१]
यः श्री-भगवान् पूर्ण-षड्-ऐश्वर्यत्वेन पूर्वं निर्दिष्टः, स एव पौरुषं रूपं, पुरुषत्वेनाम्नायते यद् रूपं, तद् एवादौ सर्गारम्भे जगृहे, प्राकृत-प्रलये स्वस्मिन् लीनं सत् प्रकटतया स्वीकृतवान् । किम्-अर्थम् ? तत्राह—लोक-सिसृक्षया । तस्मिन्न् एव लीनानां लोकानां समष्टि-व्यष्ट्य्-उपाधि-जीवानां सिसृक्षया प्रादुर्भावनार्थम् इत्य् अर्थः । कीदृशं तत्-तद्-रूपं लीनम् आसीत् ? तत्राह—महद्-आदिभिः सम्भूतं मिलितम्, अन्तर्भूत-महद्-आदि-तत्त्वम् इत्य् अर्थः । सम्भूयाम्भोधिम् अभ्येति महा-नद्यो नगापगाः [शिशु।व। २.१००] इत्य्-आदौ इति सम्भवतिर् मिलनार्थः । तत्र हि महद्-आदीनि लीनान्य् आसन्न् इति ।8
तद् एवं विष्णोस् तु त्रीणि रूपाणि इत्य्-आदौ महत्-स्रष्टृत्वेन प्रथमं पुरुषाख्यं रूपं यच् छ्रूयते, यच् च ब्रह्म-संहितादौ कारणार्णव-शायि-सङ्कर्षणत्वेन श्रूयते, तद् एव जगृहे इति प्रतिपादितम्9 ।
पुनः कीदृशं तद् रूपम् ? तत्राह—षोडश-कलं तत्-सृष्ट्य्-उपयोगि-पूर्ण-शक्तीत्य् अर्थः । तद् एवं यस् तद्रूपं जगृहे, स भगवान् । यत् तु तेन गृहीतं, तत् तु स्व-सृज्यानाम् आश्रयत्वात् परमात्मेति पर्यवसितम् ।
[२]
तस्य10 पुरुष-रूपस्य विसर्ग-निदानत्वम् अपि प्रतिपादयितुम् आह सार्धेन—
यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः ।
नाभि-ह्रदाम्बुजाद् आसीद् ब्रह्मा विश्व-सृजां पतिः ॥
**यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः ॥ [**भा।पु। १.३.२-३]
यस्य पुरुष-रूपस्य द्वितीयेन व्यूहेन ब्रह्माण्डं प्रविश्य अम्भसि गर्भोदके शयानस्य इत्य्-आदि योज्यम् । यस्य च तादृशत्वेन तत्र शयानस्य अवयव-संस्थानैः साक्षाच्-छ्री-चरणादि-सन्निवेशैर् लोकस्य विस्तरो विस्तारो विराड्-आकारः प्रपञ्चः कल्पितः । यथा तद्-अवयव-सन्निवेशः, तथैव पातालम् एतस्य हि पाद-मूलम् [भा।पु। २.१.२६] इत्य्-आदिना नवीनोपासकान् प्रति मनः-स्थैर्याय प्रख्यापितः । न तु वस्तुतस् तद् एव यस्य रूपम् इत्य् अर्थः ।11
यद् वा, चन्द्रमा मनसो जातः [ऋक् १०.९०.१३]12 इत्य् आरभ्य, पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकान् अकल्पयत् [ऋक् १०.९०.१४] इति श्रुतेस् तैर् हेतु-भूतैर् लोक-विस्तारो रचित इत्य् अर्थः ।
तथा च भारते मोक्ष-धर्म-नारायणीये गर्भोदके शयानस्य रूपान्तरेण श्वेतद्वीप-पतेर् वाक्यं—
अस्मन्-मूर्तिश् चतुर्थी या सासृजच् छेषम् अव्ययम् ।
स हि सङ्कर्षणः प्रोक्तः प्रद्युम्नं सोऽप्य् अजीजनत् ॥
प्रद्युम्नाद् अनिरुद्धोऽहं सर्गो मम पुनः पुनः ।
अनिरुद्धात् तथा ब्रह्मा तन्-नाभि-कमलोद्भवः ॥
ब्रह्मणः सर्व-भूतानि चराणि स्थावराणि च ॥ [म।भा। १२.३२६.६८-७०]
तत्रैव वेद-व्यासः—
परमात्मेति यं प्राहुः सांख्य-योग-विदो जनाः ।
महा-पुरुष-संज्ञां स लभते स्वेन कर्मणा ॥
तस्मात् प्रसूतम् अव्यक्तं प्रधानं तद् विदुर् बुधाः ।
अव्यक्ताद् व्यक्तम् उत्पन्नं लोक-सृष्ट्य्-अर्थम् ईश्वरात् ॥
अनिरुद्धो हि लोकेषु महान् आत्मेति कथ्यते ।
योऽसौ व्यक्तत्वम् आपन्नो निर्ममे च पितामहम् ॥ [म।भा। १२.३२७.२४-२६] इति ।
*+++([१५])+++तद् एवं सङ्कर्षणस्य वैब् हवम् उक्त्वानिरुद्धस्याप्य् आह—_अनिरुद्धोही_ति । लोकेषु प्रत्येकं ब्रह्माण्डेषु महान् आत्मा परमात्मा । व्यक्तत्वं प्राकट्यं प्रद्युम्नाद् इति शेषः।
सूतेन त्व् अभेद-विवक्षया प्रद्युम्नः पृथङ् नोक्तो विष्णोस् तु त्रीणि रूपाणिइतिवत्13 । सेयं प्रक्रिया द्वितीयस्य सष्ठे दृश्यते, यथा स एष आद्यः पुरुषः14 [भा।पु। २.९.३९] इत्य्-आदि-पद्ये टीका—स एष आद्यो भगवान् यः पुरुषावतारः सन् सृष्ट्य्-आदिकं करोति इत्य् एषा ।
एवम् आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४१]15 इत्य् अत्र टीका, परस्य भूम्नः पुरुषः प्रकृति-प्रवर्तको यस्यसहस्र-शीर्षा [ऋक् १०.९०.१] इत्य्-आद्य्-उक्तो लीला-विग्रहः स आद्योऽवतारः इत्य् एषा । तथा तृतीयस्य विंशे दैवेन [भा।पु। ३.२०.१२] इत्य्-आदिकं सोऽनु [भा।पु। ३.२०.१७] इत्य् अन्तं स-टीकम् एव प्रकरणम् अत्रानुसन्धेयम् । तस्माद् विराट्त्वेन तद्-रूपं न व्याख्यातम् । तस्माच् च वासुदेव-स्थानीयो भगवान् पुरुषाद् अन्य एवेत्य् आयातम् ॥
[३]
अथ तस्य रूप-द्वयस्य सामान्यत ऐकविध्येन स्वरूपम् आह—
**तद् वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥ [**भा।पु। १.३.३]
तत् श्री-भगवतः पौरुषं रूपं वै प्रसिद्धौ विशुद्धोर्जित-सत्त्वाभिव्यक्तत्वाच् छक्ति-स्वरूपयोर् अभेदाच् च तद्-रूपम् एवेत्य् अर्थः ।16 उक्तं च द्वितीयं पुरुष-व्यूहम् अधिकृत्य, नातः परं परम यद् भवतः स्वरूपम् [भा।पु। ३.९.३] इत्य् अत्र । विशुद्धं जाड्यांशेनापि रहितं स्वरूप-शक्ति-वृत्तित्वात् । ऊर्जितं सर्वतो बलवत् परमानन्द-रूपत्वात्, को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् [तै।उ। २.७.१] इति श्रुतेः ।
अवयव-संस्थानैः साक्षाच्-छ्री-चरणादि-सन्निवेशैर् लोक-विस्तरो विराड्-आकारः प्रपञ्चः कल्पितः । यथा तद्-अवयव-सन्निवेशास् तथैव पातालम् एतस्य हि पाद-मूलम् [भा।पु। २.१.२६] इत्य्-आदिना नवीनोपासकान् प्रति मनः-स्थैर्याय प्रख्यापितः । न तु वस्तुतस् तद् एव तस्याङ्गम् इत्य् अर्थः । तच् छ्री-भगवतः पौरुषं रूपं । वै प्रसिद्धौ । विशुद्धोर्ज्जित-सत्त्वाभिव्यक्तत्वाच् छक्ति-स्वरूपयोर् अभेदाच् च तद्-रूपम् एवेत्य् अर्थः । उक्तं च स्वरूपत्वं तद्-रूपस्य, नातः परं परम यद् भवतः स्वरूपम् [भा।पु। ३.९.३] इत्य् अत्र । विशुद्धं जाड्यांशेनापि रहितं स्वरूप-शक्ति-वृत्तित्वात् । ऊर्जितं सर्वतो बलवत् परमानन्द-रूपत्वात् । को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् [तै।उ। २.७.१] इति श्रुतेः ।
[४]
तद् एवं पुरुषस्य द्विधा स्थान-कर्मणी उक्त्वा स्वरूपवद् आकारं त्व् एक-प्रकारम् आह—17
पश्यन्त्य् अदो रूपम् अदभ्र-चक्षुषा
सहस्र-पादोरु-भुजाननाद्भुतम् ।
सहस्र-मूर्ध-श्रवणाक्षि-नासिकं
**सहस्र-मौल्य्-अम्बर-कुण्डलोल्लसत् ॥ [**भा।पु। १.३.४]
अदः पौरुष-रूपम् । अदभ्र-चक्षुषा भक्त्य्-आख्येन, पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया [गीता ८.२२] इत्य् उक्तेः, भक्तिर् एवैनं नयति भक्तिर् एवैमं दर्शयति इत्य्-आदि श्रुतेश् च ।18 तत्र प्रथमस्यसहस्र-पादादित्वं परमात्म-सन्दर्भे व्यञ्जितम् । तु तृतीयस्याष्टमे तु द्वितीय-पुरुषस्य व्यूहम् उपलक्ष्य श्री-मैत्रेयेण—वेणु-भुजाङ्घ्रिपाङ्घ्रेः19 [भा।पु। ३.८.२४] इति, दोर्-दण्ड-सहस्र-शाखम् [भा।पु। ३.८.२९] इति, किरीट-साहस्र-हिरण्य-शृङ्गम् [भा।पु। ३.८.३०] इति च ।
तथा नवमस्य चतुर्दशे श्री-शुकेन—
सहस्र-शिरसः पुंसो नाभि-ह्रद-सरोरुहात् ।
जातस्यासीत् सुतो धातुर् अत्रिः पितृ-समो गुणैः ॥ [भा।पु। ९.१४.२] इति ।
[५]
तत्र श्री-भगवन्तं सुष्ठु स्पष्टीकर्तुं गर्भोदक-स्थस्य द्वितीयस्य पुरुषस्य व्यूहस्य नानावतारित्वं विवृणोति—20
एतन् नानावताराणां निधानं बीजम् अव्ययम् ।
**यस्यांशांशेन सृज्यन्ते देव-तिर्यङ्-नरादयः ॥ [**भा।पु। १.३.५]
एतद् इति ब्रह्माण्डस्थम् । निधानं सरोवराणां समुद्र इव21 सदैवाश्रयः । अतएव अव्ययम् अनपक्षयंबीजम् उद्गम-स्थानम् । न केवलम् अवताराणां बीजं जीवानाम् अपीत्य् आह—यस्येति22 ।
सर्व-संवादिनी- एतद् इति । यस्य शक्तित्वेनांशौ प्रकृति-शुद्ध-समष्टि-जीवौ । तयोर् अंशेन परस्पर-संयुक्तेन वृत्ति-समूह-द्वयेन, न घटत उद्भवः प्रकृति-पुरुषयोर् अजयोर् उभय-युजा भवन्त्य् असुभृतो जल-बुद्बुदवत् [१०.८७.३१] इत्य्-उक्तत्वात् ॥
[६]
अथ प्राचुर्येण तद्-अवतारान् कथयंस् तद्-ऐक्य-विवक्षया तद्-अंशांशिनाम्23 अप्य् अविर्भाव-मात्रं गणयति विंशत्या—
स एव प्रथमं देवः कौमारं सर्गम् आश्रितः ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥ [भा।पु। १.३.६]
योऽम्भसि शयानो यश् च सहस्र-पादादि-रूपः स एव पुरुषाख्यो देवः । एते चांश-कलाः पुंसः [भा।पु। १.३.२८] इत्य् उपसंहारस्यापि संवादात् । कौमारं चतुःसन-रूपम् । ब्रह्मा ब्रह्मणो भूत्वा ।
[७]
द्वितीयं तु भवायास्य रसातल-गतां महीम् ।
**उद्धरिष्यन्न् उपादत्त यज्ञेशः सौकरं वपुः ॥ [**भा।पु। १.३.७]
अस्य विश्वस्य उद्भवाय ॥
सर्व-संवादिनी- द्वितीयम् इत्य् अनेन पृथिव्य्-उद्धरणं द्विर् अपि कृतम् । लीला-साजात्येन त्व् एकवद् वर्ण्यते । पूर्वं हि स्वायम्भुव-मन्वन्तरादौ पृथिवी-मज्जने ताम् उद्धरिष्यन् पश्चाच् च षष्ठ-मन्वन्तर-जात-प्राचेतस-दक्ष-कन्याया दिति-गर्भोद्भवेन हिरण्याक्षेण सह युद्धेऽष्टम-मन्वन्तर-जात-पृथिवी-मज्जने ताम् उद्धरिष्यन्न् इत्य् अर्थः । तत्रादौ विधेर् घ्रानाद् अन्ते नीरात् इति पूराणान्तरम् ।
अयम् क्वचिच् चतुष्पात् स्यात् कवचित् स्यान् नृ-वराहकः ।
कदाचिज् जलद-श्यामः कदाचिच् चन्द्र-पाण्डुरः ॥ इति ।
उक्तश् च प्रलयश् चाक्षुषादौ देवादि-सृष्टिश् च चतुर्थे—
चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विप्लुते ।
यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः ॥ [भा।पु। ४.३०.४९] इति ॥
[८]
तृतीयम् ऋषि-सर्गं वै देवर्षित्वम् उपेत्य सः ।
**तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः ॥ [**भा।पु। १.३.८]
ऋषि-सर्गम् उपेत्य तत्रापि देवर्षित्वं नारदत्वम् उपेत्य । सात्वतं वैष्णवम् । तन्त्रं पञ्चरात्रागमम् । कर्मणा कर्माकारेणापि सतां श्री-भगवद्-धर्माणां यतस् तन्त्रान् नैष्कर्म्यं कर्म-बन्ध-मोचकत्वेन कर्मभ्यो निर्गतत्वं, तेभ्यो भिन्नत्वं प्रतीयते इति शेषः ।
सर्व-संवादिनी- तृतीयम् इति । सात्वतं वैष्णवम् । तन्त्रं पञ्चरात्रागमम् । कर्मणां कर्माकारेणापि सतां श्री-भगवद्-धर्माणाम् । यतस् तन्त्रान् नैष्कर्म्यं कर्म-बन्ध-मोचकत्वेन कर्मभ्यो निर्गतत्वं, तेभ्यो भिन्नत्वं प्रतीयत इति शेषः ॥८॥
[९]
तुर्ये धर्म-कला-सर्गे नर-नारायणाव् ऋषी ।
**भूत्वात्मोपशमोपेतम् अकरोद् दुश्चरं तपः ॥ [**भा।पु। १.३.९]
स्पष्टम् ।
सर्व-संवादिनी- तुर्ये इति । धर्मस्य भागवत-मुख्यस्य कलायाः श्रद्धा-पुष्ट्य्-आदि-साह् इत्येन पठितायाः श्रील्-भगवच्-छक्ति-लक्षणाया मूर्तेश् च सर्गे प्रादुर्भावे । अनयोर् एकावतारत्वं हरि-कृष्णाभ्यां सोदराभ्यां अपि सह ॥९॥
[१०]
पञ्चमः कपिलो नाम सिद्धेशः काल-विप्लुतम् ।
**प्रोवाचासुरये साङ्ख्यं तत्त्व-ग्राम-विनिर्णयम् ॥ [**भा।पु। १.३.१०]
आसुरि-नाम्ने विप्राय ॥
सर्व-संवादिनी- पञ्चमः इति । [ग्रन्थ-कृत्-विरचित-श्री-क्रम-सन्दर्भे (३.२४.१९) धृतानि पाद्म-वाक्यानि]
कपिलो वासुदेवाख्यस् तन्त्रं साङ्ख्यं जगाद ह ।
ब्रह्मादिभ्यश् च देवेभ्यो भृग्व्-आदिभ्यस् तथैव च ॥
तथैवासुरये सर्व-वेदार्थैर् उपबृंहितम् ।
सर्व-वेद-विरुद्धं च कपिलोऽन्यो जगाद ह ।
साङ्ख्यम् आसुरयेऽन्यसमै कुतर्क-परिबृंहितम् ॥ इति ॥१०॥
[११]
षष्ठम् अत्रेर् अपत्यत्वं वृतः प्राप्तोऽनसूयया ।
**आन्वीक्षिकीम् अलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ [**भा।पु। १.३.११]
अत्रिणा तत्-सदृश-पुत्रोत्पत्ति-मात्रं प्रकटं याचितम् [भा।पु। ४.१.२०] इति चतुर्थाद्य्-अभिप्रायः । एतद्-वाक्येनानसूयया तु कदाचित् साक्षाद् एव श्रीमद्-ईश्वरस्यैव पुत्र-भावो वृतोऽस्तीति लभ्यते । उक्तं च ब्रह्माण्ड-पुराणे पतिव्रतोपाख्याने—
अनसूयाब्रवीन् नत्वा देवान् ब्रह्मेश-केशवान् ।
यूयं यदि प्रसन्ना मे वरार्हा यदि वाप्य् अहम् ।
प्रसादाभिमुखो भूत्वा मम पुत्रत्वम् एष्यथ ॥ इति ।
आन्वीक्षिकीम् आत्म-विद्याम् । श्री-विष्णोर् एवावतारोऽयम् ।
[१२]
ततः सप्तम आकूत्यां रुचेर् यज्ञोऽभ्यजायत ।
**स यामाद्यैः सुर-गणैर् अपात् स्वायम्भुवान्तरम् ॥ [**भा।पु। १.३.१२]
स यज्ञस् तदा स्वयम् इन्द्रोऽभूद् इत्य् अर्थः ।
सर्व-संवादिनी- ततः इत्य् अयम् एव मातामहेन मनुना हरिर् इत्य् अनूक्तः ॥१२॥
[१३]
अष्टमे मेरुदेव्यां तु नाभेर् जात उरुक्रमः ।
**दर्शयन् वर्त्म धीराणां सर्वाश्रम-नमस्कृतम् ॥ [**भा।पु। १.३.१३]
उरुक्रम ऋषभो जातः ।
सर्व-संवादिनी- अष्टमे इत्य् अयम् एवावेश इत्य् एके ॥१३॥
[१४]
ऋषिभिर् याचितो भेजे नवमं पार्थिवं वपुः ।
**दुग्धेमाम् ओषधीर् विप्रास् तेनायं स उशत्तमः ॥ [**भा।पु। १.३.१४]
पार्थिवं राज-देहं पृथु-रूपम् । दुग्ध अदुग्ध । उशत्तमः कमनीयतमः ॥
[१५]
रूपं स जगृहे मात्स्यं चाक्षुषोदधि-सम्प्लवे ।
**नाव्य् आरोप्य मही-मय्याम् अपाद् वैवस्वतं मनुम् ॥ [**भा।पु। १.३.१५]
चाक्षुष-मन्वन्तरे य उदधि-सम्प्लवस् तस्मिन् । वैवस्वतम् इति भाविनी संज्ञा सत्यव्रतस्य । प्रतिमन्वन्तरावसानेऽपि प्रलयः श्रूयते । श्री-विष्णु-धर्मोत्तरे प्रथम-काण्डे—मन्वन्तरे परिक्षीणे कीदृशी द्विज जायते [१.७५.१] इति श्री-वज्र-प्रश्नस्य मन्वन्तरे परिक्षीणे इत्य् आदि मार्कण्डेय-दत्तोत्तरे—
ऊर्मि-माली महा-वेगः सर्वम् आवृत्य तिष्ठति ।
भूर्-लोकम् आश्रितं सर्वं तदा नश्यति यादव ॥
न विनश्यन्ति राजेन्द्र विश्रुताः कुल-पर्वताः ।
नौर् भूत्वा तु मही-देवी [१.७५.५-६, ९] इत्य् आदि च ।
एवम् एव मन्वन्तरेषु संहार [ह।वं। १.८.२६] इत्य्-आदि-प्रकरणं श्री-हरि-वंशे तदीय-टीकासु च स्पष्टम् एव। अतश् चाक्षुषे वैवस्वतम् इत्य् उपलक्षणम् ॥
सर्व-संवादिनी- रूपं इत्य् अयम् अपि वराहवत् प्रथम-षष्ठ-मन्वन्तरयोर् अवतारवत् । तद्वद् एव च द्वितीय एकतयैव वर्णितः—
मत्स्यो युगान्त-समये मनुनोपलब्धः
क्षोणीमयो निखिल-जीव-निकाय-केतः ।
विस्रंसितान् उरु-भये सलिले मुखान् मे
आदाय तत्र विजहार ह वेद-मार्गान् ॥ [भा।पु। २.७.१२] इति ।
स्वायम्भुवीयस्यादौ ह्य् अयं द इत्यं हत्वा वेदान् आहरत् । चाक्षुषान्तरे तु सत्यव्रते कृपाम् अकरोद् इति ॥१५॥
[१६]
सुरासुराणाम् उदधिं मथ्नतां मन्दराचलम् ।
**दध्रे कमठ-रूपेण पृष्ठ एकादशे विभुः ॥ [**भा।पु। १.३.१६]
स्पष्टम् ।
सर्व-संवादिनी: सुरा इत्य् अयम् एव सुर-प्रार्थनात् क्षौणीं दध्रे इति पाद्मे [कल्पे] अन्यत्र तु तद्-अर्थं कल्पादौ च प्रादुरभवद् इति ॥१६॥
[१७]
धान्वन्तरं द्वादशमं त्रयोदशमम् एव च ।
**अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया ॥ [**भा।पु। १.३.१७]
बिभ्रद् इत्य् उत्तरेणान्वयः । द्वादशमं धान्वन्तरं रूपं बिभ्रत् । त्रयोदशं मोहिनी-रूपं बिभ्रत् । सुरान् अपाययत् सुधाम् इति शेषः । केन रूपेण ? मोहिन्या स्त्रिया तद्-रूपेणेत्य् अर्थः । किं कुर्वन् ? अन्यान् असुरान् मोहयन्, धन्वन्तरि-रूपेण सुधां चोपहरन्न् इति शेषः। अजितस्यावतारा एते त्रयः [कूर्म-धन्वन्तरि-मोहिनीति] ॥१७ ॥
सर्व-संवादिनी:धान्वन्तरं इत्य् अयं समुद्र-मथनात् षष्ठे [मन्वन्तरे] काशिराजात् सप्तमे [मन्वन्तरे] इति ज्ञेयम् ॥१७॥
[१८]
चतुर्दशं नारसिंहं बिभ्रद् द इत्येन्द्रम् ऊर्जितम् ।
**ददार करजैर् ऊराव् एरकां कट-कृद् यथा ॥ [**भा।पु। १.३.१८]
नारसिंहं रूपं बिभ्रत् ।
[१९]
पञ्चदशं वामनकं कृत्वागाद् अध्वरं बलेः ।
**पाद-त्रयं याचमानः प्रत्यादित्सुस् त्रि-विष्टपम् ॥ [**भा।पु। १.३.१९]
कृत्वा प्रकटय्य ।
सर्व-संवादिनी: पञ्च- इत्य् अयं कल्पेऽस्मिन्न् आदौ वास्कल्येर् अध्वरम् अगात्, ततो धुन्धोस् ततो बलेर् इति ज्ञेयम् । तथैव त्रिषु त्रिविक्रमत्वं च ॥१९॥
[२०]
अवतारे षोडशमे पश्यन् ब्रह्म-द्रुहो नृपान् ।
त्रिः-सप्त-कृत्वः कुपितो निः-क्षत्राम् अकरोन् महीम् ॥ [भा।पु। १.३.२०]
अवतारे श्री-परशुरामाभिधे । स्पष्टम् ।
सर्व-संवादिनी: अवतारे इत्य् अयं सप्तदशे चतुर्युगे द्वाविंशे त्व् इति केचित् । आवेश एवायम् ॥२०॥
[२१]
ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
**चक्रे वेद-तरोः शाखा दृष्ट्वा पुंसोऽल्प-मेधसः ॥ [**भा।पु। १.३.२१]
सर्व-संवादिनी: ततः इत्य् अस्य पूर्व-जन्मन्य् अपान्तरतमत्व-श्रवणाद् आवेश इति केचित् । तत्-सायुज्याद् अयं साक्षाद् अंश एवेत्य् अन्ये ॥२१॥
[२२]
नर-देवत्वम् आपन्नः सुर-कार्य-चिकीर्षया ।
समुद्र-निग्रहादीनि चक्रे वीर्याण्य् अतः परम् ॥ [भा।पु। १.३.२२]
नरदेवत्वं श्री-राघव-रूपेण । अतः परम् अष्टादशे । अयं साक्षात् पुरुषस्य, 24 स्कान्दे श्री-राम-गीतायां विश्व-रूपं दर्शयतस् तस्य ब्रह्म-विष्णु-रुद्र-कृत-स्तुतेः श्रवणात् ।
सर्व-संवादिनी: नरदेव इत्य् अयं चतुर्विंचे चतुर्युगे त्रेतायाम् ॥२२॥
[२३]
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
**राम-कृष्णाव् इति भुवो भगवान् अहरद् भरम् ॥ [**भा।पु। १.३.२३]
भगवान् इति साक्षाद् भगवत एवाविर्भावोऽयं, न तु पुरुष-संज्ञस्यानिरुद्धस्येति विशेष-प्रतिपत्त्य्-अर्थं तत्र तस्य साक्षाद्-रूपत्वात् श्री-कृष्ण-रूपेण निजांश-रूपत्वाद् राम-रूपेणापि भारहारित्वं भगवत एवेत्य् उभयत्रापि भगवान् अहरद् भरम् इति श्लिष्टम् एव । अतो रामस्याप्य् अनिरुद्धावतारत्वं स्वयं प्रत्याख्यातम् । श्री-कृष्णस्य वासुदेवत्वाच् छ्री-रामस्य च सङ्कर्षणत्वाद् युक्तम् एव च तद् इति ।
[२४]
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुर-द्विषाम् ।
**बुद्धो नाम्नाञ्जन-सुतः कीकटेषु भविष्यति ॥ [**भा।पु। १.३.२४]
कीकटेषु गया-प्रदेशेषु ।
[२५]
अथासौ युग-सन्ध्यायां दस्यु-प्रायेषु राजसु ।
**जनिता विष्णु-यशसो नाम्ना कल्किर् जगत्-पतिः ॥ [**भा।पु। १.३.२५]
युग-सन्ध्यायां कलेर् अन्ते ।
सर्व-संवादिनी: अथ इत्य् अयं कल्किर् बुद्धश् च प्रति-कलियुग एवेत्य् एके । एतौ चावेशाव् इति विष्णु-धर्म-मतम् । तथा हि—
प्रत्यक्ष-रूप-धृग्-देवो दृश्यते न कलौ हरिः ।
कृतादिष्व् एव तेनैव त्रियुगः परिपठ्यते ॥
कलेर् अन्ते च सम्प्राप्ते कल्किनं ब्रह्म-वादिनम् ।
अनुप्रविश्य कुरुते वासुदेवो जगत्-स्थितिम् ॥
पूर्वोत्पन्नेषु भूतेषु तेषु तेषु कलौ प्रभुः ।
कृत्वा प्रवेशं कुरुते यद् अभिप्रेतम् आत्मनः ॥ इति ॥२५॥
[२६]
अथ श्री-हयग्रीव-हरि-हंस-पृश्निगर्भ-विभु-सत्यसेन-वैकुण्ठाजित-सार्वभौम-विश्वक्सेन-धर्मसेतु-सुधाम-योगेश्वर-बृहद्भान्व्-आदीनां शुक्लादीनां चानुक्तानां सङ्ग्रहार्थम् आह—
अवतारा ह्य् असङ्ख्येया हरेः सत्त्व-निधेर् द्विजाः ।
**यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ [**भा।पु। १.३.२६]
हरेर् अवतारा असङ्ख्येयाःसहस्रशः सम्भवन्ति । हि प्रसिद्धौ । असङ्ख्येयत्वे हेतुः—सत्त्व-निधेः, सत्त्वस्य स्व-प्रादुर्भाव-शक्तेः25 शेवधि-रूपस्य । तत्रैव दृष्टान्तः—यथेति। अविदासिनोऽपक्षय-शून्यात्26 सरसः सकाशात् कुल्यास् तत्-स्वभाव-कृता निर्झरा अविदासिन्यः सहस्रशः सम्भवन्तीति ।27 अत्र येऽंशावतारास् तेषु चैष विशेषो ज्ञेयः । श्री-कुमार-नारदादिष्व् आधिकारिकेषु ज्ञान-भक्ति-शक्त्य्-अंशावेशः । श्री-पृथ्व्-आदिषु क्रिया-शक्त्य्-अंशावेशः । क्वचित् स्वयम् आवेशस् तेषां भगवान् एवाहम् इति वचनात् । अथ श्री-मत्स्य-देवादिषु साक्षाद्-अंशत्वम् एव । तत्र चांशत्वं नाम साक्षाद्-भगवत्त्वेऽप्य् अव्यभिचारि-तादृश-तद्-इच्छा-वशात् सर्वदैक-देशतयैवाभिव्यक्त-शक्त्य्-आदिकत्वम् इति ज्ञेयम् । तथैवोदाहरिष्यते रामादि-मूर्तिषु कला-नियमेन तिष्ठन् [ब्र।सं। ५.५०] इति ।
[२६] सर्व-संवादिनी: अवतारा इति । तत्र चैष विशेष इत्य् अत्रैतद् उक्तं भवति—भगवान् खलु त्रिषु प्रकाशते—(१) स्वयं रूपः, (२) तद्-एकात्म-रूपः, (३) आवेश-रूपश् चेति । तत्र
१। अनन्यापेक्षा-रूपः स्वयं रूपः, २। स्वरूपाभेदेऽपि तत्-सापेक्ष-रूपादिः तद्-एकात्म-रूपः, ३। जीव-विशेषाविष्ट आवेश-रूपः ।
तद्-एकात्म-रूपोऽपि द्विविधः—तत्-समः, तद्-अंशश् च । आवेशोऽपि त्रिविधः—भक्ति-ज्ञान-क्रिया-शक्ति-प्राधान्येन ।
तत्र स्वयं-रूपो यथा श्री-ब्रह्म-संहितायां—
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दःसर्व-कारण-कारणम् ॥१॥ इति ।
तत्-समो यथा तस्यैव पर-व्योम-नाथः इति प्रतिपत्स्यते । यथा परम-व्योमावरण-स्थस् तस्य वासुदेवः । तद्-अंशो यथा तद्-आवरण-स्थः सङ्कर्षणादिः, मत्स्यादिश् च । आवेशश् च तत्-स्थः, नारद-चतुःसन-शेष-पृथ्व्-आदिः ।
त एते स्वयं-रूपादयो यदि विश्व-कार्यार्थम् अपूर्वा इव प्रकटीभवन्ति, तदा अवतारा उच्यन्ते । ते च कदाचित् स्वयम् एव प्रकटीभवन्ति । द्वारान्तरेण च—द्वारं च कदाचित् स्वरूपं, भक्तादि-रूपं च भवति । तत्र च स्वयं-रूप-तत्-समौ परावस्थौ । अंशास् तारतम्य-क्रमेण प्राभवः, वैभव-रूपाश् च । आवेशत्वावेश एवेति पाद्मादौ प्रसिद्धिः ।
तत्र स्वयं-रूपः श्री-कृष्णः । तत्-सम-प्रायौ श्री-नृसिंह-रामौ । वैभव-रूपौ क्रोड-हयग्रीवौ । अन्ये प्राभव-प्रायाः ।
ते चावताराः कार्य-भेदेन त्रिविधाः—
पुरुषावतारः, गुणावताराः, लीलावताराश् चेति ।
तत्राद्या उभये श्री-परमात्म-सन्दर्भे [१-१८] दर्शिताः । अन्त्याश् च—स एव प्रथमं देवः [भा।पु। १.३.६] इत्य्-आदिनात्रैव प्रक्रान्ताः । एते पुनः पञ्चविधाः—त्रिपरार्धावताराः, कल्पावताराः, मन्वन्तरावताराः, युगावताराः, , स्वेच्छामय-समयावताराश् चेति । तत्-तद्-अधिकारि-लीलत्वात् । ते च क्रमेण पुरुषादयः, क्षीरोदशाय्यादयः, यज्ञादयः, शुक्लादयः, श्री-कृष्ण-रामादयश् च ।
एषु मन्वन्तरावताराश् च—यज्ञ-विभु-सत्यसेन-हरि-वैकुण्ठाजित-वामन-सार्वभौम-र्षभ-विष्वक्सेन-धर्मसेतु-सुधाम-योगेश्वर-बृहद्भानवः क्रमेण चतुर्दश । ऋषभोऽयम् आयुष्मत्-पुत्रः, नाभि-पुत्रस् त्व् अन्यः । एषु यज्ञः प्राय आवेशः, तस्य पृथु-पाद-ग्रह-श्रवणात् । हरि-वैकुण्ठाजित-वामनास् तु परावस्थोपमा वैभव-स्थाः, तादृशत्वेन वर्णनात् । अन्ये प्रायः प्राभवावस्थाः, नातिवर्णनात् ।
अथ युगावताराः शुक्ल-रक्त-श्याम-कृष्णाः ।
अत्र पुरुष-भेदानां ब्रह्मादीनां चाविर्भाव-समयो ब्राह्म-कल्प-प्रवृत्तेः पूर्वम् एव । चतुःसन-नारद-वराह-मत्स्य-यज्ञ-नरनारायण-कपिल-दत्त-हयशीर्ष-हंस-पृश्निगर्भ-र्षभदेव-पृथूनां स्वायम्भुवे । वराह-मत्स्ययोः पुनश् चाक्षुषीये च । नृसिंह-कूर्म-धन्वन्तरि-मोहिनीनां चाक्षुषे । कूर्मः कल्पादाव् अपि । धन्वन्तरि-वैवस्वतेऽपि । वामन-भार्गव-राघवेन्द्र-द्वैपायन-राम-कृष्ण-बुद्ध-कल्किनां वैवस्वते । मन्वन्तर-युगावताराणां तदा तदैव ज्ञेयः ॥२६॥
[२७]
अथ विभूतीर् आह—
ऋषयो मनवो देवा मनु-पुत्रा महौजसः ।
**कलाः सर्वे हरेर् एव सप्रजापतयः स्मृताः ॥ [**भा।पु। १.३.२७]
कला विभूतयः । अल्प-शक्तेः प्रकाशाद् विभूतित्वं महा-शक्तेस् त्व् आवेशत्वम् इति भेदः ।
[२८]
तद् एवं परमात्मानं साङ्गम् एव निर्धार्य प्रोक्तानुवाद-पूर्वकं श्री-भगवन्तम् अप्य् आकारेण निर्धारयति—
एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् । इति [भा।पु। १.३.२८]
एते पूर्वोक्ताः, च-शब्दाद् अनुक्ताश् च । प्रथमम् उद्दिष्टस्य पुंसः पुरुषस्यांश-कलाः । केचिद् अंशाः स्वयम् एवांशाः, साक्षाद्-अंशत्वेनांशांशत्वेन च द्विविधाः । केचिद् अंशाविष्टत्वाद् अंशाः, केचित् तु कलाविभूतयः । इह यो विंशतितमावतारत्वेन कथितः स कृष्णस् तु भगवान् । पुरुषस्याप्य् अवतारी यो भगवान् स एष एवेत्य् अर्थः । अत्र अनुवादम् अनुक्त्वैव न विधेयम् उदीरयेत् इति वचनात् कृष्णस्यैव भगवत्त्व-लक्षण-धर्मित्वे सिद्धे मूलावतारित्वम् एव सिध्यति, न तु ततः प्रादुर्भूतत्वम् । एतद् एव व्यनक्ति स्वयम् इति । तत्र च स्वयम् एव भगवान्, न तु भगवतः प्रादुर्भूततया, न तु वा भगवत्त्वाध्यासेनेत्य् अर्थः ।
न चावतार-प्रकरणेऽपि पठित इति संशयः, पौर्वापर्ये पूर्व-दौर्बल्यं प्रकृतिवद् [पू।मी। ६.५.५४] इति न्यायात् । यथाग्निष्टोमे यद्य् उद्गाता विच्छिद्याद् अदक्षिणेन यजेत, यदि प्रतिहर्ता सर्वस्व-दक्षिणेन इति श्रुतेस् तयोश् च कदाचिद् द्वयोर् अपि विच्छेदे प्राप्ते विरुद्धयोः प्रायश्चित्तयोः समुच्चयासम्भवे च परम् एव प्रायश्चित्तं सिद्धान्तितं, तद्वद् इहापीति ।
अथवा, कृष्णस् त्व् इति श्रुत्या प्रकरणस्य बाधात् । यथा शङ्कर-शारीरिके भाष्ये श्रुत्य्-आदि-बलीयस्त्वाच् च न बाधः [वे।सू। ३.३.५०] इति सूत्रे, ते हैते विद्याचित एव इति श्रुतिर् मनश्चिद्-आदीनाम् अग्नीनां प्रकरण-प्राप्तं क्रियानुप्रवेश-लक्षणम् अस्वातन्त्र्यं बाधित्वा विद्याचित्त्वेनैव स्वातन्त्र्यं स्थापयति, तद्वद् इहापीति । अत एतत्-प्रकरणेऽप्य् अन्यत्र क्वचिद् अपि भगवच्-छब्दम् अकृत्वा, तत्रैव भगवान् अहरद् भरम् [भा।पु। १.३.२३] इत्य् अनेन कृतवान् ।
ततश् चास्यावतारेषु गणना तु28 स्वयं भगवान् अप्य् असौ स्वरूप-स्थ एव निज-परिजन-वृन्दानाम् आनन्द-विशेष-चमत्काराय किम् अपि माधुर्यं निज-जन्मादि-लीलया पुष्णन्, कदाचित् सकल-लोक-दृश्यो भवतीत्य् अपेक्षयैवेत्य् आयातम् । यथोक्तं ब्रह्म-संहितायाम्—
रामादि-मूर्तिषु कला-नियमेन तिष्ठन्
नानावतारम् अकरोद् भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत् परमः पुमान् यो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.३९]
अवताराश् च प्राकृत-वैभवेऽवतरणम् इति । श्री-कृष्ण-साहचर्येण श्री-रामस्यापि पुरुषांशत्वात्ययो ज्ञेयः । अत्र तु-शब्दोऽंश-कलाभ्यः पुंसश् च सकाशाद् भगवतो वैलक्षण्यं बोधयति । यद् वा, अनेन तु-शब्देन सावधारणा श्रुतिर् इयं प्रतीयते । ततश् च सावधारणा श्रुतिर् बलवतीइति न्यायेन श्रुत्यैव श्रुतम् अप्य् अन्येषां महा-नारायणादीनां स्वयं भगवत्त्वं गुणीभूतम् आपद्यते ।
एवं पुंस इति भगवान् इति च प्रथमम् उपक्रमोद्दिष्टस्य तस्य शब्द-द्वयस्य, तत्-सहोदरेण तेनैवशब्देन च प्रतिनिर्देशात्, ताव् एव खल्व् एताव् इति स्मारयति । उद्देश-प्रतिनिर्देशयोः प्रतीति-स्थगितता-निरसनाय विद्वद्भिर् एक एव शब्दः प्रयुज्यते, तत्-सम-वर्णो वा29 । यथा ज्योतिष्टोमाधिकरणे वसन्ते वसन्ते च ज्योतिषा यजेत इत्य् अत्र ज्योतिः-शब्दो ज्योतिष्टोम-विषयो भवतीति ।
अत्र तत्त्व-वाद-गुरवस् तु च-शब्द-स्थाने स्व-शब्दं पठित्वैवम् आचक्षते—एते प्रोक्ता अवताराः । मूल-रूपी स्वयम् एव । किं-स्वरूपाः ? स्वांश-कला न तु जीववद् भिन्नांशाः । यथा वाराहे—
स्वांशश् चाथ विभिन्नांश इति द्वेधांश इष्यते ।
अंशिनो यत् तु सामर्थ्यं यत् स्वरूपं यथा स्थितिः ॥
तद् एव नाणु-मात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।
विभिन्नांशोऽल्प-शक्तिः स्यात् किञ्चित् सामर्थ्य-मात्र-युक् ॥ इति ।
अत्रोच्यते—अंशानाम् अंशि-सामर्थ्यादिकं तद्-ऐक्येनैव मन्तव्यम् । तत्र यथाविदासिन इत्य्-आदौ तस्याक्षयत्वेन तासाम् अक्षयत्वं यथा तद्वद् अंशांशित्वानुपपत्तेर् एव । तथा च श्री-वासुदेवानिरुद्धयोः सर्वथा साम्ये प्रसक्ते कदाचिद् अनिरुद्धेनापि श्री-वासुदेवस्याविर्भावना प्रसज्यते । तच् च श्रुति-विपरीतम् इत्य् असद् एव । तस्माद् अस्त्य् एवावतार्य्-अवतारयोस् तारतम्यम् । अत एव तृतीयाष्टमे—
आसीनम् उर्व्यां भगवन्तम् आद्यं
सङ्कर्षणं देवम् अकुण्ठ-सत्त्वम् ।
विवित्सवस् तत्त्वम् अतः परस्य
कुमार-मुख्या मुनयोऽन्वपृच्छन् ॥
स्वम् एव धिष्ण्यं बहु मानयन्तं ।
यद् वासुदेवाभिधम् आमनन्ति । [भा।पु। ३.८.३-४]
इत्य्-आदौ वासुदेवस्य सङ्कर्षणाद् अपि परत्वं श्रूयते । यत् तु तेषां तथा व्याख्यानम् अत्र कृष्णस् त्व् इत्य् अनर्थकं स्यात् । भगवान् स्वयम् इत्य् अनेनैवाभिप्रेत-सिद्धेः । किं च, तैः स्वयम् एव प्रकाशादिवन् नैवं परः [वे।सू। २.३.४५] इति सूत्रे स्फुटम् अंशांशि-भेदो दर्शितः—अंशत्वेऽपि न मत्स्यादि-रूपी पर एवं-विधो जीव-सदृशः । यथा तेजोऽंशस्यैव सूर्यस्य खद्योतस्य च नैक-प्रकारता इत्य् आदिना । तस्मात् स्थिते भेदे साध्व् एव व्याख्यातं कृष्णस् तु भगवान् स्वयम् इति ।
इन्द्रारीति पद्यार्धं तत्र नान्वेति । तु-शब्देन वाक्यस्य भेदनात् । तच् च तावतैवाकाङ्क्षा-परिपूर्तेः । एक-वाक्यत्वे तु च-शब्द एवाकरिष्यत् । ततश् चेन्द्रारीत्य् अत्रार्थात् त एव पूर्वोक्ता एव मृडयन्तीत्य् आयाति ।
॥ १.३ ॥ श्री-सूतः ॥ २-२८ ॥
[२९]
तद् एवं श्री-कृष्णो भगवान्, पुरुषस् तु सर्वान्तर्यामित्वात् परमात्मेति निर्धारितम् । तत्राशङ्क्यते—नन्व् इदम् एकम् अंशित्व-प्रतिपादकं वाक्यम् अंशत्व-प्रतिपादक-बहु-वाक्य-विरोधे गुण-वादः स्यात् ? अत्रोच्यते—तानि किं श्री-भागवतीयानि परकीयाणि वा ? आद्ये जन्म-गुह्याध्यायो ह्य् अयं सर्व-भगवद्-अवतार-वाक्यानां सूत्रं सूचकत्वात् प्राथमिक-पाठात् तैर् उत्तरत्र तस्यैव विवरणाच् च । तत्र चैते चांश-कलाः पुंस इति परिभाषा-सूत्रम् इति । अवतार-वाक्येषु अन्यान् पुरुषांशत्वेन जानीयात्, कृष्णस् तु स्वयं भगवत्त्वेनेति प्रतिज्ञाकारेण ग्रन्थार्थ-निर्णायकत्वात् । तद् उक्तं—अनियमे नियम-कारिणी परिभाषा इति ।
अथ परिभाषा च सकृद् एव पठ्यते शास्त्रे, न त्व् अभ्यासेन । यथा विप्रतिषेधे परं कार्यम् [पा। १.४.२] इति । ततश् च वाक्यानां कोटिर् अप्य् एकेनैवामुना शासनीया भवेद् इति नास्य गुणवादत्वं, प्रत्युतैतद् विरुद्धायमानानाम् एतद्-अनुगुणार्थम् एव वैदुषी । न च परिभाषिकत्वात् तच्-छास्त्र एव स व्यवहारो ज्ञेयः । न सर्वत्रेति गौणत्वम् आशङ्क्यम् । परमार्थ-वस्तु-परत्वाच् छ्री-भागवतस्य तत्राप्य् आर्थिकत्वाच् च तस्याः परिभाषायाः ।
किं च—प्रतिज्ञा-वाक्य-मात्रस्य च दृश्यते परत्रापि नाना-वाक्यान्तरोपमर्दकत्वम् । यथाकाशस्यानुत्पत्ति-श्रुतिः प्राणानां च तच्-छ्रुतिः स्व-विरोधिनी नान्या श्रुतिश् च, आत्मनि विज्ञाते सर्वम् इदं विज्ञातं भवति [बृ।आ।उ। ४.५.६] इदं सर्वं यद् अयम् आत्मा [बृ।आ।उ। २.४.६] इत्य्-आदिनोपमर्द्यते । अत एव स्वामि-प्रभृतिभिर् अप्य् एतद् एव वाक्यं तत्-तद्-विरोध-निरासाय भूयो भूय एव दर्शितम् ।
तद् एवं श्री-भागवत-मते सिद्धे च तस्य वाक्यस्य बलवत्तमत्वे श्री-भागवतस्य सर्व-शास्त्रोपमर्दकत्वेन प्रथमे सन्दर्भे प्रतिपन्नत्वाद् अस्मिन्न् एव प्रतिपत्स्यमानत्वाच् च परकीयाणाम् अप्य् एतद् आनुगुण्यम् एव विद्वज्-जन-दृष्टम् । यथा राज्ञः शासनं तथैव हि तद्-अनुचराणाम् अपीति ।
तत्र श्री-भागवतीयानि वाक्यानि तद्-अनुगतार्थतया दर्श्यन्ते । तत्रांशेनावतीर्णस्य [भा।पु। १०.१.२] इत्य् अंशेन बलदेवेन सह इत्य् अर्थः । कलाभ्यां नितरां हरेः [भा।पु। १०.२०.४८] इति हरेः कला पृथ्वी, आभ्यां राम-कृष्णाभ्याम् इति ।
दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान्
अंशेन साक्षाद् भगवान् भवाय नः ॥ [भा।पु। १०.२.४१]
इत्य् अत्र यो मत्स्यादि-रूपेणांशेनैव पूर्वं नोऽस्माकं भवायाभूत्, हे अम्ब स तु साक्षात् स्वयम् एव तव कुक्षि-गतोऽस्तीति ।
ततो जगन्-मङ्गलम् अच्युतांशम् [भा।पु। १०.२.१८]30 इति तु सप्तम्य्-अन्य-पदार्थो बहुव्रीहिः । तस्मिन्न् अंशिन्य् अवतरति, तेषाम् अंशानाम् अप्य् अत्र प्रवेशस्य व्याख्यास्यमानत्वात् । पूर्णत्वेनैव तत्र सर्वात्मकम् आत्म-भूतम् इत्य् उक्तम् ।
तथा च नातिविद्वज्-जन-वाक्ये—
एतौ भगवतः साक्षाद् धरेर् नारायणस्य हि ।
अवतीर्णाव् इहांशेन वसुदेवस्य वेश्मनि ॥ [भा।पु। १०.४३.२३]
इत्य् अत्रापि सरस्वती-प्रेरिततया अंशेन सर्वांशेन सहैवेत्य् अर्थः । एवम् एव—
ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ ।
भार-व्ययाय च भुवः कृष्णौ यदु-कुरूद्वहौ ॥ [भा।पु। ४.१.५९]
इत्य् अत्र आगताव् इति कर्तरि निष्ठा । कृष्णाव् इति कर्मणि द्वितीया । ततश् च भगवतो नानावतार-बीजस्य हरेः पुरुषस्य ताव् इमौ नर-नारायणाख्यौ अंशौ कर्तृ-भूतौ कृष्णौ कृष्णार्जुनौ कर्म-भूताव् आगतवन्तौ तयोः प्रविष्टवन्ताव् इत्य् अर्थः । कीदृशौ कृष्णौ ? भुवो भारस्य व्ययाय, च-काराद् भक्त-सुखद-नाना-लीलान्तराय च । यदु-कुरूद्वहौ यदु-कुरु-वंशयोर् अवतीर्णाव् इत्य् अर्थः । अर्जुने तु नरावेशः कृष्णो नारायणः स्वयम् इत्य् आगम-वाक्यं श्रीमद्-अर्जुने नर-प्रवेशापेक्षया । यस् तु स्वयम् अनन्य-सिद्धो नारायणो नारायणस् त्वं न हि सर्व-देहिनाम् [भा।पु। १०.१४.१४] इत्य्-आदिना दर्शितः । स पुनः कृष्ण इत्य् अर्थान्तरापेक्षया मन्तव्यम्, ययोर् एव समं वित्तम् [भा।पु। १०.६०.१५] इत्य्-आदि-न्यायात्31 । तथा विष्णु-धर्मे—
यस् त्वां वेत्ति स मां वेत्ति यस् त्वाम् अनु स माम् अनु ।
अभेदेनात्मनो वेद्मि त्वाम् अहं पाण्डु-नन्दन ॥ इति ।
तं प्रति श्री-भगवद्-वाक्याच् चार्जुनस्यापि श्री-कृष्ण-सखत्वेन नारायण-सखान् नरात् पूर्णत्वात् तत्र प्रवेशः समुचित एव ।
कुत्रचिच् चांशादि-शब्द-प्रयोगः—नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ७.१५] इति श्री-गीतोपनिषद्-दिशा पूर्णस्यापि साधारण-जने खण्डांश-प्रकाशात् तत्-प्रतीताव् एवांश इवांश इति ज्ञेयम् । नारायण-समो गुणैः [भा।पु। १०.८.१९] इत्य् अत्रापि नारायणः पर-व्योमाधिप एव गुणैः समो यस्येत्य् एव गर्गाभिप्रायः ।
तद् एवं महा-काल-पुराख्यानेऽपि प्रतिज्ञा-वाक्यम् इदम् अधिकुर्यात् । किं च, शास्त्रं हि शासनात्मकम् । शासनं चोपदेशः । स च द्विधा साक्षाद् अर्थान्तर-द्वारा च । साक्षाद्-उपदेशस् तु श्रुतिर् इति परिभाष्यते । साक्षात्त्वं चात्र निरपेक्षत्वम् उच्यते । तद् उक्तं निरपेक्ष-रवा श्रुतिर् इति । तथा च सति, श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थ-विप्रकर्षात् [जैमिनी-सूत्र ३.३.१४] इत्य्-उक्तानुसारेण चरमस्य पूर्वापेक्षया दूर-प्रतीत्य्-अर्थत्वे, कृष्णस् तु भगवान् स्वयम् इति श्री-शौनकं प्रति श्री-सूतस्य साक्षाद्-उपदेशेन इतिहास-द्वारोपदेशो बाध्यते । न च मे कलावतीर्णौ [भा।पु। १०.८९.५८] इति च महाकाल-पुराधिप एव श्री-कृष्णं साक्षाद् एवोपदिष्टवान् इति वाच्यम् । श्री-कृष्णस्य सार्वज्ञ्याव्यभिचारेण वक्तृ-श्रोतृ-भाव-पूर्वक-सङ्गमाप्रस्तावेन, द्विजात्मजा मे युवयोर् दिदृक्षुणा [भा।पु। १०.८९.५८] इति कार्यान्तर-तात्पर्य-दर्शनेन च । तस्यैतन् महा-पुराणस्य च तत्त्वोपदेष्टृ-सूतादिवत् तद्-उपदेशे तात्पर्याभावाद् वक्ष्यमाणार्थान्तर एव नैकट्येन पद-सम्बन्धाच् च ।
किं च, भवतु वा तुष्यतु न्यायेन श्री-कृष्णस्य तम् अपेक्ष्यापूर्णत्वम्, तथापि सर्वेषाम् अप्य् अवताराणां न् इत्यम् एव स्वस्थत्वेन दर्शयिष्यमाणत्वात् केषांचिन् मते तु स्वयं पुरुषत्वेऽपि स्वतन्त्र-स्थितित्वात् । युवां नर-नारायणाव् ऋषी [भा।पु। १०.८९.५९] इति, त्वरयेताम् अन्ति मे [भा।पु। १०.८९.५९] इति च तत्-तद्-अर्थत्वे विरुध्येत । अस्तु तावद् अस्माकम् अन्या वार्ता, न च कुत्रापि महाकालोऽयम् अंशेन तत्-तद्-रूपेणावतीर्ण इत्य् उपख्यायते वा । ततश् चाप्रसिद्ध-कल्पना प्रसज्जते । तत्रैव च त्वरयेतम् अन्ति मे इति युवां नर-नारायणाव् ऋषी धर्मम् आचरताम् इत्य् आदेश-द्वयस्य पारस्परिक-विरोधः स्फुट एव ।
किं च, यदि तस्य ताव् अंशाव् अभविष्यतां, तर्हि कर-तल-मणिवत् सदा सर्वम् एव पश्यन्न् असौ ताव् अपि दूरतोऽपि पश्यन्न् एवाभविष्यत् । तच् च युवयोर् दिदृक्षुणेति तद्-वाक्येन व्यभिचारितम् । यदि स्वयम् एव श्री-कृष्णस् तत्-तद्-रूपाव् आत्मानौ दर्शयति, तदैव तेन तौ दृश्येयाताम् इत्य् आनीतं च । तथा च सति, तयोर् दृश्यत्वाभावाद् अंशत्वं नोपपद्यते । तस्माद् अप्य् अधिक-शक्तित्वेन प्रत्युत पूर्णत्वम् एवोपपद्यते ।
एवम् अपि यत् त्व् अर्जुनस्य तज्-ज्योतिः-प्रताडिताक्षत्वं तद्-दर्शन-जात-साध्वसत्वं च जातं तत्र स्वयम् एव भगवता तत्-तल्-लीला-रसौपयिक-मात्र-शक्तेः प्रकाशनाद् अन्यस्याः स्थिताया अपि कुण्ठनान् न विरुद्धम् । दृश्यते च स्वस्यापि क्वचिद् युद्धे प्राकृताद् अपि पराभवादिकम् । यथात्रैव तावत् स्वयम् एव वैकुण्ठाद् आगतानाम् अप्य् अश्वानां प्राकृत-तमसा भ्रष्ट-गतित्वम् । तद् एवम् एव श्री-कृष्णस्य तस्मिन् भक्ति-भर-दर्शनेनाप्य् अन्यथा न मन्तव्यम् । श्री-रुद्रादौ श्री-नारदादौ च तथा दर्शनात् । एवम् अत्र परत्र वा तदीय-लीलायां तु पूर्व-पक्षो नास्ति तस्य स्वैराचरणत्वात् ।
अतस् तदीय-तात्पर्य-शब्दोत्थाव् अर्थाव् एवम् एव दृश्येते । तत्-तात्पर्योत्थो यथासौ श्री-कृष्णः स्वयं भगवान् अपि यथा गोवर्धन-मख-लीलायां श्री-गोप-गण-विस्मापन-कौतुकाय काञ्चिन् निजां दिव्य-मूर्तिं प्रदर्शयन् तैः समम् आत्मनैवात्मानं नमश्चक्रे । तथैवार्जुन-विस्मापन-कौतुकाय महाकाल-रूपेणैवात्मना द्विज-बालकान् हारयित्वा, पथि च तं तं चमत्कारम् अनुभाव्य, महाकाल-पुरे च तां काम् अपि निजां महाकालाख्यां दिव्य-मूर्तिं दर्शयित्वा, तेन समं तद्-रूपम् आत्मानं नमश्चक्रे । तद्-रूपेणैव सार्जुनम् आत्मानं तथा बभाषे च । तद् उक्तं—तस्मै नमो व्रज-जनैः सह-चक्रेऽत्मनात्मने [भा।पु। १०.२४.३६] इतिवत् । अत्रापि ववन्द आत्मानम् अनन्तम् अच्युतः [भा।पु। १०.८९.५८] इति । अत एव हरिवंशे तत्-समीप-ज्योतिर् उद्दिश्य चार्जुनं प्रति श्री-कृष्णेनोक्तं मत्-तेजस् तत् सनातनम् [ह।वं। २.११४.९] इति ।
अथ शब्दोत्थोऽप्य् अर्थो यथा तत्र श्री-महाकालम् उद्दिश्य पुरुषोत्तमोत्तमम् [भा।पु। १०.८९.५४] इति विशेषणस्यार्थः । पुरुषो जीवः, तस्माद् उत्तमस् तद्-अन्तर्यामी, तस्माद् उत्तमं भगवत्-प्रभाव-रूप-महाकाल-शक्ति-मयं, तम् इति ।
अथ श्री-महाकाल-वाक्यस्य—
द्विजात्मजा मे युवयोर् दिदृक्षुणा
मयोपनीता भुवि धर्म-गुप्तये ।
कलावतीर्णाव् अवनेर् भरासुरान्
हत्वेह भूयस् त्वरयेतम् अन्ति मे ॥ [भा।पु। १०.८९.५९]
इत्य् अस्य युवयोर् युवां दिदृक्षुणा मया द्विज-पुत्रा मे मम भुवि धाम्नि उपनीता आनीता इत्य् एकं वाक्यम् । वाक्यान्तरम् आह—हे धर्म-गुप्तये कलावतीर्णौ कला अंशास् तद्-युक्ताव् अवतीर्णौ मध्यम-पद-लोपी समासः । कलायाम् अंश-लक्षणे मायिक-प्रपञ्चेऽवतीर्णौ वा पादोऽस्य विश्वा भूतानि [ऋ।वे। १०.९०.३] इति श्रुतेः ।
भूयः पुनर् अपि अवशिष्टान् अवनेर् भरासुरान् हत्वा मे मम अन्ति समीपाय समीपम् आगमयितुं युवां त्वरयेतं त्वरतम् । अत्र प्रस्थाप्य तान् मोचयतम् इत्य् अर्थः । तद्-धतानां मुक्ति-प्रसिद्धेः । महाकाल-ज्योतिर् एव मुक्ताः प्रविशन्तीति ब्रह्म-तेजोमयं दिव्यं महद् यद् दृष्टवान् असि [ह।वं। २.११४.९] इति श्री-हरिवंशोक्तेश् च । त्वरयेतम् इति प्रार्थनायां हेतु-णिज्-अन्तस्य लिङि रूपं अन्तीत्य्-अव्ययाच् चतुर्थ्यां लुक्, चतुर्थी च एधोभ्यो व्रजतीतिवत् क्रियार्थोपपस्य च कर्मणि स्थानिनः [पा। २.३.१४] इति स्मरणात् । कटं कृत्वा प्रस्थापयतीतिवद् उभयोर् एकेनैव कर्मणान्वयः । तस्माद् एक एवार्थः स्पष्टम् अकष्टो भवति । अर्थान्तरे तु सम्भवत्य् एक-पदत्वे पद-च्छेदः कष्टाय कल्प्यते ।
तथा—
पूर्ण-कामाव् अपि युवां नर-नारायणाव् ऋषी ।
धर्मम् आचरतां स्थ् इत्यै ऋषभौ लोक-सङ्ग्रहम् ॥ [भा।पु। १०.८९.६०]
इत्य् अस्य न केवलम् एतद्-रूपेणैव युवां लोक-हिताय प्रवृत्तौ । अपि वैभवान्तरेणापीति स्तौति पूर्णेति । स्वयं भगवत्त्वेन तत्-सखत्वेन च ऋषभौ सर्वावतारावतारि-श्रेष्ठाव् अपि पूर्ण-कामाव् अपि स्थ् इत्यै लोक-रक्षणाय लोक-सङ्ग्रहं लोकेषु तत्-तद्-धर्म-प्रचार-हेतुकं धर्मम् आचरतां कुर्वतां मध्ये युवां नर-नारायणाव् ऋषी इत्य् अनयोर् अल्पांशत्वेन विभूतिवन् निर्देशः ।
उक्तं चैकादशे श्री-भगवता विभूति-कथन एव नारायणो मुनीनां च [भा।पु। ११.१६.२५] इति। धार्मिक-मौलित्वाद् द्विज-पुत्रार्थम् अवश्यम् एष्यथ इत्य् अत एव मया तथा व्यवसितम् इति भावः । तथा च हरिवंशे श्री-कृष्ण-वाक्यम्—
मद्-दर्शनार्थं ते बाला हृतास् तेन महात्मना ।
विप्रार्थम् एष्यते कृष्णो नागच्छेद् अन्यथा त्व् इह ॥ [ह।वं। २.११४.८]
अत्राचरतम् इत्य् अर्थे आचरताम् इति प्रसिद्धम् इत्य् अतश् च तथा न व्याख्यातम् । तस्मान् महाकालतोऽपि श्री-कृष्णस्यैवाधिक्यं सिद्धम् । दर्शयिष्यते चेदं मृत्युञ्जय-तन्त्र-प्रकरणेन, तद्32 एतन् महिमानुरूपम् एवोक्तं—
निशाम्य वैष्णवं धाम पार्थः परम-विस्मितः ।
यत् किञ्चित् पौरुषं पुंसां मेने कृष्णानुभवितम् ॥ [भा।पु। १०.८९.६३]
अत्र महाकालानुभावितम् इति तु नोक्तम् । एवम् एव स चोक्त-लक्षणो भगवान् श्री-कृष्ण एवेति दर्शयितुम् आख्यानान्तरम् आह एकदा [भा।पु। १०.८९.२१] इति श्री-स्वामि-लिखितैतत्-प्रकरण-चूर्णिकापि सुसङ्गता भवति ।
अथ परकीयाण्य् अपि विरुद्धायमानानि वाक्यानि तद्-अनुगतार्थतया दृश्यन्ते । तत्र श्री-विष्णु-पुराणे उज्जहारात्मनः केशौ सित-कृष्णौ महा-मुने [वि।पु। ५.१.५९] इति । महाभारते—
स चापि केशौ हरिर् उद्बबर्ह
शुक्लम् एकम् अपरं चापि कृष्णम् ।
तौ चापि केशौ विशतां यदूनां
कुले स्त्रियो रोहिणीं देवकीं च ।
तयोर् एको बलभद्रो बभूव
योऽसौ श्वेतस् तस्य देवस्य केशः ।
कृष्णो द्वितीयः केशवः सम्बभूव
केशो योऽसौ वर्णतः कृष्ण उक्तः ॥ [म।भा। १.१८९.३१-३२] इति ॥
अत्र तात्पर्यं स्वामिभिर् इत्थं विवृतं—भूमेः सुरेतर-वरूथ [भा।पु। २.७.२६] इत्य् आदि-पद्ये । सित-कृष्ण-केश इत्य् अत्र सित-कृष्ण-केशत्वं शोभैव न तु वयः-परिणाम-कृतम् अविकारित्वात् । यच् च उज्जहारात्मनः केशौ [वि।पु। ५.१.५९] इत्य् आदि तत् तु न केश-मात्रावताराभिप्रायं, किन्तु भू-भारावतारण-रूपं कार्यं । कियद् एतत्? आत्म-केशौ एव तत् कर्तुं शक्ताव् इति द्योतनार्थं राम-कृष्णयोर् वर्ण-सूचनार्थं च केशोद्धरणम् इति गम्यते । कृष्णस् तु भगवान् स्वयम् [भा।पु। १.३.२८] इत्य् एतद् विरोधनाच् चेति ।
इदम् अप्य् अत्र तात्पर्यं सम्भवति। ननु देवाः किम्-अर्थं माम् एवातारयितुं भवद्भिर् आगृह्यते ? अनिरुद्धाख्य-पुरुष-प्रकाश-विशेषस्य क्षीरोद-श्वेतद्वीप-धाम्नो मम यौ केशाव् इव स्व-शिरो-धार्य-भूतौ ताव् एव श्री-वासुदेव-सङ्कर्षणौ स्वयम् एवावतरिष्यतः । ततश् च भू-भार-हरणं ताभ्याम् ईषत्करम् एवेति ।
अथ उज्जहारात्मनः केशौ [वि।पु। ५.१.५९] इत्य् अस्यैव शब्दोऽर्थोऽपि मुक्ताफल-टीकायां—
केशौ सुख-स्वामिनौ । सितो रामः । आत्मनः सकाशाद् उज्जहार उद्धृतवान् इत्य् आदि ।
हरिवंशे हि कस्यांचिद् गिरि-गुहायां भगवान् स्व-मूर्तिं निक्षिप्य गरुडं च तत्रावस्थाप्य स्वयम् अत्रागत इत्य् उक्तम् । तद् उक्तम्, स देवान् अभ्यनुज्ञाय [ह।वं। १.५५.५०] इत्य् आदि । यैस् तु यथा-श्रुतम् एवेदं व्याख्यातं, ते न सम्यक् प [३६रामृष्टवन्तः, यतः सुर-मात्रस्यापि निर्जरत्व-प्रसिद्धिः । अकाल-कलिते भगवति जरानुदयेन केश-शौक्ल्यानुपपत्तिः । न चास्य केशस्य नैसर्गिक-सित-कृष्णतेति प्रमाणम् अस्ति । अत एव नृसिंह-पुराणे कृष्णावतार-प्रसङ्गे शक्ति-शब्द एव प्रयुज्यते, न तु केश-शब्दः । तथा हि—
वसुदेवाच् च देवक्याम् अवतीर्य यदोः कुले ।
सित-कृष्णे च मच्-छक्ती कंसाद्यान् घातयिष्यतः ॥ [नृ।पु। ५३.३०-३१] इत्य्-आदिना ।
अस्तु तर्हि अंशोपलक्षकः केश-शब्दः ? न, अविलुप्त-सर्व-शक्तित्वेन33 साक्षाद्-आदि-पुरुषत्वेन निश्चेतुं शक्यत्वात्, कृष्ण-विष्ण्व्-आदि-शब्दानाम् अविशेषतः पर्याय-प्रतीतेश् च । नैवम् अवतारान्तरस्य कस्य वान्यस्य जन्म-दिनं जयन्त्य्-आख्ययातिप्रसिद्धम् । अत एवोक्तं भारते (१.१.१९३-१९४)—34
भगवान् वासुदेवश् च कीर्त्यतेऽत्र सनातनः ।
शाश्वतं ब्रह्म परमं योगि-ध्येयं निरञ्जनम् ॥ इति । [एन्द् चोम्मेन्तर्य् ओफ़् कैवल्य-दीपिका]
तस्याकाल-कलितत्वं योऽयं कालस् तस्य तेऽव्यक्त-बन्धो चेष्टाम् आहुः [भा।पु। १०.३.२६] इत्य्-आदौ श्री-देवकी-देवी-वाक्ये,
नताः स्म ते नाथ सदाङ्घ्रि-पङ्कजं
विरिञ्चि-वैरिञ्च्य-सुरेन्द्र-वन्दितम् ।
परायणं क्षेमम् इहेच्छतां परं
न यत्र कालः प्रभवेत् परः प्रभुः ॥ [भा।पु। १.११.६]
इत्य्-आदौ श्री-द्वारका-वासि-वाक्ये च प्रसिद्धम् ।
अतो यत् प्रभास-खण्डे केशस्य बालत्वम् एव तत् सितिम्नः काल-कृत-पलित-लक्षणत्वम् एव च दर्शितम्, तस्य शरीरिणां शुष्क-वैराग्य-प्रतिपादन-प्रकरण-पतितत्वेन35 सुर-मात्र-निर्जरता-प्रसिद्धत्वेन चामुख्यार्थत्वान् न स्वार्थ-प्रामाण्यम् । ब्रह्मा येन इत्य् आरभ्य,
विष्णुर् येन दशावतार-ग्रहणे क्षिप्तो महा-सङ्कटे ।
रुद्रो येन कपाल-पाणिर् अभितो भिक्षाटनं कारितम् ॥ [ग।पु। १.११३.१५]
इत्य्-आदौ तस्मै नमः कर्मणे इति गारुड-वचनवत् । किन्तु तत्-प्रतिपादनाय शब्द-साम्येन36 छलोक्तिर् एवेयम् । यथा—
अहो कनक-दौरात्म्यं निर्वक्तुं केन युज्यते ।
नाम-साम्याद् असौ यस्य धूस्तुरोऽपि मद-प्रदः ॥ इति ।
शिव-शास्त्रीयत्वाच् च नात्र वैष्णव-सिद्धान्त-विरुद्धस्य तस्योपयोगः । यत उक्तं स्कान्द एव षण्मुखं प्रति श्री-शिवेन—शिव-शास्त्रेऽपि तद् ग्राह्यं भगवच्-छास्त्र-योगि यत् इति । अन्य-तात्पर्यकत्वेन स्वतस् तत्राप्रामाण्याद् युक्तं चैतत् यथा पङ्केन पङ्काम्भः [भा।पु। १.८.५२] इत्य् आदिवत् । पाद्मोत्तर-खण्डे च शिव-प्रतिपादकानां पुराणानाम् अपि तामसत्वम् एव दर्शितम् । मात्स्येऽपि तामस-कल्प-कथामयत्वम् इति युक्तं च तस्य वृद्ध-सूतस्य श्री-भागवतम् अपठितवतः श्री-बलदेवावज्ञातुः श्री-भगवत्-तत्त्वासम्यक्-ज्ञान-जं वचनं—एवं वदन्ति राजर्षे ऋषयः केचनान्विताः [भा।पु। १०.७७.३०] इतिवत्, एतादृश-श्री-भागवत-वाक्येन स्व-विरुद्ध-पुराणान्तर-वचन-बाधनं च । यथेह कर्म-जितो लोकः क्षीयत [छा।उ। ८.१.६] इत्य् आदि वाक्येन उपाम सोमम् अमृता अभूम [ऋक् ८.४८.३] इत्य् आदि-वचन-बाधनवज् ज्ञेयम् । अत्रापि यत् स्व-वचो विरुद्धेत नूनं ते न स्मरन्त्य् अमुम् [भा।पु। १०.७७.३०] इति युक्ति-सद्-भावो दृश्यते । तत्रैवात्मनः सन्दिग्धत्वम् एव तेन सूतेन व्यञ्जितम्—अचिन्त्या खलु ये भावा न तांस् तर्केण योजयेद् [म।भा। ६.६.११] इत्य्-आदिना ।
किं च तत्रैवोत्तर-ग्रन्थे कलङ्कापत्ति-कारण-कथने श्री-कृष्णावतार-प्रसङ्गे स्वयं विष्णुर् एवेत्य् उक्तत्वात् स्वेनैव विरोधश् च । तस्मान् न केशावतारत्वेऽपि तात्पर्यं केश-शब्दस्य बालत्व-वाचनं च । छलतो भगवत्-तत्त्वाज्ञानतो वेति । अतो वैष्णवादि-पद्यानां शब्दोत्थम् अर्थम् एवं पश्यामः—
अंशवो ये प्रकाशन्ते मम ते केश-संज्ञिताः ।
सर्वज्ञाः केशवं तस्मान् माम् आहुर् मुनि-सत्तम ॥ [म।भा। १२.३२८.४३]
इति सहस्र-नाम-भाष्योत्थापित-भारत-वचनात् केश-शब्देनांशुर् उच्यते । तत्र च सर्वत्र केशेतर-शब्दाप्रयोगात् नाना-वर्णांशूनां श्री-नारद-दृष्टतया मोक्ष-धर्म-प्रसिद्धेश् च । तथा चांशुत्वे लब्धे तौ चांशू वासुदेव-सङ्कर्षणाव् अवतार-सूचकतया निर्दिष्टाव् इति तयोर् एव स्याताम् इति गम्यते । तदीययोर् अपि तयोर् अनिरुद्धेऽभिव्यक्तिश् च युज्यत एव । अवतारि-तेजोऽन्तर्भूतत्वाद् अवतारस्य । एवम् एव सत्त्वं रजस् तमः [भा।पु। १.२.२३] इत्य् आदि-प्रथम-स्कन्ध-पद्य-प्राप्तम् अनिरुद्धाख्य-पुरुषावतारत्वं भवानी-नाथैः [भा।पु। ५.१७.१६] इत्य्-आदि-पञ्चम-स्कन्ध-गद्य-प्राप्तं सङ्कर्षणावतारत्वं च भवस्य सङ्गच्छते ।
ततश् च उज्जहार [वि।पु। ५.१.५९] इत्य् अस्यायम् अर्थः—आत्मनः सकाशात् श्री-वासुदेव-सङ्कर्षणांश-भूतौ केशाव् अंशू उज्जहार उद्धृतवान्, प्रकटीकृत्य दर्शितवान् इत्य् अर्थः । अत्र “अयं सुमेरुः” इत्य् एक-देश-दर्शनेनैवाखण्ड-सुमेरु-निर्देशवत् तद्-दर्शनेनापि पूर्णस्यैवाविर्भाव-निर्देशो ज्ञेयः ।
अथ स चापि केशौ [म।भा। १.१८९.३१] इत्य् आदिक-व्याख्या । उद्बबर्हे योग-बलेनात्मनः सकाशाद् विच्छिद्य दर्शयामास । स चापीति च-शब्दः पूर्वम् उक्तं देव-कर्तृकं निवेदन-रूपम् अर्थं समुच्चिनोति । अपि-शब्दस् तद्-उद्बर्हणे श्री-भगवत्-सङ्कर्षणयोर् अपि हेतु-कर्तृत्वं सूचयति । तौ चापीति च-शब्दोऽनुक्त-समुच्चयार्थत्वेन भगवत्-सङ्कर्षणौ स्वयम् एव विविशतुः37 । पश्चात् तौ च तत्-तादात्म्येनापि विविशतुर्38 इति बोधयति । अपि-शब्दो यत्रानुस्यूतौ चामू सोऽपि तद्-अंशा अपीति गमयति । तयोर् एको बलभद्रो बभूव [म।भा। १.१८९.३२] इत्य्-आदिकं तु नरो नारायणो भवेत्। हरिर् एव भवेन् नर इत्य् आदिवत् तद्-ऐक्यावाप्त्य्-अपेक्षया ।
केशवः श्री-मथुरायां केशव-स्थानाख्य-महायोग-पीठाधिपत्वेन प्रसिद्धः । स एव कृष्ण इति । अत एवोदाहरिष्यते भूमेः सुरेतर [भा।पु। २.७.२६] इत्य् आदि । श्री-नृसिंह-पुराणे सितासिते च मच्-छक्ती*39 इति तच्-छक्ति-द्वारैव श्री-कृष्णेन ताद्घातनापेक्षया । अर्जुने तु नरावेशः कृष्णो नारायणः स्वयम् इत्य् आगम-वाक्यं तु श्रीमद्-अर्जुने नर-प्रवेशापेक्षया । यस् तु स्वयम् अन्यथा सिद्धो नारायणः नारायणस् त्वं न हि सर्वे-देहिनाम् [भा।पु। १०.१४.१४] इत्य्-आदौ दर्शितः । स पुनः कृष्ण इत्य् अर्थान्तरापेक्षया च मन्तव्यम् । अत एव पुरुष-नारायणस्य तथागमन-प्रतिपादक-श्री-हरि-वंश-वाक्यम् अपि तत्-तेजः-समाकर्षण-विवक्षयैवोक्तम् । सर्वेषां प्रवेशश् च तस्मिन् स-युक्तिकम् एवोदारणीयः ।
अतः पाद्मोत्तर-खण्डे नृसिंह-राम-कृष्णेषु षाड्गुण्यं परिपूरणम् इत्य् आवतारान्तर-साधारण्यम् अपि न मन्तव्यम् । किन्त्व् अवताराणां प्रसङ्गे तेषु श्रेष्ठे विविदिषिते सामान्यतस् तावत् सर्व-श्रेष्ठास् त्रय उक्तास् तेष्व् अप्य् उत्तरोत्तरत्राधिक्य-क्रमाभिप्रायेण श्री-कृष्ण-श्रैष्ठ्यं विवक्षितम् ।
अत एव श्री-विष्णु-पुराणे मैत्रेयेण हिरण्यकशिपुत्वादिषु तयोर् अमुक्ति-मुक्ति-कारणे पृष्टे श्री-पराशरोऽपि श्री-कृष्णस्यैवात्युद्भटैश्वर्यम् आह । किं च श्री-कृष्णम् अप्राप्यान्य् अत्र त्व् असुराणां मुक्तिर् न सम्भवति । एव-कार-द्वयेन स्वयम् एव श्री-गीतासु तथा सूचनात्—
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।
माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ [गीता १६.१९-२०] इति ।
कुत्रचिद् भगवद्-द्वेषिणां तत्-स्मरणादि-प्रभावेन श्रूयतां वा मुक्तिः । सर्वेषाम् अपि तद्-द्वेषिणां तु मुक्ति-प्रदत्वम् अन्यत्रावतारेऽवतारिणि वा न क्वचित् श्रूयते । तस्मात् तेषाम् अपि मुक्ति-दातृत्वाय श्री-कृष्ण एवैश्वर्याधिक्यं युक्तम् एव वर्णायामास श्री-पराशरः । अत एव पूर्वम् ऐश्वर्य-साक्षात्कारस्य मुक्ति-हेतुत्वम् उक्त्वा पुनः पूतनादि-मोक्षं विचिन्त्य कालनेम्य्-आदीनां च तद्-अभावम् आशङ्क्य तद् अप्य् असहमानस् तस्य तु श्री-कृष्णाख्यस्य भगवतः परमाद्भुत-स्वभाव एवायम् इत्य् उवाच सर्वान्तिम-गद्येन—अयं हि भगवान् कीर्तितः संस्मृतश् च द्वेषानुबन्धेनाप्य् अखिल-सुरासुरादि-दुर्लभं फलं प्रयच्छति किम् उत सम्यक् भक्तिमताम् [वि।पु। ४.१५.१७] इत्य् अनेन ।
अतः श्री-भागवत-मते तयोर् जन्म-त्रय-नियमश् च श्री-कृष्णाद् एव मोक्षः सम्भवेद् इत्य् अपेक्षयैवेति ज्ञेयम् । अत एव श्री-नारदेनापि तम् उद्दिश्यैवोक्तम् वैरेण यं नृपतयः [भा।पु। ११.५.४८] इत्य् आदि । सर्वेषां मुक्तिदत्वं च तस्य कृष्णस्य निज-प्रभावातिशयेन यथा कथञ्चित् स्मर्तृ-चित्ताकर्षणातिशय-स्वभावात् । अन्यत्र तु तथा स्वभावो नास्तीति नास्ति मुक्तिदत्वम् । अत एव वेणस्यापि विष्णु-द्वेषिणस् तद्वद् आवेशाभावात् मुक्त्य्-अभाव इति । अतएवोक्तं—तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् [भा।पु। ७.१.३१] इति ।
तस्माद् अस्त्य् एव सर्वतोऽप्य् आश्चर्यतमा शक्तिः श्री-कृष्णस्य इति सिद्धम् । तद् एवं विरोध-परिहारेण विरुद्धार्थानाम् अप्य् अर्थानुकूल्येन श्री-कृष्णस्य स्वयं भगवत्त्वम् एव दृढीकृतम् । तत्र च वेदान्त-सूत्रादाव् अप्य् एकस्य महा-वाक्यस्य नाना-वाक्य-विरोध-परिहारेणैव स्थापनीया दर्शनान् नाप्य् अत्रैवेदृशम् इत्य् अश्रद्धेयम् । वाक्यानां दुर्बल-बलित्वम् एव विचारणीयम्, न तु बह्व्-अल्पता । दृश्यते च लोके एकेनापि युद्धे सहस्र-पराजय इति ।
एवं च बहुव्-विरोध-परिहारेणैव स्वस्मिन् श्री-कृष्णाख्ये पर-ब्रह्मणि सर्व-वेदाभिधेयत्वम् आह—
किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥
मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्व् अहम् ।
एतावान् सर्व-वेदार्थः शब्द आस्थाय मां भिदाम् ॥ [भा।पु। ११.२१.४२-४३] इति।
विकल्प्य विविधं कल्पयित्वा अपोह्यते, तत्-तन्-निषेधेन सिद्धान्त्यते यत् तद् अहं श्री-कृष्ण-लक्षणं वस्त्व् इति ॥
सर्व-संवादिनी: किं विधत्ते इति । अस्य चूर्णिका-प्रघट्टके केश-शब्द-व्याख्याने श्री-हरिवंश-वाक्यानि—
स देवान् अभ्यनुज्ञाय तदैव त्रिदशालये ।
जगाम विष्णुः स्वं देशं क्षीरोदस्योत्तरां दिशम् ॥
तत्र सा पार्वती नाम गुहा देवैः सुदुर्गमा ।
त्रिभिस् तस्यैव विक्रान्तैर् न् इत्यं पर्वसु पूजिता ॥
पुराणं तत्र विन्यस्य देहं हरिर् उदारधीः ।
आत्मानं योजयामास वसुदेव-गृहे प्रभुः ॥ [ह।वं। २.५५.४९-५१] इति ॥२९॥
॥ ११.१२ ॥ श्री-भगवान् ॥ २९ ॥
[३०]
तद् एवं कृष्णस् तु भगवान् स्वयम् इत्य् एतत् प्रतिज्ञा-वाक्याय महावीर-राजायेवात्मनैव निर्ज् इत्यात्म-सात्कृत-विरोधि-शतार्थायापि शोभा-विशेषेण प्रेक्षावताम् आनन्दनार्थं चतुरङ्गिनीं सेनाम् इवान्याम् अपि वचन-श्रेणीम् उपहरामि । तत्र तस्य लीलावतार-कर्तृत्वम् आह—
मत्स्याश्व-कच्छप-नृसिंह-वराह-हंस-
राजन्य-विप्र-विबुधेषु कृतावतारः
**त्वं पासि [**१०.२.४०] । इत्य्-आदिस्पष्टम् ॥
॥ १०.२ ॥ देवाः श्री-भगवन्तम् ॥ ३० ॥
[३१]
तथा, **सुरेष्व् ऋषिष्व् ईश तथैव [**भा।पु। १०.१४.२] इत्य्-आदि । स्पष्टम् ॥
॥ १०.१४ ॥ ब्रह्मा तम् ॥ ३१ ॥
[३२]
तथा, **बहूनि सन्ति नामानि रूपाणि च सुतस्य ते [**भा।पु। १०.८.१५] इत्य् आदि । स्पष्टम् ॥
॥ १०.८ ॥ गर्गः श्री-व्रजेश्वरम् ॥ ३२ ॥
[३३]
एवं,
**यस्यावतारा ज्ञायन्ते शरीरेष्व् अशरीरिणः [**भा।पु। १०.१०.३४] इत्य्-आदि ।
शरीरेष्व् अशरीरिण इत्य् अपि ज्ञाने हेतु-गर्भ-विशेषणम् । शरीरिषु मध्येऽप्य् अवतीर्णस्य यतः सतः स्वयम् अशरीरिणः । नातः परं परम यद् भवतः स्वरूपम् [भा।पु। ३.९.३] इत्य्-आदि द्वितीय-सन्दर्भोदाहरण-प्रघट्टक-दृष्ट्या जीववद् देह-देहि-पार्थक्याभावेन मुख्य-मत्व्-आर्थाभावात् ।
॥ १०.१० ॥ यमलार्जुनौ श्री-भगवन्तम् ॥ ३३ ॥
[३४]
अपरं च—
यत्-पाद-पङ्कज-रजः शिरसा बिभर्ति
श्रीर् अब्ज-जः स-गिरिशः सह लोक-पालैः
लीला-तनुः स्व-कृत-सेतु-परीप्सया यः
**कालेऽदधत् स भगवान् मम केन तुष्येत् ॥ [**भा।पु। १०.५८.३७]
॥ स्पष्टम् ॥ १०.५८ ॥ नग्नजिच् छ्री-भगवन्तम् ॥ ३४ ॥
[३५]
परं च—
नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे ।
**यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः ॥ [**भा।पु। १०.८७.४६]
टीका च—नम इति श्री-कृष्णावतारतया नारायणं स्तौति । एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् इत्य् उक्तेर् इत्य् एषा । अत एव तच्-छ्रवणानन्तरं तस्मा एव नमस्कारात् श्रुति-स्तुताव् अपि श्री-कृष्ण एव स्तुत्य इत्य् आयातम् । तथैव श्रुतिभिर् अपि निभृत-मरुन्-मनोऽक्ष [भा।पु। १०.८७.२३] इत्य्-आदि-पद्ये निजारि-मोक्ष-प्रदत्वाद्य्-असाधारण-लिङ्गेन स एव व्यञ्जितः । स्पष्टम् ॥
॥ १०.८७ ॥ श्री-नारदः ॥ ३५ ॥
[३६]
तथा गुणावतार-कर्तृत्वम् आह—
इत्य् उद्धवेनात्य्-अनुरक्त-चेतसा
पृष्टो जगत्-क्रीडनकः स्व-शक्तिभिः ।
गृहीत-मूर्ति-त्रय ईश्वरेश्वरो
**जगाद स-प्रेम-मनोहर-स्मितः ॥ [**भा।पु। ११.२९.७]
स्पष्टम् । अत्र अजानतां त्वत्-पदवीम् [भा।पु। १०.१४.२९, भ।सं। ३८] इत्य् उदाहृतं वचनम् अप्य् अनुसन्धेयम् ॥
॥ ११.२९ ॥ श्री-शुकः ॥ ३६ ॥
[३७]
अथ पुरुषावतार-कर्तृत्वम् आह—
इति मतिर् उपकल्पिता वितृष्णा
भगवति सात्वत-पुङ्गवे विभूम्नि ।
स्व-सुखम् उपगते क्वचिद् विहर्तुं
**प्रकृतिम् उपेयुषि यद्-भव-प्रवाहः ॥ [**भा।पु। १.९.३२]
टीका च—परम-फल-रूपां श्री-कृष्ण-रतिं प्रार्थयितुं प्रथमं स्व-कृतम् अर्पयति—इतीति । विगतो भूमा यस्मात् तस्मिन् । यम् अपेक्ष्यान्यस्य महत्त्वं नास्तीत्य् अर्थः । तद् एव पारमैश्वर्यम् आह स्व-सुखं स्वरूप-भूतं परमानन्दम् उपगते प्राप्तवत्य् एव । क्वचित् कदाचिद् विहर्तुं क्रीडितुं प्रकृतिम् उपेयुषि स्वीकृतवति, न तु स्वरूप-तिरोधानेन जीववत् पारतन्त्र्यम् इत्य् अर्थः । विहर्तुम् इत्य् उक्तं प्रपञ्चयति यद् यतो भव-प्रवाहः सृष्टि-परम्परा भवति इत्य् एषा ॥
एवम् एव तं प्रत्युक्तं देवैर् अप्य् एकादशे—त्वत्तः पुमान् समधिगम्य ययास्य वीर्यं धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः [भा।पु। ११.६.१६] इति । टीका च—त्वत्तः पुरुषो वीर्यं शक्तिं समधिगम्य प्राप्य यया मायया सह महान्तं धत्ते । कम् इव ? अस्य विश्वस्य गर्भम् इव इत्य् एषा ॥40
॥ १.९ ॥ भीष्मः श्री-भगवन्तम् ॥ ३७ ॥
[३८]
अत एव **भव-भयम् अपहर्तुं [**भा।पु। ११.२९.४९] इत्य्-आदौ तस्यादि-पुरुषत्वं श्रेष्ठत्वम् अप्य् आह—पुरुषम् ऋषभम् आद्यं कृष्ण-संज्ञं नतोऽस्मि इति ।
कृष्णेति संज्ञां यस्येति मूर्त्य्-अन्तरं निषिध्यते । तन्-मूर्तेर् नमस्क्रियमाणत्वेन च न् इत्य-सिद्धत्वं दर्श्यते । अत्रैव टीकाकृद्भिर् अपि—तं वन्दे परमानन्दं नन्द-नन्दन-रूपिणम् इत्य् उक्तम् ॥
॥ ११.२९ ॥ श्री-शुकः ॥ ३८ ॥
[३९]
तद् एवं जगृहे [१.३.१] इत्य्-आदि-प्रकरणे यत् स्वयम् उत्प्रेक्षितं, तच् छ्री-स्वामि-सम्मत्या दृढीकृतम्। पुनर् अपि तत्-सम्मतिर् अभ्यस्यते यथा—
श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः ।
**आहोपायं तम् एवाद्य उद्धवो यम् उवाच ह ॥ [**भा।पु। १०.७२.१५]
टीका च—आद्यो हरिः श्री-कृष्ण इत्य् एषा ॥
॥ १०.७२ ॥ श्री-शुकः ॥ ३९ ॥
[४०]
किं च—
अथाहम् अंश-भागेन देवक्याः पुत्रतां शुभे ।
**प्राप्स्यामि [**भा।पु। १०.२.९] इत्य् आदि ।
अंश-भागेनेत्य् अत्र पूर्णोचितम् एवार्थं बहुधा योजयद्भिर् मध्ये अंशेन पुरुष-रूपेण मायया भागो भजनम् ईक्षणं यस्य तेनेति च व्याचक्षाणैर् अन्ते सर्वथा परिपूर्ण-रूपेणेति विवक्षितम् । कृष्णस् तु भगवान् स्वयम् इत्य् उक्तत्वात् । इत्य् एवं हि तैर् व्याख्यातम् ।
॥ १०.२ ॥ श्री-भगवान् योगमायाम् ॥ ४० ॥
[४१]
एवम्—
यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः ।
**भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता ॥ [**भा।पु। १०.८५.३१]
टीका च—यस्यांशः पुरुषः, तस्यांशो माया, तस्या अंशा गुणाः, तेषां भागेन परमाणु-मात्र-लेशेन विश्वोत्पत्त्य्-आदयो भवन्ति । तं त्वा त्वां गतिं शरणं गतास्मि इत्य् एषा ॥
॥ १०.८५ ॥ श्री-देवकी भगवन्तम् ॥ ४१ ॥
[४२]
यथा च—
नारायणस् त्वं न हि सर्व-देहिनाम् इत्य्-आदौ
नारायणोऽङ्गं नर-भू-जलायनात् इति । [भा।पु। १०.१४.१४]
टीका च—नराद् उद्भूता येऽर्थाः, तथा नराज् जातं यज् जलं, तद्-अयनाद् यो नारायणः प्रसिद्धः सोऽपि तवाङ्गं मूर्तिर् इत्य् एषा ।
अत्र स तवाङ्गं त्वं पुनर् अङ्गीत्य् असौ तु विशदोऽर्थः । न तु स्तुति-मात्रम् इदम् । दृष्ट्वाघासुर-मोक्षणं प्रभवतः प्राप्तः परं विस्मयम् [भा।पु। १०.१३.१५] इत्य् उक्त-रीत्या क्वचिद् अप्य् अवतार्य्-अवतारान्तरेषु तादृशस्यापि मोक्षम् अदृष्ट-गोचरं दृष्ट्वा विस्मयं प्राप्तवान् ब्रह्मा ।
द्रष्टुं मञ्जु-महित्वम् अन्य अपि तद्-वत्सान् इतो वत्सपान्
नीत्वान्यत्र कुरुद्वहान्तरधाद् [भा।पु। १०.१३.१५]
इत्य् उक्त-रीत्या तस्यापरम् अपि माहात्म्यं दिदृक्षुस् तथा माहात्म्यं ददर्शेति प्रकरण-सारस्येनापि लब्धम् । न चापर-माहात्म्य-दर्शनं सम्भावना-मात्रम् ।
तावत् सर्वे वत्स-पालाः पश्यतोऽजस्य तत्-क्षणात् ।
व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः ॥ [भा।पु। १०.१३.४६]
इत्य्-आदिना शक्तिभिर् अजाद्याभिः, ऐश्वर्यैर् अणिमाद्यैः, चतुर्विंशति-सङ्ख्य-तत्त्वैर् महद्-आदिभिः, तत्-सह-कारिभिः काल-स्वभावाद्यैः, तत्-सम्भूतैर् ब्रह्माण्डैः, तद्-अन्तर्भूत-स्रष्टृभिर् ब्रह्मादिभिर् जीवैश् च स्तम्ब-पर्यन्तः पृथक् पृथग् उपासितास् तादृश-ब्रह्माण्डेश्वर-कोटयः श्री-कृष्णेनैव तत्-तद्-अंशांशेनाविर्भाव्य ब्रह्माणं प्रति साक्षाद् एव दर्शिता इति ह्य् उक्तम्। तदीदृशम् एव कृष्णस् तु भगवान् स्वयम् इत्य् अत्राविष्कृत-सर्व-शक्तित्वाद् इत्य् एतत्स्वामि-व्याख्यानस्यासाधारणं बीजं भवेत् ।
विश्व-रूप-दर्शनादीनां तत्-तद्-ब्रह्माण्डान्तर्यामि-पुरुषाणाम् एकतरेणापि शक्यत्वात् । तस्माद् विराट्-पुरुषयोर् इव पुरुष-भगवतोर् अपि जगृहे पौरुषं रूपम् इत्य् आदाव् उपासनार्थम् एव तैर् अभेद-व्याख्या कृतेति गम्यते । वस्तुतस् तु परमाश्रयत्वेन श्री-कृष्ण एव तैर् अङ्गीकृतोऽस्ति । यथा—
विश्व-सर्ग-विसर्गादि-नव-लक्षण-लक्षितम् ।
श्री-कृष्णाख्यं परं धाम जगद्-धाम नमामि तत् ॥
दशमे दशमं लक्ष्यम् आश्रिताश्रय-विग्रहम् ।
क्रीडद् यदु-कुलाम्भोधौ परानन्दम् उदीर्यते ॥ [भावार्थ-दीपिका, १०.२.१] इति ।
यद्य् अन्येषाम् अपि परमाश्रयत्वं तन् मतं तदा दशम इत्य् अनर्थकं स्यात् । तस्मान् नारायणोऽङ्गम् इति युक्तम् उक्तम् ॥
॥ १०.१४ ॥ ब्रह्मा श्री-कृष्णम् ॥ ४२ ॥
[४३]
अवतार-प्रसङ्गेऽपि तथैव स्पष्टम्—
गिरं समाधौ गगने समीरितां
निशम्य वेधास् त्रिदशान् उवाच ह ।
गां पौरुषीं मे शृणुतामराः पुनर्
विधीयताम् आशु तथैव मा चिरम् ॥
पुरैव पुंसावधृतो धरा-ज्वरो
भवद्भिर् अंशैर् यदुषूपजन्यताम् ।
स यावद् उर्व्या भरम् ईश्वरेश्वरः
स्व-काल-शक्त्या क्षपयंश् चरेद् भुवि ॥
वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः ।
जनिष्यते तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः ॥ [भा।पु। १०.१.२१-२३]
पौरुषीं पुरुषेण सृजामि तन्-नियुक्तोऽहम् [भा।पु। २.६.३०] इत्य्-आद्य्-अनुसारात् पुरुषाभिन्नेन विष्णु-रूपेण क्षीरोद-शायिना स्वयम् एवोक्तां गां वाचम् । पुरुषस्यैव वाचम् अनुवदति—पुरैवेति । पुंसा आदि-पुरुषेण कृष्णः स्वयं समभवत् परमः पुमान् यः [ब्र।सं। ५.४९] इत्य् अनुसारात् । स्वयं भगवत्ता श्री-कृष्णस्येत्य् अर्थः । अंशैः श्री-कृष्णस्यांश-भूतैस् तत्-पार्षदैः श्रीमद्-उद्धवादिभिः सह । इत्थम् एव प्राचुर्येणोक्तम्—
नन्दाद्या ये व्रजे गोपा याश् चामीषां च योषितः ।
वृष्णयो वसुदेवाद्या देवक्य्-आद्या यदु-स्त्रियः ॥
सर्वे वै देवता-प्राया उभयोर् अपि भारत ।
ज्ञातयो बन्धु-सुहृदो ये च कंसम् अनुव्रताः ॥ [भा।पु। १०.१.६२-६३] इति ।
तस्माद् आदि-पुरुषत्वम् एव व्यनक्ति—स इति सर्वान्तर्यामित्वात् । पुरुषस् तावद् ईश्वरः । तस्याप्य् अंशित्वात् स आदि-पुरुषः श्री-कृष्णः पुनर् ईश्वरेश्वरः त्र्य्-अधीश-शब्दवत् । तथा च दशमस्य पञ्चाशीतितमे श्रीमद्-आनकदुन्दुभिनोक्तम्—युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ [भा।पु। १०.८५.१८] इति ।स्व-काल-शक्त्या स्व-शक्त्या काल-शक्त्या च । ईश्वरेश्वरत्वे हेतुः—साक्षात् स्वयम् एव भगवान् इति । तद् अलं मयि तत्-प्रार्थनयेति भावः ।
तत्-प्रियार्थं तत्-प्रीत्यै । सुर-स्त्रियः श्रीमद्-उपेन्द्र-प्रेयस्य्-आदि-रूपाः, काश्चित् सम्भवन्तु मिलिता भवन्तु । साक्षाद् अवतरतः श्री-भगवतो न् इत्यानपायि-महा-शक्ति-रूपासु तत्-प्रेयसीष्व् अवतरन्तीषु श्री-भगवति तद्-अंशान्तरवत् ता अपि प्रविशन्त्व् इत्य् अर्थः । तत्-प्रियाणां तासाम् एव दास्य्-आदि-प्रयोजनाय जायन्ताम् इति वा । अनेन तैर् अप्रार्थितस्याप्य् अस्यार्थस्यादेशेन परम-भक्ताभिस् ताभिर् लीला-विशेष एव भगवतः स्वयम् अवतितीर्षायां कारणम् । भारावतरणं चानुषङ्गिकम् एव भवतीति व्यञ्जितम् ।
तद् एवं श्रुतीनां च दण्डकारण्य-वासिनां मुनीनां चाग्नि-पुत्राणां च श्री-गोपिकादित्व-प्राप्तिर् यत् श्रूयते, तद् अपि पूर्ववद् एव मन्तव्यम् । अत्र प्रसिद्धार्थे, नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः [भा।पु। १०.४७.६०] इति विरुध्येत । न च सुर-स्त्रीणां सम्भव-वाक्यं श्री-महिषी-वृन्द-परं, तासाम् अपि तन्-निज-शक्ति-रूपत्वेन दर्शयिष्यमाणत्वात् ।
॥ १०.१ ॥ श्री-शुकः ॥ ४३ ॥
[४४]
तद् एवम् अवतार-प्रसङ्गेऽपि श्री-कृष्णस्य स्वयं भगवत्त्वम् एवायातम् । यस्माद् एवं, तस्माद् एव श्री-भागवते महा-श्रोतृ-वक्तॄणाम् अपि श्री-कृष्ण एव तात्पर्यं लक्ष्यते । तत्र श्री-विदुरस्य—
यच् चान्यद् अपि कृष्णस्य भवेद् भगवतः प्रभोः ।
श्रवः सुश्रवसः पुण्यं पूर्व-देह-कथाश्रयम् ॥
भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च ।
**वक्तुम् अर्हसि योऽदुह्यद् वैन्य-रूपेण गाम् इमाम् ॥ [**भा।पु। ४.१७.६-७]
पूर्व-देहः पृथ्व्-अवतार । लोक-दृष्टाव् अभिव्यक्ति-रीत्या पूर्वत्वम् । तत्-कथैवाश्रयो यस्य तत्॥
[४५]
अथ श्री-मैत्रेयस्य तद्-अनन्तरम् एव—
चोदितो विदुरेणैवं वासुदेव-कथां प्रति ।
**प्रशस्य तं प्रीत-मना मैत्रेयः प्रत्यभाषत ॥ [**भा।पु। ४.१७.८]
तत्-प्रशंसया प्रीत-मनस्त्वेन चास्यापि तथैव तात्पर्यं लभ्यते । अतएवात्र वसुदेव-नन्दनत्वेनैव वासुदेव-शब्दः प्रयुक्तः ।
॥४.१७ ॥ श्री-सुतः ॥४५ ॥
[४६]
अथ श्री-परीक्षितः—
अथो विहायेमम् अमुं च लोकं
विमर्शितौ हेयतया पुरस्तात् ।
कृष्णाङ्घ्रि-सेवाम् अधिमन्यमान
**उपाविशत् प्रायम् अमर्त्य-नद्याम् ॥ [**भा।पु। १.१९.५]
टीका च—श्री-कृष्णाङ्घ्रि-सेवाम् अधिमन्यमानः सर्व-पुरुषार्थाधिकां जानन् इत्य् एषा ।
॥ १.१९ ॥ श्री-सुतः ॥४६ ॥
[४७]
न वा इदं राजर्षि-वर्य चित्रं
भवत्सु कृष्णं समनुव्रतेषु ।
येऽध्यासनं राज-किरीट-जुष्टं
**सद्यो जहुर् भगवत्-पार्श्व-कामाः ॥ [**भा।पु। १.१९.२०]
भवत्सु पाण्डोर् वश्येषु ये जहुर् इति श्री-युधिष्ठिराद्य्-अभिप्रायेण । अत एव तत्र स्थितानां सर्व-श्रोतॄणाम् अपि श्री-कृष्ण एव तात्पर्यम् आयाति ।
॥ १.१९ ॥ श्री-महर्षयः परीक्षितम् ॥४७ ॥
[४८]
अपि मे भगवान् प्रीतः कृष्णः पाण्डु-सुत-प्रियः ।
पैतृ-ष्वसेय-प्रीत्य्-अर्थं तद्-गोत्रस्यात्त-बान्धवः ॥
अन्यथा तेऽव्यक्त-गतेर् दर्शनं नः कथं नृणाम् ।
**नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ [**भा।पु। १.१९.३५-३६]
तेषां पैतृ-ष्वसेयाणां पाण्डु-सुतानां गोत्रस्य मे आत्तं स्वीकृतं बान्धवं बन्धु-कृत्यं येन ते तव श्री-कृष्णैक-रसिकस्य वनीयसः अत्युदारतया मां याचेथा इति प्रवर्तकस्येत्य् अर्थः ।
॥ १.१९ ॥ राजा श्री-शुकम् ॥ ४८ ॥
[४९]
स वै भागवतो राजा पाण्डवेयो महा-रथः ।
**बाल-क्रीडनकैः क्रीडन् कृष्ण-क्रीडां य आददे ॥ [**भा।पु। २.३.१५]
या या श्री-कृष्णस्य वृन्दावनादौ बाल-क्रीडा श्रुतास्ति तत्-प्रेमावेशेन तत्-सख्यादि-भाववान् तां ताम् एव क्रीडां यः कृतवान् इत्य् अर्थः ॥
॥ २.३ ॥ श्री-शौनकः ॥ ४९ ॥
[५०]
एवं सजातीयानि बहून्य् एव वचनानि विराजन्ते—तथा कथितो वंश-विस्तारः [भा।पु। १०.१.१] इत्य् आरभ्य, नैषातिदुःसहा क्षुण् माम् [भा।पु। १०.१.१३] इत्य् अन्तं दशम-स्कन्ध-प्रकरणम् अप्य् अनुसन्धेयम् ।
किं च, **इत्थं द्विजा यादव-देवदत्तः [**भा।पु। १०.१२.४०] इत्य् आदि । येन श्रवणेन नितरां गृहीतं वशीकृतं चेतो यस्य सः ।
[५०] सर्व-संवादिनी:
इत्थं द्विजा यादव-देव-दत्तः
श्रुत्वा स्व-रातुश् चरितं विचित्रम् ।
पप्रच्छ भूयोऽपि तद् एव पुण्यं
वैयासकिं यन् निगृहीत-चेताः ॥ [भा।पु। १०.१२.४०] इति ॥
॥ १०.१२ ॥ श्री-सुतः ॥ ५० ॥
[५१]
तथा, येन येनावतारेण इत्य् आदि **यत् शृण्वतोऽप इत्य् अरतिः [**भा।पु। १०.७.१-२] इत्य् आदि च । टीका च—
कृष्णार्भक-सुधा-सिन्धु-सम्प्लवानन्द-निर्भरः ।
भूयस् तद् एव सम्प्रष्टुं राजान्यद् अभिनन्दति ॥
येन येन मत्स्याद्य्-अवतारेणापि यानि कर्माणि करोति, तानि नः कर्ण-सुखावहानि मनः प्रीति-कराणि च भवन्त्य् एव । तथापि यच् छृण्वतः पुंसः पुं-मात्रस्यारतिर् मनो-ग्लानिस् तन्-मूल-भूता विविधा तृष्णा चापगच्छति, तथा सत्त्व-शुद्धि-हरि-भक्ति-हरि-दास्य-सख्यानि च भवन्त्य् अचिरेणैव तद् एवं हारं हरेश् चरितं मनोहरं वा वद अनुग्रहं यदि करोषि इत्य् एषा ।
[५१] सर्व-संवादिनी-
येन येनावतारेण भगवान् हरिर् ईश्वरः ।
करोति कर्ण-रम्याणि मनो-ज्ञानि च नः प्रभो ॥
यच्-छृण्वतोऽप इत्य् अरतिर् वितृष्णा
सत्त्वं च शुद्ध्यत्य् अचिरेण पुंसः ।
भक्तिर् हरौ तत्-पुरुषे च सख्यं
तद् एव हारं वद मन्यसे चेत् ॥ [भा।पु। १०.७.१-२] इति ॥५१॥
॥ १०.७ ॥ राजा ॥ ५१ ॥
[५२]
अथ श्री-शुकदेवस्य अपि मे भगवान् प्रीतः कृष्णः पाण्डु-सुत-प्रियः [भा।पु। १.१९.३५] इत्य्-आदिना श्री-कृष्ण एव स्व-रतिं व्यज्य म्रियमाणानां श्रोतव्यादि-प्रश्नेनैवान्त-काले श्री-कृष्ण एव मय्य् उपदिश्यताम् इति राजाभिप्रायानन्तरं—
वरीयान् एष ते प्रश्नः कृतो लोक-हितं नृप ।
**आत्मवित् सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ [**भा।पु। २.१.१]
ते त्वया । पुंसां श्रोतव्यादिषु मध्ये यः परः श्री-कृष्ण-श्रवणाभिप्रायेण परमः प्रश्नः कृतः । एष तु वरीयान् । सर्वावतारावतारि-प्रश्नेभ्यः परम-महान् । लोक-हितं यथा स्यात् तथैव कृतः । त्वं तु तथाभूत-श्री-कृष्णैक-निबद्ध-प्रेमत्वात् कृतार्थह् एवेति भावः । तद् उक्तम्—
वैयासकेर् इति वचस्-तत्त्व-निश्चयम् आत्मनः ।
उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ [भा।पु। २.४.१]
सती विद्यमाना कृष्णे या मतिस् ताम् एव विशेषेण धृतवान् इत्य् अर्थः । एतद् एव व्यक्तीकरिष्यते राज्ञा—
हरेर् अद्भुत-वीर्यस्य कथा लोक-सुमङ्गला ।
कथयस्व महाभाग यथाहम् अखिलात्मनि ।
कृष्णे निवेश्य निःसङ्गं मनस् त्यक्ष्ये कलेवरम् ॥ इति [भा।पु। २.८.२]
॥ २.१ ॥ श्री-शुकः ॥ ५२ ॥
[५३]
एवम् एव कथितो वंश-विस्तारः [भा।पु। १०.१.१] इत्य्-आद्य्-अनन्तरं सम्यग् व्यवसिता बुद्धिः [भा।पु। १०.१.१५] इत्य्-आदि ।
अत्र पूर्वं मया नानावतारादि-कथाभिर् अभिनन्दितस्यापि यत् श्री-वसुदेव-नन्दनस्यैव कथायां नैष्ठिकी स्थायि-रूपा रतिर् जाता, एषा बुद्धिस् तु सम्यग्-व्यवसिता परम-रस-विदग्धेत्य् अर्थः ॥
[५३] सर्व-संवादिनी-
सम्यग् व्यवसिता बुद्धिस् तव राजर्षि-सत्तम ।
वासुदेव-कथायां ते यज् जाता नैष्ठिकी रतिः ॥ [भा।पु। १०.१.१५] इति ॥५३॥
॥ १०.१ ॥ श्री-शुकः ॥ ५३ ॥
[५४]
तथा, इत्थं द्विजा यादव-देव-दत्तः श्रुत्वा स्व-रातुश् चरितं विचित्रम् [भा।पु। १०.१२.४०] इत्य् अनन्तरं—
इत्थं स्म पृष्टः स तु बादरायणिस्
तत्-स्मारितानन्त-हृताखिलेन्द्रियः ।
कृच्छ्रात् पुनर् लब्ध-बहिर्-दृशिः शनैः
**प्रत्याह तं भागवतोत्तमोत्तम ॥ [**भा।पु। १०.१२.४४]
अनन्तः प्रकटित-पूर्णैश्वर्यः श्री-कृष्णः । सर्वदा तेन स्मर्यमाणेऽपि तस्मिन् प्रतिक्षणं नव्यत्वेन तत्-स्मारितेत्य् उक्तम् ॥
॥ १०.१२ ॥ श्री-सुतः ॥ ५४ ॥
[५५]
अत एव स वै भागवतो राजा [भा।पु। २.३.१५] इत्य्-आद्य्-अनन्तरं राज्ञा समान-वासनात्वेनैव तम् आह—
वैयासकिश् च भगवान् वासुदेव-परायणः ।
**उरुगाय-गुणोदाराः सतां स्युर् हि समागमे ॥ [**भा।पु। २.३.१६]
च-शब्दः प्राग्-वर्णितेन समान-वासनत्वं बोधयति । तस्मात् श्री-वसुदेव-नन्दनत्वेनैवात्रापि वासुदेव-शब्दो व्याख्येयः । अन्येषाम् अपि सतां समागमे तावद् उरुगायस्य गुणोदाराः कथा भवन्ति । तयोस् तु श्री-कृष्ण-चरित-प्रधाना एव ता भवेयुर् इति भावः ॥
॥ २.३ ॥ श्री-शुकः ॥ ५५ ॥
[५६]
किं बहुना, श्री-शुकदेवस्य श्री-कृष्ण एव तात्-पर्ये तद्-एक-चरितमयौ ग्रन्थार्धायमानौ दशमैकादश-स्कन्धाव् एव प्रमाणम् । स्कन्धान्तरेष्व् अन्येषाम् चरितं संक्षेपेणैव समाप्य ताभ्यां तच्-चरितस्यैव विस्तारितत्वात् । अत एव आरम्भत एव तत्-प्रसादं प्रार्थयते श्रियः पतिः इत्य्-आदौ—
पतिर् गतिश् चान्धक-वृष्णि-सात्वतां
**प्रसीदतां मे भगवान् सतां गतिः ॥ [**भा।पु। २.४.२०] ॥
स्पस्टम् ॥ २.४ ॥ श्री-शुकः ॥ ५६ ॥
[५७]
अथ श्री-व्यास-देवस्य—
अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे ।
लोकस्याजानतो विद्वांश् चक्रे सात्वत-संहिताम् ॥
यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे ।
**भक्तिर् उत्पद्यते पुंसः शोक-मोह-भयापहा ॥ [**भा।पु। १.७.६-७]
अधोक्षजे श्री-कृष्णे ।
अधोऽनेन शयानेन शकटान्तर-चारिणा ।
राक्षसी निहता रौद्रा शकुनी-वेश-धारिणी ॥
पूतना नाम घोरा सा महा-काया महा-बला ।
विष-दिग्ध-स्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥
ददृशुर् निहतां तत्र राक्षसीं वन-गोचराः ।
पुनर् जातोऽयम् इत्य् आहुर् उक्तस् तस्माद् अधोक्षजः ॥ [ह।वं। २.१०१.३०-३२]
इति हरिवंशे श्री-वासुदेव-माहात्म्ये तन्-नाम्नः श्री-कृष्ण-विषयताया प्रसिद्धेः । अत एवोत्तरत्र-पद्ये साक्षात् कृष्ण इत्य् एवोक्तम् । श्री-भगवन्-नाम-कौमुदी-काराश् च कृष्ण-शब्दस्य तमाल-श्यामल-त्विषि यशोदा-स्तनन्धये पर-ब्रह्मणि रूढिः इति प्रयोग-प्राचुर्यात् तत्रैव प्रथमतः प्रतीतेर् उदय इति चोक्तवन्तः । सामोपनिषदि च कृष्णाय देवकी-नन्दनाय इति । अत्र ग्रन्थ-फलत्वं तस्यैव व्यक्तम् इति चैकेनैवानेन वचनेन तत्-परिपूर्णता सिध्यति ॥
॥ १.७ ॥ श्री-सूतः ॥ ५७ ॥
[५८]
अथ श्री-नारदस्य—
तत्रान्वहं कृष्ण-कथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
**प्रियश्रवस्य् अङ्ग ममाभवद् रतिः ॥ [**भा।पु। १.५.२६]
येन येनावतारेण [भा।पु। १०.७.१] इत्य् एतच्-छ्री-परीक्षिद्-वचन-पद्य-द्वयम् अप्य् अत्र श्री-यशोदा-स्तनन्धयत्वे साधकं श्रुति-सामान्य-न्यायेन ॥
॥ १.५ ॥ श्री-नारदः श्री-वेद-व्यासम् ॥ ५८ ॥
[५९]
तच्-छब्दस्यैवाभ्यासो दृश्यते—एवं कृष्ण-मतेः [भा।पु। १.६.२८] इत्य्-आदौ । अन्यत्र च—
यूयं नृ-लोके बत भूरि-भागा
लोकं पुनाना मुनयोऽभियन्ति ।
येषां गृहान् आवसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्य-लिङ्गम् ॥
स वा अयं ब्रह्म महद्-विमृग्य-
कैवल्य-निर्वाण-सुखानुभूतिः ।
प्रियः सुहृद् वः खलु मातुलेय
आत्मार्हणीयो विधि-कृद् गुरुश् च ॥
न यस्य साक्षाद् भव-पद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजितः
**प्रसीदताम् एष स सात्वतां पतिः ॥ [**भा।पु। ७.१०.४८-५०]
टीका च—अहो प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्द-भाग्या इति विषीदन्तं राजानं प्रत्य् आह—यूयम् इति त्रिभिर् इत्य् एषा । मनुष्यस्य दृश्यमान-मनुष्यस्येव लिङ्गं कर-चरणादि-सन्निवेशो यस्य तं रूपं श्री-विग्रहः । वस्तुतया नोपवर्णितं तद्-रूपस्यैव पर-ब्रह्मत्वेन किम् इदं वस्त्व् इति निर्देष्टुम् अशक्यत्वात् । यथोक्तं सहस्र-नाम-स्तोत्रे अनिर्देश्य-वपुर् इति । एषाम् एव पद्यानां सप्तमान्तेऽपि परमामोदकत्वात् पुनर् आवृत्तिर् दृश्यते॥
॥ ७.१० ॥ स श्री-युधिष्ठिरम् ॥ ५९ ॥
[६०]
अत्र च स्पष्टम्—
देव-दत्ताम् इमां वीणां स्वर-ब्रह्म-विभूषिताम् ।
मूर्च्छयित्वा हरि-कथां गायमानश् चराम्य् अहम् ॥
प्रगायतः स्व-वीर्याणि तीर्थ-पादः प्रिय-श्रवाः ।
**आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [**भा।पु। १.६.३३-३४]
देवः श्री-कृष्ण एव । लिङ्ग-पुराणे उपरि-भागे तेनैव स्वयं तस्य वीणा-ग्रहणं हि प्रसिद्धम् । अत्र यद्-रूपेण वीणा ग्राहिता तद्-रूपेणैव चेतसि दर्शनं स्वारस्य-लब्धम् । देव-दत्ताम् इति कृतोपकारतायाः स्मर्यमाणत्वेन तम् अनुसन्धायैव तद्-उक्तेः ।
॥ १.६ ॥ श्री-नारदः श्री-वेद-व्यासम् ॥ ६० ॥
[६१]
अत एतद् एवम् एव व्याख्येयम् ।
त्वम् आत्मनात्मानम् अवेह्य् अमोघ-दृक्
परस्य पुंसः परमात्मनः कलाम् ।
अजं प्रजातं जगतः शिवाय तन्
**महानुभावाभ्युदयोऽधिगण्यताम् ॥ [**भा।पु। १.५.२१]
हे अमोघ-दृक् त्वम् आत्मना स्वयम् आत्मानं स्वं परस्य पुंसः कलाम् अंश-भूतम् अवेहि अनुसन्धेहि । पुनश् च जगतः शिवायाधुनैव श्री-कृष्ण-रूपेण यश् चाजोऽपि प्रजातस् तम् अवेहि । तद् एतद् द्वयं ज्ञात्वा महानुभावस्य सर्वावतारावतारि-वृन्देभ्योऽपि दर्शित-प्रभावस्य तस्य श्री-कृष्णस्यैवाभ्युदयो लीला अधि अधिकं गण्यतां निरूप्यताम् । स्वयम् ईश्वरोऽपि भवान् निजाज्ञान-रूपां मायां न प्रकटयत्व् इति भावः ॥
॥ १.५ ॥ स तम् ॥६१ ॥
[६२]
अत एव पुराण-प्रादुर्भावाय श्री-व्यासं श्री-नारदेन चतुर्व्यूहात्मक-श्री-कृष्ण-मन्त्र एवोपदिष्टस् तद्-उपासकस्य सर्वोत्तमत्वं च । यथा—**नमो भगवते तुभ्यम् [**भा।पु। १.५.३७] इत्य् आदि स सम्यग्-दर्शनः पुमान् [भा।पु। १.५.३८] इत्य् अन्तम् । स्पष्टम् ।
[६२] सर्व-संवादिनी-
नमो भगवते तुभ्यं वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥
इति मूर्त्य्-अभिधानेन मन्त्र-मूर्तिम् अमूर्तिकम् ।
यजेत यज्ञ-पुरुषं स सम्यग्-दर्शनः पुमान् ॥ [भा।पु। १.५.३७-३८]
॥ १.५ ॥ स तम् ॥ ६२ ॥
[६३]
अथ श्री-ब्रह्मणः—
भूमेः सुरेतर-वरूथ-विमर्दितायाः
क्लेश-व्ययाय कलया सित-कृष्ण-केशः ।
जातः करिष्यति जनानुपलक्ष्य-मार्गः
कर्माणि चात्म-महिमोपनिबन्धनानि ॥ [भा।पु। २.७.२६]
असुर-सेना-निपीडितायाः भूमेःक्लेशम् अपहर्तुं परमात्मनोऽपि परत्वाज् जनैर् अस्माभिर् अनुपलक्ष्य-मार्गोऽपि प्रादुर्भूतः सन् कर्माणि च करिष्यति । कोऽसौ ?कलया अंशेन सित-कृष्ण-केशो यः, यत्र सित-कृष्ण-केशौ देवैर् दृष्टाव् इति शास्त्रान्तर-प्रसिद्धिः । सोऽपि यस्यांशेन स एव भगवान् स्वयम् इत्य् अर्थः । तद्-अविनाभावित्वाच् छ्री-बलदेवस्यापि ग्रहणं द्योतितम् ।
ननु पुरुषाद् अपि परोऽसौ भगवान् कथं भू-भारावतारण-मात्रार्थं स्वयम् अवतारिष्यति ? इत्य् आशङ्क्याह—आत्मनो महिमानः परम-माधुरी-सम्पद उपनिबध्यन्ते निज-भक्तैर् अधिकं वर्ण्यन्ते येषु तानि कर्माणि च करिष्यति । यद्यपि निजांशेनैव वा निजेच्छाभासेनैव वा भू-भार-हरणम् ईषत्-करं तथापि निज-चरणारविन्द-जीवातु-वृन्दम् आनन्दयन्न् एव लीला-कादम्बिनीर् निज-माधुरी-वर्षणाय वितरिषमाणोऽवतरिष्यतीत्य् अर्थः । एतद् एव व्यक्तीकृतं तोकेन जीव-हरणम् [भा।पु। २.७.२७] इत्य्-आदौ । इतरथा स्व-माधुरी-सम्पत्-प्रकाशनेच्छाम् अन्तरेण मधुरतरं तोकादि-भावं दधता तेन पूतनादीनां जीवन-हरणादिकं कर्म न भाव्यं न सम्भावनीयम् । तद्-अंश-तद्-इच्छाभासादि-मात्रेणैव तत्-सिद्धेर् इत्य् वाक्यार्थः ।
तथा च, तथायं चावतारस् ते [भा।पु। १.७.२५] इत्य्-आदौ तैर् एव व्याख्यातम्—किं भू-भार-हरणं मद्-इच्छा-मात्रेण न भवति ? तत्राह—स्वानाम् इति इति । जयति जननिवास [भा।पु। १०.९०.४८] इत्य् अत्र च—इच्छा-मात्रेण निरसन-समर्थोऽपि क्रीडार्थं दोर्भिर् एवाधर्मम् अस्यन्न् इति । तद् एवम्-आदिभिः श्री-कृष्णस्यैव सर्वाद्भुतता-वर्णनाभिनिवेश-प्रपञ्चो ब्रह्मणि स्पष्ट एव । अस्तु तावत्, तद् भूरि भाग्यम् इह जन्म किम् अप्य् अटव्याम् [भा।पु। १०.१४.३४] इत्य्-आदि ॥
॥ २.७ ॥ ब्रह्मा श्री-नारदम् ॥ ६३ ॥
[६४]
एवं चतुः-श्लोकी-वक्तुः श्री-भगवतोऽपि श्री-कृष्णत्वम् एव । तथा हि तत्-पूर्वस्थं वाक्यम्—41
ददर्श तत्राखिल-सात्वतां पतिं
श्रियः पतिं यज्ञ-पतिं जगत्-पतिम् ।
सुनन्द-नन्द-प्रबलार्हणादिभिः
स्व-पार्षदाग्रैः परिसेवितं विभुम् ॥ [भा।पु। २.९.१४]इति ।
व्याख्या च—अखिल-सात्वतां सर्वेषां सात्वतानां यादव-वीराणां पतिम् ।
श्रियः पतिर् यज्ञ-पतिः प्रजा-पतिर्
धियां पतिर् लोक-पतिर् धरा-पतिः ।
पतिर् गतिश् चान्धक-वृष्णि-सात्वतां
प्रसीदतां मे भगवान् सतां पतिः ॥ [भा।पु। २.४.२०]
इत्य् एतद्-वाक्य-संवादि-तत्त्वात् ।
पुरा मया प्रोक्तम् अजाय नाभ्ये
पद्मे निषण्णाय ममादि-सर्गे ।
ज्ञानं परं मन्-महिमावभासं
यत् सूरयो भागवतं वदन्ति ॥ [भा।पु। ३.४.१३]
इति तृतीये उद्धवं प्रति श्री-कृष्ण-वाक्यानुसारेण च ।
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गापायति स्म कृष्णः ।
तं ह दैवमात्म-बुद्धि-प्रकाशं
मुमुक्षुर्वै शरणम् अमुं व्रजेत ॥ [गो।ता।उ। १.२२]
इति श्री-गोपाल-तापन्य्-अनुसारेण च तस्यैवोपदेष्टृत्व-श्रुतेः । तद् उ होवाच ब्राह्मणोऽसाव् अनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत । गोप-वेशो मे पुरुषः पुरस्ताद् आविर्बभूव [गो।ता।उ। १.२५] इति श्री-गोपाल-तापन्य्-अनुसारेण क्वचित् कल्पे श्री-गोपाल-रूपेण सृष्ट्य्-आदाव् इत्थम् एव ब्रह्मणे दर्शित-निज-रूपत्वात्, तद्-धाम्ना महा-वैकुण्ठत्वेन साधयिष्यमाणत्वाच् च । तथा च ब्रह्म-संहितायाम्—
तत्र ब्रह्माभवद् भूयश् चतुर्वेदी चतुर्मुखः ।
सञ्जातो भगवच्-छक्त्या तत् कालं किल चोदितः ॥
सिसृक्षायां मतिं चक्रे पूर्व-संस्कार-संस्कृतः ।
ददर्श केवलं ध्वान्तं नान्यत् किम् अपि सर्वतः ॥
उवाच पुरतस् तस्मै तस्य दिव्या सरस्वती ।
कामः कृष्णाय गोविन्द ङे गोपी-जन इत्य् अपि ।
वल्लभाय प्रिया वह्नेर् मन्त्रम् ते दास्यति प्रियम् ॥
तपस् त्वं तप एतेन तव सिद्धिर् भविष्यति ।
अथ तेपे स सुचिरं प्रीणन् गोविन्दम् अव्ययम् ॥ [ब्र।सं। ५.२२-२५] इत्य् आदि ।
सुनन्द प्रबलार्हणादिभिः [भा।पु। २.९.१४] इत्य् अत्र तु द्वारकायां प्राकट्यावसरे श्रुत-सुनन्द-नन्दादि-साहचर्येण प्रबलादयोऽपि ज्ञेयाः । यथोक्तं प्रथमे सुनन्द-नन्द-शीर्षण्या ये चान्ये सात्वतर्षभाः [भा।पु। १.१४.३२] इति ।
[अ रेअद्स् इन्स्तेअद् ओफ़् अबोवे] श्री-कृष्णत्वेनैव दर्शितत्वात् तस्य च अहम् एवासम् एवाग्रे [भा।पु। २.९.३२] इत्य् उक्तेस् तस्मिन्न् एव तात्पर्यं स्पष्टम् [एन्द् अ] ।
किं बहुना, नानावतारावतारिष्व् अपि सत्सु महा-पुराण-प्रारम्भ एव श्री-शौनकादीनां श्री-कृष्णे तात्पर्यम् । अत्र पूर्वे सामान्यतोऽस्माभिर् एकान्त-श्रेयस्त्वेन सर्व-शास्त्र-सारत्वेन आत्मसु प्रसाद-हेतुत्वेन च यत् पृष्टं, तद् एतद् एवास्माकं भाति यत् श्री-कृष्णस्य लीला-वर्णनम् इत्य् अभिप्रेत्याहुः ।
सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।
**देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ [**भा।पु। १.१.१२]
भद्रं त इति श्री-कृष्ण-लीला-प्रश्न-सहोदरौत्सुक्येनाशीर्वादः । भगवान् सम्पूर्णैश्वर्यादि-युक्तः । सात्वतां सात्वतानां पतिः, नुड्-अभावे आर्षः, यादवानाम् इत्य् अर्थः । जातो जगद्-दृश्यो बभूव ।42
[६५]
तन् नः शुष्रूषमाणानाम् अर्हस्य् अङ्गानुवर्णितुम् ।
**यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ [**भा।पु। १.१.१३]
टीका च—अङ्गे हे सूत ! तन् नो अनुवर्णयितुम् अर्हसि, सामान्यतस् तावद् यस्यावतार-मात्रं क्षेमाय पालनाय भवाय समृद्धये च इति ।
[६६]
तत्-प्रभावम् अनुवर्णयन्तस् तद्-यशः-श्रवणौत्सुक्यम् आविष्कुर्वन्ति ।
आपन्नः संसृतिं घोरां यन्-नाम विवशो गृणन् ।
**ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥ [**भा।पु। १.१.१४]
विवशोऽपि विशेषेण पराधीनः सन्न् अपि, यस्य श्री-कृष्णस्य नाम तस्यावतारित्वाद् अवतार-नाम्नाम् अपि तत्रैव पर्यवसानात् । अत एव साक्षात् श्री-कृष्णाद् अपि तत्-तन्-नाम-प्रवृत्ति-प्रकारान्तरेण श्रूयते श्री-विष्णु-पुराणे—तत्र त्व् अखिलानाम् एव भगवन्-नाम्नां कारणान्य् अभवन्न् [वि।पु। ४.१५.७] इति हि तदीयं गद्यम् । तद् इदं च वासुदेव-दामोदर-गोविन्द-केशवादि-नामवज् ज्ञेयम् । ततः संसृतेः। तत्र हेतुः—यद् यतो भयम् अपि स्वयं बिभेति ।
[६७]
किं च—
यत्-पाद-संश्रयाः सूत मुनयः प्रशमायनाः
**सद्यः पुनन्त्य् उपस्पृष्टाः स्वर्धुन्य्-आपोऽनुसेवया ॥ [**भा।पु। १.१.१५]
यस्य श्री-कृष्णस्य पादौ संश्रयौ येषाम् । अत एव प्रशमायनाः शमो भगवन्-निष्ठ-बुद्धिता, शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.३६] इति स्वयं श्री-भगवद्-वाक्यात् । स एव प्रकृष्टः शमः प्र-शमः, साक्षात्-पूर्ण-भगवत्-श्री-कृष्ण-सम्बन्धित्वात् । प्रशम एवायनं वर्त्म आश्रयो वा येषां, ते श्री-कृष्ण-लीला-रसाकृष्ट-चित्ता मुनयः श्री-शुकदेवादयः । उपस्पृष्टाः सन्निधि-मात्रेण सेविताः सद्यः पुनन्ति स-वासन-पापेभ्यः शोधयन्ति । स्वर्धुनी गङ्गा तस्या आपस् तु—
योऽसौ निरञ्जनो देवश् चित्-स्वरूपो जनार्दनः ।
स एव द्रव-रूपेण गङ्गाम्भो नात्र संशयः ॥ इति ।
स्वयं तथाविध-रूपापि साक्षाच् छ्री-वामन-देव-चरणान् निःसृता आपोऽनुसेवया साक्षात् सेवाभ्यासेनैव तथा शोधयन्ति, न सन्निधि-मात्रेण सेवया । साक्षात् सेवयापि न सद्य इति तस्या अपि श्री-कृष्णाश्रितानाम् उत्कर्षात् तस्योत्कर्षः । एवम् एव ततस् तद्-यशसोऽप्य् आधिक्यं वर्ण्यते—तीर्थं चक्रे नृपोनं यद् अजनि यदुषु स्वः-सरित्-पाद-शौचम् [भा।पु। १०.९०.४७] इति । टीका च—इतः पूर्वं स्वः-सरिद् एव सर्वतोऽधिकं तीर्थम् इत्य् आसीत्, इदानीं यदुषु यद् अजनि जातं तीर्थं श्री-कृष्ण-कीर्ति-रूपं एतत् स्वः-सरिद्-रूपं पाद-शौचं तीर्थम् ऊनम् अल्पं चक्रे इत्य् एषा ॥
[६८]
एतस्य दशम-स्कन्ध-पद्यस्यैव संवादितां व्यनक्ति ।
को वा भगवतस् तस्य पुण्य-श्लोकेड्य-कर्मणः ।
**शुद्धि-कामो न शृणुयाद् यशः कलि-मलापहम् ॥ [**भा।पु। १.१.१६]
शुद्धि-कामोऽपि । यतः कलि-युगस्यापि मलापहम् ॥43
[६९]
यस्माद् एवं तस्मात्—
तस्य कर्माण्य् उदाराणि परिगीतानि सूरिभिः ।
**ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ [**भा।पु। १.१.१७]
उदाराणि परमानन्द-दातॄणि जन्मादीनि स्वयं परिपूर्णस्य लीलया अन्या अपि कलाः पुरुषादि-लक्षणा दधतस् तत्-तद्-अंशान् अप्य् आदाय तस्यावतीर्णस्य सत इत्य् अर्थः ।
[७०]
अथाख्याहि हरेर् धीमन्न् अवतार-कथाः शुभाः ।
**ईला विदधतः स्वैरम् ईश्वरस्यात्म-मायया ॥ [**भा।पु। १.१.१८]
श्री कृष्णस्य तावन्मुख्यत्वेन कथय । अथ तद्-अनन्तरम् आनुषङ्गिकतयैवेत्य् अर्थः । हरेः श्री-कृष्णस्य प्रकरण-बलात् । अवताराः पुरुषावतारा गुणावतारा लीलावताराश् च । तेषां कथा लीलाः सृष्ट्य्-आदि-कर्म-रूपा भू-भार-हरणादि-रूपाश् च ।
[७१]
औत्सुक्येन पुनर् अपि तच्-चरितान्य् एव श्रोतुम् इच्छन्तस् तत्रात्मनस् तृप्त्य्-अभावम् आवेदयन्ति—
वयं तु न वितृप्याम उत्तम-श्लोक-विक्रमे ।
**यच्-छृण्वतां रस-ज्ञानां स्वादु स्वादु पदे पदे ॥ [**भा।पु। १.१.१९]
योग-यागादिषु तृप्ताः स्मः । भगवद्-विक्रम-मात्रे तु न तृप्याम एव, तत्रापितीर्थं चक्रे नृपोनम् [भा।पु। १०.९०.४७] इत्य्-आद्य्-उक्त-लक्षणस्य सर्वतोऽप्य् उत्तमश्लोकस्य विक्रमे विशेषेण न तृप्यामः । अलम् इति न मन्यामहे । तत्र हेतुः—यद् विक्रमं शृण्वताम् । यद् वा अन्ये तृप्यन्तु नाम, वयं तु नेति तु-शब्दस्यान्वयः ।
[७२]
कृतवान् किल कर्माणि सह रामेण केशवः ।
**अतिमर्त्यानि भगवान् गूढः कपट-मानुषः ॥ [**भा।पु। १.१.२०]
टीका च—अतः श्री-कृष्ण-चरितानि कथयेत्य् आशयेनाहुः कृतवान् इति । अतिमर्त्यानि मर्त्यान् अतिक्रान्तानि गोवर्धनोद्धरणादीनि । मनुष्येष्व् असम्भावितानीत्य् अर्थः इत्य् एषा ।
ननु कथं मानुषः सन्न् अतिमर्त्यानि कृतवान् ? तत्राह—कपट-मानुषः । पार्थिव-देह-विशेष एव मानुष-शब्दः प्रतीतिः । तस्मात् कपटेनैवासौ तथा भातीत्य् अर्थः । वस्तुतस् तु नराकृतेर् एव पर-ब्रह्मत्वेनासत्य् अपि प्रसिद्ध-मानुषत्वे नराकृति-नर-लीलात्वेन लब्धम् अप्रसिद्ध-मानुषत्वम् अस्त्य् एव । तत् पुनर् ऐश्वर्याव्याघातकत्वान् न प्रत्याख्यायत इति भावः । अत एव स्यमन्तकाहरणे पुरुषं प्राकृतं मत्वा [भा।पु। १०.५३.२२] इत्य् अनेन जाम्बवतोऽन्यथा-ज्ञान-व्यञ्जकेन वाक्येन तस्य प्राकृतत्वं निषिध्य पुरुषत्वं स्थाप्यते । एवं माया-मनुष्यस्य वदस्व विद्वन् [भा।पु। १०.१.७] इत्य् आदिष्व् अपि ज्ञेयम् । यस्मात् कपट-मानुषस् तस्माद् एव गूढः, स्वतस् तु तद्-रूपतयैव भगवान् इति ॥
॥ १.१ ॥ श्री-शौनकः ॥ ६४-७२ ॥
[७३]
अथ श्री-सूतस्यापि इति सम्प्रश्न-संहृष्टः [भा।पु। १.२.१] इत्य्-आद्य्-अनन्तरं नारायणं नमस्कृत्य [भा।पु। १.२.२] इत्य्-आद्य्-अन्ते पुराणम् उपक्रम्यैवाह—
मुनयः साधु पृष्टोऽहं भवद्भिर् लोक-मङ्गलम् ।
**यत् कृतः कृष्ण-सम्प्रश्नो येनात्मा सुप्रसीदति ॥ [**भा।पु। १.२.५]
टीका च—तेषां वचः प्रतिपूज्य [१.२.१] इति यद् उक्तं तत् प्रतिपूजनं करोति । हे मुनयः ! साधु यथा भवति तथाहं पृष्टः । यतो लोकानां मङ्गलम् एतत् । यतः कृष्ण-विषयः संप्रश्नः कृतः । सर्व-शास्त्रार्थ-सारोद्धार-प्रश्नस्यापि कृष्णे पर्यवसानाद् एवम् उक्तम् । इत्य् एषा ।
अत एवोत्तरेष्व् अपि पद्येषु अधोक्षज-वासुदेव-सात्वतां-पति-कृष्ण-शब्दास् तत्-प्राधान्य-विवक्षयैव पठिताः । अत्र श्रेयः-प्रश्नस्याप्य् उत्तरं लोक-मङ्गलम् इत्य् अनेनैव तावद् दत्तं भवति । तथात्म-सुप्रसाद-हेतोश् च येनात्मा सुप्रसीदति इत्य् अनेन ।
॥ १.२ ॥ श्री-सूतः ॥ ७३ ॥
[७४]
तद् एवं श्रोतृ-वक्तॄणाम् ऐकमत्येन च तात्पर्यं सिद्धम् ।
अथ श्रुति-लिङ्गादिभिः षड्भिर् अपि प्रमाणैः स एव प्रमीयते । तत्र निरपेक्ष-रवा श्रुतिर् दर्शितैव कृष्णस् तु भगवान् स्वयम् इत्य् अत्र । अथ श्रुति-सामर्थ्य-रूपं लिङ्गं च—
तावत् सर्वे वत्स-पालाः
पश्यतोऽजस्य तत्-क्षणात् ।
व्यदृश्यन्त घन-श्यामाः
पीत-कौशेय-वाससः ॥ [भा।पु। १०.१३.४६] इत्य्-आदौ ज्ञेयम् ।
किन्त्व् अन्यत्र बर्हिर् देव-सदनं दामि [मैत्रायणी-संहिता१.१.२] इत्य् अस्य मन्त्र-रूपस्य लिङ्गस्य बलात् श्रुतिः कल्प्यते । अत्र तु कृष्णस् तु भगवान् स्वयम् इति साक्षाद् एव तद्-रूपोऽस्तीति विशेषोऽप्य् अस्ति ।
अथाकाङ्क्षा-योग्यतासत्तिमद्-अनेक-पद-विशिष्टैकार्थ्य-प्रतिपादक-शब्द-रूपं वाक्यं च यस्यां वै श्रूयमानायां [भा।पु। १.७.७] इति । अश्वाभिधानीम् आदत्ते इति ब्राह्मण-वाक्याद् अश्व-रसना-दाने विनियोगः प्रतीयते । तथात्रापि भक्ति-योगेन मनसि सम्यक् प्रणिहितेऽमले । अपश्यत् पुरुषं पूर्णं [भा।पु। १.७.६] इत्य् अत्र पूर्ण-पुरुषत्वेनोक्तस्य कृष्णत्वम् । यस्यां वै श्रूयमानायां कृष्णे परम-पूरुषे [भा।पु। १.७.७] इति वाक्याद् व्यज्यते इति ।
तथा “आरभ्याधीत-रूपं प्रकरणं” चात्र सूत जानासि भद्रं ते [भा।पु। १.१०.१२] इत्य्-आदि-रूपम् । यथा दर्श-पौर्णमासाभ्यां यजेत इत्य् अत्र तृतीयया श्रुत्या दर्श-पौर्णमासयोः प्रकरणत्वेन प्राप्ते करणस्य चेति कर्तव्यताकाङ्क्षायां समिधो यजति इत्य्-आदिना योजना, तथा दर्श-पौर्णमासाभ्यां इत्य्-आदेर्वाक्यस्य फल-विधुरस्य फलाकाङ्क्षायां अग्निष्टोमेन स्वर्ग-कामो यजेतैति तद् आरभ्य प्रकरणार्थारब्धेन स्वर्ग-काम इत्य् अनेन योजना । तथा सूत जानासि भद्रं ते इत्य् अत्र श्रवणारम्भ एव श्री-कृष्णस्यावतारे हेतुं विज्ञातुम् इच्छद्भिः शौनक्दिभिस् तत्र परमाद्भुततां व्यज्य श्री-कृष्णस्यैव सर्वत्र ज्ञेयत्वेन योजना गम्येति तस्यैव स्वयं भगवत्त्वं व्यक्तम् । दर्शितं तच् च सर्व-श्रोतृ-वक्तॄणां तद्-ऐकमत्य-प्रकरणेनेति ।
अथ क्रम-वर्तिनां पदार्थानां क्रम-वर्तिभिः पदार्थैः यथा-क्रम-सम्बन्ध-रूपं स्थानं चात्र सूत जानासि भद्रं ते इत्य् आदाव् एव ज्ञेयम् । यथा दर्श-पौर्णमास-प्रकरणे कानिचित् कर्माणि उपांशु-याग-प्रभृतीनि दब्धिर् असि इत्य्-आदयः केचन मन्त्राश् च समाम्नायन्ते। तत्र यस्य क्रमेण यो मन्त्रः समाम्नातस्, तेनैव तस्य च सम्बन्धः । तथा मुनयः साधु पृष्टोऽहं भवद्भिर् लोक-मङ्गलम् । यत्-कृतं कृष्ण-सम्प्रश्नः [१.२.५] इत्य् अत्र कृष्ण-शब्दस्य प्रथम-प्रश्नोत्तर-गतत्वेन पठितस्य देवकी-जात-वाचकत्वम् एव लभ्यते ।
अथ नामादिना तुल्यताख्यान-रूपा समाख्या च जगृहे पौरुषं रूपं भगवान् [१.३.१] इत्य् अस्य एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् [१.३.२८] इत्य् अत्र पर्यवसानम् इत्य् एवं ज्ञेयम् । यथाध्वर-संज्ञानां मन्त्राणाम् अग्निर् यज्ञं नयतु प्रजानन् इत्य् आदीनां आध्वर्य-संज्ञके कर्मणि नियोग इति ।
किं च, एतस्याम् अष्टादश-साहस्र्यां संहितायां श्री-कृष्णस्यैवाभ्यास-बाहुल्यं दृश्यते । तत्र प्रथम-दशमैकादशेष्व् अतिविस्तरेणैव । द्वितीये श्री-ब्रह्म-नारद-संवादे । तृतीये श्री-विदुरोद्धव-संवादे । चतुर्थे ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ [भा।पु। ४.१.५७] इत्य्-आदौ, यच् चान्यद् अपि कृष्णस्य [भा।पु। ४.१७.६] इत्य्-आदौ च । पञ्चमे राजन् पतिर् गुरुर् अलम् [भा।पु। ५.६.१८] इत्य्-आदौ । षष्ठे मां केशवो गदया प्रातर् अव्याद् गोविन्द आसङ्गवम् आत्त-वेणुः [भा।पु। ६.८.२०] इत्य् अत्र । सप्तमे नारद-युधिष्ठिर-संवादे । अष्टमे तन्-महिम-विशेष-बीजारोप-रूपे कालनेमि-वधे तादृश-श्रीमद्-अजित-द्वारापि तस्य मुक्तिर् नाभवत्, किन्तु पुनः कंसत्वे तद्-द्वारैवेति तत्-तन्-महिम-विशेष-कथन-प्रथमाङ्गत्वात् । नवमे सर्वान्ते । द्वादशे च श्री-कृष्ण-कृष्ण-सख-वृष्ण्य्-ऋषभावनि-ध्रुग्-राजन्य-वंश-दहनानपवर्ग्य-वीर्य [भा।पु। १२.११.२५] इत्य्-आदौ । श्री-भागवतानुक्रमणिकायां च उत्तरोत्तरत्र सर्वतोऽपि भूयस्त्वेन गीयते ।
तथा च यस्याभ्यासस् तद् एव शास्त्रे प्रधानम् इत्य् आनन्दमयोऽभ्यासात् [वे।सू। ४.१.१२] इत्य् अत्र परैर् अपि समर्थितत्वाद् इहापि श्री-कृष्ण एव प्रधानं भवेद् इतीति तस्यैव मूल-भगवत्त्वं सिध्यति । यत्-प्रतिपादकत्वेनास्य शास्त्रस्य भागवतम् इत्य् आख्या । अपि च न केवलं बहुत्र सूचन-मात्रम् अत्राभ्यासनम्, अपि त्व् अर्धाद् अप्य् अधिको ग्रन्थस् तत्-प्रस्तावको दृश्यते, तत्रापि सर्वाश्चर्यतया । तस्मात् साधूक्तम् एते चांस-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् [भा।पु। १.३.२८] इति ।
तद् एवम् अस्य वचन-राजस्य सेना-सङ्ग्रहो निरूपितः । तथा तस्य प्रतिनिधि-रूपाणि वाक्यान्तराणि अपि दृश्यन्ते । यथा—
अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल ॥ इति [भा।पु। ९.२४.५५]
किल-शब्देन कृष्णस् त्विति प्रसिद्धिः सूच्यते । ततो हरिर् अत्र भगवान् एव । यथोक्तम्—वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः [भा।पु। १०.१.२३] इति च ।
॥ ९.२४ ॥ श्री-शुकः ॥ ७४ ॥
[७५]
यथा वा—अहो भाग्यम् अहो भाग्यम् इत्य् आदि [भा।पु। १०.१४.३२] ब्रह्मत्वेनैव बृहत्तमत्वे लब्धेऽपि पूर्णम् इत्य् अधिकं विशेषणम् अत्रोपजीव्यते ॥
॥ १०.१४ ॥ श्री-ब्रह्मा भगवन्तम् ॥ ७५ ॥
[७६]
अतएव—
स्वयं त्व् असाम्यातिशयस् त्र्यधीशः
स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः ।
बलिं हरद्भिश् चिर-लोक-पालैः
**किरीट-कोटीडित-पाद-पीठः ॥ [**भा।पु। ३.२.२१]
न साम्यातिशयौ यस्य, यम् अपेक्ष्यान्यस्य साम्यम् अतिशयश् च नास्तीत्य् अर्थः । तत्र हेतवः—त्र्य्-अधीशस् त्रिषु सङ्कर्षण-प्रद्युम्नानिरुद्धेष्व् अप्य् अधीशः, सर्वांशित्वात्। अत एव स्वाराज्य-लक्ष्म्या सर्वाधिक-परमानन्द-रूप-सम्पत्त्यैव44 प्राप्त-समस्त-भोगः । बलिं तद्-इच्छानुसरण-रूपम् अर्हणं हरद्भिः समर्पयद्भिश् **चिरैर् लोक-**पालैः, भगवद्-दृष्ट्य्-अपेक्षया ब्रह्मादयस् तावद् अचिर-लोक-पालाः, अन् इत्यत्वात् । ततश् च चिर-कालीनैर् लोक-पालैर् अनन्त-ब्रह्माण्डान्तर्यामि-पुरुषैः किरीट-कोटि-द्वारा ईडितं स्तुतं पाद-पीठं यस्य सः, अत्यन्त-तिरस्कृत-वाच्य-ध्वनिना परम-श्रेष्ठ इत्य् अर्थः । समस्त-पाठेऽपि स एवार्थः । श्री-कृष्ण इति प्रकरण-लब्धं विशेष्य-पदम् । अत्र स्वयं तु स्वयम् एव तथा तथाविध इति, कृष्णस् तु भगवान् स्वयमितिवत् स्वयं भगवत्ताम् एव व्यनक्ति ।
॥ ३.२ ॥ श्रीमद्-उद्धवो विदुरम् ॥ ७६ ॥
[७७]
तद् एतत् पूर्णत्वं दृष्टान्त-द्वारापि दर्शितम् अस्ति ।
देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-शयः ।
**आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः ॥ [**भा।पु। १०.३.८]
यथा यथावत्, स्व-स्वरूपेणैवेत्य् अर्थः ॥
॥ १०.३ ॥ श्री-शुकः ॥ ७७ ॥
[७८]
यथा च—
अखण्ड-मण्डलो व्योम्नि रराजोडु-गणैः शशी ।
**यथा यदु-पतिः कृष्णो वृष्णि-चक्रावृतो भुवि ॥ [**भा।पु। १०.२०.४४]
स्पष्टम् ॥ १०.२० ॥ श्री-शुकः ॥ ७८ ॥
[७९]
तथा श्री-कृष्ण-प्रतिनिधि-रूपत्वाद् अस्य महा-पुराणस्य श्री-कृष्ण एव मुख्यं तात्पर्यं45 इत्य् अप्य् आह—
कृष्णे स्व-धामोपगते धर्म-ज्ञानादिभिः सह ।
**कलौ नष्ट-दृशाम् एष पुराणार्कोऽधुनोदितः ॥ [**भा।पु। १.३.४३]
स्पष्टम् ॥ १.३ ॥ श्री-सूतः ॥ ७९ ॥
[८०]
तद् एवं श्री-कृष्णस्य स्वयं भगवत्त्वं दर्शितम् । तत् तु गति-सामान्येनापि लभ्यते । यथा महाभारते—
सर्वे वेदाः सर्व-विद्याः स-शास्त्राः
सर्वे यज्ञाः सर्व ईड्यश् च कृष्णः ।
विदुः कृष्णं ब्राह्मणास् तत्त्वतो ये
तेषां राजन् सर्वाज्ञाः समाप्ताः ॥ इति ।
अत्र सर्व-समन्वय-सिद्धेः पूर्णत्वम् एव लभ्यते । एवं श्री-भगवद्-उपनिषत्सु च—वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्त-कृद् वेद-विद् एव चाहम् [गीता १५.१५] इति, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्य् आदि च । ब्रह्म-संहितायाम् [५.२९]—चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-लक्षावृतेषु सुरभीर् अभिपालयन्तम् इत्य् आदिकम् उपक्रम्य—
यस्यैक-निश्वसित-कालम् अथावलम्ब्य
जीवन्ति लोम-विलजा जगद्-अण्ड-नाथाः ।
विष्णुर् महान् स इह यस्य कला-विशेषो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४८] इति ।
ननु पाद्मोत्तर-खण्डादौ सर्वावतारी पर-व्योमाधिपतिर् नारायण एवेति श्रूयते, पञ्चरात्रादौ तु वासुदेवः । न च सस कृष्ण एवेति वक्तव्यम्, तत्-तत्-स्थान-परिकर-नाम-रूपाणां भेदात् । तर्हि कथं श्री-कृष्णस्यैव सर्वावतारित्वं स्वयं-भगवत्त्वं वा ?
तत्रोच्यते श्री-भागवतस्य सर्व-शास्त्र-चक्रवर्तित्वं प्रथम-सन्दर्भे प्रघट्टकेनैव दर्शितम् । पूर्ण-ज्ञान-प्रादुर्भावानन्तरम् एव श्री-वेद-व्यासेन तत् प्रकाशितम् इति च तत्रैव प्रसिद्धम् । स्फुटम् एव दृश्यते चास्मिन्न् अपर-शास्त्रोपमर्दकत्वम् ।
इत्य् अङ्गोपदिशन्त्य् एके विस्मृत्य प्राग् उदाहृतम् ।
मुनि-वास-निवासे किं घटेतारिष्ट-दर्शनम् ॥ [भा।पु। १०.५७.३१] इत्य्-आदौ ।
एवं वदन्ति राजर्षे [भा।पु। १०.७७.३०] इत्य्-आदौ च । अत एव नवमेऽप्य् उक्तम्
हित्वा स्व-शिष्यान् पैलादीन् भगवान् बादरायणः ।
मह्यं पुत्राय शान्ताय परं गुह्यम् इदं जगौ ॥ [भा।पु। ९.२२.२२] इति ।
तद् एवं सर्व-शास्त्रोपचरितत्वं सिद्धम् । तत्र श्री-कृष्णस्यैव स्वयं भगवत्त्वं निरूपितम् । दृश्यते च प्रशंसितुर् वैशिष्ट्येन प्रशंस्यस्यापि वैशिष्ट्यम् । यथा ग्रामाध्यक्ष्य-राज-सभयोः सर्वोत्तमत्वेन प्रशस्यमानौ वस्तु-विशेषौ तारतम्यम् आपद्येते । तद् एवं सत्स्व् अप्य् अन्येषु तेष्व् अन्यत्र प्रशस्तेषु श्री-भागवत-प्रशंस्यमानस्य श्री-कृष्णस्यैव परमाधिक्यं सिध्यति । अत एव कृष्णस् तु भगवान् स्वयम् इति सावधाराणा श्रुतिर् अन्य-श्रुति-बाधिकेति युक्तम् एव व्याख्यातं पूर्वम् अपि ।
ततश् च ते तु पर-व्योमाधिप-नारायण-वासुदेवादयः श्री-कृष्णस्यैव मूर्ति-विशेषा भवेयुः । स्वयं श्री-कृष्णस् तु नारायणस् त्वम् [१०.१४.१४] इत्य्-आद्य् उक्तो महा-नारायणो द्वारकादि-प्रसिद्धो महा-वासुदेवश् च भवेत् । अत एवनारायण-वासुदेवोपनिषदोः46 स एव व्यक्तः, ब्रह्मण्यो देवकी-पुत्र [ना।उ। ४] इति, देवकी-नन्दनो निखिलम् आनन्दयाद् इति च । तद् इत्थम् एव तं वासुदेवम् अपि विभूति-निर्विशेषतया स्वयम् एव स्पष्टम् आह—वासुदेवो भगवताम् [भा।पु। ११.१९.२९] इति स्पष्टम् ।
[८१]
तथा—
सात्वतां नव-मूर्तीनाम् आदि-मूर्तिर् अहं परा ॥ [भा।पु। ११.१९.३२] इति ।
टीका च—सात्वतां भागवतानां नव-व्यूहार्चने वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-नारायण-हयग्रीव-वराह-नृसिंह-ब्रह्माण इति या नव-मूर्तयस् तासां मध्ये वासुदेवाख्या । इत्य् एषा ।
अत एव दृश्यते चाद्वैत-वादिनाम् अपि सन्न्यासिनां व्यास-पूजा-पद्धतौ श्री-कृष्णस्य मध्य-सिंहासनस्थत्वं वासुदेवादीनां व्यासादीनां चावरण-देवतात्वम् इति । अत एव क्रम-दीपिकायाम् अष्टाक्षर-पटले वासुदेवादयस् तद्-आवरणत्वेन श्रूयन्ते । यत् तु वृष्णीनां वासुदेवोऽस्मि [गीता १०.३७] इति भगवद्-उपनिषदः, तत्र वासुदेव-शब्देन वसुदेवापत्यार्थेन श्री-बलदेव एवोच्यते । वक्ता हि तत्र श्री-कृष्ण एव । ततश् च स्व-विभूतिं कथयति तस्मिन्न् अपि विभूतित्वारोपो न युज्यते, वक्तुर् अन्यत्रैव श्रोतृभिस् तत्-प्रतीतेः । ततो मुख्यार्थ-बाधे तथैव व्याख्या समुचिता । तस्मात् साधु व्याख्यातम्—वासुदेवो भगवताम् [भा।पु। ११.१९.२९] इत्य्-आदि ।
॥ ११.१९ ॥ श्री-भगवान् ॥ ८०-८१ ॥
[८२]
यस्माद् एवं सर्वतोऽपि तस्योत्कर्षस् तस्माद् एवान्यतस् तदीय-नामादीनाम् अपि महिमाधिक्यम् इति गति-सामान्यान्तरं च लभ्यते । तत्र नाम्नो यथा ब्रह्माण्ड-पुराणे श्री-कृष्णाष्टोत्तर-शत-नामामृत-स्तोत्रे—
सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥ इति ।
व्यक्तीक्रियते चाधिक-फलत्वं कृष्ण-नाम्नः पाद्मे पाताल-खण्डे श्री-मथुरा-माहात्म्ये श्री-महादेवस्यैव वाक्ये—तारकाज् जायते मुक्तिः प्रेम-भक्तिस् तु पारकातिति । पूर्वम् अत्र मोचकत्व-प्रेमदत्वाभ्यां तारक-पारक-संज्ञे राम-कृष्ण-नाम्नोर् हि विहिते । तत्र च राम-नाम्नि मोचकत्व-शक्तिर् एवाधिका, श्री-कृष्ण-नाम्नि तु मोक्ष-सुख-तिरस्कारि-प्रेमानन्द-दातृत्व-शक्तिः समधिकेति भावः । इत्थम् एवोक्तं विष्णु-धर्मोत्तरे—
यच् छक्तिर् नाम यत् तस्य तस्मिन्न् एव च वस्तुनि ।
साधकं पुरुष-व्याघ्र सौम्य-क्रूरेषु वस्तुषु ॥ इति ।47
किं च, श्री-कृष्ण-नाम्नो मुख्यत्वं निगदेनैव श्रूयते, प्रभास-पुराणे श्री-नारद-कुशध्वज-संवादे श्री-भगवद्-उक्तौ—नाम्नां मुख्यतमं नाम कृष्णाख्यं मे परन्तप इति । तद् एवं गति-सामान्येन नाम-महिम-द्वारा तन्-महिमातिशयः साधितः । तथा तदीय-गुण-रूप-लीला-मथुरादि-स्थानानाम् अपि तत्-तच्-छास्त्र-प्रतिपाद्यमानैः सर्वाधिक-महिमभिर् अप्य् असाव् अनुसन्धेयः । विस्तर-भिया तु नोदाह्रियते ।
[८२] सर्व-संवादिनी: एतद्-अनन्तरं गति-सामान्य-प्रकरणे श्री-कृष्ण-नाम-माहात्म्ये सहस्र-नाम्नाम् इत्य्-आदि-ब्रह्माण्ड-वाक्यानन्तरम् एव व्याख्येयम् । यथा
सर्वार्थ-शक्ति-युक्तस्य देव-देवस्य चक्रिणः ।
यच् चाभिरुचितं नाम तत् सर्वार्थेषु योजयेत् ॥
इति विष्णु-धर्म-दृष्ट्या सर्वेषाम् एव भगवन्-नाम्नां निरङ्कुश-महिमत्वे सति, समाहृतानाम् उच्चारणम् अपि नानार्थकं संस्कार-प्रचय-हेतुत्वाद् एकस्यैवोच्चार-प्रचयवद् [ना।कौ। ३] इति नाम-कौमुदी-कारैर् अङ्गीकृतम् । तथा समाहृत-सहस्र-नाम-त्रिर्-आवृत्ति-शक्तेः कृष्ण-नामोच्चारणम् अवश्यं मन्तव्यम् । अत्र देवदेवस्य यद् अभिरुचितं प्रियं नाम, तत् सर्वार्थेषु योजयेद् इत्य् अपि केचिद् व्याचक्षते । यथा हरेः प्रियेण गोविन्द-नाम्ना निहतानि सद्यःइति ।
ननु बृहत्-सहस्र-नाम-स्तोत्रं न् इत्यम् एव पठन्तीं देवीं प्रति सहस्र-नामभिस् तुल्यं राम-नाम वरानने इत्य्-आद्य्-उपपत्त्या राम-नाम्नैव सहस्र-नाम-फलं भवतीति बोधयन् श्री-महादेवस् तत्-सहस्र-नामान्तर्गत-कृष्ण-नाम्नाम् अपि गौणत्वं बोधयति । तर्हि कथं ब्रह्माण्ड-वचनम् अविरुद्धं भवति ? उच्यते, प्रस्तुतस्य बृहत्-सहस्र-नाम-स्तोत्रस्यैवैकया वृत्त्या यत् फलं तद् भवतीति राम-नाम्नि प्रौढिः । कृष्ण-नाम्नि तु द्विगाव-सम्भवात् सहस्र-नाम्नाम् इति बहु-वचनात् तादृशानां बहूनां सहस्र-नाम-स्तोत्राणां त्रिर्-आवृत्त्या तु यत् फलं तद् भवतीति ततोऽपि महती प्रौढिः । अत एव तत्र,
समस्त-जप-यज्ञानां फलदं पाप-नाशनम् ।
शृणु देवि प्रवक्ष्यामि नाम्नाम् अष्टोत्तरं शतम् ॥
इत्य् उक्त्वा अन्येषाम् अपि जपानां वेदाद्य्-उक्तानां फलम् अन्तर्भावितम् । ततश् च प्रौढ्य्-आधिक्याद् उत्तरस्य पूर्वस्माद् बलवत्त्वे सति पूर्वस्य महिमापि तद्-अविरुद्ध एव व्याख्येयः । तदा हि यद्यप्य् एवम् एव श्री-कृष्णवत् तन्-नाम्नोऽपि सर्वतः शक्ति-पूर्णतया सर्वेषाम् अपि नाम्नाम् अवयवित्वम् एव, तथापि अवयव-साधारण्येन प्रयोग-लक्षणम् असमञ्जसम् एव । ततस् तादृश-फल-लाभे भवति प्रतिबन्धकम् । ततो नामान्तर-साधारणम् एव फलं भवेत् ।यथा साक्षान्-मुक्तेर् अपि दातुः श्री-विष्ण्व्-आराधानस्य यज्ञाङ्गत्वेन क्रियमाणस्य स्वर्ग-मात्र-प्रदत्वम् ।
यथा वा, वेद-जपतस् तद्-अन्तर्गत-भगवन्-मन्त्रेणापि न ब्रह्म-लोकाधिक-फल-प्राप्तिः । यथात्रैव तावत् केवलं राम-नामैव सकृद् वदतोऽपि बृहत्-सहस्र-नाम-फलम् अन्तर्भूत-राम-नामैकोन-सहस्र-नामकं सम्पूर्णम् । बृहत्-सहस्र-नामापि पठतो बृहत्-सहस्र-नाम-फलं, न त्व् अधिकम् एकोन-सहस्र-नाम-फलम् इति । अत एव साधारणानां केशवादि-नाम्नाम् अपि तदीयता-वैलक्षण्येनागृह्यमाणानाम् अवतारान्तर-नाम-साधारण-फलम् एव ज्ञेयम् ।
नाम-कौमुद्यां तु सर्वानर्थ-क्षय एव ज्ञानाज्ञान-विशेषो निषिद्धः, न तु प्रेमादि-फल-तारतम्ये। तद् एवं कृष्ण-नाम्नः साधारण-फलदत्वे सति—सहस्र-नामभिस् तुल्यं राम-नाम वरानन इत्य् अपि युक्तम् उक्तम् । वस्तुतस् त्व् एवं सर्वावतारावतारि-नामभ्यः श्री-कृष्ण-नाम्नोऽभ्यधिकं फलं स्वयं भगवत्त्वात् तस्य ।
ननु यथा दर्श-पौर्णमास्याद्य्-अङ्ग-भूतया पूर्णाहूत्या सर्वान् कामान् अवाप्नोति इत्य् आदाव् अर्थवादत्वं तथैवात्रोभयत्रापि भविष्यतीति चेत्, न । बृहत्-सहस्र-नाम-स्तोत्रं पठित्वैव भोजन-कारिणीं देवीं प्रति राम-नामैव सकृत् कीर्तयित्वा कृत-कृत्या सती मया सह भुङ्क्ष्वेति साक्षाद्-भोजने श्री-महादेवेन प्रवर्तनात् । अतस् ततोऽपि प्रौढ्याधिक्यात् कृष्ण-नाम्नि तु तथार्थ-वादत्वं दूरोत्सारितम् एवेति ॥
इत्थम् एव श्री-कृष्णस्यैवासमोर्ध्व-महिमत्वात् स्वयम् एव तेनापि सकल-भक्त-वृन्द-वन्दित-भगवत्-प्रणयं श्रीमद्-अर्जुनं प्रति सर्व-शास्त्रार्थ-सार-भूत-श्री-गीतोपसंहार-वाक्ये निजाखिल-प्रादुर्भावान्तर-भजनम् अतिक्रम्य स्व-भजनम् एव सर्व-गुह्यतमत्वेनोपदिष्टम् । यथाह—कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशोऽपि तत् [गीता १८.६०] इत्य् अनन्तरम्—
ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया ॥
तम् एव शरणं गच्छ सर्व-भावेन भारत ।
तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥
इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया ।
विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥
सर्व-गुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु ।
माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥
सर्व-धर्मान् पर् इत्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६१-६६]
एषाम् अर्थः—अशोच्यान् अन्वशोचस् त्वम् [गीता २.११] इत्य्-आदि ग्रन्थो न युद्धाभिधायकः, यतः कर्तुम् इत्य्-आदि ततः परमार्थाभिधायक एवायं तत्रापि गुह्यतरं सर्व-गुह्यतमं च शृणु इत्य् आह—ईश्वर इत्य्-आदि । य एक सर्वान्तर्यामी ईश्वरः, स एव सर्वाणि संसार-यन्त्रारुढानि भूतानि मायया भ्रामयन्, तेषाम् एव हृद्-देशे तिष्ठति । सर्व-भावेन पुरुष एवेदं सर्वम् [श्वे।उ। ३.१५] इति भावनायाः सर्वेन्द्रिय-प्रेरणतया वा । परां शान्तिं तदीयां परमां भक्तिं, शमो मन्-निष्ठता बुद्धेर् [भा।पु। ११.१९.३६] इत्य् उक्तेः । स्थानं तदीयं धाम । गुह्याद् ब्रह्म-ज्ञानाद् अपि गुह्यतरं, द्वयोः प्रकर्षे तरप् ।
अथेदम् अपि निजैकान्त-भक्त-वराय तस्मै न पर्याप्तम् इति अवध्याय स्वयम् एव महा-कृपा-भरेणोद्घाटित-परम-रहस्यः श्री-भगवान् अन्याम् अपि प्रद्युम्न-सङ्कर्षण-वासुदेव-परम-व्योमाधिप-लक्षण-भजनीय-तारतम्य-गम्यां भजन-क्रम-भूमिकाम् अतिक्रम्यैव सर्वतोऽप्य् उपादेयम् एव सहसोपदिशति—सर्व-गुह्यतमं भूयः [१८.६४] इति ।
यद्यपि गुह्यतमत्वोक्तेर् एव गुह्य-गुह्यतराभ्याम् अपि प्रकृष्टम् इदम् इत्य् आयाति, तथापि सर्व-शब्द-प्रयोगो गुह्यतमम् अपि परम-व्योमाधिपादि-भजनार्थ-शास्त्रान्तर-वाक्यम् अत्येति, तस्य यावद्-अर्थ-वृत्तिकत्वात् । बहूनां प्रकर्षे तमप् । अत एव परमम् । स्व-कृत-तादृश-हितोपदेश-श्रवणे हेतुम् आह—इष्टोऽसि मे दृढम् इतीति । परमाप्तस्य ममैतादृशं वाक्यं त्वयावश्यं श्रोतव्यम् इति भाव इत्य् अर्थः ।
स्वस्य च तादृश-रहस्य-प्रकाशने हेतुम् आह—तत इति । ततस् तादृशेष्टत्वाद् एव हेतोः । तद् एवम् औत्सुक्यम् उच्छलय्य किं तद् इत्य् अपेक्षायां स-प्रणयाश्रु-कृताञ्जलिम् एतं प्रत्य् आह—मन्-मनाइति । मयि त्वन्-मित्रतया साक्षाद् अस्मिन् स्थिते श्री-कृष्णे मनो यस्य तथा-विधो भव । एवं मद्-भक्तो मद्-एक-तात्पर्यको भवेत्य्-आदि । सर्वत्र मच्-छब्दावृत्त्या मद्-भजनस्यैव नाना-प्रकारतया आवृत्तिः कर्तव्या, न त्व् ईश्वर-तत्त्व-मात्र-भजनस्येति बोध्यते । साधनानुरूपम् एव फलम् आह—माम् एवैष्यसीति । अनेनैव-कारेणाप्य् आत्मनः सर्व-श्रेष्ठत्वं सूचितम् । अन्यस्य का वार्ता ? माम् एवेति । एतद् एव फलं श्री-परीक्षितापि व्यक्तीकरिष्यते कलिं प्रति ।
यस् त्वं कृष्णे गते दूरं सह गाण्डीव-धन्वना ।
शोच्योऽस्य् अशोच्यान् रहसि प्रहरन् वधम् अर्हसि ॥ [भा।पु। १.१७.६]इति ।
सत्यं48 ते इत्य् अनेनात्रार्थे तुभ्यम् एव शपेऽहम् इति प्रणय-विशेषो दर्शितः । सत्यं शपथ-तथ्ययोः इत्य् अमरः । पुनर् अप्य् अतिकृपया सर्व-गुह्यतमम् इत्य्-आदि वाक्यार्थानां पुष्ट्य्-अर्थम् आह—प्रतिजानेइति ।
ननु नाना-प्रतिबन्ध-विक्षिप्तस्य मम कथं त्वन्-मनस्त्वादिकम् एव सिध्येत् ? तत्राह—सर्वेति । सर्व-शब्देन न् इत्य-पर्यन्ता धर्माः विवक्षिताः । परि-शब्देन तेषां स्वरूपतोऽपि त्यागः समर्थितः । पापानि प्रतिबन्धास् तद्-आज्ञया पर् इत्यागे पापानुत्पत्तेः । तद् एव व्यतिरेकेन द्रढयति—मा शुचैति । तत्र—
अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे ।
गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥ [गीता २.११]
इत्य् उपक्रम-वाक्ये तस्यापण्डितत्वं स्वस्य च पण्डितत्वं व्यज्य शोक-पर् इत्यागेन मत्-कृतोपदेशम् एव गृहाणेति विवक्षितम् । ततश् च, तारतम्य-ज्ञानार्थम् एव बहुधोपदिश्यापि महोपसंहार-वाक्य-स्थस्य त्व् अस्योपदेशस्य परमत्वं निर्दिश्य, शोक-पर् इत्यागेन तम् एतम् एवोपदेशं त्वं गृहाणेति द्वयोर् वाक्ययोर् एकार्थ-प्रवृत्तत्वम् अपि स्पष्टम् ।अतः श्री-कृष्णस्यैवाधिक्यं सिद्धम् ।
सर्व-संवादिनी : अथ ईश्वरः सर्व-भूतानाम् इत्य्-आदि-श्री-गीता-पद्य-षट्के व्याख्यानान्तरम् एव व्याख्येयम् । तथा हि—अत्र कश्चिद् वदति ईश्वरः सर्व-भूतानाम् इत्य्-आदौ सर्व एवेदम् ईश्वर इति भावेन यद्-भजनं, तत्र ज्ञानांश-स्पर्शः । इह तु मन्-मना भव इत्य्-आदि-शुद्धैव भक्तिर् उपदिष्टेत्य् अत एव सर्व-गुह्यतमत्वम् । किं वा, पूर्वेण वाक्येन परोक्षतयैवेश्वरम् उद्दिश्यापरेण तम् एवापरोक्षतया निर्दिष्टवान् इत्य् अत एव न च वक्तवयम् । पूर्वम् अपि—
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु ।
माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः ॥ [गीता ९.३४]
इत्य्-आदिभिः शुद्ध-भजनस्योक्तत्वात् । तथापि अधियज्ञोऽहम् एवात्र देहे देह-भृतां वरः [गीता ८.४] इत्य्-आदौ च स्वस्यान्तर्यामित्वेन चोक्तत्वात् । सर्व-गुह्यतमत्व-गुह्यतरत्वयोर् अनुपपत्तिर् इति । यद् यद् एव पूर्वं सामान्यतयोक्तं तस्यैवान्ते विविच्य निर्दिष्टत्वात् । उच्यते—न तावद् भजन-तारतम्यम् । अत्र भजनीय-तारतम्यस्यापि सम्भवे गौण-मुख्य-न्यायेन भजनीय एवार्थ-सम्प्रतीतेः । मुख्यत्वं च तस्य फलम् अत उपपत्तेः [वे।सू। ३.२.२९] इति न्यायेन । विशेषतस् तु तच्-छब्देन न स्वयम् एव तद्-रूप इति मच्-छब्देन स्वयम् एवैतद्-रूप इति च भेदस्य विद्यमानत्वात्, उपदेश-द्वये निजेनौदासीन्येनावेशेन च लिङ्गेनापूर्णत्वोपलम्भात्, फल-भेद-व्यपदेशेनैव-कारेण च तद्-अर्थस्यैव पुष्टत्वाच् चसाक्षाद् एव भजनीय-तारतम्यम् उपलभ्यते । वस्तुतस् तु सर्व-भावेनेत्य् अस्य सर्वेन्द्रिय-प्रवणतयेत्य् एवार्थः । गौण-मुख्य-न्यायेनैव ज्ञान-मिश्रस्य सर्वात्मता-भावना-लक्षण-भजन-रूपार्थस्य बाधितत्वात् ।
स्थानं प्राप्स्यसि शाश्वतम् [गीता १८.६२] इति लोक-विशेष-प्राप्तेर् एव निर्दिष्टत्वात् ।
तस्मान् न च भजनावृत्ति-तारतम्यावकाशः । न च भजनीयस्यैव परोक्षापरोक्षतया निर्देशयोस् तारतम्यम् । तदैव तया प्राचीनयार्वाचीनया चानया गति-क्रियया सङ्कोच-वृत्तिर् इयं कल्पनीया । यद्य् अन्तर्यामिणः सकाशाद् अन्या परावस्था न श्रूयते, शास्त्रे श्रूयते तु तद्-अवस्थातः परा, ततोऽपि परा च सर्वत्र । अत्रैव तावत् साधिभूताधिदैवं मां चाधियज्ञं च ये विदुः [गीता ७.३०] इत्य्-आदौ भेद-व्यपदेशात् । तत्र सह-युक्तेऽप्रधाने [पा। २.३.१७] इति स्मरणेनाधियज्ञस्यान्तर्-यामिणः सहार्थ-तृतीयान्ततया लब्ध-समास-पदस्य स्वस्माद् अप्रधानत्वोक्तेस् ततः परत्वं श्री-कृष्णस्य व्यक्तम् एव । अधियज्ञोऽहम् एवात्र [गीता ८.४] इत्य्-आदौ च तद् एव व्यज्यते । एष वै भगवान् द्रोणः प्रजा-रूपेण वर्तते [भा।पु। १.७.४५] इतिवत् । तस्माद् भजनीय-तारतम्य-विवक्षयैवोपदेश-तारतम्यं सिद्धम् । एष तु वातिवदति यः सत्येनातिवदति [छा।उ। ७.१६.१] इतिवत् यः सत्येन ब्रह्मणैव प्रतिपाद्य-भूतेन सर्वं वादिनम् अतिक्रम्य वदति, एष एव सर्वम् अतिक्रम्य वदतीत्य् अर्थः । तद् एवम् अर्थे सति यथा तत्र वादस्यातिशायिता-लिङ्गेन नामादि-प्राण-पर्यन्तानि तत्-प्रकरण उत्तरोत्तर-भूमतयोपदिष्टान्य् अपि सर्वाणि वस्तून्य् अतिक्रम्य ब्रह्मण एव भूमत्वं साध्यते, तद्वद् अत्राप्य् उपदेशाधिक्येन प्रतिपाद्याधिक्यम् इति । अतः श्री-कृष्णस्यैवाधिक्यम् इत्य् अन्तेऽप्य् उक्तम् इति दिक् । [एन्द् सर्व-संवादिनी]
अत एव असद्-व्यपदेशान् नेति चेन्, न, धर्मान्तरेण वाक्य-शेषाद् [वे।सू। २.१.१७] इति न्यायाद् उपसंहारस्यैवोपक्रमार्थस्य च सर्व-शास्त्रार्थत्वात् । तत्रोक्तं विश्व-रूपम् अभि तद्-अधीनाम् एव । तच् च युक्तम्, तेनैव दर्शितत्वात् । तत्र च—
इत्य् अर्जुनं वासुदेवस् तथोक्त्वा
स्वकं रूपं दर्शयाम् आस भूयः ॥ [गीता ११.५०]
इत्य्-आदि नराकार-चतुर्भुज-रूपस्यैव स्वकत्व-निर्देशात् । तद् विश्व-रूपं न तस्य साक्षात् स्वरूपम् इति स्पष्टम् । अत एव परम-भक्तस्यार्जुनस्यापि न तदभीष्टम्, किन्तु तदीयं स्वयं रूपम् एवाभीष्टम्, अदृष्ट-पूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे [गीता ११.४५] । इत्य्-आद्य्-उक्तेः । तद्-दर्शनार्थम् अर्जुनं प्रति दिव्य-दृष्टि-दान-लिङ्गेन तस्यैव माहात्म्यम् इति तु बाल-कोलाहलः, नराकृति परं ब्रह्म इति, तद् अमितं ब्रह्माद्वयं शिष्यते [भा।पु। १०.१४.१८]इति, यन्-मित्रं परमानन्दम् [भा।पु। १०.१४.३२] इति, स एव न् इत्यात्म-सुखानुभूत्य्-अभि-व्युदस्त-मायः [भा।पु। १०.१२.३९] इति, स त्वं विभो कथम् इहाक्ष-पथः प्रतीत [१०.६४.२६] इति च, तथा ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति, नाहं प्रकाशः सर्वस्य [गीता ७.२५] इति च श्रवणेन प्रकृष्ट-दृष्टेस् तत्राप्य् अकरणत्वाद् भगवच्-छक्ति-विशेष-संवलित-दृष्टेर् एव तत्र करणत्वात् । ततस् तस्या दृष्टेर् दिव्यत्वं दानं च नराकार-पर-ब्रह्म-दर्शन-हेतु-लक्षणायास् तत्-स्वाभाविक-दृष्टेर् अन्यासौ देव-वपुर् दर्शन-हेतुर् इत्य् अपेक्षयाइव । तच् च नराकृति-पर-ब्रह्म दिव्य-दृष्टिभिर् अपि दुर्दर्शम् इत्य् उक्तम्—
सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम ।
देवा अप्य् अस्य रूपस्य न् इत्यं दर्शन-काङ्क्षिणः ॥ [गीता ११.५२] इत्य्-आदिना ।
किन्तु भक्त्यैव सुदर्शनम् इत्य् अप्य् उक्तम् ।
भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ [गीता ११.५४] इत्य्-आदिना ।
न च सुदुर्दर्शम् इत्य्-आदिकं विश्व-रूप-परम्, दृष्ट्वेदं मानुषं रूपम् [गीता ११.५१] इत्य् आदेर् एवाव्यवहित-पूर्वोक्तत्वात्, विश्व-रूप-प्रकरणस्य तद्-व्यवधानाच् च । तथा चैकादशे सर्वेषां देवादीनाम् आगमने व्यचक्षतावितृप्ताक्षाः कृष्णम् अद्भुत-दर्शनम् [भा।पु। ११.६.५] इति । तत्रैवान्यत्र गोविन्द-भुज-गुप्तायाम् [भा।पु। ११.२.१] इत्य्-आदि । सप्तमे यूयं नृ-लोके [७.१०.४८] इत्य्-आदि च । तृतीये च, विस्मापनं स्वस्य च [३.२.१२] ।
अत उपसंहारानुरोधेन स्व-वाक्य-तात्पर्येण चास्यापि प्रकरणस्य श्री-कृष्ण-परत्वम् एव । तस्मात् श्री-कृष्ण-गीतासु च श्री-कृष्णस्यैव स्वयं भगवत्त्वं सिध्येत49 । तद् उक्तम्—
एकं शास्त्रं देवकी-पुत्र-गीतम्
एको देवो देवकी-पुत्र एव ।
कर्माप्य् एकं देवकी-पुत्र-सेवा
मन्त्रोऽप्य् एको देवकी-पुत्र-नाम ॥ इति ।
तथा श्री-गोपाल-पूर्व-तापनी-श्रुताव् अपि—मुनयो ह वै ब्रह्माणम् ऊचुः, कः परमो देवः [गो।ता।उ। १.२] इत्य् आद्य्-अनन्तरं तद् उ होवाच ब्राह्मणः। कृष्णो वै परमं दैवतम् [गो।ता।उ। १.३] इत्य्-आदि । उपसंहारे च—तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं यजेद् इत्य् ॐ तत् सद् [गो।ता।उ। १.४९] इति ।
किं बहुना, सर्वावतारावतारि-विलक्षणा महा-भगवत्ता-मुद्राः साक्षाद् एव तत्र वर्तन्त इति श्रूयते पाद्माध्याय-त्रयेण । यथा तदीया कियन्तः श्लोकाः—
ब्रह्मोवाच—
शृणु नारद वक्ष्यामि पादयोश् चिह्न-लक्षणम् ।
भगवत्-कृष्ण-रूपस्य ह्य् आनन्दैक-घनस्य च ॥
अवतारा ह्य् असङ्ख्येयाः कथिता मे तवानघ ।
परं सम्यक् प्रवक्ष्यामि कृष्णस् तु भगवान् स्वयम् ॥
देवानां कार्य-सिद्ध्य्-अर्थम् ऋषीणां च तथैव च ।
आविर्भूतस् तु भगवान् स्वानां प्रिय-चिकीर्षया ॥
यैर् एव ज्ञायते देवो भगवान् भक्त-वत्सलः ।
तान्य् अहं वेद नान्योऽस्ति सत्यम् एतन् मयोदितम् ॥
षोडशैव तु चिह्नानि मया दृष्टानि तत्-पदे ।
दक्षिणेनाष्ट-चिह्नानि इतरे सप्त एव च ॥
ध्वजाः पद्मं तथा वज्रम् अङ्कुशो यव एव च ।
स्वस्तिकं चोर्ध्व-रेखा च अष्ट-कोणस् तथैव च ॥
सप्तान्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम ।
इन्द्र-चापं त्रिकोणं च कलसं चार्ध-चन्द्रकम् ॥
अम्बरं मत्स्य-चिह्नं च गोष्पदं सप्तमं स्मृतम् ।
अङ्कान्य् एतानि भो विद्वन् दृश्यन्ते तु यदा कदा ॥
कृष्णाख्यं तु परं ब्रह्म भुवि जातं न संशयः ।
द्वयं वाथ त्रयं वाथ चत्वारः पञ्च एव वा ॥
दृश्यन्ते वैष्णव-श्रेष्ठ अवतारे कथञ्चन ॥ इत्य् आदि ।
षोडशं तु तथा चिह्नं शृणु देवर्षि-सत्तम ।
जम्बू-फल-समाकारं दृश्यते यत्र कुत्रचित् ॥ इत्य् अन्तम् ।
[सर्व-संवादिनी- अथ शृणु नारद प्रवक्ष्यामीत्य्-आदि-चरण-चिह्न-प्रतिपादक-पाद्म-वचनान्ते आदि-शब्दाद् एतान्य् अपि पद्यानि ज्ञेयानि ।
मध्ये ध्वजा तु विज्ञेया पद्मं त्र्याङ्गुलम् आनतः ।
वज्रं वै दक्षिणे पार्श्वे अङ्कुशो वै तद्-अग्रतः ॥
यवोऽप्य् अङ्गुष्ठ-मूले स्यात् स्वस्तिकं यत्र कुत्रचित् ।
आदिं चरणम् आरभ्य यावद् वै मध्यमा स्थिता ॥
तावद् वै चोर्ध्व-रेखा च कथिता पाद्म-संज्ञके ।
अष्ट-कोणं तु भो वत्स मानं चाष्टाङ्गुलैश् च तत् ॥
निर्दिष्टं दक्षिणे पादे इत्य् आहुर् मुनयः किल ।
एवं पादस्य चिह्नानि तान्य् एव वैष्णवोत्तम ॥
दक्षिणेतर-स्थानानि संवदामीह साम्प्रतम् ।
चतुरङ्गुल-मानेन त्व् अङ्गुलीनां समीपतः ॥
इन्द्र-चापं ततो विद्याद् अन्यत्र न भवेत् क्वचित् ।
त्रिकोणं मध्य-निर्दिष्टं कलसो यत्र कुत्रचित् ॥
अष्टाङ्गुल-प्रमाणेन तद् भवेद् अर्ध-चन्द्रकम् ।
अर्ध-चन्द्र-समाकारं निर्दिष्टं तस्य सुव्रत ॥
बिन्दुर् वै मत्स्य-चिह्नं च आद्यन्ते वै निरूपितम् ।
गोष्पदं तेषु विज्ञेयम् आद्याङ्गुल-प्रमाणतः ॥ इत्य् आदि ।
तद्-अग्रे च—
षोडशं तु तथा चिह्नं शृणु देवर्षि-सत्तम ।
जम्बू-फल-समाकारं दृश्यते यत्र कुत्रचित् ।
तच् चिह्नं षोडशं प्रोक्तम् इत्य् आहुर् मुनयोऽनघाः ॥ इति ।
अत्र वैष्णवोत्तमेत्य्-आदिकं श्री-नारद-सम्बोधनम् । यदा कदेति यदा कदाचिद् एवेत्य् अर्थः । मध्यमा-पार्ष्णि-पर्यन्तयोः समदेशो मध्यस् तत्र ध्वजा ध्वजः । त्र्य्-अङ्गुल-मानतः । पादाग्रे त्र्य्-अङ्गुल-प्रमाण-देशं पर् इत्यज्येत्य् अर्थः । पद्यस्याधो ध्वजं धत्ते सर्वानर्थ-जय-ध्वजम् इति स्कान्द-संवादात् ।
यत्र कुत्रचित् परित इत्य् अर्थः । आदिम् अङ्गुष्ठ तर्जनी-सन्धिम् आरभ्य मध्यमा यावत् तावद् ऊर्ध्व-रेखा व्यवस्थिता पाद्म-संज्ञके पुराणे कथितेत्य् अर्थः । अष्टाङ्गुलैर् मानं तद् इति मध्यमाङ्गुल्य्-अग्राद् अष्टाङ्गुल-मानं पर् इत्यज्येत्य् अर्थः । तावद् विस्तारत्वेन व्याख्यायां स्थानासमावेशः । अत एव पूर्वम् अपि तथा व्याख्यातम् । एवम् उत्तरत्रापि ज्ञेयम् । इन्द्र-चापं त्रिकोणार्ध-चन्द्रकाणि क्रमाद् अधोऽअधो-भाग-स्थानानि ।
अन्यत्रेति श्री-कृष्णाद् अन्यत्रेत्य् अर्थः । बिन्दुर् अम्बरं । आदौ चरणस्यादिदेश तद्-अङ्गुल-समीपे बिन्दुः । अन्ते पार्ष्णि-देशे मत्स्य-चिह्नं षोडश-चिह्नम् उभयोर् अपि ज्ञेयम् । दक्षिणाद्य्-अनियमेनोक्तत्वात् । अत्र दक्षिणाङ्गुष्ठाधश् चक्रं वामाङ्गुष्ठाधस् तन् मुखं दरं च स्कान्दोक्तानुसारेण । ते हि श्री-कृष्णेऽप्य् अन्यत्र श्रूयते । यथा आदि-वाराहे मथुरा-मण्डल-माहात्म्ये—
यत्र कृष्णेन संकीर्णं क्रीडितं च यथा-सुखम् ।
चक्राङ्कित-पदा तेन स्थाने ब्रह्म-मये शुभे ॥ इति ।
श्री-गोपाल-तापन्यां—शङ्ख-ध्वजातपत्रैस् तु चिह्नितं च पद-द्वयम् [गो।ता।उ। २.६२] इति । आतपत्रम् इदं चक्राधस्ताज् ज्ञेयम् । दक्षिणस्य प्राधान्यात् तत्रैव स्थान-समावेशाच् च । अङ्गुलि-परिमाण-मात्र-दैर्घ्याच् चतुर्दशांशेन तद्-विस्तारात् । षष्ठांशेन ज्ञेयम् । अन्यत्र दैर्घ्ये चतुर्दशाङ्गुलि-परिमाणत्वेन विस्तारे षड्-अङ्गुलि-परिमाणत्वेन प्रसिद्धेर् इति । [एन्द् सर्व-संवादिनी]50
तस्माद् अस्त्य् एव स्वयं भगवत्त्वं श्री-कृष्णस्यैव ।
तथा च ब्रह्म-वैवर्ते भगवद्-अवतार-प्रसङ्गे सूत-वाक्यम्—
अवतारा ह्य् असङ्ख्येया आसन् सत्त्व-स्वभाविनः ।
विंशतिस् तेषु मुख्यान् यान् श्रुत्वा मुच्येन् महांहसः ॥
इत्य्-आदिना प्रायशः श्री-भागवतवत् श्री-कृष्ण-सहितांस् तान् गणयित्वा पुनर् आह—
नर-सिंहादयोऽन्येऽपि सर्व-पाप-विनाशनाः ।
यद्-विभूति-विशेषेणालङ्कृतं भुवि जायते ।
तत् सर्वम् अवगन्तव्यं कृष्णांशांश-समुद्भवम् ॥51
तद् इत्थं सर्वम् अभिप्रेत्य महोपक्रमं श्लोकम् एव श्री-विष्णु-पुराणीय-भगवच्-छब्द-निरुक्तिवत् साक्षात् श्री-कृष्णाभिधेयत्वेनापि योजयति—
जन्माद्य् अस्य यतोऽन्वयाद् इतरतश् चार्थेष्व् अभिज्ञः स्वराट्
तेने ब्रह्म हृदा य आदि-कवये मुह्यन्ति यत् सूरयः ।
तेजो-वारि-मृदां यथा विनिमयो यत्र त्रि-सर्गोऽमृषा
धाम्ना स्वेन सदा निरस्त-कुहकं सत्यं परं धीमहि ॥
[भा।पु। १.१.१] इति ।
नराकृति परं ब्रह्म [बृहत्-सहस्र-नाम-स्तोत्रे] इति पुराण-वर्गात्, तस्मात् कृष्ण एव परो देवः [गो।ता।उ। १.४९] इति गोपाल-तापनी-श्रुतेश् च ।परं52 श्री-कृष्णं धीमहि ।
अस्य स्वरूप-लक्षणम् आह—सत्यम् इति । सत्य-व्रतं सत्य-परं त्रि-सत्यम् [भा।पु। १०.२.२६] इत्य्-आदौ तथा-श्रुतत्वात् ।
सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम् ।
सत्यात् सत्यं च गोविन्दस् तस्मात् सत्यो हि नामतः ॥ [म।भा। ५.६८.१२]
इत्य् उद्यम-पर्वणि सञ्जय-कृत-श्री-कृष्ण-नाम-निरुक्तौ च तथा श्रुतत्वात् ।53
एतेन तद्-आकारस्याव्यभिचारित्वं दर्शितम् । तटस्थ-लक्षणम्—आह धाम्ना स्वेन इत्य् आदि । स्वेन स्व-स्वरूपेण धाम्ना श्री-मथुराख्येन सदा निरस्तं कुहकं माया-कार्य-लक्षणं येन तम् ।
मथ्यते तु जगत् सर्वं
ब्रह्म-ज्ञानेन येन वा ।
तत्-सार-भूतं यद् यस्यां
मथुरा सा निगद्यते ॥ [गो।ता।उ। २.६६] इति गोपालोत्तर-तापनी-प्रसिद्धेः ।
लीलाम् आह—आद्यस्य न् इत्यम् एव श्रीमद्-आनकदुन्दुभि-व्रजेश्वर-नन्दनतया श्री-मथुरा-द्वारका-गोकुलेषु विराजमानस्यैव तस्य कस्मैचिद् अर्थाय लोके प्रादुर्भावापेक्षया । यतः श्रीमद्-आनकदुन्दुभि-गृहाज् जन्म, तस्माद् य इतरतश् च इतरत्र श्री-व्रजेश्वर-गृहेऽपि अन्वयात् पुत्र-भावतस् तद्-अनुगतत्वेनागच्छत् । उत्तरेणैव य इति पदेनान्वयः । यत इत्य् अनेन तस्माद् इति स्वयम् एव लभ्यते ।
कथम् अन्वयात् ? तत्राह—अर्थेषु कंस-वञ्चनादिषु तादृश-भाववद्भिः श्री-गोकुल-वासिभिर् एव सर्वानन्द-कदम्ब-कादम्बिनी-रूपा सा सा कापि लीला सिध्यतीति तल्-लक्षणेषु वा अर्थेषु अभिज्ञः । ततश् च स्वराट् स्वैर् गोकुल-वासिभिर् एव राजते इति । \
तत्र तेषां प्रेम-वशताम् आपन्नस्याप्य् अव्याहतैश्वर्यम् आह—तेन इति । य आदि-कवये ब्रह्मणे ब्रह्माणं विस्मापयितुं हृदा सङ्कल्प-मात्रेणैव ब्रह्म-सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्ति-मयं वैभवं तेने विस्तारितवान् । यद् यतस् तथाविध-लौकिकालौकिकता-समुचित-लीला-हेतोः सूरयस् तद्-भक्ता मुह्यन्ति प्रेमातिशयोदयेन वैवश्यम् आप्नुवन्ति । यद् इत्य् उत्तरेणाप्य् अन्वयात् ।
यद् यत एव तदृश-लीलातस् तेजो-वारि-मृदाम् अपि यथा यथावद् विनिमयो भवति । तत्र तेजसश् चान्द्रादेर् विनिमयो निस्तेजो-वस्तुभिः सह धर्म-परिवर्तः । तत् श्री-मुखादि-रुचा चन्द्रादेर् निस्तेजस्त्वाविधानात् निकट-स्थ-निस्तेजो-वस्तुनः स्व-भासा तेजस्वितापादनाच् च । तथा वारि द्रवश् च कठिनं भवति । वेणु-वाद्येन मृत्-पाषाणादिः द्रवतीति । यतः श्री-कृष्णे त्रि-सर्गः श्री-गोकुल-मथुरा-द्वारका-वैभव-प्रकाशः, अमृषा सत्य एवेति ।
॥ १.१ ॥ वेद-व्यासः ॥ ८२ ॥
[८३]
एवं सर्वोपसंहार-वाक्यम् अपि तत्रैव सङ्गच्छते कस्मै येन विभासित54 इत्य्-आदि [भा।पु। १२.१३.१९] ।
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास् तस्मै गापयति स्म कृष्णः ।
तं हि देवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अमुं व्रजेत् ॥ [गो।ता।उ। १.२६]
इति गोपाल-पूर्व-तापनी-श्रुतेः । व्याकृतं च द्वितीय-सन्दर्भे [भ।सं। ८] तस्यैव चतुः-श्लोकी-वक्तृत्वम् अपि ॥
॥ १२.१३ ॥ श्री-सूतः ॥ ८३ ॥
[८४]
तद् एवम् अभ्यासादीन्य् अपि तस्मिन् विस्पष्टान्य् एव पूर्वोदाहृत-वाक्येषु । तद् एतत् श्रीमद्-गीता-गोपाल-तापन्य्-आदि-शास्त्र-गण-सहायस्य निखिलेतर-शास्त्र-शत-प्रणत-चरणस्य श्री-भागवतस्याभिप्रायेण श्री-कृष्णस्य स्वयं भगवत्त्वं करतल इव दर्शितम् । श्री-भागवतस्य स एव प्रतिपाद्य इति पुराणान्तरेणैव स्वयं व्याख्यातम् । यथा ब्रह्माण्ड-पुराणे श्री-कृष्णाष्टोत्तर-शत-नामामृत-स्तोत्रे श्री-कृष्णस्य नाम-विशेष एव शुक-वाग्-अमृताब्धीन्दुर् इति ।
अथ तस्य महा-वासुदेवत्वे सिद्धे, श्री-बलदेवादीनाम् अपि महा-सङ्कर्षणादित्वं स्वत एव सिद्धम् । यद्-रूपः स्वयं भगवान्, तद्-रूपा एव ते भवितुम् अर्हन्तीति । अतः श्री-बलरामस्य यत् कश्चिद् आवेशावतारत्वं मन्यते, तद् असत् । दृश्यते च श्री-कृष्ण-रामयोर् युगलतया वर्णनेन सम-प्रकाशत्वम्—ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ [भा।पु। १०.८.२२], यद् विश्वेश्वरयोर् याच्ञां [भा।पु। १०.२३.३७], ददर्श रामं कृष्णं च [भा।पु। १०.३८.२७], तौ रेजतू रङ्ग-गतौ महा-भुजौ [भा।पु। १०.४३.१९] इत्य्-आदौ ।
लोकेऽपि सूर्य-चन्द्रमसाव् एव युगलतया वर्ण्येते, न तु सूर्य-शुक्रौ । अत एव हरिवंशेऽपि वासुदेव-माहात्म्ये राम-कृष्णयोर् दृष्टान्तः सूर्याचन्द्रमसाव् इति । तथा ध्वज-वज्राङ्कुशाम्भोजैश् चिह्नितैर् अङ्घ्रिभिर् व्रजम् । शोभयन्तौ महात्मानौ [भा।पु। १०.३८.३०] इत्य् एवं भगवल्-लक्षणान्य् अपि तत्र श्रूयन्ते, न त्व् एवं पृथ्व्-आदिषु । तस्माद् एष तन्-महिमापि वर्ण्यते—
नैतच् चित्रं भगवति ह्य् अनन्ते जगद्-ईश्वरे ।
ओतं प्रोतम् इदं यस्मिंस् तन्तुष्व् अङ्ग यथा पटः ॥ [भा।पु। १०.१५.३५]
एतद् धेनुक-वधात्मकं कर्म ॥ १०.१५ ॥ श्री-शुकः ॥ ८४ ॥
[८५]
किं च—
सप्तमो वैष्णवं धाम यम् अनन्तं प्रचक्षते ।
**गर्भो बभूव देवक्यां हर्ष-शोक-विवर्धनः ॥ [**भा।पु। १०.२.५]
गर्भो बभूव, न तु गर्भे बभूवेति सप्तम्य्-अन्तानुक्त्या साक्षाद् एवावतारत्वं सूचितम् ॥
॥ १०.२ ॥ स एव ॥८५ ॥
[८६]
अत इदम् अप्य् एवम् एव व्याख्येयम्—
वासुदेव-कलानन्तः सहस्र-वदनः स्वराट् ।
**अग्रतो भविता देवो हरेः प्रिय-चिकीर्षया ॥ [**भा।पु। १०.१.२४]
श्री-वसुदेव-नन्दनस्य वासुदेवस्य कला प्रथमोऽंशः श्री-सङ्कर्षणः । तस्य श्री-सङ्कर्षणत्वं स्वयम् एव, न तु सङ्कर्षणावतारत्वेनेत्य् आह—स्वराट् स्वेनैव राजते इति । अतएव अनन्तः काल-देश-परिच्छेद-रहितः ।
अत एव मायया तस्य गर्भ-समय आकर्षणं च युक्तम् । पूर्णस्य वास्तवाकर्षणासम्भवाद् इति केचित् । एतद्-विध-कार्ये च तद्-अकुण्ठेच्छात्मक-चिच्-छक्त्य्-आविष्टैव सा प्रभवेत् । उक्तं च तदानीं तद्-आविष्टत्वं तस्याः—आदिष्टा प्रभुनांशेन कार्यार्थे सम्भविष्यति [१०.१.२५] इति । मिलिष्यतीति तत्र ह्य् अर्थः। अत एव एकानंशेति तस्या नाम, एकोऽनंशो यत्रेति निरुक्तिर् इति केचित् । य एव शेषाख्यः सहस्र-वदनोऽपि भवति । यतो देवो नानाकारतया दीव्यतीति । तद् उक्तं श्री-यमुना-देव्या—
राम राम महा-बाहो न जाने तव विक्रमम् ।
यस्यैकांशेन विधृता जगती जगतः पते ॥ [भा।पु। १०.६५.२८] इति ।
एकांशेन शेषाख्येन इति टीका च । अन्यथा तद्-एकावयवैक-देश-रूपार्थत्वेनैकांशेनेति यच्-छब्दस्य कर्तृत्व-निर्देश एव युक्तः स्यात्, तद्-अंशावतार-लक्षणार्थान्तर-प्रतीति-निरसनाय महा-विद्वद्-वाक्यत्वात् । सम्बन्धि-निर्देशेन तु टीका-व्याख्यैव स्फुटतरा । एकांशे मुख्यस्यैव कर्तृत्वस्य निर्व्याज-प्रतीतिर् न त्व् औपचारिकस्येति ।
एवं श्री-लक्ष्मणस्याप्य् अन्तिम-दशानुकरण-लीलायां श्रूयते स्कान्दे अयोध्या-माहात्म्ये—
ततः शेषात्मतां यातं लक्ष्मणं सत्य-सङ्गरम् ।
उवाच मधुरं शक्रः सर्वस्य च स पश्यतः ॥
इन्द्र उवाच—
लक्ष्मणोत्तिष्ठ शीघ्रं त्वम् आरोहस्व पदं स्वकम् ।
देव-कार्यं कृतं वीर त्वया रिपु-निसूदन ॥
वैष्णवं परमं स्थानं प्राप्नुहि स्वं सनातनम् ।
भवन्-मूर्तिः समायाता शेषोऽपि बिल-सत्-फणः ॥ इत्य् आदि ।
ततश् च—
इत्य् उक्त्वा सुर-राजेन्द्रो लक्ष्मणं सुर-सङ्गतः ।
शेषं प्रस्थाप्य पाताले भू-भार-धरण-क्षमम् ॥
लक्ष्मणं यानम् आरोप्य प्रतस्थे दिवम् आदरात् ॥ इति ।
अतो नारायण-वर्मण्य् अपि—यज्ञश् च लोकाद् अवतात् कृतान्ताद् बलो गणात् क्रोध-वशाद् अहीन्द्रः [६.८.१८]इति बलदेवस्य शेषाद् अन्यत्वं शक्त्य्-अतिशयश् च दर्शितः । जनान्ताद् इति पाठेऽपि जनानां नाशाद् इति स एवार्थः । अतः शेषाख्यं धाम मामकम् इति [भा।पु। १०.२.८] इत्य् अत्रापि शिष्यते शेष-संज्ञ इतिवत् अव्यभिचार्यांश एवोच्यते । सेषस्याख्या ख्यातिर् यस्माद् इति वा । श्रीमद्-आनकदुन्दुभिना च श्री-कृष्ण-साम्येनैव निर्दिष्टम्—युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ [भा।पु। १०.८५.१८] इति ।अत्र साक्षाद् एवेति त्व् अधिकम् उपजीव्यम् ।
अथ यदि प्रायो मायास्तु मे भर्तुर् नान्या मेऽपि विमोहिनी [भा।पु। १०.१३.३७] तद्-वाक्यानुसारेणावेशावतारत्वं मन्तव्यं, तदा पूर्व-ग्रन्थ-बलात् श्री-बलदेवे स्वांशत्वम् एवेति, किन्तु शेषाख्य-तद्-आविष्ट-पार्षद-विशेषस्य तद्-अन्तः-पातात् तद्-अंशेनैव तद्-व्यवहार इति55 मन्तव्यम् ॥
तद् एवम् एक-रूपत्वेऽपि, प्रायो मायास्तु मे भर्तुर् नान्या मेऽपि विमोहिनी [१०.१३.३७] इत्य्-आदौ यत् तस्मिंस् तस्य भक्तिः श्रूयते, तत् तु लक्ष्म्या इव द्रष्टव्यम् ।56
॥ १०.१ ॥ श्री-ब्रह्मा देवान् ॥ ८६ ॥
[८७]
अथ श्री-प्रद्युम्नस्यापि शिव-नेत्र-दग्धः स्मरो जातोऽयम् इति यच् छ्रूयते, तद् अप्य् एक-देश-प्रस्ताव-मात्रम् । तस्य श्री-गोपाल-तापनी-श्रुत्य्-आदौ—
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [गो।ता।उ। २.३६]
इत्य्-आदिना न् इत्य-श्री-कृष्ण-चतुर्-व्यूहान्तः-पातिततया प्रसिद्धेस् तथा सम्भवाभावात्, तस्य स्मरस्यापि साधारण-देवता-विशेष-मात्रत्वेन प्रसिद्धत्वे चतुर्व्यूहान्तः-पातितायाम् अयोग्यतमत्वात् । तस्माद् वक्ष्यमाणाभिप्रायेणैवैतद् आह—
कामस् तु वासुदेवांशो दग्धः प्राग् रुद्र-मन्युना ।
**देहोपपत्तये भूयस् तम् एव प्रत्यपद्यत ॥ [**भा।पु। १०.५५.१]
अवेदज्ञस्यापि ब्राह्मण्ये सत्य् एव ब्राह्मणस् तु वेदज्ञ इतिवत्, तु-शब्दोऽत्र मुख्यतां सूचयति । ततः कामस् तु वासुदेवांश इत्य् अस्य वासुदेवांशो यः कामः, स एव मुख्य इत्य् अर्थः । तु-शब्दोऽयं भिन्नोपक्रमे वा । ततो वासुदेवांशस्तु काम इत्य् अन्वयेऽपि पूर्ववद् एवार्थः ।
तद् एवं सति यः प्राग् रुद्रस्य मन्युना दग्धो देवता-विशेषः कामः, स देहोपपत्तये तत्-कोप-दग्धतया न् इत्यम् एवानङ्गतां प्राप्तस्य स्वतो देहापत्त्य्-अभावाद् देह-प्राप्त्य्-अर्थं तम् एव वासुदेवांशं प्रद्युम्नाख्यं कामम् एव प्रत्यपद्यत प्रविष्टवान् ।
भूयः-शब्देन प्रद्युम्नाद् एव पूर्वम् अप्य् उद्भूतोऽसाव् इति बोध्यते ।
यद् वा, यस् तु प्राग् रुद्र-कोपेनादग्धो न दग्धः, स भूयः प्रकट-लीलायां देहोपपत्तये स्व-मूर्ति-प्रकाशनार्थं, तं वासुदेवम् एव प्रविष्टवान् । अदग्धत्वे हेतुर् वासुदेवांश इति ॥
[८८]
पूर्वोक्तम् एव व्यनक्ति—
स एव जातो वैदर्भ्यां कृष्ण-वीर्य-समुद्भवः ।
प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः ॥ [भा।पु। १०.५५.२]
यः कृष्ण-वीर्य-समुद्भवो यश् च प्रद्युम्न इति विख्यातः, स एव प्रकट-लीलावसरेऽपिवैदर्भ्यां जात आविर्भूतः, न त्व् अन्यः प्राकृत-काम एव । तत्र हेतुः सर्वतो गुण-रूपादिष्व् अशेषेष्व् एव धर्मेषु पितुः श्री-कृष्णाद् अनवमः तुल्य एवेति । अन्यथा तादृशानवमत्वं न कल्पत इति भावः । तस्माद् यथा महाभारते सर्वत्र श्रीमद्-अर्जुनस्य नरत्व-प्रसिद्धाव् अपि पञ्चेन्द्रोपाख्याने इन्द्रत्व-प्रसिद्धिः, इन्द्रस्यापि तत्र प्रवेश-विवक्षया घटते, तद्वद् अत्रापि ।
अतः श्री-नारदेन रत्यै तथोपदेशस् तथा तत्-प्राप्तिश् च न दोषाय । पूर्व-पद्यस्य उत्तरस्मिन्न् अर्थे श्री-नारदोपदेश-बलेनैव दग्ध-कामस्य प्रवेशस् तत्र गम्यः । ततः साक्षात् प्रद्युम्न-सङ्गमे योग्यता चास्याः स्पर्श-मणिवत् तत्-सामीप्य-गुणाद् एव मन्तव्या । श्री-प्रद्युम्नस्य निज-शक्तिस् तु श्रीमद्-अनिरुद्ध-मातैवेति ज्ञेयम् । अतः तापनी-श्रुति-लब्धोऽर्थः समञ्जसः ॥
॥ १०.५५ ॥ श्री-शुकः ॥ ८७-८८ ॥
[८९]
एवम् अनिरुद्धस्यापि साक्षाच् चतुर्व्यूहत्वे लिङ्गम् आह—
अपि स्विद् आस्ते भगवान् सुखं वो
यः सात्वतां काम-दुघोऽनिरुद्धः ।
यम् आमनन्ति स्म हि शब्द-योनिं
**मनो-मयं सत्त्व-तुरीय-तत्त्वम् ॥ [**भा।पु। ३.१.३४]
शब्द-योनिं निश्वास-व्यञ्जित-वेद-वृन्दम्, एवं वा अरे अस्य महतो भूतस्य निश्वसितम् एतद् यद् ऋग्-वेदः [बृ।आ।उ। २.४.१०] इत्य् आदि-श्रुतेः । मनोमयं चित्ते वासुदेववन् मनस्य् उपास्यम् । सत्त्वं शुद्ध-सत्त्वात्मकः श्री-वासुदेवादि-रूपो भगवान् तत्र तुरीयं रूपम् । अतो बाण-युद्धादौ बन्धनानुकरणादिकम् आत्मेच्छामयी लीलैव श्री-रामचन्द्रादिवत् ।
अस्य पाद्म-बृहत्-सहस्र-नाम्नि माहात्म्य-नामानि चैतानि—
अनिरुद्धो बृहद्-ब्रह्म प्राद्युम्निर् विश्व-मोहनः ।
चतुर्-आत्मा चतुर्-वर्णश् चतुर्-युग-विधायकः ॥
चतुर्-भेदैक-विश्वात्मा सर्वोत्कृष्टांश-कोटि-सूः ।
आश्रयात्मा॥ इति ।
अतः श्री-कृष्ण-व्यूहत्वेन महानिरुद्धत्वाद् अस्यैवाविर्भाव-विशेषः प्रलयार्णवादि-धामा पुरुष इति ज्ञेयम् । अत एवाभेदेन जगृहे पौरुषं रूपं भगवान् [भा।पु। १.३.१] इत्य्-आद्य्-उक्तं मूल-सङ्कर्षणाद्य्-अंशैर् एव हीतर-सङ्कर्षणाद्य्-अवस्था-त्रयं पुरुषं प्रकाशयतीति । तथैवाभेदेन विष्णु-धर्मोत्तरेऽपीदम् उक्तम् । तत्र श्री-वज्र-प्रश्नः—
कस् त्व् असौ बाल-रूपेण कल्पान्तेषु पुनः पुनः ।
दृष्टो यो न त्वया ज्ञातस् तत्र कौतूहलं मम ॥
श्री-मार्कण्डेयोत्तरं च—
भूयो भूयस् त्व् असौ दृष्टो मया देवो जगत्-पतिः ।
कल्प-क्षयेण विज्ञातः स माया-मोहितेन वै ॥
कल्प-क्षये व्यतीते तु तं देवं प्रपितामहात् ।
अनिरुद्धं विजानामि पितरं ते जगत्-पतिम् ॥ इति । [१.७९.१-३]
भीष्म-पर्वणि दुर्योधनं प्रति भीष्म-शिक्षायां श्री-कृष्णस्यावतारारम्भे गन्ध-मादनम् आगतस्य ब्रह्मणस् तद्-आविर्भावं मनसि पश्यतस् स्तुतस्यतद् इदं वचनम्—
सृष्ट्वा सङ्कर्षणं देवं स्वयम् आत्मानम् आत्मना ।
कृष्ण त्वम् आत्मनास्राक्षीः प्रद्युम्नं चात्म-संभवम् ॥
प्रद्युम्नाच् चानिरुद्धं त्वं यं विदुर् विष्णुम् अव्ययम् ।
अनिरुद्धोऽसृजन् मां वै ब्रह्माणं लोक-धारिणम् ॥
वासुदेव-मयः सोऽहं त्वयैवास्मि विनिर्मितः ॥ [म।भा। ६.६१.६५-६७]57
अत एव च पूर्वम् अपि च जगृहे पौरुषं रूपम् [१.३.१] इत्य् अत्र श्री-कृष्णस्य अनिरुद्धावतारान्तः-पातित्वं न व्याख्यातम् ॥
॥ ३.१ ॥ विदुरः श्रीमद्-उद्धवम् ॥ ८९ ॥
[९०]
तद् एतत् तस्य चतुर्व्यूहात्मकस्यैव पूर्णत्वं व्याख्यातम् । श्री-गोपालोत्तर-तापन्याम् अपि तथैवायं प्रणवार्थत्वेन दर्शितः—
रोहिणी-तनयो रामो अ-काराक्षर-सम्भवः ।
तैजसात्मकः प्रद्युम्नो उ-काराक्षर-सम्भवः ॥
प्राज्ञात्मकोऽनिरुद्धो वै म-काराक्षर-सम्भवः ।
अर्ध-मात्रात्मकः कृष्णो यस्मिन् विश्वं प्रतिष्ठितम् ॥ [गो।ता।उ। २.५५-५६] इति ।
अथ श्री-कृष्णेऽवतरति तत्-तद्-अंशावताराणाम् अपि प्रवेश इति यद् उद्दिष्टं, तद् यथा तत्र कृष्णस् तु भगवान् स्वयम् [१.३.२८] इत्य्-आदिकं सिद्धम् एव, तथा तस्य तद्-रूपेणैव श्री-वृन्दावनादौ सर्वदावस्थायित्वं प्रतिपादयिष्यामः ।
अथ च श्री-हरि-वंश-मते उपेन्द्र एवावततारेति । जय-विजय-शाप-प्रस्तावे च—यास्यामि भवनं ब्रह्मन्न् एतद्-अन्ते एवानघ [भा।पु। ११.६.३१] इत्य् अत्र च, पाहि वैकुण्ठ-किङ्करान् [भा।पु। ११.६.२७] इत्य् अत्र च स्वामि-व्याख्यानुसारेण विकुण्ठा-सुत एवेति । क्वचित् क्षीरोदशाय्य एवेति क्वचित् पुरुष एवेति, क्वचिन् नारायण-र्षिर् एवेति बृहत्-सहस्र-नाम्नि लक्ष्मणस्यैव बलरामत्व-कथनेन श्री-राघव एवेति क्वचिन् नारायण-केश एवेत्य्-आदिकं नाना-विधत्वं श्रूयते । एवं चैकं सन्धित्सतोऽन्यत् प्रच्यवतोऽत्र सत्यं च सर्वं वाक्यम् ।
यथा स्व-मत्य्-अनुभवानुरूपात् नाना-वाक्यैक-वाक्यता च । यथा क्रम-मुक्ति-मार्गेऽर्चिर्-आदि-क्रम एवाङ्गी, नाडी-रश्म्य्-आदि-मार्गास् तु तद्-अङ्गत्वेनैव अर्चिर्-आदिना तत्-प्रथितेः [वे।सू। ४.३.१] इति सूत्रे स्वीक्रियन्ते, तद्वत् । यतः स्वयं भगवत्य् अवतरति सर्वेऽपि ते प्रविष्टा इति यदा यत् किञ्चिद् येनानुभूतम्, तदा तेन तद् एव निर्दिष्टम् इति ।58
तस्माद् विद्वद्भिर् एवं विचार्यताम्—स्वयं भगवति तस्मिन् प्रवेशं विना कथं तत् सम्भवेद् ?इति । दृश्यते च तस्मात् केषांचिद् अंशानां पुनर् आविर्भावः, यथा प्रद्युम्नादीनाम्। अत एव विकुण्ठा-सुतस्य प्रवेशाभिप्रायेणैव शिशुपाल-दन्तवक्रयोः श्री-कृष्ण-सायुज्यम् एव तदानीं जातम्, पुनर् अवतार-लीला-समाप्तौ श्री-विकुण्ठा-सुते स्व-धाम-गते पार्षदत्व-प्राप्तिः । यथोक्तं श्री-नारदेन—
वैरानुबन्ध-तीव्रेण ध्यानेनाच्युत-सात्मताम् ।
नीतौ पुनर् हरेः पार्श्वं जग्मतुर् विष्णु-पार्षदौ ॥ [भा।पु। ७.१.४६] इति ।
तथा हरि-वंशे च क्षीरोद-शायिनो मुकुटे द इत्यापहृते द इत्य-मारणाय गरुडो यावत् कृत-विलम्बस् तावत् श्री-कृष्णोऽवततार । ततश् चासौ मुकुटम् आहृत्य तत्र चोर्ध्व-लोके कुत्रापि भगवन्तम् अदृष्ट्वा गोमन्त-शिरसि श्री-कृष्णायैव समर्पितवान् इति प्रसिद्धिः ।
एवम् एव बलि-सद्म-गतयोः श्री-कृष्ण-रामयोस् तद्-द्वारस्थ-विष्ण्व्-अदर्शनम् । किन्तु तत्-तद्-वाक्य-पर्यालोचनया केषांचिन् मूर्त्य्-आकर्षणम्, हरि-वंश-गत-गिरि-गुहा-शयन-पर्यालोचनया तु तच्-छक्त्य्-आकर्षणम् इति लभ्यते । तच् च तदानीम् आत्मनि सर्वेषाम् एव भक्तानाम् एकतानताकृति-लीला-कौतुकार्थम् एवेति च गम्यते ।59
तद् एवम् एवाह—
त्वं ब्रह्म परमं व्योम
पुरुषः प्रकृतेः परः ।
अवतीर्णोऽसि भगवन्
**स्वेच्छोपात्त-पृथग्-वपुः ॥ [**भा।पु। ११.११.२८]
साक्षाद् भगवान् एव त्वम् अवतीर्णोऽसि । भगवत एव वैभवम् आह—ब्रह्मत्वं परम-व्योमाख्यो वैकुण्ठस् त्वं प्रकृतेः परः पुरुषोऽपि त्वम् इति । भगवान् अपि कथम्भूतः सन्न् अवतीर्णः ?
[वृ। अद्द्स्: स्वेच्छामयस्य [१०.१४.२] इत्य् अनुसारेण स्वेषां सर्वेषाम् एव भक्तानां या इच्छा तां पूरयितुम् उपात्तानि ततस् ततः स्वतः आकृष्टानि पृथग्-वपूंषि निज-तत्-तद्-आविर्भावा येन तथाभूतः सन्न् इति । तं प्रति यथाह जाम्बवान्—
यस्येषद्-उत्कलित-रोष-कटाक्ष-मोक्षैर्
वर्त्मादिशत् क्षुभित-नक्र-तिमिङ्गिलोऽब्धिः ।
सेतुः कृतः स्व-यश उज्ज्वलिता च लङ्का
रक्षः-शिरांसि भुवि पेतुर् इषु-क्षतानि ॥ [भा।पु। १०.५६.५८]
यथा च देवाः—
केतुस् त्रि-विक्रम-युतस् त्रि-पतत्-पताको
यस् ते भयाभय-करोऽसुर-देव-चम्वोः ।
स्वर्गाय साधुषु खलेष्व् इतराय भूमन्
पादः पुनातु भगवन् भजताम् अघं नः ॥ [भा।पु। ११.६.१३]
यथा वा, ब्रह्मा नारायणस् त्वम् इत्य्-आदौ नारायणोऽङ्ग नर-भू-जलायनात् [भा।पु। १०.१४.४] इति।यथा च त एव देवाः—
स्यान् नस् तवाङ्घ्रिर् अशुभाशय-धूमकेतुः
क्षेमाय यो मुनिभिर् आर्द्र-हृदोह्यमानः ।
यः सात्वतैः सम-विभूतय आत्म-वद्भिर्
व्यूहेऽर्चितः सवनशः स्वर्-अतिक्रमाय ॥ [भा।पु। ११.६.१०] इति ।
अत एवाक्रूरः—
अद्भुतानीह यावन्ति भूमौ वियति वा जले ।
त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ॥ [भा।पु। १०.४१.४]
अत एव—
गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन् नारदोऽभीक्ष्णं कृष्णोपासन-लालसः ॥ [भा।पु। ११.२.१]
[वृ। अद्दितिओन् एन्द्स् हेरे।]
स्वेच्छयोपात्तानि ततस् तत आकृष्टानि पृथग्-वपूंषि निज-तत्-तद्-आविर्भावा येन तथाभूतः सन्न् इति ।
॥ ११.११ ॥ उद्धवः श्री-भगवन्तम् ॥ ९० ॥
[९१]
तद् एवं प्रमाणवत्त्वे प्रयोजनवत्त्वे स्थिते तम् एव प्रवेशम् आह—
स्व-शान्त-रूपेष्व् इतरैः स्व-रूपैर्
अभ्यर्द्यमानेष्व् अनुकम्पितात्मा ।
परावरेशो महद्-अंश-युक्तो
**ह्य् अजोऽपि जातो भगवान् यथाग्निः ॥ [**भा।पु। ३.२.१५]
तच् च जन्म निज-तत्-तद्-अंशान्य् आदायैवेत्य् आह—महद्-अंश-युक्तः, महतः स्वस्यैवांशैर् युक्तः, महान्तं विभुम् आत्मानम् [कठ।उ। १.२.२२] इत्य्-आदि-श्रुतेः, महच् च [वे।सू। १.४.८] इति न्याय-प्रसिद्धेश् च । महान्तो ये पुरुषादयोऽंशास् तैर् युक्त इति वा । श्री-विष्णु-सहस्र-नाम-स्तोत्रे—लोक-नाथं महद्-भूतम् इतिवन् नात्मत्वाव्यभिचारः । महद्भिर् अंशिभिर् अंशैश् च युक्त इति वा ॥
॥ ३.२ ॥ विदुरं श्रीमद्-उद्धवः ॥ ९१ ॥
[९२]
तथैवम् अथाहम् अंश-भागेन [भा।पु। १०.२.९] इत्य् आदाव् अप्य् एवं व्याख्येयम् । अंशानां भागो भजनं प्रवेशो यत्र, तेन परिपूर्ण-रूपेण । अंशानां भजनेन लक्षितो वा प्राप्स्यामीति प्रकट-लीलाभिप्रायेण भविष्यन्-निर्देशः । अत एव तद्-अवतार-समये युगावताराश् च स एवेत्य् अभिप्रेत्याह—
आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतोऽनुयुगं तनूः ।
**शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ [**भा।पु। १०.८.१३]
अस्य तव पुत्रस्य प्रति-युगं तनूर् युगावतार-लीलावतारान् गृह्णतः प्रकटयतो यद्यपि तत्र तत्र शुक्लादयस् त्रयोऽप्य् अन्ये वर्णा आसन्, तथापि यो यः शुक्लस् तथा रक्तः पीतश् च, स स इदानीम् एतद् अवतार-समये कृष्णताम् एव गतः । एतस्मिन् कृष्णाकार एवान्तर्भूतः । किम् उत यो यः कृष्णः, स स एवेत्य् अर्थः ।60 कृष्णताम् एव गत एतस्मिन्न् अन्तर्भूत इत्य् अर्थः । तस्मात् कृष्णी-कर्तृत्वात् स्वयं कृष्णत्वात् सर्वाकर्षकत्वाच् च कृष्ण इत्य् एकम् अस्य नामेति प्राकरणिकोऽप्य् अर्थः श्रेयान् ।
तदानीं श्री-कृष्णस्यैव द्वापर-युगावतारत्वं श्री-करभाजनेन युगावतारोपासनायाम् उक्तम्, न तु द्वापरान्तरवच्-छुक-पक्ष-वर्णस्यान्यस्य—
द्वापरे भगवाञ् श्यामः पीत-वासा निजायुधः ।
श्रीवत्सादिभिर् अङ्कैश् च लक्षणैर् उपलक्षितः ॥
तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् ।
यजन्ति वेद-तन्त्राभ्यां परं जिज्ञासवो नृप ॥
नमस् ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ [भा।पु। ११.५.२७-२९]इति ।
अत्र श्री-कृष्णत्वे लिङ्गं महाराजोपलक्षणम् इति वासुदेवाय इत्य्-आदि च श्री-हरि-वंशोक्त-राज-राजाभिषेकाद् द्वारकायां चतुर्-व्यूहत्व-प्रसिद्धेश् च ।61
॥ १०.८ ॥ गर्गः श्री-नन्दम् ॥ ९२ ॥
[९३]
तद् एवं श्री-कृष्णस्य स्वयं-भगवत्त्वे सुष्ठु निर्धारिते, न् इत्यम् एव तद्-रूपत्वेनावस्थितिर् अपि स्वयम् एव सिद्धा । तथापि मन्द-धियां भ्रान्ति-हानार्थम् इदं विव्रियते । तत्र तावद् आराधना-वाक्येनैव सा सिध्यति । आराध्यस्याभावे आराधना-नोदनाया विप्रलिप्सा-जन्यत्वापत्तेः। तच् च परमाप्ते शास्त्रे न सम्भवति । सम्भवे च पुरुषार्थाभावात् शास्त्रानर्थक्यम् ।
[सर्व-संवादिनी—अथ द्वि-नवतितम-वाक्यानन्तरं न् इत्यत्व-प्रकरणे “शास्त्रानर्थक्यम्” इत्य् अस्यानन्तरम् इदं विवेचनीयम्—ननु बालातुराद्य्-उपच्छन्दन-वाक्यवत् तज्-ज्ञान-मात्रेणापि पुरुषार्थ-सिद्धिर् दृश्यते । ततो नार्थान्तर-सद्-भावे तत्-स्मारक-वाक्यं कारणम् । किन्तु प्रथमतस् तद्-अभिरुचिते तदानीम् असत्य् अपि वस्तु-विशेषे तदीय-हित-वस्त्व्-अन्तर-चित्तावताराय बालादीन् इव मात्रादि-वाक्यं स-गुण-विशेषे साधकान् प्रवर्तयति शास्त्रम् । पश्चाद् यथा स्व-हिते क्रमेण स्वयम् एव प्रवर्तन्ते बालादयस् तथा बलवच् छास्त्रान्तरं दृष्ट्वा निर्गुणे वा न् इत्य-प्राकट्य-वैकुण्ठ-नाथ-लक्षण-सगुणे वा प्रवर्त्स्यन्त इति ? तन् न, अनन्त-गुण-रूपादि-वैभव-न् इत्यास्पदत्वात् । तद्-रूपेणावस्थितिर् नासम्भवितेति, यद् भूतं62 भवच् च भविष्यच् च [बृ।आ।उ। ३.८.३] इति श्रुतेः ।
सम्भावितायां तु तस्याम् अवतार-वाक्यं चावतारस्य प्रपञ्च-गत-तदीय-प्रकाश-मात्र-लक्षणत्वात् । नारायणादीनां च तत्रैवावतारे प्रवेश-मात्र-विवक्षातो न विरुध्यते । किं चोत्तर-मीमांसायां तत्-तद्-उपासना-शास्त्रोक्ता या या मूर्तिस् तद्वती एव देवता इति सिद्धान्त-ग्रहः । ततश् च तं पीठगं ये तु यजन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् [गो।ता।उ। १.२०] इत्य्-आदिका गोपाल-तापन्य्-उपनिषदि येनायथार्था मन्यते तस्य तु महद् एव साहसम् । अत्र च शाश्वत-सुख-फल-प्राप्ति-श्रवणात् तत्-पीठस्य यजनं विनाज्ञानं साहस-मयं, ज्ञानात् मोक्ष इति श्रुतेः । तत्रैव घोरा इति विशेषणात् बालातुरवद् भावस् तेषां दूर एवोत्सारितः । नेतरेषाम् इति निर्धारणेन तद्-यजनस्य परम्परा-हेतुत्वम् अपि निषिध्यते । अत एव नाम ब्रह्मेत्य् उपासीत [छा।उ। ७.१.५] इतिवद् अत्रारोपोऽपि न मन्तव्यः । तस्माद् आराधन-वाक्येन तस्य न् इत्यत्वं सिध्यत्य् एव । स्वाध्यायादिष्ट-देवता-सम्प्रयोग [पातञ्जलि सू। साधन प। ४४ सू] इति स्मरणं चात्रोपष्टम्भकम् इति ॥]
आरोपश् च परिच्छिन्न-गुण-रूप एव वस्तुनि कल्प्यते, नानन्त-गुण-रूपे । श्री-स्वामि-चरणैर् अपीदम् एव पुष्टम् एकादश-समाप्तौ धारणा-ध्यान-मङ्गलम् [भा।पु। ११.३१.६] इत्य् अत्र धारणाया ध्यानस्य च मङ्गलं शोभनं विषयम्, इतरथा तयोर् निर्विषयत्वम् । दृश्यते चाद्याप्य् उपासकानां साक्षात्कारस् तत्-फल-प्राप्तिश् चेति भावः ।
श्रूयते चैवं पञ्चमे नवसु वर्षेषु तत्-तद्-अवतारोपासनादि । यथोक्तं—नवस्व् अपि वर्षेषु भगवान् नारायणो महा-पुरुषः पुरुषाणां तद्-अनुग्रहायात्म-तत्त्व-व्यूहेनात्मनाद्यापि सन्निधीयते [भा।पु। ५.१७.१४] इति ।
सन्निधानं चेदं साक्षाद्-रूपेण श्री-प्रद्युम्नादौ गति-विलासादेर् वर्णितत्वात् । तत्र चात्मना स्वयम् एवेत्य् उक्तम् । तथा न् इत्यत्वे एव शालग्राम-शिलादिषु नरसिंहत्वादि-भेदश् च सङ्गच्छते । तत्-तद्-अवतार-सान्निध्याद् एव हि तत्-तद्-भेदः ।
तथा श्री-कृष्णम् अधिकृत्यापि गीतं श्री-कृष्ण-सहस्र-नाम-प्रारम्भे श्री-विष्णु-धर्मोत्तरे—
तस्य हृष्टाशयः स्तुत्या विष्णुर् गोपाङ्गनावृतः ।
तापिञ्छ-श्यामलं रूपं पिञ्छोत्तंसम् अदर्शयत् ॥ इति ।
अग्रे च तद्-वाक्यम्—
माम् अवेहि महाभाग कृष्णं कृत्य-विदां वर ।
पुरस्कृतोऽस्मि त्वद्-भक्त्या पूर्णाः सन्तु मनोरथाः ॥ इति ।
तथा पाद्मे निर्माण-खण्डे—पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-गोपितम् इति श्री-भगवद्-वाक्यानन्तरं ब्रह्म-वाक्यम्—
ततोऽपश्यम् अहं भूप बालं कालाम्बुद-प्रभम् ।
गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः ॥
कदम्ब-मूल आसीनं पीत-वाससम् अद्भुतम् ।
वनं वृन्दावनं नाम नव-पल्लव-मण्डितम् ॥ इत्य् आदि ।
त्रैलोक्य-संमोहन-तन्त्रे श्रीमद्-अष्टादशाक्षर-जप-प्रसङ्गे—
अहर्-निशं जपेद् यस् तु मन्त्री नियत-मानसः ।
स पश्यति न सन्देहो गोप-रूप-धरं63 हरिम् ॥ इति ।
[सर्व-संवादिनी: त्रैलोक्य-संमोहन-तन्त्र-वचनानन्तरं चैवं व्याख्येयम् । यदि वा श्री-कृष्णादीनां स्वयं-भगवत्त्वादिकम् अननुसन्धायैव प्रलापिभिर् उपासनानुसारेणान्यदापि कश्चिन् मूल-भूत एव भगवान् तद्-रूपेणोपासकेभ्यो दर्शनं ददातीति मन्तव्यम् । तथापि श्रुत्य्-आदि-प्रसिद्धानां तत्-तद्-उपासना-प्रवाहाणां
स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भवार्णवं भीमम् अदभ्र-सौहृदाः ।
भवत्-पदाम्भोरुह-नावम् अत्र ते
निधाय याताः सद्-अनुग्रहो भवान् ॥ [भा।पु। १०.२.३१]
इत्य् अनुसारेणाविच्छिन्न-सम्प्रदायत्वेनादि-सिद्धत्वात् अनन्तत्वात् केषांचित् तच्-चरणारविन्दैक-सेवा-मात्र-पुरुषार्थानां, ये यथा मां प्रपद्यन्ते [गीता ४.११] इति न्यायेन न् इत्य-तद्-एकोपलब्धत्वात् श्री-भगवतः सर्वदैव तत्-तद्-रूपेणावस्थितिर् गम्यते एव । अत एव भवत्-पदाम्भोरुह-नावमात्र ते निधाय [१०.२.३१] इत्य् उक्तम् ॥]
गौतमीये च सद्-आचार-प्रसङ्गे—
अहर्-निशं जपेन् मन्त्रं मन्त्री नियत-मानसः ।
स पश्यति न सन्देहो गोप-वेश-धरं हरिम् ॥ इति ।
श्री-गोपाल-तापनी-श्रुतिश् चैवम्—तदु होवाच ब्राह्मणोऽसाव् अन्वरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत । गोप-वेशो मे पुरुषः पुरस्ताद् आविर्बभूव ॥ [गो।ता।उ। १.२९] इति सिद्ध-निर्देशोऽपि श्रूयते, यथा—वन्दे वृन्दावनासीनम् इन्दिरानन्द-मन्दिरम् [ना।पु। १.१.१] इति बृहन्-नारदीयारम्भे मङ्गलाचरणम् ।
गृहं सन्तिष्ठते यस्य माहात्म्यं द इत्य-नायक ।
द्वारकायाः समुद्भूतं सान्निध्यं केशवस्य च ।
रुक्मिणी-सहितः कृष्णो न् इत्यं निवसते गृहे ॥
इति स्कान्दे द्वारका-माहात्म्ये बलिं प्रति श्री-प्रह्लाद-वाक्यम् ।
व्रतिनः कार्त्तिके मासि स्नातस्य विधिवन् मम ।
गृहाणार्घ्यं मया दत्तं राधया सहितो हरे64 ॥ [प।पु। ६.९३.२४]
इति पाद्म-कार्त्तिक-माहात्म्ये तत्-प्रातः-स्नानार्घ्य-मन्त्रः । एवं च श्रीमद्-अष्टादशाक्षरादयो मन्त्रास् तत्-तत्-परिकरादि-विशिष्टतयैवाराध्यत्वेन सिद्ध-निर्देशम् एव कुर्वन्ति । तद्-आवरणादि-पूजा-मन्त्राश् च । किं बहुना, कर्म-विपाक-प्रायश्चित्त-शास्त्रेऽपि तया श्रूयते । यद् आह बोधायनः—होमस् तु पूर्ववत् कार्यो गोविन्द-प्रीतये ततः इत्य् आद्य् अनन्तरं—
गोविन्द गोपीजन-वल्लभेश
कंसासुरघ्न त्रिदशेन्द्र-वन्द्य ।
गोदान-तृप्त कुरु मे दयालो
अर्षो-विनाशं क्षपितारि-वर्ग ॥ इति ।
अन्यत्र च यथा—
गोविन्द गोपीजन-वल्लभेश
विध्वस्त-कंस त्रिदशेन्द्र-वन्द्य ।
गोवर्धनादि-प्रवरैक-हस्त
संरक्षिताशेष-गव-प्रवीण ॥
गो-नेत्र-वेणु-क्षपण प्रभूतम्
आन्ध्यं तथोग्रं तिमिरं क्षिपांशु ॥ इति ।
स्पष्टं च तथात्वं श्री-गोपाल-तापन्यां—गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणोऽहं तोषयामि [गो।ता।उ। १.३७] इति ।
अत एव पुरस्कृतोऽस्मि त्वद्-भक्त्या [वि।ध।पु।] इत्य् एवोक्तम् इति । अलं चैवां-विध-प्रमाण-सङ्ग्रह-प्रपञ्चेन, यतश् चिच्-छक्त्य्-एक-व्यञ्जितानां तत्-परिच्छदादीनां अपि तथा न् इत्यावस्थितित्वेनाविर्भाव-तिरोभावाव् एव द्वितीय-सन्दर्भे साधितौ स्तः । सर्वथोत्पत्ति-नाशौ तु निषिद्धौ । ततस् तद्-अवताराणां किम् उत, स्वयं भगवतो वा तस्य किम् उततराम् इति । यथा च व्याख्यातं जगृहे पौरुषं रूपम् इत्य् अत्र तत्त्व-वाद-गुरुभिः—व्यक्त्य्-अपेक्षया जगृहे । तथा च तन्त्र-भागवते—
अहेयम् अनुपादेयं यद् रूपं न् इत्यम् अव्ययम् ।
स एवापेक्ष्य-रूपाणां व्यक्तिम् एव जनार्दनः ॥
अगृह्णाद् व्यसृजच् चेति राम-कृष्णादिकां तनुम् ।
पठ्यते भगवान् ईशो मूढ-बुद्धि-व्यपेक्षया ॥
तमसा ह्य् उपगूढस्य यत् तमः-पानम् ईशितुः ।
एतत् पुरुष-रूपस्य ग्रहणं समुदीर्यते ॥
कृष्ण-रामादि-रूपाणां लोके व्यक्ति-व्यपेक्षया ॥ इति ।
एवम् एव प्रथमे द्वादशाध्याये विधूय [भा।पु। १.१२.११]65 इत्य्-आदि-पद्ये स्वामिभिर् अपि व्याख्यातम्—यत्र दृष्टस् तत्रैवान्तर्हितः न त्व् अन्यत्र गतः । यतो विभुः सर्व-गतैति । तथा माध्व-भाष्य-प्रमाणिता श्रुतिश् च—
वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो नरसिंहो वामनो रामो रामो रामः कृष्णो बुद्धः कल्किर् अहं शतधाहं सहस्रधाहम् इतोऽहम् अनन्तोऽहं नैवैते जायन्ते नैते म्रियन्ते । नैषाम् अज्ञान-बन्धो न मुक्तिः सर्व एव ह्य् एते पूर्णा अजरा अमृताः परमा परमानन्दा इति चतुर्वेद-शिखायाम् ।
तथा च श्री-नृसिंह-पुराणे—युगे युगे विष्णुर् अनादि-मूर्तिम् आस्थाय विश्वं परिपाति दुष्टहाइति ।
तथा च नृसिंह-तापन्यां तद्-भाष्य-कृद्भिर् व्याख्यातम्—
एतन् नृसिंह-विग्रहं न् इत्यम् इति ।श्रुतिश् च—सेयं ऋतं सत्यं परं ब्रह्म पुरुषं, नृ-केशरि-विग्रहम् इति ।66
एवं च ब्राह्म-पाद्मोत्तर-खण्डादाव् अपि श्री-मत्स्य-देवादीनां च पृथक् पृथग् वैकुण्ठादि-लोकाः श्रूयन्ते । एवम् एव जलेषु मां रक्षतु मत्स्य-मूर्तिर् [६.८.१३]इति नारायण-वर्माद्य्-उक्तम् अपि सङ्गच्छते ।
तस्मात् स्वयं भगवति श्री-कृष्णेऽप्य् अन्यथा-सम्भावनम् अनादि-पाप-विक्षेप एव हेतुः । तद् एवम् अभिप्रेत्य तान् दुर्बुद्धीन् अपि बोधयितुं तस्य स्वोपास्यत्वं प्रतिपादयन्न् आह—
पतिर् गतिश् चान्धक-वृष्णि-सात्वतां
प्रसीदतां मे भगवान् सतां पतिः ॥ [भा।पु। २.४.२०] इति ।
स्पष्टम् ।
॥ २.४ ॥ श्री-शुकः ॥ ९३ ॥
[९४]
तथा—**देवे वर्षति यज्ञ-विप्लव-रुषा इत्य्-आदौ प्रीयान् न इन्द्रो गवाम् [**भा।पु। १०.२६.२५] इति । स्पष्टम् ।
॥ १०.२६ ॥ श्री-शुकः ॥ ९४ ॥
[९५]
तथा—
श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्-
राजन्य-वंश-दहनानपवर्ग-वीर्य ।
गोविन्द गोप-वनिता-व्रज-भृत्य-गीत-
**तीर्थ-श्रवः श्रवण-मङ्गल पाहि भृत्यान् ॥ [**भा।पु। १२.११.२५]
स्पष्टम् ।
॥ १२.११ ॥ श्री-सूतः ॥ ९५ ॥
[९६]
अपि च स्वयम् एव स्व-विग्रहम् एव लक्ष्यीकृत्याह—
तदा वां परितुष्टोऽहम् अमुना वपुषानघे ।
तपसा श्रद्धया न् इत्यं भक्त्या च हृदि भावितः ॥
प्रादुरासं वरद-राड् युवयोः काम-दित्सया ।
व्रियतां वर इत्य् उक्ते मादृशो वां वृतः सुतः ॥ [भा।पु। १०.३.३७-३८]
इत्य् उपक्रम्य—
अदृष्ट्वान्यतमं लोके शीलौदार्य-गुणैः समम् ।
अहं सुतो वाम् अभवं पृश्निगर्भ इति श्रुतः ॥
तयोर् वां पुनर् एवाहम् अद् इत्याम् आस कश्यपात् ।
उपेन्द्र इति विख्यातो वामनत्वाच् च वामनः ॥
तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् ।
**जातो भूयस् तयोर् एव सत्यं मे व्याहृतं सति ॥ [**भा।पु। १०.३.४१-४३] इति ।
अमुना श्री-कृष्णस्य मम प्रादुर्भाव-समयेऽत्र प्रकाशमानेनैतेन श्री-कृष्णाख्येनैव । तृतीय इति तेनैव पूर्वं वरार्थं प्रादुर्भावितेनैव । अत एव पृश्निगर्भादित्वे तेनैव वपुषेत्य् उक्तत्वान् न तु तदानीम् अधुनेव स्वयम् एव बभूव किन्त्व् अंशेनैवेति गम्यते । पृश्निगर्भस् तु ते बुद्धिम् आत्मानं भगवान् परः [भा।पु। १०.६.१२] इत्य् अत्राप्य् एतद् एव गीर्-देव्या सूचितम् अस्ति । अत एव तृतीय एव भवे तत्-सदृश-सुत-प्राप्ति-लक्षण-वरस्य परम-पूर्णत्वापेक्षया तत्रैव सत्यं मे व्याहृतम् इत्य् उक्तम् । चतुर्भुजत्वं चेदं रूपं श्री-कृष्ण एव, कृष्णावतारोत्सवः [भा।पु। १०.३.११] इत्य्-आदिभिस् तस्यात्यन्त-प्रसिद्धेः ॥
॥ १०.३ ॥ श्री-भगवान् देवकी-देवीम् ॥ ९६ ॥
[९७]
एवं च **देवक्यां देव-रूपिण्याम् [**भा।पु। १०.३.८] इत्य्-आदि । स्पष्टम् ।
॥ १०.३ ॥ श्री-शुकः ॥ ९७ ॥
[९८]
ननु सत्यं तस्य चतुर्भुजाकार-रूपस्य तादृशत्वं, किन्तु रूपं चेदं पौरुषं ध्यान-धिष्ण्यं मा प्रत्यक्षं मांस-दृशां भो कृषीष्ठाः [भा।पु। १०.३.२८] इति मातृ-विज्ञापनानुसारेण,
एतद् वां दर्शितं रूपं प्राग्-जन्म-स्मरणाय मे ।
नान्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥ [भा।पु। १०.३.४४]
इति प्रत्युत्तरय्य—
इत्य् उक्त्वासीद् धरिस् तूष्णीं भगवान् आत्म-मायया ।
पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ [भा।पु। १०.३.४६]
इत्य् उक्त-दिशा यन्-मानुषाकार-रूपं स्वीकृतवान् तत्र सन्दिग्धम् इव भाति । अत्र च भवतु वा हरिर् अपि तत्याज आकृतिं त्र्य्-अधीश [भा।पु। ३.४.२८] इति, त्यक्षन् देहम् [भा।पु। ३.४.२९] इति च तन्त्र-भागवतानुसारेणान्तर्धापनार्थत्वाद् असहायम् ।
ययाहरद् भुवो भारं तां तनुं विजहाव् अजः ।
कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥
यथा मत्स्यादि-रूपाणि धत्ते जह्याद् यथा नटः ।
भू-भारः क्षपितो येन जहौ तच् च कलेवरम् ॥ [भा।पु। १.१५.३४-३५]
इति तु परिपोषकम् । एतद् एव श्री-वसुदेव-वचनेऽपि लभ्यते—
सूती-गृहे ननु जगाद भवान् अजो नौ
सञ्जज्ञ इत्य् अनु-युगं निज-धर्म-गुप्त्यै ।
नाना-तनूर् गगन-वद् विदधज् जहासि
को वेद भूम्न उरु-गाय विभूति-मायाम् ॥ [भा।पु। १०.८५.२०] इत्यत्र ।
अत्रोच्यते—तत्-तद्-वचनम् अन्यार्थत्वेन दृश्यम् इति । एकस्मिन्न् एव तस्मिन् श्री-विग्रहे कदाचित् चतुर्भुजत्वस्य कदाचिद् द्विभुजत्वस्य च प्रकाश-श्रवणेनाविशेषापाताद् भू-भार-क्षपणे द्वयोर् अपि सामान्यात् । सूती-गृहे इत्य्-आदि-वाक्यस्य चतुर्भुज-विषयत्वाच् च । किं च, यैर् विद्वद्-अनुभव-सेवित-शब्द-सिद्धैर् न् इत्यत्वादिभिर् धर्मैः श्री-विग्रहस्य परम-तत्त्वाकारत्वं साधितम् । ते प्रायशो नराकारम् अधिकृत्यैव ह्य् उदाह्रियन्ते स्म द्वितीय-सन्दर्भे । तथात्रैव चोपासकेषु साक्षात्कारादि-लिङ्गेन सिद्ध-निर्देशेन च तद्-आकारस्यापि न् इत्य-सिद्धत्वं दृढीकृतम् । उदाहरिष्यते च सिद्ध-निर्देशः—मां केशवो गदया प्रातर् अव्याद् गोविन्द आसङ्गव आत्त-वेणुः [भा।पु। ८.९.२०] इति ।
संप्रत्य् अन्यद् अपि तत्रोदाह्रियते । तत्र न् इत्यत्वं यथा—
कंसो बताद्याकृत मेऽत्य्-अनुग्रहं
द्रक्ष्येऽङ्घ्रि-पद्मं प्रहितोऽमुना हरेः ।
कृतावतारस्य दुरत्ययं तमः
पूर्वेऽतरन् यन्-नख-मण्डल-त्विषा ॥
यद् अर्चितं ब्रह्म-भवादिभिः सुरैः
श्रिया च देव्या मुनिभिः स-सात्वतैः ।
गो-चारणायानुचरैश् चरद् वने
**यद् गोपिकानां कुच-कुङ्कुमाङ्कितम् ॥ [**भा।पु। १०.३८.७-८]
अत्र पूर्व इत्य्-आदि-द्योतितं गो-चारणाय इत्य्-आदि-लब्धस्य स्फुटं श्री-नराकारस्यैव न् इत्यावस्थायित्वं लभ्यते ॥
॥ १०.३८ ॥ श्रीमद्-अक्रूरः ॥ ९८ ॥
[९९]
तथा—
या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर्
योगेश्वरैर् अपि सदात्मनि रास-गोष्ठ्याम् ।
कृष्णस्य तद् भगवतश् प्रपदारविन्दं67
**न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ [**भा।पु। १०.४७.६२]
सदा भूत-वर्तमान-भविष्यत्-कालेषु श्र्य्-आदीनां सर्वदावस्थायित्वेन प्रसिद्धेः । सदा इत्य् अस्य तथैव ह्य् अर्थ-प्रतीतिः, सङ्कोच-वृत्तौ कष्टतापत्तेः, श्री-भगवति तादृशत्वासम्भवाच् च68 । तथा च श्री-गोपाल-तापनी-श्रुतौ—गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भू-रुह-तलासीनं सततं स-मरुद्-गणोऽहं तोषयामि [गो।ता।उ। १.३७] इति ब्रह्म-वाक्यम् ।
तदुत्तर-तापनी-श्रुतौ श्री-गोपीः प्रति दुर्वाससो वाक्यम्—जन्म-जराभ्यां भिन्नः स्थानुर् अयम् अच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति, योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति, योऽसौ गोपेषु तिष्ठति, स वो हि स्वामी भवति [गो।ता।उ। २.२३] इति ॥
॥ १०.४७ ॥ श्रीमद्-उद्धवः ॥ ९९ ॥
[१००]
एवं च—
यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो
धृतात्मभिर् योगिभिर् अप्य् अलभ्यः ।
स एव यद्-दृग्-विषयः स्वयं स्थितः
**किं वर्ण्यते दिष्टम् अहो व्रजौकसाम् ॥ [**भा।पु। १०.१२.१२]
अत्र स्वयम् इत्य् अनेन तु बाढम् एवान्यथा-प्रतीतिर् दुर्धियां निरस्ता ।स्थित इति वर्तमाने क्तः । यच् च किञ्चिज् जगत् सर्वं व्याप्य नारायण स्थितः [महानारायण उपनिषद् ९.५] इतिवत् ।69
॥ १०.१२ ॥ इति शुकः ॥ १०० ॥
[१०१]
अत एव स्वभाव-सिद्धत्वं पूर्णैश्वर्याद्य्-आश्रयत्वं च—
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं
लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् ।
दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम्
**एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥ [**भा।पु। १०.४४.१४]
अनन्य-सिद्धम् अन्येन तत् सिद्धम् इति न, किन्तु स्वाभाविकम् एवेत्य् अर्थः । अन्यत्रासिद्धम् इति तु व्याख्यापि पिष्ट-पेषणम् । असमोर्ध्वम् इति हि युक्तम् एव ।तद् इदं च तासां वाक्यं श्री-शुकदेवादिभिः स्वयम् अनुमोदितम् इति नान्यथा मन्तव्यम् ।70
॥ १०.४४ ॥ मथुरा-पुर-स्त्रियः परस्परम् ॥ १०१ ॥
[१०२]
अथ विभुत्वं—न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य्-आदौ ।
प्राकृत-वस्त्व्-अतिरिक्तत्वम् त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् [भा।पु। १०.६०.४५] इत्य्-आदौ स्पष्टम् ।
स्व-प्रकाश-लक्षणत्वम्,
अस्यापि देव-वपुषो मद्-अनुग्रहस्य
स्वेच्छा-मयस्य न तु भूत-मयस्य कोऽपि ।
नेशे महित्ववसितुं मनसान्तरेण
**साक्षात् तवैव किम् उतात्म-सुखानुभूतेः ॥ [**भा।पु। १०.१४.२]
अस्यनौमीड्य ते [भा।पु। १०.१४.१] इत्य्-आदिना वर्णित-लक्षणस्य श्रीमन्-नराकारस्य तव सम्प्रति बालक-वत्साद्य्-अंशैर् दर्शितेषु एकम् अपि **देव-**रूपं चतुर्भुजाकारं यद् वपुः, तस्यापि, अस्तु वा तावत् समस्तानाम् इत्य् अर्थः ।एवं71 च सति साक्षाद् एतद्-रूपस्यांशिनस् तव, किम् उत देव-वपुषः, विशेषणं मद्-अनुग्रहस्य इत्य्-आदि । ममानुग्रहो यस्मात्, तस्यबाल-वत्स-यष्टि-वेण्व्-आद्य्-अंशतस् तादृश-रूप-प्रकटन-दर्शनेनैव भवन्-महिम-ज्ञानात् । कथम्भूतस्य तव ? आत्म-सुखानुभूतेः । आत्मना स्वेनैव, न त्व् अन्येन सुखस्यानुभूतिर् अनुभवो यस्य, तस्यानन्य-वेद्यानन्दस्येत्य् अर्थः ।
॥ १०.१४ ॥ ब्रह्मा श्री-भगवन्तम् ॥ १०२ ॥
[१०३]
कैमुत्येन स्वयं-रूपत्व-निर्देशश् च—
सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता
मनोमयी भागवतीं ददौ गतिम् ।
स एव न् इत्यात्म-सुखानुभूत्य्-अभि-
**व्युदस्त-मायोऽन्तर्-गतो हि किं पुनः ॥ [**भा।पु। १०.१२.३९]
स्पष्टम् ॥ ॥ १०.१२ ॥ श्री-शुकः ॥ १०३ ॥
[१०४]
अत एव साक्षात् पर-ब्रह्मत्वम् एव दर्शितम्—अद्यैव त्वद्-ऋतेऽस्य72 [भा।पु। १०.१४.१८] इत्य्-आदौ, अहो भाग्यम् अहो भाग्यम्73 [भा।पु। १०.१४.३२] इत्य्-आदौ च । अतएवोक्तं गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु। ७.१५.७५] इति । वैष्णवे च—
यदोर् वंशं नरः श्रुत्वा सर्व-पापैः प्रमुच्यते ।
यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति ॥ [वि।पु। ४.११.२] इति ।
नराकृति परं ब्रह्म इति बृहत्-सहस्र-नाम-स्तोत्रे च । एतेन श्री-कृष्णस्य नराकृतित्वम् एवेति । द्विभुजत्व एव श्री-कृष्णत्वं नराकृति-कैवल्यान् मुख्यं, चतुर्भुजत्वे तु श्री-कृष्णत्वं नराकृति-भूयिष्ठत्वात् तद्-अनन्तरम् एव । अत एव चतुर्भुजत्वेऽपि मनुष-रूपत्वं वर्णितं श्रीमद्-अर्जुनेन तेनैव रूपेण चतुर्भुजेन सहस्र-बाहो भव विश्व-मूर्ते [गीता ११.५१] इत्य् उक्त्वा, दृष्ट्वेदं मानुषं रूपं तव सौम्य जनार्दन, इदानीम् अस्मि संवृत्तः [गीता ११.५१] इत्य् उक्तत्वात् । एवं-जातीयकानि बहूनि, तानि च द्रष्टव्यानि ।
अत एव सा नराकारा मूर्तिर् एव परम-कारणं वस्तु-तत्त्वम् इत्य् आह—नारायणे कारण-मर्त्य-मूर्तौ**74 [**भा।पु। १०.४६.३३] सर्व-कारणं यत् तत्त्वं तद् एव मर्त्याकारा मूर्तिर् यस्य । तद् उक्तं तत्त्वं परं योगिनाम् [भा।पु। १०.४३.१७] इति ।
तथा च पाद्म-निर्माण-खण्डे श्री-वेद-व्यास-वाक्यम्—
दृष्ट्वातिहृष्टो ह्य् अभवं सर्व-भूषण-भूषणम् ।
गोपालम् अबला-सङ्गे मुदितं वेणु-वादिनम् ॥
ततो माम् आह भगवान् वृन्दावन-चरः स्वयम् ।
यद् इदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥
निष्कलं निष्क्रियं शान्तं सच्-चिद्-आनन्द-विग्रहम् ।
पूर्णं पद्म-पलाशाक्षं नातः-परतरं मम ॥
इदम् एव वदन्त्य् एते वेदाः कारण-कारणम् ॥ इत्य् आदि ।
॥ १०.४६ ॥ उद्धवः श्री-व्रजेश्वरम् ॥ १०४ ॥
[१०५]
अत एव बहूंश् चतुर्भुजान् दृष्टवान् अपि श्री-नराकारस्यैव विशेषतः स्तुत्यत्वं प्रतिजानीते । **नौमीड्य तेऽभ्र-वपुषे तडिद्-अम्बराय [**भा।पु। १०.१४.१] इत्य्-आदि ।75
इदम् एव तव परमं तत्त्वम् इत्य् अज्ञात्वा पूर्वम् अहं भ्रान्तवान् । अधुना तु अद्यैव त्वद्-ऋतेऽस्य किम् [भा।पु। १०.१४.१८]76 इत्य्-आदि-दिदर्शितया भवतः कृपया ज्ञातवान् इत्य् अत एव77 तद्-आकारम् एव त्वां लब्धुं स्तौमीति तात्पर्यम् ।
॥ १०.१४ ॥ ब्रह्मा श्री-भगवन्तम् ॥ १०५ ॥
[१०६]
तद् एवं साधूक्तं तत्तद्वचनम् अन्यार्थत्वेन दृश्यम् इति । तथा हि पूर्व-रीत्या चतुर्भुजत्व-द्विभुजत्वयोर् द्वयोर् अपि ध्यान-धिष्ण्यत्वे सति, यत् पूर्वस्य जनन्या निगूहन-प्रार्थनं, तत् तु तस्य प्रसिद्धतया सर्व एव ज्ञास्यतीति जन्म ते मय्य् असौ पापोमा विद्यान् मधुसूदन [भा।पु। १०.३.२९] इत्य्-आद्य्-उक्त-लक्षणया कंस-भिया, विश्वं यदेतत् स्व-तनौ निशान्ते [भा।पु। १०.३.३१] इत्य्-आद्य्-उक्त-लक्षणया मांस-दृक्-शब्दोक्त-भगवत्-स्वरूप-शक्ति-विलास-तज्-जन्मादि-लीला-तत्त्वानभिज्ञ-प्राकृत-दृग्भ्यो78 लज्जया च । न पुनर् अपरस्य79 गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु। ७.१५.३५] इत्य्-आदौ गूढत्वेन कथितस्य ध्यान-धिष्ण्यत्वाभाव-विवक्षया । श्री-गोपाल-तापनी-श्रुताव् अप्य् उभयोर् अपि ध्यान-धिष्ण्यत्वं श्रूयते—
मथुरायां विशेषेण मां ध्यायन् मोक्षम् अश्नुते ।
अष्ट-पत्रं विकसितं हृत्-पद्मं तत्र संस्थितम् ॥ [गो।ता।उ। २.५८-५९]
इत्य्-आदिषु मध्ये चतुर्-भुजं शङ्ख-चक्र- [गो।ता।उ। २.६०] इत्य्-आदिकम् उक्त्वा सर्वान्ते—शृङ्ग-वेणु-धरं तु वा [गो।ता।उ। २.६०] इत्य् अप्य् उक्तम् । एवम् आगमेऽपि द्विभुज-ध्यानं श्रूयते—तस्मान् निगूढत्व-विवक्षयैव समीचीना । तथैव तद्-विवक्षया, नान्यथा मद्-भवं मर्त्य-लिङ्गेन जायते [भा।पु। १०.३.४४] इति श्री-भगवतोक्तम् ।
तथा च पाद्म-निर्माण-खण्डे श्री-भगवद्-वाक्यं व्यास-वाक्ये—
पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-गोपितम् ।
ततोऽपश्यम् अहं भूप बालं कालाम्बुद-प्रभम् ।
गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः ॥ [प।पु। ५.७३.१८] इति ।
एवम् इत्य् उक्त्वासीद् धरिस् तूष्णीम् [भा।पु। १०.३.४६] इत्य्-आदौ च व्याख्येयम् । आत्म-मायया स्वेच्छया, आत्म-माया तद्-इच्छा स्यात् इति महा-संहितोक्तेः । प्रकृत्या स्वरूपेणैव व्यक्तः प्राकृतः, न त्व् औपाधिकतया । शैषिकोऽण् । तत्र हि भगवद्-विग्रहे शिशुत्वादयो विचित्रा एव धर्माः स्वाभाविकाः सन्तीति को वेत्ति भूमन् [भा।पु। १०.१४.२१] इत्य् अस्य व्याख्याने द्वितीय-सन्दर्भे दर्शितम् एव ।
अत्र श्री-रामानुजाचार्य-सम्मतिर् अपि । श्री-गीतासु प्रकृतिं स्वाम् अवष्टभ्य सम्भवाम्य् आत्म-मायया [गीता ४.६] इत्य् अत्र, स्वम् एव स्वभावम् आस्थाय… आत्म-मायया स्व-सङ्कल्प-रूपेण ज्ञानेनेत्य् अर्थः…माया वयुनं ज्ञानम् इति नैघण्टुकाः ।80
महाभारते च अवतार-रूपस्याप्य् अप्राकृतत्वम् उच्यते—न भूत-सङ्घ-संस्थानो देहोऽस्य परमात्मनःइति ।
अथ बृहद्-वैष्णवेऽपि—
यो वेत्ति भौतिकं देहं कृष्णस्य परमात्मनः ।
स सर्वस्माद् बहिष्कार्यः श्रौत-स्मार्त-विधानतः ।
मुखं तस्यावलोक्यापि स-चेलः स्नानम् आचरेत् ।
पश्येत् सूर्यं स्पृशेद् गां च घृतं प्राश्य विशुद्ध्यति ॥ इति ।
अथ ययाहरद् भुवो भारम् [भा।पु। १.१५.३४] इत्य्-आदौ चैवं मन्तव्यम् । तनु-रूप-कलेवर-शब्दैर् अत्र श्री-भगवतो भू-भार-जिहीर्षा-लक्षणो देवादि-पिपालयिषा-लक्षणश् च भाव एवोच्यते । यथा तृतीये विंशतितमे तत्-तच्-छब्दैर् ब्रह्मणो भाव एवोक्तः । यदि तत्रैव तथा व्याख्येयं, तदा सुतराम् एव श्री-भगवतीति । ततश् च तस्य भावस्य भगवति तद्-आभास-रूपत्वात् कण्टक-दृष्टान्तः सुसङ्गत एव । तथा द्वयम् एवेशितुः साम्यम् अपि । तत् तु तृतीये सन्दर्भ एव विवृतं मत्स्यादि-रूपाणि [भा।पु। १.१५.३५] मत्स्याद्य्-अवतारेषु तत्-तद्-भावान् ।
अथ नट-दृष्टान्तेऽपि, नटः श्रव्य-काव्य-रूपकाभिनेता । व्याख्यातं च टीका-कृद्भिः प्रथमस्यैकादशे, नटा नव-रसाभिनय-चतुराः [भावार्थ-दीपिका १.११.२१] इति । ततो यथा श्रव्य-रूपकाभिनेता नटः स्वरूपेण स्व-वेशेन च स्थित एव पूर्व-वृत्तम् अभिनयेन गायन् नायक-नायिकादि-भावं धत्ते जहाति च तथेति । अत एव तृतीये—
प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् ।
आदायान्तर् अधाद् यस् तु स्व-बिम्बं लोक-लोचनम् ॥ [भा।पु। ३.२.११]
इत्य् अत्रापि **लोक-लोचन-**रूपं स्व-बिम्बं निज-मूर्तिं प्रदर्श्य पुनर् आदायैव च अन्तरधात्, न तु त्यक्त्वेत्य् उक्तं ।
श्री-सूतेन यथा मत्स्यादि-रूपाणि [भा।पु। १.१५.३५] इत्य् अनन्तरम् अपि तथोक्तं—यदा मुकुन्दो भगवान् इमां महीं जहौ स्व-तन्वा [भा।पु। १.१५.३६] इति । त्यागोऽत्र स्व-तनु-करणक इति, न तु स्व-तन्वा सहेति व्याख्येयम्, अध्याहार्यापेक्षा-गौरवात्, उपपद-विभक्तेः कारक-विभक्तिर् बलीयसीति न्यायाच् च ।
अथवा, नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ७.२५] इति श्री-गीत-वचनेन,
योगिभिर् दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् ।
द्रष्टुं न शक्यो रोषाच् च मत्सराच् च जनार्दनः ॥ [प।पु।६.२३८.८३]
इति पाद्मोत्तर-खण्ड-निर्णयेन, मल्लानाम् अशनिः [भा।पु। १०.४३.१७] इति श्री-भागवत-दर्शनेन, आत्म-विनाशाय भगवद्-अस्त-चक्रांशु-मालोज्ज्वलम् अक्षय-तेजः-स्वरूपं परम-ब्रह्म-भूतम् अपगत-द्वेषादि-दोषो भगवन्तम् अद्राक्षीत् [वि।पु। ४.१५.१५] इति शिशुपालम् उद्दिश्य विष्णु-पुराण-गद्येन चासुरेषु यद् रूपं स्फुरति, तत् तस्य स्वरूपं न भवति, किन्तु माया-कल्पितम् एव । स्वरूपे दृष्टे द्वेषश् चापयातीति । ततश् चासुरेषु स्फुरत्या यया तन्वा भुवो भार-रूपम् असुर-वृन्दम् अहरत्, तां तनुं विजहौ । पुनस् तत्-प्रत्यायनं न चकारेत्य् अर्थः ।
भक्ति-दृश्या तनुस् तु तस्य न् इत्य-सिद्धैवेत्य् आह—अज [गीता ४.६] इति, देवक्यां देव-रूपिण्याम् [भा।पु। १०.३.८] इत्य् आदेः, कृष्णं च तत्र छन्दोभिः स्तूयमानम् [भा।पु। १०.२८.१७] इत्य् अत्र गोलोकाधिष्ठातृत्व-निर्देशाच् च ।
ततश् च यथा मत्स्यादि-रूपाणि [१.१५.३५] इत्य् अस्याप्य् अयम् एवार्थः । यथा, नट ऐन्द्रजालिकः कश्चित् स्व-भक्षकानां बकादीनां निग्रहाय मत्स्याद्य्-आकारान् धत्ते, स्वस्मिन् प्रत्याययति, तन्-निग्रहे सति यथा च तानि जहाति, तथा सोऽयम् अजोऽपि येन मायित्वेन लक्ष्यतां प्रापितेन रूपेण भू-भार-रूपासुर-वर्गः क्षपितः, तद्-वर्गं क्षपितवान् इत्य् अर्थः, तच् च कलेवरम् अजो जहौ अन्तर्धापितवान् इत्य् अर्थः । किन्तु श्री-गीता-पद्ये योग-माया-समावृतः [गीता ७.२५] सर्प-कञ्चुकवन् माया-रचित-वपुर्-आभास-समावृत इत्य् अर्थः ।
विष्णु-पुराण-गद्ये आत्म-विनाशाय इति आत्मनः स्वस्य शिशुपालस्येत्य् अर्थः । भगवता अस्तं क्षिप्तं यच् चक्रं, तस्य अंशु-मालया उज्ज्वलं यथास्यात् तथा अद्राक्षीत् । यतः _अपगत-द्वेषादि-दोष्_अ इति । तया तस्य दृष्टाव् उज्ज्वलायां सत्याम् अपगत-द्वेषादि-दोषः सन् दूरीकृत-मायिक-निजावरणं भगवन्तम् अद्राक्षीद् इत्य् अर्थः ।
किं च, तन्-मते कल्पान्तर-गत-तत्-कथायां शिशुपालादि-द्वय-मुक्ति-विषयक-मैत्रेय-पराशर-प्रश्नोत्तर-रीत्या जय-विजययोः शाप-सङ्गतिर् नास्तीत्य् अन्याव् एव ताव् असुरौ ज्ञेयौ । युक्तं च तत्, प्रतिकल्पं तयोः शाप-कदर्थनाया अयुक्तत्वात् ॥81
अथ सूती-गृहे [भा।पु। १०.८५.२०] इत्य् अस्यार्थः82 । एतत्-प्राक्तन-वाक्येषु श्री-भगवन्-महिम-ज्ञान-भक्ति-प्रधानोऽसौ विशुद्ध-सत्त्व-प्रादुर्भावस्याप्य् आत्मनो मनुष्य-लीलाम् एव दैन्यातिशयतः प्राकृत-मानुषत्वेन स्थापयित्वा श्री-भगवत्य् अपत्य-बुद्धिम् आक्षिप्तवान् ।
ततश् च—ननु तर्हि कथम् अपत्य-बुद्धिं कुरुषे ? इति श्री-भगवत्-प्रश्नम् आशङ्क्य तत्र तद्-वाक्य-गौरवम् एव मम प्रमाणं न तूपपत्तिर् इत्य् आह—_सूती-गृह _इति । नौ आवयोः । अनुयुगम्, अत एव _भवानजो_ऽपि संजज्ञे अवतीर्णवान् इति _सूती-गृहे भगवान् अनुजगाद _।
ननु मया तद् अपि भवद्-आदि-तनु-प्रवेश-निर्गमापेक्षयैव संजज्ञ इत्य् उक्तम्, न तु मम प्रवेश-निर्गम-लिङ्गेनैव जन्म वाच्यम् । जीव-सखेन व्यष्टेः समष्टेर् वान्तर्यामि-रूपेण—
तं दुर्दशं गूढम् अनुप्रविष्टं
गुहाहितं गह्वरेष्ठं पुराणम् [कठ।उ। १.२.१२]
तत् सृष्ट्वा तद् एवानुप्राविशत् [तै।उ। २.६.२] इत्य्-आदौ च तत्-तद्-अनुप्रवेशादि-दर्शन-सामान्यात् । ततस् तद्वद् इदम् उपचरितम् एवेति मन्यताम् ।
तत्राह—नानेति । स्व-कृत-विचित्र-योनिषु विशन्न् इव हेतुतया [भा।पु। १०.८७.१९] इत्य्-आदि-श्रवणात् गगनवद् असङ्ग एव त्वं यज्जीवानां नाना-तनूर् विदधत् प्रविशन् जहासि । मुहुः प्रविशसि जहासि चेत्य् अर्थः । तद्-भूम्नस् तव विभूति-विशेष-रूपां मायां को वेद बहु मन्यते ? न कोऽपीत्य् अर्थः । इदं त्व् आवाभ्यां जन्म सर्वैर् एव स्तूयते इति भावः । ततो विद्वद्-आदरोऽप्य् अत्रास्तु प्रमाणं, मम तु तत् सर्वथा न बुद्धि-गोचर इति व्यञ्जितम् ।
अत्र विद्-धातोः प्रवेशार्थो नानुपपन्नः । यथोक्तं सहस्र-नाम-भाष्ये—शिष्टान् करोति पालयतिइति । सामान्य-वचनो धातुर् विशेष-वचने दृष्टः । कुरु काष्ठानीत्य् आहरणे यथा तद्वद् इति ।
तद् एवं श्री-कृष्णस्य स्वयं भगवत्त्वं तस्यैव नराकृति-पर-ब्रह्मणो न् इत्यम् एव तद्-रूपेणावस्थायित्वं दर्शितम् । तथा प्रथमे पृथिव्यापि सत्यं शौचं दया क्षान्तिः [भा।पु। १.१६.२७] इत्य्-आदिना तदीयानां कान्ति-सह-ओजो-बलानां स्वाभाविकत्वम् अव्यभिचारित्वं च दर्शितम् । अत एव ब्रह्माण्डे चाष्टोत्तर-शत-नाम-स्तोत्रे नराकृतित्वं प्रकृत्यैवोक्तम्—
नन्द-व्रज-जनानन्दी सच्-चिद्-आनन्द-विग्रहः ।
नव-नीत-विलिप्ताङ्गो नव-नीत-नटोऽनघ ॥ इति ।
श्री-गोपाल-पूर्व-तापन्याम् अपि तथैव—
न् इत्यो न् इत्यानां चेतनश् चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥ [गो।ता।उ। १.२०] इति ।
तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् [गो।ता।उ। १.३३] इत्य्-आदि च । तस्माच् चतुर्-भुजत्वे द्विभुजत्वे च श्री-कृष्णत्वस्याव्यभिचारित्वम् एवेति सिद्धम् ।
अथ कतमत् तत्-पदं यत्रासौ विहरति ? तत्रोच्यते—
या यथा भुवि वर्तन्ते पुर्यो भगवतः प्रियाः ।
तास् तथा सन्ति वैकुण्ठे तत्-तल्-लीलार्थम् आदृताः ॥
इति स्कान्द-वचनानुसारेण वैकुण्ठे यद् यत् स्थानं वर्तते, तत् तद् एवेति मन्तव्यम् । तच् चाखिल-वैकुण्ठोपरि-भाग एव, यतः पाद्मोत्तर-खण्डे दशावतार-गणने श्री-कृष्णम् एव नवमत्वेन वर्णयित्वा, क्रमेण पूर्वादिषु तद्-दशावतार-स्थानानां परम-व्योमाभिध-वैकुण्ठस्यावरणत्वेन गणनया श्री-कृष्ण-लोकस्य ब्रह्म-दिशि प्राप्ते सर्वोपरि-स्थायित्वम् एव पर्यवसितम् । आगमादौ हि दिक्-क्रमस् तथैव दृश्यते । तत्रास्माभिस् तु तत्-तच्-छ्रवणात् ।
श्री-कृष्ण-लोकस्य स्वतन्त्रैव स्थितिः । किन्तु परम-व्योम-पक्ष-पातित्वेनैव पाद्मोत्तर-खण्डे तद्-आवरणेषु प्रवेशितोऽसाव् इति मन्तव्यम् । पाद्मोत्तर-खण्ड-प्रतिपाद्यस्य गौणत्वं तु श्री-भागवत-प्रतिपाद्यापेक्षया वर्णितम् एव ।
स्वायम्भुवागमे च स्वतन्त्रतयैव सर्वोपरि तत्-स्थानम् उक्तम् । यथा ईश्वर-देवी-संवादे चतुर्दशाक्षर-ध्यान-प्रसङ्गे पञ्चाशीतितमे पटले—
ध्यायेत् तत्र विशुद्धात्मा इदं सर्वं क्रमेण तु ।
नाना-कल्प-लताकीर्णं वैकुण्ठं व्यापकं स्मरेत् ॥
अधःसाम्यं गुणानां च प्रकृतिं सर्व-कारणम् ।
प्रकृतेः कारणान्य् एव गुणांश् च क्रमशः पृथक् ॥
ततस् तु ब्रह्मणो लोकं ब्रह्म-चिह्नं स्मरेत् सुधीः ।
ऊर्ध्वं तु सीम्नि विरजां निःसीमां वर-वर्णिनि ॥
वेदाङ्ग-स्वेद-जनित-तोयैः प्रस्रावितां शुभाम् ।
इमाश् च देवता ध्येया विरजायां यथा-क्रमम् ॥ इत्य् आद्य्-अनन्तरम्—
ततो निर्वाण-पदवीं मुनीनाम् ऊर्ध्व-रेतसाम् ।
स्मरेत् तु परम-व्योम यत्र देवाः सनातनाः ॥
ततोऽनिरुद्ध-लोकं च प्रद्युम्नस्य यथा-क्रमम् ।
सङ्कर्षणस्य च तथा वासुदेवस्य च स्मरेत् ॥
लोकाधिपान् स्मरेत्॥। इत्य्-आद्य्-अनन्तरं च—
पीयूष-लतिकाकीर्णां नाना-सत्त्व-निषेविताम् ।
सर्वर्तु-सुखदां स्वच्छां सर्व-जन्तु-सुखावहाम् ॥
नीलोत्पल-दल-श्यामां वायुना चालितां मृदु ।
वृन्दावन-परागैस् तु वासितां कृष्ण-वल्लभाम् ॥
सीम्नि कुञ्ज-तटां योषित्-क्रीडा-मण्डप-मध्यमाम् ।
कालिन्दीं संस्मरेद् धीमान् सुवर्ण-तट-पङ्कजाम् ॥
न् इत्य-नूतन-पुष्पादि-रञ्जितं सुख-सङ्कुलम् ।
स्वात्मानन्द-सुखोत्कर्ष-शब्दादि-विषयात्मकम् ॥
नाना-चित्र-विहङ्गादि-ध्वनिभिः परिरम्भितम् ।
नाना-रत्न-लता-शोभि-मत्तालि-ध्वनि-मन्द्रितम्83 ॥
चिन्तामणि-परिच्छिन्नं ज्योत्स्ना-जाल-समाकुलम् ।
सर्वर्तु-फल-पुष्पाढ्यं प्रवालैः शोभितं परि ॥
कालिन्दी-जल-संसर्ग-वायुना कम्पितं मुहुः ।
वृन्दावनं कुसुमितं नाना-वृक्ष-विहङ्गमैः ॥
संस्मरेत् साधको धीमान् विलासैक-निकेतनम् ।
एकीभावो द्वयोर् यत्र वृक्षयोर् मध्य देशतः ।
तद् अधश् चिन्तयेद् देवि मणि मण्डपम् उत्तमम् ॥
त्रिलोकी-सुख-सर्वस्वं सुयन्त्रं केलि-वल्लभम् ॥
तत्र सिंहासने रम्ये नाना-रत्न-मये सुखे ।
सुमनोऽधिक-माधुर्य-कोमले सुख-संस्तरे ॥
धर्मार्थ-काम-मोक्षाख्य-चतुष्पादैर् विराजते ।
ब्रह्म-विष्णु-महेशानां शिरो-भूषण-भूषिते ॥
तत्र प्रेम-भराक्रान्तं किशोरं पीत-वाससम् ।
कलाय-कुसुम-श्यामं लावण्यैक-निकेतनम् ॥
लीला-रस-सुखाम्भोधि-संमग्नं सुख-सागरम् ।
नवीन-नीरदाभासं चन्द्रिकाञ्चित-कुन्तलम् ॥ इत्य्-आदि ।
मृत्युञ्जय-तन्त्रे च—
ब्रह्माण्डस्योर्ध्वतो देवि ब्रह्मणः सदनं महत् ।
तद्-ऊर्ध्वं देवि विष्णूनां तद्-ऊर्ध्वं रुद्र-रूपिणाम् ॥
तद्-ऊर्ध्वं च महा-विष्णोर् महा-देव्यास् तद्-ऊर्ध्वगम् ।
कालातिकालयोश् चाथ परमानन्दयोस् ततः ।
पारे पुरी महा-देव्याः कालः सर्व-भयावहः ।
ततः श्री-रत्न-पीयूष-वारिधिर् न् इत्य-नूतनः ॥
तस्य तीरे महा-कालः सर्व-ग्राहक-रूप-धृक् ।
तस्योत्तरे समुद्भासी रत्न-द्वीपः शिवाह्वयः ॥
उद्यच्-चन्द्रोदयः क्षुब्ध-रत्न-पीयूष-वारिधेः ।
मध्ये हेम-मयीं भूमिं स्मरेन् माणिक्य-मण्डिताम् ॥
षोडश-द्वीप-संयुक्तां कला-कौशल-मण्डिताम् ।
वृन्दावन-समूहैश् च मण्डितां परितः शुभैः ॥
तन्-मध्ये नन्दनोद्यानं मदनोन्मादनं महत् ।
अनल्प-कोटि-कल्प-द्रु-वाटीभिः परिवेष्टितम् ॥ इत्य् आदि—
तन्-मध्ये विपुलां ध्यायेद् वेदिकां शत-योजनाम् ।
सहस्राद् इत्य-सङ्काशाम्॥। इत्य् आदि—
तस्यान्तरे महा-पीठं महा-चक्र-समन्वितम् ।
तन्-मध्ये मण्डपं ध्यायेद् व्याप्त-ब्रह्माण्ड-मण्डलम् ॥ इत्य् आदि ।
ध्यायेत् तत्र महा-देवीं स्वयम् एव तथा-विधः ।
रक्त-पद्म-निभां देवीं बालार्क-किरणोपमाम् ॥ इत्य् आदि ।
पीत-वस्त्र-परिधानां वंश-युक्त-कराम्बुजाम् ।
कौस्तुभोद्दीप्त-हृदयां वनमाला-विभूषिताम् ॥
श्रीमत्-कृष्णाङ्क-पर्यङ्क-निलयां परमेश्वरीम् ॥ इत्य् आदि ।
इति ध्यात्वा तथा भूत्वा तस्या एव प्रसादतः ।
तद्-आज्ञया परानन्दम् एत्यानन्द-कलावृतम् ॥
तदाकर्णय देवेशि कथयामि तवानघे ।
एतद्-अन्तर् महेशानि श्वेतद्वीपम् अनुत्तमम् ॥
क्षीराम्भो-निधि-मध्यस्थं निरन्तर-सुर-द्रुमम् ।
उद्यद्-अर्धेन्दु-किरण-दूरीकृत-तमो-भरम् ॥
काल-मेघ-समालोक-नृत्यद्-बर्हि-कदम्बकम् ।
कूजत्-कोकिल-सङ्घेन वाचालित-जगत्-त्रयम् ॥
नाना-कुसुम-सौगन्ध्य-वाहि-गन्धवहान्वितम् ।
कल्प-वल्ली-निकुञ्जेषु गुञ्जद्-भृङ्ग-गणान्वितम् ॥
रम्यावास-सहस्रेण विराजित-नभस्-तलम् ।
रम्य-नारी-सहस्रौघैर् गायद्भिः समलङ्कृतम् ॥
गोवर्धनेन महता रम्यावास-विनोदिना ।
शोभितं शुभ-चिह्नेन मान-दण्डेन चापरम् ॥
अवाची-प्राच्य्-उदीच्य्-आशाः क्रमायत-विवृद्धया ।
व्याप्ता यमुनया देव्या नील-मेघाम्बु-शोभया ॥
तन्-मध्ये स्फटिक-मयं भवनं महद् अद्भुतम् । इत्य् आदि ।
तत्-तद्-अन्तर्-महा-कल्प-मन्दारादि-द्रुमैर् वृतम् ।
तत्-तन्-मध्ये समुद्भासि-वृन्दावन-कुलाकुलम् ॥ इत्य् आदि ।
कुत्रचिद् रत्न-भवनं कुत्रचित् स्फटिकालयम् ॥ इत्यादि ।
गो-गोपैर् असङ्ख्यातैः सर्वतः समलङ्कृतम् ।
विपापं विलयं रम्यं सदा षड्-ऊर्मि-विवर्जितम् ॥ इत्य् आदि ।
तस्य मध्ये मणिमयं मण्डपं तोरणान्वितम् ।
तन्-मध्ये गरुडोद्वाहि-महा-मणि-मयासनम् ॥ इत्य् आदि ।
कल्प-वृक्ष-समुद्भासि-रत्न-भूधर-मस्तके ।
ध्यायेत् तत्र परमानन्दं रम्योपास्यं परं महः ॥
स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम् ।
वल्लवी-वल्लभं कृष्णं गोप-कन्याः सहस्रशः ॥ इत्य् आदि ।
फुल्लेन्दीवर-कान्तिम् इन्दु-वदनम्84 [पद्या। ४६] इत्य्-आदि च ।
एतद्-अनन्तरं न् इत्यान् इत्य-लोक-विवेके देव्या पृष्टे श्री-शिव आह—
शृणु देवि महामाये यन् न् इत्यं यद् अन् इत्यकम् ।
ब्रह्मादीनां च सर्वेषां भवनानां च पार्वति ।
विनाशोऽस्तीह सर्वेषां विना तद्-भवनं तयोः ॥
इति पूर्वोक्तयोः श्री-भगवन्-महादेव्योर् इत्य् अर्थः ॥85
तस्माद् या यथा भुवि वर्तन्ते इति न्यायाच् च स्वतन्त्र एव द्वारका-मथुरा-गोकुलात्मकः श्री-कृष्ण-लोकः स्वयं-भगवतो विहारास्पदत्वेन भवति सर्वोपरीति सिद्धम् । अत एव वृन्दावनं गोकुलम् एव सर्वोपरि-विराजमानं गोलोकत्वेन प्रसिद्धम् । ब्रह्म-संहितायां—ईश्वरः परमः कृष्णः [ब्र।सं। ५.१] इत्य् उपक्रम्य—
सहस्र-पत्र-कमलं गोकुलाख्यं महत् पदम् ।
तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् ॥
कर्णिकारं महद् यन्त्रं षट्-कोणं वज्र-कीलकम् ।
षड्-अङ्ग-षट्-पदी-स्थानं प्रकृत्या पुरुषेण च ॥
प्रेमानन्द-महानन्द-रसेनावस्थितं हि यत्
ज्योती-रूपेण मनुना काम-बीजेन सङ्गतम् ॥
तत्-किञ्जल्कं तद्-अंशानां तत्-पत्राणि श्रियाम् अपि ॥
चतुर्-अस्रं तत्-परितः श्वेतद्वीपाख्यम् अद्भुतम्
चतुर्-अस्रं चतुर्-मूर्तेश् चतुर्-धाम चतुष्-कृतम् ॥
चतुर्भिः पुरुषार्थैश् च चतुर्भिर् हेतुभिर् वृतम्
शूलैर् दशभिर् आनद्धम् ऊर्ध्वाधो दिग्-विदिक्ष्व् अपि ॥
अष्टभिर् निधिभिर् जुष्टम् अष्टभिः सिद्धिभिस् तथा
मनु-रूपैश् च दशभिर् दिक्-पालैः परितो वृतम् ॥
श्यामैर् गौरैश् च रक्तैश् च शुक्लैश् च पार्षदर्षभैः
शोभितं शक्तिभिस् ताभिर् अद्भुताभिः समन्ततः ॥ [ब्र।सं। ५.२-९]इति ।
तथाग्रे86 ब्रह्म-स्तवे—चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-लक्षावृतेषु सुरभिर् अभिपालयन्तम्87 [ब्र।सं। ५.४०] इत्य् उपक्रम्य,
गोलोक नाम्नि निज धाम्नि तले च तस्य
देवि महेश हरि धामसु तेषु तेषु ।
ते ते प्रभाव निचया विहिताश् च येन
गोविन्दम् आदि पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.५४] इति
व्याख्याम् आह—सहस्राणि पत्राणि यत्र तत् कमलं चिन्तामणि-मयं पद्मं तद्-रूपम् । तच् च महत् सर्वोत्कृष्टं पदं महतो महा-भगवतो वा पदं श्री-महा-वैकुण्ठम् इत्य् अर्थः । तत् तु नाना-प्रकारम् इत्य् आशङ्क्य प्रकार-विशेषत्वेण निश्चिनोति—_गोकुलाख्यम् _इति । गोकुलम् इत्य् आख्या प्रसिद्धिर् यस्य, तत् गो-गोपाल-सरूपम् इत्य् अर्थः । रूढिर् योगम् अपहरति इति न्यायेन तस्यैव प्रतीतेः । तत एतद् अनुगुणत्वेनैवोत्तर-ग्रन्थोऽपि व्याख्येयः । तस्य श्री-कृष्णस्य धाम नन्द-यशोदादिभिः सह वास-योग्यं महान्तः-पुरम् । तस्य स्वरूपम् आह—तद् इति । अनन्तस्य श्री-बलदेवस्यांशात् । सम्भवो न् इत्याविर्भावो यस्य तत् । तथा तन्त्रेणैतद् अपि बोध्यते । अनन्तोऽंशो यस्य तस्य श्री-बलदेवस्यापि सम्भवो निवासो यत्र तद् इति ।
सर्व-मन्त्र-गण-सेवितस्य श्रीमद्-अष्टादशाक्षर-महा-मन्त्र-राजस्य बहु-पीठस्य मुख्यं पीठम् इत्य् आह—कर्णिकारम् इति द्वयेन । _महद् यन्त्रम् _इति । यत्प्रतिकृतिर् एव सर्वत्र यन्त्रत्वेन पूजार्थं लिख्यते इत्य् अर्थः । यन्त्रत्वम् एव दर्शयति—षट्-कोणा अभ्यन्तरे यस्य, तद् वज्र-कीलकं कर्णिकारे बीज-रूप-हीरक-कीलक-शोभितम् ।
षट्-कोणत्वे प्रयोजनम् आह—षट् अङ्गानि यस्याः सा, या षट्-पदी श्रीमद्-अष्टादशाक्षरी, तस्याः स्थानं। प्रकृतिर् मन्त्रस्य स्वरूपं स्वयम् एव श्री-कृष्णः, कारण-स्वरूपत्वात् । पुरुषश् च स एव, तद्-अधिष्ठातृ-देवता-रूपः । ताभ्याम् अवस्थितम् अधिष्ठितम् । ऋष्य्-आदि-स्मरणे हि तथा प्रसिद्धम् ।
किं च, द्वयोर् अपि विशेषणं—प्रेमेति । प्रेम-रूपा ये आनन्दा महानन्द-रसास् तत्-परिपाक-भेदाः, तद्-आत्मकेन । तथा ज्योती-रूपेण स्व-प्रकाशेन मनुना मन्त्र-रूपेण च ।काम-बीजेनअवस्थितम् इति मूल-मन्त्रान्तर्गतत्वेऽपि पृथग्-उक्तिः कुत्रचिद् स्वातन्त्र्येणापेक्षया।88
तद् एवं तद्-धामोक्त्वा तद्-आवरणान्य् आह—तद् इति ।तस्य कर्णिकारस्य किञ्जल्कास् तल्-लग्नाभ्यन्तर-वलय इत्य् अर्थः । तद्-अंशानां तस्मिन्न् अंशो दायो विद्यते येषां, तेषां सजातीयानां धामेत्य् अर्थः, गोकुलाख्यम् इत्य् उक्तेर् एव । तेषां तज्-जातीयत्वं श्री-शुकदेवेन च उक्तम्—
एवं ककुद्मिनं हत्वा स्तूयमानः स्वजातिभिः ।
विवेश गोष्ठं स-बलो गोपीनां नयनोत्सवः ॥ [भा।पु। १०.३६.१५] इति ।
तस्य कमलस्य पत्राणिश्रियां तत्-प्रेयसीनां श्री-राधादीनाम् उपवन-रूपाणि धामानीत्य्-अर्थः । अत्र पत्राणाम् उच्छ्रित-प्रान्तानां मूल-सन्धिषु वर्त्मानि । अग्रिम-सन्धिषु गोष्ठानि ज्ञेयानि, अखण्ड-कमलस्य गोकुलाख्यत्वात् तथैव समावेशाच् च ।
अथ गोकुलावरणान्य् आह—चतुरस्रम् इति । तस्य गोकुलस्य बहिः सर्वतश् चतुरस्रं चतुष्कोणात्मकं स्थलं श्वेतद्वीपाख्यम् इति, तद्-अंशे गोकुलम् इति नाम-विशेषाभावात् । किन्तु चतुरस्राभ्यन्तर-मण्डलं वृन्दावनाख्यं, बहिर्-मण्डलं केवलं श्वेतद्वीपाख्यं ज्ञेयं, गोलोक इति यत्-पर्यायः । *तद् एतद् उपलक्षणं गोलोकाख्यं चेत्य् अर्थः । यद्यपि गोकुलेऽपि श्वेतद्वीपत्वम् अस्त्य् एव, तद्-अवान्तर-भूमि-मयत्वात्, तथापि विशेष-नाम्नाम्नातत्वात् तेनैव तत् प्रतीयते इति तथोक्तम् । किन्तु चतुरस्रेऽप्य् अन्तर्-मण्डलं श्री-वृन्दावनाख्यं ज्ञेयं, बृहद्-वामन-स्वायम्भुवागमयोस् तथा दृष्टत्वात् ।89
चतुर्-मूर्तेश् चतुर्-व्यूहस्य श्री-वासुदेवादि-चतुष्टयस्य चतुष्कृतं चतुर्धा विभक्तं चतुर् धाम । किन्तु देव-लीलत्वात् तद्-उपरि व्योम-यान-स्था एव ते ज्ञेयाः । हेतुभिः पुरुषार्थ-साधनैः ।मनु-रूपैः स्व-स्व-मन्त्रात्मकैर् इन्द्रादिभिः । श्यामैर् इत्य्-आदिभिर् इति चतुर्भिर् वेदैर् इत्य् अर्थः, कृष्णं च तत्र छन्दोभिः स्तूयमानम् सुविस्मिताः [भा।पु। १०.२८.१८] इति श्री-दशमोक्तेः । शक्तिभिर् इति श्री-विमलादिभिर् इत्य् अर्थः । इयं च बृहद्-वामन-पुराण-प्रसिद्धिः । यथा श्री-भगवति श्रुति-प्रार्थना-पूर्वकाणि पद्यानि—
आनन्द-रूपम् इति यद् विदन्ति हि पुराविदः ।
तद्-रूपं दर्शयास्माकं यदि देयो वरो हि नः ॥
श्रुत्वैतद् दर्शयामास स्व-लोकं प्रकृतेः परम् ।
केवलानुभवानन्द-मात्रम् अक्षरम् अव्ययम् ॥
यत्र वृन्दावनं नाम वनं काम-दुघैर् द्रुमैः ।
मनोरम-निकुञ्जाढ्यं सर्वर्तु-सुख-संयुतम् ॥
यत्र गोवर्धनो नाम सुनिर्झर-दरी-युतः ।
रत्न-धातु-मयः श्रीमान् सुपक्षि-गण-सङ्कुलः ॥
यत्र निर्मल-पानीया कालिन्दी सरिता वरा ।
रत्न-बद्धोभय-तटा हंस-पद्मादि-सङ्कुला ॥
शश्वद्-रास-रसोन्मत्तं यत्र गोपी-कदम्बकम् ।
तत्-कदम्बक-मध्यस्थः किशोराकृतिर् अच्युतः ॥ इति ।
एतद्-अनुसारेण श्री-हरि-वंश-वचनम् अप्य् एव व्याख्येयम् । तद् यद् आह शक्रः—
स्वर्गाद् ऊर्ध्वं ब्रह्म-लोको ब्रह्मर्षि-गण-सेवितः ।
तत्र सोम-गतिश् चैव ज्योतिषां च महात्मनाम् ॥
तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि ।
स हि सर्व-गतः कृष्ण महाकाश-गतो महान् ॥
उपर्य् उपरि तत्रापि गतिस् तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ।
गतिः शम-दमाढ्यानां स्वर्गः सुकृत-कर्मणाम् ॥
ब्राह्म्ये तपसि युक्तानां ब्रह्म-लोकः परा गतिः ।
गवाम् एव तु योलोको दुरारोहो हि सा गतिः ॥
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ह।वं। २.१९.२९-३५] इति ।
अस्यार्थः—स्वर्ग-शब्देन—
भूर्-लोकः कल्पितः पद्भ्यां भुवर्-लोकोऽस्य नाभितः ।
स्वर्-लोकः कल्पितो मूर्ध्ना इति वा लोक-कल्पना ॥ [भा।पु। २.५.४२]
इति द्वितीयोक्तानुसारेण स्वर्-लोकम् आरभ्य सत्य-लोक-पर्यन्तं लोक-पञ्चकम् उच्यते । तस्माद् ऊर्ध्वम् उपरि ब्रह्म-लोको ब्रह्मात्मको वैकुण्ठाख्यः सच्-चिद्-आनन्द-रूपत्वात् । ब्रह्मणो भगवतो लोक इति वा, ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा [भा।पु। १०.२८.१७] इति दशमात् । एवं द्वितीये, मूर्धभिः सत्य-लोकस् तु ब्रह्म-लोकः सनातनः [भा।पु। २.५.३८] इति । टीका च—ब्रह्म-लोको वैकुण्ठाख्यः । सनातनो न् इत्यः । न सृज्य-प्रपञ्चान्तर्वर्तीत्य् अर्थः । इत्य् एषा ।
ब्रह्माणि मूर्तिमन्तो वेदाः । ऋषयश् च श्री-नारदादयः । गणाश् च श्री-गरुड-विष्वक्सेनादयः । तैर् निषेवितः । एवं न् इत्याश्रितान् उक्त्वा तद्-गमनाधिकारिण आह । तत्र ब्रह्म-लोके उमया सह वर्तत इति सोमः श्री-शिवस् तस्य गतिः ।
स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्
विरिञ्चताम् एति ततः परं हि माम् ।
अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये ॥ [भा।पु। ४.२४.२९] इति चतुर्थे श्री-रुद्र-गीतम् ।90
_सोमेति_सुपां सुलुग् [पा। ७.१.३९] इत्य्-आदिना षष्ठ्या लुक् छान्दसः । तत उत्तरत्रापि गति-पदान्वयः । ज्योतिर् ब्रह्म तद्-ऐकात्म्य-भावानां मुक्तानाम् इत्य् अर्थः, न तु तादृशानाम् अपि सर्वेषाम् इत्य् आह—महात्मनां महाशयानां मोक्ष-निरादरतया भजतां श्री-सनकादि-तुल्यानाम् इत्य् अर्थः—
मुक्तानाम् अपि सिद्धानां नारायण-परायणः
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने ॥ [भा।पु। ६.१४.५] इत्य्-आदौ,
योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ६.४७]
इत्य् आदाव् अपि तेष्व् एव महत्त्व-पर्यवसनात् । तस्य च ब्रह्म-लोकस्य उपरि सर्वोर्ध्व-प्रदेशे _गवां लोकः _श्री-गोलोक इत्य् अर्थः । तं च श्री-गोलोकं साध्या अस्माकं प्रापञ्चिक-देवानां प्रसादनीया मूल-रूपा न् इत्य-तदीय-देव-गणाः पालयन्ति । तत्र तत्र दिक्-पालत्वेनावरण-रूपा वर्तन्ते, ते ह नाकं महिमानः सचन्तः यत्र पूर्वे साध्याः सन्ति देवाः [ऋक् १०.९०.१६] इति श्रुतेः ।
तत्र पूर्वे ये च साध्या
विश्वे देवाः सनातनाः ।
ते ह नाकं महिमानः
सचन्ते शुभ-दर्शनाः ॥ [प।पु। ६.२२७.७६] इति पाद्मोत्तर-खण्डाच् च ।
यद् वा, तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुलेऽपि [भा।पु। १०.१४.३४] इत्य्-आद्य्-उक्त्य्-अनुसारेण तद्-विध-परम-भक्तानाम् अपि साध्यास् तादृश-सिद्धि-प्राप्तये प्रसादनीयाः श्री-गोप-गोपी-प्रभृतयः, तं पालयन्ति अधिकृत्य भुञ्जन्ति । हि प्रसिद्धौ । स गोलोकः सर्व-गतः श्री-कृष्णवत् सर्व-प्रापञ्चिकाप्रापञ्चिक-वस्तु-व्यापकः । अत एव महान् भगवद्-रूप एव, महान्तं विभुम् आत्मानम् [कठ।उ। २.२२] इति श्रुतेः ।
तत्र हेतुः—महाकाशः परम-व्योमाख्यः ब्रह्म-विशेषण-लाभात्, आकाशस् तल्-लिङ्गाद् [वे।सू। १.१.२२] इति न्याय-प्रसिद्धेश् च, तद्-गतः । ब्रह्माकारोदयानन्तरम् एव वैकुण्ठ-प्राप्तेः । यथा श्री-गोपानां वैकुण्ठ-दर्शने तैर् एव व्याख्यातम् । यथा वा, श्रीमद्-अजामिलस्य वैकुण्ठ-गमनम् ।
यद् वा, महाकाशः परम-व्योमाख्यो महा-वैकुण्ठस् तद्-गतस् तद्-ऊर्ध्व-भाग-स्थितः । एवम् उपर्य् उपरि सर्वोपर्य् अपि विराजमाने, तत्र श्री-गोलोकेऽपि तव गतिः । नाना-रूपेण वैकुण्ठादौ क्रीडतस् तव तत्रापि श्री-गोविन्द-रूपेण क्रीडा विद्यत इत्य् अर्थः ।
अत एव सा च गतिः साधारणी न भवति, किन्तु तपोमयी अनवच्छिन्नैश्वर्यमयी, परमं यो महत् तपः इत्य् अत्र सहस्र-नाम-भाष्येऽपि तपः-शब्देन तथैव व्याख्यातम् । अत एव ब्रह्मादि-दुर्वितर्क्यत्वम् अप्य् आह—_याम् इति _।
अधुना तस्य श्री-गोलोकेत्य् आख्या-बीजम् अभिव्यञ्जयति—_गतिर्_इति ।ब्राह्म्ये ब्रह्मणो लोक-प्रापके तपसि विष्णु-विषयक-मनः-प्रणिधाने युक्तानां रत-चित्तानां प्रेम-भक्तानाम् इत्य् अर्थः । ब्रह्म-लोको वैकुण्ठ-लोकः । परा प्रकृत्य्-अतीता । गवां मोचयन्व्रज-गवां दिन-तापम् [भा।पु। १०.३५.२५] इत्य्-उक्तानुसारेण अत्रैव निघ्नतोपद्रवान् गवाम् इत्य् उक्त्या च गोलोक-वासि-मात्राणां, स्वतस् तद्-भाव-भावितानां च साधन-वशेनेत्य् अर्थः । अत एव तद्-भावस्यासुलभत्वाद् दुरारोहा ।
तद् एवं गोलोकं वर्णयित्वा, तस्य गोकुलेन सहाभेदम् आह—स त्व् इति ।स एव तु स लोको धृतो रक्षितः श्री-गोवर्धनोद्धरणेनेति । यथा मृत्युञ्जय-तन्त्रे—
एकदा सान्तरीक्षाच् च वैकुण्ठं स्वेच्छया भुवि ।
गोकुलत्वेन संस्थाप्य गोपी-मय-महोत्सवा ।
भक्ति-रूपा सतां भक्तिम् उत्पादितवती भृशम् ॥ इति ।
अत्र शब्द-साम्य-भ्रम-प्रतीतार्थान्तरे “स्वर्गाद् ऊर्ध्वं ब्रह्म-लोकः” इत्य् अयुक्तं, लोक-त्रयम् अतिक्रम्योक्तेः । तथा सोम-गतिर् इत्य् आदिकं न सम्भवति । यतो ध्रुव-लोकाद् अधस्ताद् एव चन्द्र-सूर्यादीनां गतिर् महर्-लोकेऽपि न वर्तते । तथावर-साध्य-गणानां तुच्छत्वात् सत्य-लोकस्यापि पालनं न युज्यते, कुतस् तद्-उपरि-लोकस्य श्री-गोलोकाख्यस्य ? तथा सर्वगतत्वं चासम्भाव्यं स्यात् । अत एव तत्रापि एव गतिर् इत्य् अपि-शब्दो विस्मये प्रयुक्तः । यां न विद्म इत्य्-आदिकं च । अन्यथा तथोक्तिर् न सम्भवति, स्वेषां ब्रह्मणश् च तद्-अज्ञान-ज्ञापनात् । तस्मात् प्राकृत-गोलोकाद् अन्य एवासौ सनातनो गोलोको ब्रह्म-संहितावत् श्री-हरि-वंशेऽपि परोक्ष-वादेन निरूपितः ।
एवं च नारद-पञ्चरात्रे विजयाख्याने—
तत् सर्वोपरि गोलोके श्री-गोविन्दः सदा स्वयम् ।
विहरेत् परमानन्दी गोपी-गोकुल-नायकः ॥इति ।
एवं चोक्तं मोक्ष-धर्मे नारायणीये तथा स्कान्दे च—
एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् ।
ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ [म।भा। १२.३३०.६८] इति ।
तद् एवं सर्वोपरि श्री-कृष्ण-लोकोऽस्तीति सिद्धम् । स च लोकस् तत्-तल्-लीला-परिकर-भेदेनांश-भेदात् द्वारका-मथुरा-गोकुलाख्य-स्थान-त्रयात्मक इति निर्णीतम् । अन्यत्र तु भुवि प्रसिद्धान्य् एव तत्-तद्-आख्यानि स्थानानि तद्-रूपत्वेन श्रूयन्ते, तेषाम् अपि वैकुण्ठान्तरवत् प्रपञ्चातीतत्व-न् इत्यत्वालौकिक-रूपत्व-भगवन्-न् इत्यास्पदत्व-कथनात् ।
तत्र द्वारकायास् तत्तद् विष्णु-पुराणादि-वचनैर् उदाहरिष्यते91 । इयं च श्रुतिर् उदाहरणीया—
अन्तः-समुद्रे मनसा चरन्तं
ब्राह्मान्वविन्दन् दश-होतारम् अर्णे ।
समुद्रेऽन्तः कवयो विचक्षते
मरीचीनां पदम् अन्विच्छन्ति वेधसः ॥ इत्य् आद्या ।
श्री-मथुरायाः प्रपञ्चातीतत्वं, यथा वाराहे—अन्यैव काचित् सा सृष्टिर् विधातुर् व्यतिरेकिणीइति ।
न् इत्यत्वम् अपि, यथा पाद्मे पाताल-खण्डे—ऋषिर् माथुर-नामात्र तपः कुर्वति शाश्वतेइति । अत्र मथुरा-मण्डले शाश्वते न् इत्ये कुर्वति करोति ।
अलौकिक-रूपत्वं, यथा आदिवाराहे—
भूर् भुवः स्वस् तलेनापि न पाताल-तलेऽमलम् ।
नोर्ध्व-लोके मया दृष्टं तादृक् क्षेत्रं वसुन्धरे ॥ इति ।
श्री-भगवन्-न् इत्यास्पदत्वं, यथा [तत्रैव]—
अहोऽतिधन्या मथुरा यत्र सन्निहितो हरिः ॥ इति ।
न च वक्तव्यम् उपासना-स्थानम् एवेदम्, यतो आदिवाराहे—
मथुरायाः परं क्षेत्रं त्रैलोक्ये न हि विद्यते ।
तस्यां वसाम्य् अहं देवि मथुरायां तु सर्वदा ॥ इति ।
तत्र वासस्यैव कण्ठोक्तिः । अत्रेदृशं श्री-वराह-देव-वाक्यम् अंशांशिनोर् ऐक्य-विवक्षयैव, न तु तस्यैवासौ निवासः श्री-कृष्ण-क्षेत्रत्वेनैव प्रसिद्धेः । तथैव पाताल-खण्डे—अहो मधु-पुरी धन्या यत्र तिष्ठति कंसहा इति ।
वायु-पुराणे तु स्वयं साक्षाद् एवेत्य् उक्तम्—
चत्वारिंशद् योजनानां ततस् तु मथुरा स्मृता ।
यत्र देवो हरिः साक्षात् स्वयं तिष्ठति सर्वदा ॥ इति ।
अत्र साक्षाच्-छब्देन सूक्ष्म-रूपता । स्वयं-शब्देन श्रीमत्-प्रतिमा-रूपता च निषिद्धा । तत इति पूर्वोक्तात् पुष्कराख्य-तीर्थात् इत्य् अर्थः । मथुरायाः परं क्षेत्रम् इत्य् अनेन वराह-वचनेन पूर्याम् एव तिष्ठतीति निरस्तम् ।
अत्र श्री-गोपाल-तापनी-श्रुतिश् च—स होवाच तं हि नारायणो देवः सकाम्या मेरोः शृङ्गे यथा सप्त-पूर्यो भवन्ति, तथा सकाम्या निष्काम्याश् च भूगोल-चक्रे सप्त-पूर्यो भवन्ति । तासां मध्ये साक्षाद् ब्रह्म गोपाल-पुरी हीति ॥ सकाम्या निष्काम्या देवानां सर्वेषां भूतानां भवन्ति, यथा हि वै सरसि पद्मं तिष्ठति, तथा भूम्यां तिष्ठतीति चक्रेण रक्षिता हि मथुरा हि वै तस्मात् गोपाल-पुरी भवति । बृहद् बृहद्-वनं मधोर् मधु-वनम् [गो।ता।उ। २.२६-२८] इत्य् आदिका ।
पुनश् च एतैर् आवृता पुरी भवति तत्र तेष्व् एव गहनेष्व् एवम् इत्य् आदिका । तथा—द्वे वने स्तः कृष्ण-वनं भद्र-वनं, तयोर् अन्तर् द्वादश-वनानि पुण्यानि पुण्यतमानि, तेष्व् एव देवास् तिष्ठन्ति, सिद्धाः सिद्धिं प्राप्ताः । तत्र हि रामस्य राम-मूर्तिः [गो।ता।उ। २.३१-३२] इत्य् आदिका । तद् अप्य् एते श्लोका भवन्ति ।
प्राप्य मथुरां पुरीं रम्यां सदा ब्रह्मादि-सेवितम् ।
शङ्ख-चक्र-गदा-शार्ङ्ग-रक्षितां मुषलादिभिः ॥
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [गो।ता।उ। २.३५-३६] इति ।
किं तस्य स्थानम् इति श्री-गान्धर्व्याः प्रश्नस्योत्तरम् इदम् । एवम् एव श्री-रघुनाथस्याप्य् अयोध्यायां श्रूयते, यथा स्कान्दायोध्या-माहात्म्ये स्वर्ग-द्वारम् उद्दिश्य—
चतुर्धा च तनुं कृत्वा देवदेवो हरिः स्वयम् ।
अत्रैव रमते न् इत्यं भ्रातृभिः सह राघवः ॥ इति ।
अतएव, यत्र यत्र हरेः स्थानं वैकुण्ठं तद् विदुर् बुधा इत्य् अनुसारेण महा-भगवतः स्थानत्वात् महा-वैकुण्ठ एवासौ, यतो वैकुण्ठात् तस्य गरीयस्त्वं श्रूयते । यथा पाताल-खण्डे—
एवं सप्त-पुरीणां तु सर्वोत्कृष्टं च माथुरम् ।
श्रूयतां महिमा देवि वैकुण्ठो भुवनोत्तमः ॥ इति ।
अत एव तत्रैव—
अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी । इति ।
[वृ। रेअद्स् हेरे] आदि-वाराहे—
मथुरायां ये वसन्ति विष्णु-रूपा हि ते खलु ।
अज्ञानास् तान् न पश्यन्ति पश्यन्ति ज्ञान-चक्षुषा ॥ इति । [एन्द् वृ।]
अथ श्री-वृन्दावनस्य प्रपञ्चातीतत्वादिकं मथुरा-मण्डलस्यैव तत्त्वेन सिद्धम् । यथा च श्री-गोविन्द-वृन्दावनाख्य-बृहद्-गौतमीये तन्त्रे नारद-प्रश्नस्यानन्तरं श्री-कृष्णस्योत्तरम्। तत्र प्रश्नः—
किम् इदं द्वादशाभिख्यं वृन्दारण्यं विशाम्पते ।
श्रोतुम् इच्छामि भगवन् यदि योग्योऽस्मि मे वद ॥
अथोत्तरम्—
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
अत्र मे पशवः पक्षि-वृक्षा कीटा नरामराः ।
ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥
अत्र या गोप-कन्याश् च निवसन्ति ममालये ।
योगिन्यस् ता मया न् इत्यं मम सेवा-परायणाः ॥
पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् ।
कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥
अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः ।
सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥
आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे ।
तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति ।
विशेषतस् तादृग्-अलौकिक-रूपत्व-भगवन्-न् इत्य-धामत्वे तु दिव्य-कदम्बाशोकादि-वृक्षादीनां हम्बा-रव-वेणु-वाद्यादीनाम् अप्य् अद्यापि महा-भागवतैः साक्षात्-क्रियमानत्व-प्रसिद्धेः92 । यथा वाराहे कालीय-ह्रद-माहात्म्ये—
तत्रापि महद् आश्चर्यं पश्यन्ति पण्डिता नराः ।
कालीय-ह्रद-पूर्वेण कदम्बो महितो द्रुमः ।
शत-शाखं विशालाक्षि पुण्यं सुरभि-गन्धि च ।
स च द्वादश-मासानि मनोज्ञः शुभ-शीतलः ।
पुष्पायति विशालाक्षि प्रभासन्तो दिशो दश ॥ इति ।
शतानां शाखानां समाहारः शत-शाखं, तद् यत्र प्रवर्तते इत्य् अर्थः । प्रभासन्तः प्रभासयन्न् इत्य् अर्थः । तत्रैव तदीय-ब्रह्म-कुण्ड-माहात्म्ये—
तत्राश्चर्यं प्रवक्ष्यामि तच् छृणु त्वं वसुन्धरे ।
लभन्ते मनुजाः सिद्धिं मम कर्म-परायणाः ॥
तस्य तत्रोत्तरे पार्श्वेऽशोक-वृक्षः सित-प्रभः ।
वैशाखस्य तु मासस्य शुक्ल-पक्षस्य द्वादशी ॥
स पुष्पति च मध्याङ्गे मम भक्त-सुखावहः ।
न कश्चिद् अपि जानाति विना भागवतं शुचिम् ॥ इत्य् आदि ।
द्वादशीति द्वादश्याम् इत्य् अर्थः । सुपां सुलुग् इत्य्-आदिनैव पूर्व-सवर्णः । शुचित्वम् अत्र तद्-अनन्य-वृत्तित्वम् । अनेन पृथिव्यापि तस्य तस्य तादृश-रूपं न ज्ञायते इत्य् आयातम् । अत एव तदीय-तीर्थान्तरम् उद्दिश्य, यथा चादिवाराहे—
कृष्ण-क्रीडा-सेतु-बन्धं महा-पातक-नाशनम् ।
वलभीं तत्र क्रीडार्थं कृत्वा देवो गदाधरः ॥
गोपकैः सहितस् तत्र क्षणम् एकं दिने दिने ।
तत्रैव रमणार्थं हि न् इत्य-कालं स गच्छति ॥ इति ।
एवं स्कान्दे—
ततो वृन्दावनं पुण्यं वृन्दा-देवी-समाश्रितम् ।
हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥ इति ।
श्रुतिश् च दर्शिता—
गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणोऽहं परितोषयामि । [गो।ता।उ। १.३७] इति ।
एवं पाताल-खण्डे यमुना-जल-कल्लोले सदा क्रीडति माधवःइति । यमुनाया जल-कल्लोला यत्र एवं-भूते वृन्दावने इति प्रकरणाल् लब्धम् । तत्राजहल्-लक्षणया तीर-ह्रदाव् एव गृह्येते। तीरं च वृन्दावन-लक्षणं, तत्र प्रस्तुतम् ।
अतएवास्य श्री-वृन्दावनस्य वैकुण्ठत्वम् एव कण्ठोक्त्या कृष्ण-तापन्यां श्रुतौ दर्शितं—गोकुलं वन-वैकुण्ठम् [कृष्णोपनिषत् ७] इति93 । तस्मान् न् इत्य-धामत्व-श्रवणात् श्री-मथुरादीनां तत्-स्वरूप-विभूतित्वम् एव, स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि [छा।उ। १.२४.१] इति श्रुतेः ।
अत एव तापनी-श्रुतिः—साक्षाद् ब्रह्म गोपाल-पुरी हि [गो।ता।उ। २.२६] इति । बृहद्-गौतमीय-तन्त्रे च—तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा इति । तद्-ईदृश-रूपता काशीम् उद्दिश्य ब्रह्म-वैवर्ते त्व् इत्थं समाधीयते । यथा श्री-विष्णुं प्रति मुनीनां प्रश्नः—
छत्राकारं तु किं ज्योतिर् जलाद् ऊर्ध्वं प्रकाशते ।
निमग्नायां धरायां तु न वै मज्जति तत् कथम् ॥
किम् एतच् छाश्वतं ब्रह्म वेदान्त-शत-रूपितम् ।
ताप-त्रयार्ति-दग्धानां जीवनं छत्रतां गतम् ॥
दर्शनाद् एव चास्याथ कृतार्थाः स्मो जगद्-गुरो ।
वारं वारं तवाप्य् अत्र दृष्टिर् लग्ना जनार्दन ॥
परमाश्चर्य-रूपोऽपि साश्चर्य इव पश्यसि ॥
अथ श्री-विष्णूत्तरम्—
छत्राकारं परं ज्योतिर् दृश्यते गगने-चरम् ।
तत्-परं परमं ज्योतिः काशीति प्रथितं क्षितौ ॥
रत्नं सुवर्णे खचितं यथा भवेत्
तथा पृथिव्यां खचिता हि काशिका ।
न काशिका भूमि-मयी कदाचित्
ततो न मज्जेन् मम सद्-गतिर् यतः ॥
जडेषु सर्वेष्व् अपि मज्जमानेष्व्
इयं चिद्-आनन्द-मयी न मज्जेत् ॥ इत्य्-आदि ।
तथाग्रे च—
चेतना-जडयोर् ऐक्यं यद्वन् नैक-स्थयोर् अपि ।
तथा काशी ब्रह्म-रूपा जडा पृथ्वी च सङ्गता ॥
निर्माणं तु जडस्यात्र क्रियते न परात्मनः ।
उद्धरिष्यामि च महीं वाराहं रूपम् आस्थितः ॥
तदा पुनः पृथिव्यां हि काशी स्थास्यति मत्-प्रिया ॥ इति ।
चेतना-शब्देनात्रान्तर्यामी उपलक्ष्यते । जड-शब्देन तु देहः, परात्मन इत्य् उक्तत्वात् । ततश् च केचित् स्व-देहान्तर्-हृदयावकाशे प्रादेश-मात्रं पुरुषं वसन्तम् [भा।पु। २.२.८] इत्य्-आदिना चतुर्भुजत्वेन वर्णितोऽन्तर्यामी देहे स्थितोऽपि यथा देह-क्लेशनादिना94 न स्पृश्यते, तद्वद् इति ज्ञेयम् ।
तद् एवं तद्-धाम्नाम् उपर्य्-अधः प्रकाश-मात्रत्वेनोभय-विधत्वं प्रसक्तम् । वस्तुतस् तु श्री-भगवन्-न् इत्याधिष्ठानत्वेन तच्-छ्री-विग्रहवद् उभयत्र प्रकाशाविरोधात्, समान-गुण-नाम-रूपत्वेनाम्नातत्वात्, लाघवाच् च, एक-विधत्वम् एव मन्तव्यम् ।
एकस्यैव श्री-विग्रहस्य बहुत्र प्रकाशश् च द्वितीय-सन्दर्भे दर्शितः ।
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक्
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भा।पु। १०.६९.१] इत्य्-आदिना ।
एवं-विधत्वं च तस्याचिन्त्य-शक्ति-स्वीकारेण सम्भावितम् एव । स्वीकृतं चाचिन्त्य-शक्तित्वम् श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] इत्य्-आदौ । तद् एवम् उभयाभेदाभिप्रायेणैव श्री-हरि-वंशेऽपि गोलोकम् उद्दिश्य स हि सर्व-गतो महान् [ह।वं। २.१९.३०] इत्य् उक्तम् । भेदे तु ब्रह्म-संहितायाम् अपि गोलोक एव निवसत्य् अखिलात्म-भूतः [ब्र।सं। ५.४८] इत्य् एव-कारोऽत्र स्वकीय-न् इत्य-विहार-प्रतिपादक-वाराहादि-वचनैर् विरुध्येत । अविरोधस् तूभयेषाम् ऐक्येनैव भवतीति तं न्याय-सिद्धम् एवार्थं ब्रह्म-संहिता तु गृह्णाति । अत एव श्री-हरि-वंशेऽपि शक्रेण—
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ह।वं। २.१९.३५]इति ।
गोलोक-गोकुलयोर् अभेदेनैवोक्तम् । तस्माद् अभेदेन च भेदेन चोपक्रान्तत्वाद् एक-विधान्य् एव श्री-मथुरादीनि प्रकाश-भेदेनैव तूभय-विधत्वेनाम्नातानीति स्थितम् । दर्शयिष्यते चाग्रेक्षौणि-प्रकाशमान एव श्री-वृन्दावने श्री-गोलोक-दर्शनम् । ततोऽस्यैवापरिच्छिन्नस्य गोलोकाख्य-वृन्दावनीय-प्रकाश-विशेषस्य वैकुण्ठोपर्य् अपि स्थितिर् माहात्म्यावलम्बनेन भजतां स्फुरतीति ज्ञेयम् । अयम् एव मथुरा-द्वारका-गोकुल-प्रकाश-विशेषात्मकः श्री-कृष्ण-लोकस् तद्-विरहिणा श्रीमद्-उद्धवेनापि समाधाव् अनुभूत इत्य् आह—
शनकैर् भगवल्-लोकान् नृ-लोकं पुनर् आगतः ।
**विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ [**भा।पु। ३.२.६]
स्पष्टम् ॥ ३.२ ॥ श्री-शुकः ॥ १०६ ॥
[१०७]
इमम् एव लोकं द्यु-शब्देनाप्य् आह—
विष्णोर् भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः ।
तदाविशत् कलिर् लोकं पापे यद् रमते जनः ॥
यावत् स पाद-पद्माभ्यां स्पृशन् आस्ते रमा-पतिः ।
**तावत् कलिर् वै पृथिवीं पराक्रन्तुं न चाशकत् ॥ [**भा।पु। १२.२.२९-३०]
यदा गुणावतारस्य भगवतो विष्णोस् तद्-अंशत्वाद् रश्मि-स्थानीयस्य कृष्णाख्यो भानुः सूर्य-मण्डल-स्थानीयो दिवं प्रापञ्चिक-लोकागोचरं मथुरादीनाम् एव प्रकाश-विशेष-रूपं वैकुण्ठ-लोकं गतः, तदा कलिर् लोकम् आविशत् । एषां स च प्रकाशः पृथिवी-स्थोऽप्य् अन्तर्धान-शक्त्या ताम् अस्पृशन्न् एव विराजते । अतस् तया न स्पृश्यते पृथिव्य्-आदि-भूतमयैर् अस्माभिर् वाराहोक्त-महा-कदम्बादिर् इव । यस् तु प्रापञ्चिक-लोक-गोचरो मथुरादि-प्रकाशः, सोऽयं कृपया पृथिवीं स्पृशन्न् एवावतीर्णः । अतस् तया च स्पृश्यते तादृशैर् अस्माभिर् दृश्यमान-कदम्बादिर् इव । अस्मिंश् च प्रकाशे यदावतीर्णो भगवांस् तदा तत्-स्पर्शेनापि तत्-स्पर्शात् तां स्पृशन्न् एवास्ते स्म । सम्प्रति तद्-अस्पृष्ट-प्रकाशे विहरमाणः पुनर् अस्पृशन्न् एव भवति । यद्यप्य् एवं, तथापि क्वचिद् द्वयोर् भेदेन क्वचिद् अभेदेन च विवक्षा तत्रावगन्तव्या ।95
तद् एतद् अभिप्रेत्याह—यावद् इति ।पराक्रन्तुम् इत्य् अनेन तत्-पूर्वम् अपि कंचित् कालं प्राप्य प्रविष्टोऽसाव् इति ज्ञापितम् ॥
॥ १२.२ ॥ श्री-शुकः ॥ १०७ ॥
[१०८]
तेने धीरा अपि यन्ति ब्रह्म-विद उत्क्रम्य स्वर्ग-लोकम् इतो विमुक्ताः [बृ।आ।उ। ४.४.८] इति श्रुत्य्-अनुसारेण स्वर्ग-शब्देनाप्य् आह—
**यातु-धान्य् अपि सा स्वर्गम् आप जननी-गतिम् [**भा।पु। १०.६.३८] इति ।
अत्र जननी-गतिम् इति विशेषणेन लोकान्तरं निरस्तम् । तत्-प्रकरण एव तदादीनां बहुशो गत्य्-अन्तर-निषेधात् । सद्-वेषाद् इव पूतनापि सकुला त्वाम् एव देवापिता [भा।पु। १०.१४.३५] इत्य् अत्र साक्षात् तत्-प्राप्ति-निर्धारणाच् च ।
तथा च केनोपनिषदि दृश्यते—केनेषितं मनः पतति प्राणस्य प्राणम् उत चक्षुषश् चक्षुर् अतिमुच्य धीराः प्रेत्यास्माल् लोकाद् अमृता भवन्ति [केन।उ। १.१-२] इत्य् उपक्रम्य, तद् एव ब्रह्म त्वं विद्धि [के।उ। १.४] इति मध्ये प्रोच्य, अमृतत्वं हि विदन्ते [के।उ। २.४], सत्यम् आयतनं [के।उ। ४.८], यो वा एताम् एवम् उपनिषदं वेदापहत्य पाप्मानम् अनन्ते स्वर्गे लोके प्रतिष्ठति [के।उ। ४.९] इति उपसंहृतम् ।
ततः को वासुदेवः ? किं तद्-वनं ? को वा स्वर्गः ? किं तद् ब्रह्म? इत्य् अपेक्षायाम्, पुरुषो ह वै नारायणः इत्य् उपक्रम्य, पुनश् चाभ्यासेन न् इत्यो देव एको नारायणः इत्य् उक्त्वा नारायणोपासकस्य च स्तुतिं कृत्वा, तद् ब्रह्म नारायण एवेतिव्यज्य स्वर्गं प्रतिपादयितुं वैकुण्ठं वन-लोकं गमिष्यति तद् इदं पुरम् इदं पुण्डरीकं विज्ञान-घनं तस्मात् तद् इहावभासम् इति वन-लोकाकारस्य वैकुण्ठस्यानन्दात्मकत्वं प्रतिपाद्य, स च तद्-अधिष्ठाता नारायणः कृष्ण एव इत्य् उपसंहरति ब्रह्मण्यो देवकी-पुत्रःइति ।
॥ १०.६ ॥ श्री-शुकः ॥ १०८ ॥
[१०९]
काष्ठा-शब्देनापि तम् एवोद्दिशति—
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्म-वर्मणि ।
**स्वां काष्ठाम् अधुनोपेते धर्मः कं शरणं गतः ॥ [**भा।पु। १.१.२३]
स्वां काष्ठां दिशम् । यत्र स्वयं न् इत्यं तिष्ठति, तत्रैव प्रापञ्चिक-लोक-सम्बन्धं त्यक्त्वा गते सतीत्यर्थः ।
॥ १.१ ॥ श्री-शौनकः ॥ १०९ ॥
[११०]
तद् एवम् अभिप्रेत्य द्वारकायास् तावन् न् इत्य-श्री-कृष्ण-धामत्वम् आह—
सत्यं भयाद् इव गुणेभ्य उरुक्रमान्तः
शेते समुद्र उपलम्भन-मात्र आत्मा ।
न् इत्यं कद्-इन्द्रिय-गणैः कृत-विग्रहस् त्वं
त्वत्-सेवकैर् नृप-पदं विधुतं तमोऽन्धम् ॥ [भा।पु। १०.६०.३५]
अयम् अर्थः । पूर्वं श्री-कृष्ण-देवेन श्री-रुक्मिणी-देव्यै—
राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान् ।
बलवद्भिः कृत-द्वेषान् प्रायस् त्यक्त-नृपासनान् ॥ [भा।पु। १०.६०.१२]
कस्मान् नो ववृषे [भा।पु। १०.६०.११]इति परिहसितम् । अत्रोत्तरम् आह—सत्यम् इति । अत्र आत्मात्वम् इत्य् एतयोः पदयोर् युगपच् छेत इति क्रियान्वयायोगात् विशेषण-विशेष्य-भावः प्रतिहन्येत । वाक्य-च्छेदे96 तु कष्टतापतेत् । ततश् चोपमानोपमेय-भावेनैव ते उपतिष्ठतः । इयं च लुप्तोपमा ।
तथा च, आत्मा साक्षी यथा गुणेभ्यः सत्त्वादि-विकारेभ्यस् तद्-अस्पर्श-लिङ्गाद् भयाद् इव समुद्रे तद्वद् अगाधे विषयाकारैर् अपरिच्छिन्ने उपलम्भन-मात्रे ज्ञान-मात्र-स्व-शक्त्य्-आकारेऽन्तर्हृदये न् इत्यं शेते, अक्षुब्धतया97 प्रकाशते । हे उरुक्रम! तथा त्वम् अपि तेभ्यः सम्प्रति तद्-विकार-मयेभ्यो राजभ्यो भयाद् इव उपलम्भन-मात्रे वैकुण्ठान्तरवत् चिद्-एक-विलासे अन्तः-समुद्रे द्वारकाख्ये धाम्नि न् इत्यम् एव शेषे, स्वरूपानन्द-विलासैर् गूढं विहरसि । अर्थ-वशाद् विभक्ति-विपरिणामः प्रसिद्ध एव । उदाहरिष्यते च न् इत्य-स्थायित्वं, द्वारकां हरिणा त्यक्ताम् [भा।पु। ११.३१.२३] इत्य्-आदौ, न् इत्यं सन्निहितस् तत्र भगवान् मधुसूदनः [भा।पु। ११.३१.२४] इति ।
अतो वस्तुतस् तस्य तद्-आश्रयकस्य जीव-चैतन्यस्य यदि तेभ्यो भयं नास्ति, तदा सुतराम् एव तव नास्ति, किन्तूभयत्रापि स्व-धामैक्य-विलासित्वात् तत्रौदासीन्यम् एव भयत्वेनोत्प्रेक्षत इति भावः । एवं तस्य तव च समञ्जसता । तेषां तु दौरात्म्यम् एवेत्य् आह । तथाप्य् आत्मा कुत्सितानाम् इन्द्रियाणां गणैस् तदीय-नाना-वृत्ति-रूपैः कृतो विग्रहो यत्र तथाविधस् त्वम् अपि कुत्सित इन्द्रिय-गणो येषां तथाभूतैः राजभिः कृत-विग्रहः । उभयत्राप्यावरण-धार्ष्ट्यम् । यद्य् एवम्-भूतस् त्वं, तर्हि का तव नृपासन-पर् इत्यागे हानिः ? तत् तु त्वत्-सेवकैः प्राथमिक-त्वद्-भजनोन्मुखैर् एव विधुतं त्यक्तम् । तच् चोक्तं तयैव यद्-वाञ्छया नृप-शिखा-मणयः [भा।पु। १०.६०.४१] इत्य्-आदिना । यतोऽन्धं तम एव तत् प्राकृत-सुख-मयत्वात्। अतः श्री-द्वारकाया न् इत्यत्वम् अपि ध्वनितम् ।
॥ १०.६० ॥ श्री-रुक्मिणी श्री-भगवन्तम् ॥ ११० ॥
[१११]
अथ श्री-मथुरायाः ।
मथुरा भगवान् यत्र न् इत्यं सन्निहितो हरिः [भा।पु। १०.१.२८]
इत्य् अर्थात् तत्रत्यानाम् ।
॥ १०.१ ॥ श्री-शुकः ॥ १११ ॥
[११२]
तत् तात गच्छ भद्रं ते यमुनायास् तटं शुचि ।
**पुण्यं मधु-वनं यत्र सान्निध्यं न् इत्यदा हरेः ॥ [**भा।पु। ४.८.४२]
स्पष्टम् ॥ ४.८ ॥ श्री-नारदो ध्रुवम् ॥ ११२ ॥
[११३]
तस्य हरेः श्री-कृष्णत्वम् एव व्यनक्ति—
इत्य् उक्तस् तं परिक्रम्य प्रणम्य च नृपार्भकः ।
**ययौ मधु-वनं पुण्यं हरेश् चरण-चर्चितम् ॥ [**भा।पु। ४.८.६२]
पाद्म-कल्पारम्भ-कथने प्रथम-स्वायम्भुव-मन्वन्तरे तस्मिन् हरेश् चरण-चर्चितवं श्री-मथुरायास् तन्-न् इत्यत्वात् श्री-कृष्णावतारस्य । तथा हरि-शब्देनाप्य् अत्र श्री-कृष्ण एव विवक्षितः श्रुत्य्-आदौ तद्-अवस्थिति-प्रसिद्धेः । प्रतिकल्पम् आविर्भावात् तस्यैव चरणाभ्यां चर्चितम् इति श्री-कृष्णस्यैव न् इत्य-सान्निध्यत्वं गम्यते । अत एव द्वादशाक्षर-विद्या-दैवतस्य श्री-ध्रुवाराध्यस्य त्व् अन्यत एव तत्रागमनम् अभिहितम् इति मधोर् वनं भृत्य-दिदृक्षया गतः [भा।पु। ४.९.१] इत्य् अनेनेति ।
॥ ४.८ ॥ श्री-मैत्रेयः ॥ ११३ ॥
[११४]
अथ श्री-वृन्दावनस्य—
पुण्या बत व्रज-भुवो यद् अयं नृ-लिङ्ग-
गूढः पुराण-पुरुषो वन-चित्र-माल्यः ।
गाः पालयन् सह-बलः क्वणयंश् च वेणुं
**विक्रीडयाञ्चति गिरित्र-रमार्चिताङ्घ्रिः ॥ [**भा।पु। १०.४४.१२]
अत्र पूर्वोदाहृत-श्रुत्य्-आद्य्-अवष्टम्भेन तिष्ठन्ति पर्वता इतिवद् अञ्चति सदैव विहरतीति मथुरा-स्त्रीणां श्री-भगवत्-प्रसादजा यथावद् भारती-निःसृतिर् इयम् इति व्याख्येयम् ।
॥ १०.४४ ॥ पुर-स्त्रियः परस्परम् ॥ ११४ ॥
[य् एत् अल् रेअद् फ़ोर् थिस् सेच्तिओन्-
स च वृन्दावन-गुणैर् वसन्त इव लक्षितः ।
यत्रास्ते भगवान् साक्षाद् रामेण सह केशवः ॥ [भा।पु। १०.१८.३]
अत्र यत्रासीद् इत्य् अप्रोच्य यत्रास्ते इत्य् उक्त्या न् इत्य-स्थितित्वम् एव व्यक्तीकृतम् ॥
॥ १०.१८ ॥ श्री-शुकः ॥ ११४ ॥
एन्द् अल्तेर्नतिवे रेअदिन्ग्।]
[११५]
अथवा, त्रिष्व् अप्य् एतद् एवोधारणीयम्—
जयति जन-निवासो देवकी-जन्म-वादो
यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् ।
स्थिर-चर-वृजिन-घ्नः सुस्मित-श्री-मुखेन
**व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ [**भा।पु। १०.९०.४८]
यदु-वराः परिषत् सभ्य-रूपा यस्य सः । देवकी-जन्म-वादस् तज्-जन्मत्वेन लब्ध-ख्यातिः । देवक्यां जन्मेति वादस् तत्त्व-बुभुत्सु-कथा यस्य स इति वा । श्री-कृष्णो जयति परमोत्कर्षेण सदैव विराजते । लोहितोष्णीषाः प्रचरन्तीतिवत् यदु-वर-सभ्य-विशिष्टतयैव जयाभिधानम् । अत्र यदुवर-शब्देन श्री-व्रजेश्वर-तद्-भ्रातरोऽपि गृह्यन्ते, तेषाम् अपि यदु-वंशोत्पन्नत्वेन प्रसिद्धत्वात् । तथा च भारत-तात्पर्ये श्री-मध्वाचार्यैर् एवं ब्रह्म-वाक्यत्वेन लिखितम्—
तस्मै वरः स मया सन्निसृष्टः
स चास नान्दाख्य उतास्य भार्या ।
नाम्ना यशोदा स च शूरतात-
सुतस्य वैश्या-प्रभवस्य गोपः ॥ इति ।
शूर-तात-सुतस्य शूर-सपत्नी-मातृजस्य वैश्यायां तृतीय-वर्णायां जातस्य सकाशात् आस बभूव इत्य् अर्थः । अत एव श्रीमद्-आनकदुन्दुभिना तस्मिन् भ्रातर् इति मुहुः सम्बोधनम् अक्लिष्टार्थं भवति, भ्रातरं नन्दम् आगतम् [भा।पु। १०.५.२०] इति श्रीमन्-मुनीन्द्र-वचनं च । तद् एतद् अप्य् उपलक्षणं तद्-भ्रातॄणाम् ।
[वृ। अद्द्स् हेरे : यथा स्कान्दे मथुरा-खण्डे—रक्षिता यादवाः सर्वे इन्द्र-वृष्टि-निवारणातिति ।यत्राभिषिक्तो भगवान् मघोना यदु-वैरिणाइति च, यादवानां हितार्थाय धृतो गिरि-वरो मयाइति चान्यत्र । वृ। अद्दितिओन् एन्द्स्।]
यथा च यादव-मध्य-पातितत्वेनैव तेषु निर्धारण-मयं श्री-राम-वचनं श्री-हरिवंशे यादवेष्व् अपि सर्वेषु भवन्तो मम बान्धवाः [ह।वं। ८३.१५] इति । सप्तम्या ह्य् अस्य जाताव् एव निर्धारणम् उच्यते, «पुरुषेषु क्षत्रियः शूरतमः» इतिवत् । विजातीयत्वे तु «श्रौघ्नेभ्यो माथुरा ह्य् आढ्यतमाः» इतिवत् यादवेभ्योऽपि सर्वेभ्यो इत्य् एवोच्यतेति ज्ञेयम् ।
अत्र जयतीत्य् अत्र लोड्-अर्थत्वं न सङ्गच्छते सदैवोत्कर्षानन्त्यम् इति तस्मिन्न् आसीर्वादानवकाशात् । तद्-अवकाशो वा आशीर्वाद-विषयस्य तदानीम् आशीर्वादक-कृतानुवाद-विशेष-विशिष्टतयैव स्थितेर् अवगमात् प्रतिपिपादयिषितं तादृशत्वेनैव तात्कालिकत्वम् आगच्छत्य् एव । यथा «धार्मिक-सभ्योऽयं राजा वर्धताम्»इति । तद् एवं, पतिर् गतिश् चान्धक-वृष्णि-सात्वताम् [भा।पु। २.४.२०] इत्य् अत्राप्य् अनुसन्धेयम् । अनेन यदु-वराणाम् अपि तथैव जयो विवक्षितः ।
नन्व् एवं तथा विहरण-शीलश् चेत् पुनः कथम् इव देवकी-जन्म-वादोऽभूत् ? तत्राह—स्वैर् दोर्भिर् दोर्भ्यां चतुर्भिश् चतुर्भुजैर् अधर्मं तद्-बहुलम् असुर-राज-वृन्दम् अस्यन् निहन्तुं, लक्षण-हेत्वोः क्रियायाः शतृ-प्रत्यय-विधानात् । तद्-अर्थम् एव लोकेऽपि तथा प्रकटीभूत इत्य् अर्थः ।
किं वा, किं कुर्वन् जयति ? स्वैः काल-त्रय-गतैर् अपि भक्तैर् एव दोर्भिस् तद्-द्वारा अधर्मं जगद्-गत-पाप्मानम् अस्यन् नाशयन्न् एव । तद् उक्तम्—मद्-भक्ति-युक्तो भुवनं पुनाति [भा।पु। ११.१४.२४] इति ।
पुनः किम् अर्थं देवकी-जन्म-वादः ? तत्राह—स्थिर-चर-वृजिन-घ्नः निजाभिव्यक्त्या निखिल-जीवानां संसार-हन्ता, तद्-अर्थम् एवेत्य् अर्थः । तद् उक्तं यत एतद् विमुच्यते [भा।पु। १०.२९.१६] इति ।
किं वा, कथम्भूतो जयति ? व्रज-यदु-पुर-वासिनां स्थावर-जङ्गमानां निज-चरण-वियोग-दुःख-हन्ता सन् ।
न् इत्य-विहारे प्रमाणम् आह—जन-निवासः । जन-शब्दोऽत्र स्वजन-वाचकः । सालोक्य- [भा।पु। ३.२९.१३] इत्य्-आदि-पद्ये जना इतिवत् । स्वजन-हृदये तत्-तद्-विहारत्वेन सर्वदैवावभासमान इत्य् अर्थः । सर्व-प्रमाण-चय-चूडामणि-भूतो विद्वद्-अनुभव एवात्र प्रमाणम् इति भावः ।
स्वयं तु किं कुर्वन् जयति ? व्रज-वनितानां मथुरा-द्वारका-पुर-वनितानां च काम-लक्षणो यो देवः स्वयम् एव तद्-रूपः, तं वर्धयन् सदैवोद्दीपयन् । अत्र तदीय-हृदय-स्थ-काम-तद्-अधिदेवयोर् अभेद-विवक्षा तादृश-तद्-भावस्य तद्वद् एव परमार्थता-बोधनाय श्री-कृष्ण-स्फूर्ति-मयस्य तादृश-भावस्याप्राकृतत्वात् परमानन्द-परम-काष्ठा-रूपत्वाच् च । श्री-कृष्णस्य काम-रूपोपासना चागमे व्यक्तास्ति । वनिता जनितात्यर्थानुरागायां च योषिति इति नाम-लिङ्गानुशासनम् । व्रजेति श्रैष्ठ्येन पूर्व-निपातः । अत एव पूर्वं मेरु-देव्यां सुदेवीति संज्ञावत् देवकी-शब्देन श्री-यशोदा च व्याख्येया—
द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च ।
अतः सख्यम् अभूत् तस्या देवक्या शौरि-जायया ॥ इति स्कान्द-वचनात्98 ।
तद् एवं त्रिष्व् अपि न् इत्य-विहारित्वं सिद्धम् ।
॥ १०.९० ॥ श्री-शुकः ॥ ११५ ॥
[११६]
अथ यद् उक्तं श्री-वृन्दावनस्यैव प्रकाश-विशेषे गोलोकत्वं, तत्र प्रापञ्चिक-लोकाप्रकट-लीलावकाशत्वेनावभासमान-प्रकाशो गोलोक इति समर्थनीयम्, प्रकट-लीलायां तस्मिंस् तच्-छब्द-प्रयोगादर्शनात्, भेदांश-श्रवणाच् च । प्रकटाप्रकटतया लीला-भेदश् चाग्रे दर्शयितव्यः ।
तद् एवं वृन्दावन एव तस्य गोलोकाख्य-प्रकाशस्य दर्शनेनाभिव्यनक्ति—
नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥१०॥
ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् ।
अपि नः स्व-गतिं सूक्ष्माम् उपाधास्यद् अधीश्वरम् ॥११॥
इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् ।
सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् ॥१२॥
जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः ।
उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥१३॥
इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥१४॥
सत्यं ज्ञानम् अनन्तं यद् ब्रह्मज्योतिः सनातनम् ।
यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥१५॥
ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।
ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥१६॥
नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः ।
कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥१७॥[भा।पु। १०.२८.१०-१७]
[१०]अतीन्द्रियम् अदृष्ट-पूर्वम् । लोक-पालो वरुणः । [११]स्व-गतिं स्व-धाम । सूक्ष्मां दुर्ज्ञेयाम् । उपाधास्यत् उपधास्यति नोऽस्मान् प्रति प्रापयिष्यतीति सङ्कल्पितवन्त इत्य् अर्थः ।
[१३] जनइति ।जन-शब्देन तदीय-स्वजन एवोच्यते । सालोक्य-सार्ष्टि [भा।पु। ३.२९.१३] इत्य्-आदि पद्ये जना इतिवत् । अत्रैते मत्-सेवनं विनाप्राप्यमाणा सालोक्यादि-पर् इत्यागेन तत्-सेवैक-वाञ्छा-व्रताः साधका एवेति लभ्यते । न वेद स्वां गतिं इत्य् अत्र तु श्री-भगवता तस्मिन् लोके स्वीयत्व-तदीयत्वयोर् एकत्व-मननेन स्वाभेद एव प्रतिपादित इति परम एवासौ तदीय-स्वजनः। अत एव,
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ [भा।पु। १०.२५.१८]
इति स्वयम् एव भगवता मत्-परिग्रहम् इत्य् अनेन स्वस्मिंस् तत्-परिकरता_मच्-छरणम्_ इत्य्-आदि-क्रम-प्राप्त-बहुव्रीहिणा दर्शिता, सोऽयं मे व्रतः इत्य् अनेन स्वस्य तद्-गोपन-व्रतता च । तद् एवं व्रजवासि-जन एव लब्धे, तं प्रत्य् एव करुणया दर्शितवान्, न त्व् अन्यान् ।
स्वां गतिम् इति सामानाधिकरण्ये एव व्यक्ते, न तु ताभ्यां पदाभ्यां वस्तु-द्वयम् उच्यते । स्व-गतिं सूक्ष्माम् इति पूर्वोक्तम् अपि तथा । तस्मात् तल्-लोक-दर्शनम् एवोभयत्र विवक्षितम् । विवक्षिते च तल्-लोके, स तु जन-मात्रस्य स्व-गतिर् न भवतीति च जन-शब्देन तद्-विशेष एव व्याख्यातः।तद्99 एवं सत्य् अयम् अर्थः—जनोऽसौ व्रज-वासी मम परम-स्वजनः।100
एतस्मिन् प्रापञ्चिक-लोके । अविद्यादिभिः कृता या उच्चावचागतयो देव-तिर्यग्-आदयः, तासुस्वां गतिं भ्रमन्, ताभ्यो निर्विशेषतया जानन्, ताम् एव स्वां गतिं न वेदेत्य् अर्थः । ततो माम् अपि सर्वोत्तमतया प्रेम-भक्त्या सर्वोत्तमतया द्रष्टुर् एतस्य यद्यपि तत्-तल्-लीला-रस-पोषाय मदीय-लीला-शक्त्यैव भ्रमादिकं कल्पितं, न पुनर् अविद्यादिभिः ।
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [भा।पु। १०.११.५८]इति ।
यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.२५] इत्य् आदि । ततोऽयं भ्रमो यद्यपि तत्-तल्-लीला-पोषायैव मदीय-लीला-शक्त्या कल्पितः, तथाप्य्101 एतस्येच्छानुसारेण क्षण-कतिपयम् एतदीयां सर्व-विलक्षणां स्वां गतिं दर्शयन् तद् अपनेष्यामीति भावः ।वैलक्षण्यं त्व् अग्रे व्यञ्जनीयम् ।
[१४] गोपानां स्वं लोकं श्री-गोलोकं । यः खलु गोपी-गोपैर् असङ्ख्यातैः सर्वतः समलङ्कृतम् इति मृत्यु-सञ्जय-तन्त्रे वर्णितम् । तथा—
पद्माकृतिपुरोद्वारि लक्ष-मण्डल-नायिकाः ।
रामादयस् तु गोपालाश् चतुर्-दिक्षु महेश्वराः ॥
इति नारद-पञ्चरात्रे विजयाख्याने वर्णितः । चिन्तामणि-प्रकर-सद्मसु [ब्र।सं। ५.४०] इत्य्-आदि ब्रह्म-संहितादिषु वर्णित-व्यक्त-वैभवातिक्रान्त-प्रपञ्च-लोक-महोदयस्102 तम् एवेत्य् अर्थः ।तमसः प्रकृतेः परं प्रपञ्चानभिव्यक्तत्वेन तदीयेनाप्य् असङ्करम् ।
[१५] अत एव सच्चिदानन्द-रूप एवासौ लोक इत्य् आह—सत्यम् इति । सत्यादि-रूपं यद् ब्रह्म यच् च मुनयो गुणात्यये [गुणापाये] पश्यन्ति, तद् एव स्वरूप-शक्ति-वृत्ति-विशेष-प्राकट्य-विशेषेणसत्यादि-रूपाव्यभिचारिणं गोलोक-रूपंदर्शयामासेति पूर्वेनान्वयः । यथान्यत्रापि वैकुण्ठे भगवत्-सन्दर्भोदाहृतं पाद्मादि-वचनं ब्रह्माभिन्नता-वाचित्वेन दर्शितं, तद्वत् ।
[१६] अथ श्री-वृन्दावने च तादृश-दर्शनं कतम-देश-स्थितानां तेषां जातम् इत्य् अपेक्षायाम् आह—ब्रह्म-ह्रदम् अक्रूर-तीर्थं कृष्णेन नीताः पुनश् च तद्-आज्ञयैव मग्नाः, पुनश् च तस्मात् तीर्थात् श्री-कृष्णेनैव उद्धृताः । उद्धृत्य वृन्दावन-मध्य-देशम् आनीतास् तस्मिन्न् एव नराकृति-पर-ब्रह्मणः श्री-कृष्णस्य लोकं गोलोकाख्यं ददृशुः । कोऽसौ ब्रह्म-ह्रदः ? तत्राह—यत्रेति । पुरा इत्य् एतत्-प्रसङ्गाद् भावि-काल इत्य् अर्थः । पुरा पुराणे निकटे प्रबन्धातीत-भाविषु इति कोष-काराः । यत्र च ब्रह्म-ह्रदेऽध्यगाद् अस्तौत अधिगतवान् इति वा। सर्वत्रैव श्री-वृन्दावने यद्यपि तत्-प्रकाश-विशेषोऽसौ गोलोको दर्शयितुं शक्यः स्यात्, तथापि तत्-तीर्थ-माहात्म्य-ज्ञापनार्थम् एव वा विनोदार्थम् एव वा तस्मिन् मज्जनम् इति ज्ञेयम् ।
[१७] नन्दादय इति कर्त्र्-अन्तरा-निर्देशाच् छन्दोभिर् एव मूर्तैः कर्तृभिः । तद्-अभिज्ञापनार्थं तज्-जन्मादि-लीलया स्तूयमानम् । अन्तरङ्गाः परिकरास् तु पूर्व-दर्शित-रीत्या गो-गोपादय एव । अत एव कृष्णं यथा ददृशुः, तथा तत्-परिकरान्तराणां दर्शनानुक्तेस् तत्र क एव तत्र परिकरा इत्य् अभिव्यज्यते । त एव च पूर्व-दर्शित-मृत्यु-सञ्जयादि-तन्त्र-हरि-वंशादि-वचनानुसारेण प्रकटाप्रकट-प्रकाश-गततया द्विधा-भूताः सम्प्रत्य् अप्रकट-प्रकाश-प्रवेशे सत्य् एक-रूपा एव जाता इति न पृथग्-दृष्टाः ।
यदा तत्-प्रकाश-भेदो भवति, तदा तत्-तल्-लीला-रस-पोषाय तेषु प्रकाशेषु तत्-तल्-लीला-शक्तिर् एवाभिमान-भेदं परस्परम् अननुसन्धानं च प्रायः सम्पादयतीति गम्यते । उदाहरिष्यते चाग्रे । अत एवोक्तं न वेद स्वां गतिं भ्रमन् इति ।
तथा च सति इदानीं श्री-व्रज-वासिनां कथञ्चिज् जातया तादृशेच्छया तेभ्यस् तेषाम् एव तादृश-लोक-प्रकाश-विशेषादिकं दर्शितम् इति गम्यते । न च प्रकाशान्तरम् असम्भावनीयम्, परमेश्वरत्वेन तच् च श्री-विग्रह-परिकर-धाम-लीलादीनां युगपद् एकत्राप्य् अनन्त-विध-वैभव-प्रकाश-शीलत्वात् । अत्र स्वां गतिम् इति तदीयता-निर्देशो गोपानां स्वं लोकम् इति षष्ठी-स्व-शब्दयोर् निर्देशः । कृष्णम् इति साक्षात् तन्-निर्देशश् च वैकुण्ठान्तरं व्यवच्छिद्य श्री-गोलोकम् एव प्रतिपादयति । अत एव तेषां तद्-दर्शनात् परमानन्द-निर्वृतत्वं सुविस्मितत्वम् अपि युक्तम् उक्तम्, तस्यैव पूर्णत्वात्, तथातेषां पुत्रादि-रूपेणोदयाच् च । तद् एवम् उक्तोऽर्थः समञ्जस एव ॥
॥ १०.२८ ॥ श्री-शुकः ॥ ११६ ॥
[११७]
एवं द्वारकादीनां तस्य न् इत्य-धामत्वं सिद्धम् । अथ तत्र के तावद् अस्य परिकराः ? उच्यते—पूर्योर् यादवादयो वने श्री-गोपादयश् चेति । श्री-कृष्णस्य द्वारकादि-न् इत्य-धामत्वेन तेषां स्वतः-सिद्धेः, तद्-रूपत्वे परिकरान्तराणाम् अयुक्तत्वाद् अश्रवणत्वाच् च । तत्-परिकरत्वेनैवाराधनादि-वाक्यानि दर्शितानि दर्शयितव्यानि च । अतएवोक्तं पाद्मे कार्तिक-माहात्म्ये श्री-कृष्ण-सत्यभामा-संवादे—
एते हि यादवाः सर्वे मद्-गणा एव भामिनि ।
सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥ [प।पु। ६.८९.२२४]
एव-कारान् न देवादयः । श्री-हरि-वंशेऽप्य् अनिरुद्धान्वेषणे तादृशत्वम् एवोक्तम् अक्रूरेण—देवानां च हितार्थाय वयं याता मनुष्यताम् [ह।वं। २.१२१.५७]103 इति । श्री-मथुरायां त्व् अवतारावसरेणाभिव्यक्ता अपि निगूढतया केचित् तस्याम् एव वर्तमानाः श्रूयन्ते । यथा श्री-गोपालोत्तर-तापन्याम्—
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [गो।ता।उ। २.३६] इति ।
श्री-वृन्दावने तैः सदा विहारश् च । यथा पाद्म-पाताल-खण्डे श्री-यमुनाम् उद्दिश्य—
अहो अभाग्यं लोकस्य न पीतं यमुना-जलम् ।
गो-वृन्द-गोपिका-सङ्गे यत्र क्रीडति कंस-हा ॥ इति ।
स्कान्दे च—
वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः ।
वृन्दावनान्तर-गतः स-रामो बालकैर् वृतः ॥ इति ।
न तु प्रकट-लीला-गतेभ्य एते भिन्नाः, एते हि यादवाः सर्वे इत्य् अनुसारात् । तथा हि पाद्म-निर्माण-खण्डे च श्री-भगवद्-वाक्यम्—
न् इत्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ।
यमुनां गोप-कन्याश् च तथा गोपाल-बालकान् ॥
ममावतारो न् इत्योऽयम् अत्र मा संशयं कृथाः ॥ इति ।
अतस् तान् एवोद्दिश्य श्रुतौ च तत्र ऋक्षु—
तां वां वास्तून्य् उश्मसि गमध्यै
यत्र गावो भूरि-शृङ्गा अयासः ।
अत्राह तद् उरुगायस्य वृष्णः
परमं पदम् अवभाति भूरि ॥ [ऋ।वे। १.१५४.६]इति ।
व्याख्यातं च—तां तानि वां युवयोः कृष्ण-रामयोर् वास्तूनि लीला-स्थानानि गमध्यै गन्तुं प्राप्तुं उश्मसि कामयामहे । तानि किं-विशिष्टानि ? यत्र येषु भूरि-शृङ्गा महा-शृङ्ग्यो गावो वसन्ति । यथोपनिषदि भूम-वाक्ये धर्मि-परेण भूम-शब्देन महिष्ठम् एवोच्यते, न तु बहुतरम् इति । यूथ-दृष्ट्यैव वा भूरि-शृङ्गा बहु-शृङ्ग्यो, बहु-शुभ-लक्षणा इति वा । अयासः शुभाः । अत्र भूमौ तल्-लोक-वेद-प्रसिद्धं श्री-गोलोकाख्यं_उरुगायस्य_104 स्वयं भगवतो वृष्णः सर्व-काम-दुघ-चरणारविन्दस्य परमं प्रपञ्चातीतं पदं स्थानं भूरि बहुधा _अवभाती_त्य् आह वेद इति ।
यजुःसु—माध्यन्दिनीयास् तु या ते धामन्य् उश्मसि इत्य्-आदौ, विष्णोः परमं पदम् अवभाति भूरि इत्य् अन्ते पठन्ति ।
पाद्मोत्तर-खण्डे तु यत् त्व् इयं श्रुतिः परम-व्योम-प्रस्ताव उदाहृता, तत् परम-व्योम-गोलोकयोर् एकतापत्त्य्-अपेक्षयेति मन्तव्यम्, गो-शब्दस्य सास्नादि-मत्य् एव प्रचुर-प्रयोगेण झट् इत्य् अर्थ-प्रतीतेः, श्री-गोलोकस्य ब्रह्म-संहिता-हरिवंश-मोक्षधर्मादिषु प्रसिद्धत्वाच् च।
अथर्वणि च श्री-गोपाल-तापन्यां—
जन्म-जराभ्यां भिन्नः स्थाणुर् अयम् अच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति योऽसौ गोषु तिष्ठति योऽसौ गाः पालयति । योऽसौ गोपेषु तिष्ठति [गो।ता।उ। २.२२] इत्य्-आदि ।
सौर्य इति सौरी यमुना, तस्या अदूर-भवे देशेश्री-वृन्दावन इत्य् अर्थः । सहस्र-नामसु सुयामुन [म।भा। १३.१३५.८८] इति तथा व्याख्यातं भाष्य-कृद्भिः । आगमे च, सकल-लोक-मङ्गलो नन्द-गोप-तनयो देवता इति। तदीय-पर-महा-मन्त्र-गत-ऋष्य्-आदिषु तदीयाराध्यत्वेन तस्य स्मरणम्।
तद् एवम् उभयेषाम् अपि न् इत्य-पार्षदत्वे सिद्धे, यत् तु शस्त्राघात-क्षत-विष-पान-मूर्च्छा-तत्त्व-बुभुत्सा-संसार-सार-निस्तारोपदेशास्पदत्वादिकं श्रूयते, तद् भगवत इव नर-लीलौपायिकतया प्रपञ्चितम् इति मन्तव्यम् । यथा तवेयं विषमा बुद्धिः [भा।पु। १०.५४.४२] इत्य्-आदिकं साक्षात् श्री-रुक्मिणीं प्रति श्री-बलदेव-वाक्ये । यच् च श्रीमद्-उद्धवम् उद्दिश्य—स कथं सेवया तस्य कालेन जरसं गतः [भा।पु। ३.२.३] इत्य् उक्तम् । तद् अपि चिर-काल-सेवा-तात्पर्यकम् एव, तत्र प्रवयसोऽप्य् आसन् युवानोऽतिबलौजसः [भा।पु। १०.४५.१९] इति विरोधात् ।
क्वचिच् च प्रकट-लीलायाः प्रापञ्चिक-लोक-मिश्रत्वात् यथार्थम् एव तद्-आदिकम् । यथा शतधन्व-वधादौ । उभयेषां विभागश् च श्री-दशमान्ते दृश्यते—
देवासुराहव-हता दैतेया ये सुदारुणाः ।
ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥
तन्-निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले ।
अवतीर्णाः कुल-शतं तेषाम् एकाधिकं नृप ॥
तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद् धरिः ।
ये चानुवर्तिनस् तस्य ववृधुः सर्व-यादवाः ॥ [१०.९०.४३-४५]
इत्य् अनुवर्तिनां पृथङ्-निर्देशात् । अन्तरङ्गानां भगवत्-साधारण्यं तु यादवान् उद्दिश्योक्तम्—मत्-तुल्य-गुण-शालिनःइति । गोपान् उद्दिश्य च गोपैः समान-गुण-शील-वयो-विलास-वेशैश् च [क्र।दी। ३.२०] इति । पाद्म-निर्माण-खण्डे—गोपाला मुनयः सर्वे वैकुण्ठानन्द-मूर्तयः [प।पु। ५.७४.३३] इति । यतो यो वैकुण्ठः श्री-भगवान् स इवानन्द-मूर्तयस् ते ततस् तत्-परम-भक्तत्वाद् एव मुनय इत्य् उच्यते । न तु मुन्य्-अवतारत्वाद् इति ज्ञेयम् । नैते सुरेशा ऋषयो न वैते [भा।पु। १०.१३.३९] इत्य्-आदिकं श्री-बलदेव-वाक्यं च भगवद्-आविर्भाव-लक्षण-गोपादीनां, केयं वा कुत आयाता दैवी वा नार्य् उतासुरी [भा।पु। १०.१३.३७] इत्य् आदि-प्राप्तम् अन्यत्वम् एव निषेधति, न तु पूर्वेषां च तद् विदधाति कल्पना-गौरवाद् इति ज्ञेयम् । [ब् अद्दितिओन्- इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इत्य्-आदेः, तद् भूरि-भाग्यम् [भा।पु। १०.१४.३४] इत्य्-आदेश् च । एन्द् वृ।]
युक्तं चैषां तत्-सादृश्यं—
तस्यात्म-तन्त्रस्य हरेर् अधीशितुः
परस्य मायाधिपतेर् महात्मनः ।
प्रायेण दूता इह वै मनोहराश्
चरन्ति तद्-रूप-गुण-स्वभावाः ॥ [भा।पु। ६.३.१८] इति श्री-यम-वाक्यानुगतत्वात् ।
दृष्टं च यथा प्रथमे—प्राविशत् पुरम् [भा।पु। १.११.११] इत्य् आरभ्य, मधु-भोज-दशार्हार्ह-कुकुरान्धक-वृष्णिभिः आत्म-तुल्य-बलैर् गुप्ताम् [भा।पु। १.११.१२] इत्य्-आदि । अत एव ब्रह्मणा हृतेषु बाल-वत्सेषु भगवता नान्येषां तत्-तद्-रूपाणां सृष्टिः, किन्तु स्वेनैव तत्-तद्-रूपता-प्राप्तिर् इत्य् उक्तम् । अत एव—
गोप-जाति-प्रतिच्छन्ना देवा गोपाल-रूपिणम् ।
ईडिरे कृष्णं रामं च नटा इव नटं नृपः ॥ [भा।पु। १०.१८.११]
इत्य् अत्र साम्यम् एव सूचितम् । अर्थश् च देवाः श्री-कृष्णावरणे मद्-भक्त-पूजाभ्यधिका [११.१९.२१] इति न्यायेन तद्वद् एवोपास्या अपि श्रीदामादयो गोप-जात्या प्रतिच्छन्ना अन्य-गोप-सामान्य-भावेन प्रायस् तादृशतया लक्षयितुम् अशक्याः । तत्र कृष्णं रामं च गोपाल-रूपिणम् इति दृष्टान्त-गर्भे यथा तादृशाव् अपि तौ तद्-रूपिणौ तथा तेऽपीत्य् अर्थः । अत्र देवा इत्य् अनेन गुण-साम्यं चाभिप्रेतम् इति ।
तत्र यादवादीनां [स्व-तुल्यत्वं आध्यात्मिक-गोष्ठी-लीलयैव श्लेषतः]105 तत्-पार्षदत्वं योजयति—
अहं यूयम् असाव् आर्य इमे च द्वारकौकसः ।
**सर्वेऽप्य् एवं यदु-श्रेष्ठ विमृग्याः स-चराचरम् ॥ [**भा।पु। १०.८५.२३]
यूयं श्रीमद्-आनकदुन्दुभ्य्-आदयो विमृग्याः परमार्थ-रूपत्वाद् अन्वेषणीयाः । तथान्यद् अपि द्वारकौको जङ्गम-स्थावर-सहितं यत् किञ्चित् तदन्वेष्यम् । अहं श्री-कृष्ण इति दृष्टान्तत्वेनोपन्यस्तम् । ततश् च नराकार-ब्रह्मणि स्वस्मिन्न् इव तन्-न् इत्य-परिकरे सर्वत्रैव परम-पुरुषार्थत्वम् इति भावः । तस्माद् यथा पूर्वं सत्त्वं रजस् तमः [१०.८५.१३] इत्य्-आदिना सत्त्वादि-गुणानां तद्-वृत्तीनां च ब्रह्मणि त्रैकालिक-स्पर्श-सम्भवान् माययैव तद्-अध्यासो भवता वर्णितः, तथा दृष्टिर् अत्र तु नकार्येति तात्पर्यम् ॥
[११८]
लौकिकाध्यात्म-गोष्ठीत्य् एवम् एवेत्य् आह द्वयेन । तत्र प्रथमेन, यथा—
आत्मा ह्य् एकः स्वयं-ज्योतिर् न् इत्योऽन्यो निर्गुणो गुणैः ।
**आत्म-सृष्टैस् तत्-कृतेषु भूतेषु बहुधेयते ॥ [**भा।पु। १०.८५.२४]
अत्र [अनुगतार्थान्तरं च दृश्यते]106 द्वारकायाम् इति प्रकरणेन लभ्यते । हि यस्माद् एक एवआत्मामल्-लक्षणं भगवत्त्वम् आत्म-सृष्टैः स्वरूपाद् एवोल्लसितैर् गुणैः स्वरूप-शक्ति-वृत्ति-विशेषैः कर्तृभिस् तत्-कृतेषु तस्मिन् स्वरूपे एव प्रादुर्भावितेषु भूतेषु परमार्थ-सत्येषु द्वारकान्तर्-वर्ति-वस्तुषु बहुधा तत्-तद्-रूपेण ईयते प्रकाशते । सहस्र-नाम-भाष्ये लोकनाथं महद्भूतम् [म।भा। १३.१३५.७] इत्य् अत्र च भूतं परमार्थ-सत्यम् इति व्याख्यातम् । तथा तथा च प्रकाशः स्वरूप-गुणापर् इत्यागेनैवेत्य् आह—स्वयं ज्योतिः स्व-प्रकाश एव सन्, न् इत्य एव सन्, अन्यः प्रपञ्चेऽभिव्यक्तोऽपि तद्-विलक्षण एव सन्, निर्गुणः प्राकृत-गुण-रहित एव च सन्न् इति ॥२४॥
[११९]
[अत्र चार्थान्तरं यथा]107 तर्हि कथं भवत आत्यन्तिकं समम् एवात्र सर्वम् ? इत्य् आशङ्क्य तथापि मय्य् अस्ति वैशिष्ट्यम् इत्य् आह—
खं वायुर् ज्योतिर् आपो भूस् तत्-कृतेषु यथाशयम् ।
**आविस्-तिरो-ऽल्प-भूर्य् एको नानात्वं यात्य् असाव् अपि ॥ [**भा।पु। १०.८५.२५]
सत्-कार्य-वादाभ्युपगमात् तस्य कारणानन्यत्वाभ्युपगमाच् च । यथा खादीनि भूतानि तत्-कृतेषु तत्-स्वरूपेणैव विकासितेषु वाय्व्-आदि-घटान्तेषु यथाशयं वाय्व्-आद्य्-आविर्भावाद्य्-अनुरूपम् एवाविर्भावादिकं यान्ति, न तु तेष्व् अधिकम् । अत्र यावान् वायुर् गृह्यते, तावान् एव तत्राकाश-धर्मः शब्दोऽपि गृह्यते । यावज् ज्योतिस् तावान् एव वायु-धर्मः स्पर्शोऽपीत्य्-आदिकं ज्ञेयम् । तथा स्वरूपेणैव विकासितेषु द्वारका-वस्तुषु असौ भगवद्-आख्य आत्माअपि । तस्माद् अहं तु तत्-सर्व-मयः सर्वस्मात् पृथक् परिपूर्णश् चेत्य् अस्ति वैशिष्ट्यम् इति भावः । अनेन दृष्टान्तेन मत्त एवोल्लसिता मद्-धर्मा एव ते भवितुम् अर्हन्ति, न त्व् आकाशे धूसरत्वादिवन् मयि केवल-मध्य-स्था इति च ज्ञापितम् । अत्र यथा तथेति व्याख्यानम् अपि-शब्देन द्योत्यते ।
॥ १०.८५ ॥ श्री-भगवान् श्री-वसुदेवम् ॥ ११७-११९ ॥
[१२०]
अत एवाह—
तद्-दर्शन-स्पर्शनानुपथ-प्रजल्प-
शय्यासनाशन-सयौन-सपिण्ड-बन्धः ।
येषां गृहे निरय-वर्त्मनि वर्ततां वः
**स्वर्गापवर्ग-विरमः स्वयम् आस विष्णुः ॥ [**भा।पु। १०.८२.३०]
येषां वो युष्माकं वृष्णीनां गृहे विष्णुः श्री-कृष्णाख्यो भगवान् स्वयम् आत्मना स्वभावत एव आस निवासं चक्रे, न त्व् अन्येन हेतुनेतितद्-वासस्य स्वाभाविकत्वं दर्शितम् । कथं-भूते गृहे ? अनिरय-वर्त्मनि—निरयः संसारः, तद्-वर्त्म प्रपञ्चः, ततोऽन्यस्मिन्, प्रपञ्चातीत इत्य् अर्थः । कीदृशानां वः ? तस्मिन्न् एव वर्तमानानाम् । स्वयं कथं-भूतः ? स्वर्गापवर्ग-विरमः स्वर्गस्यापवर्गस्य च विरमो येन । यो निज-भक्तेभ्यस् तद्-बहिर्मुखताकरं स्वर्गं न ददाति, तद्-भक्त्य्-उदासीनं केवलं मोक्षं च न ददाति, किन्तु तान् स्व-चरणारविन्द-तल एव रक्षतीत्य् अर्थः ।
येषां युष्माकं तु गृहे स एवं-भूत एवासेत्य् आह—तद्-दर्शनेति । तस्य युष्मत्-कर्तृकं दर्शनं च, अनुपथोऽनुगतिश् च, प्रजल्पो गोष्ठी च, तथा युष्मत्-संवलिता शय्या शयनं च, आसनं च, अशनं भोजनं च, तैर् विशिष्टैश् चासौ स-यौन-स-पिण्ड-बन्धश्चेति शाक-पार्थिवादिवन् मध्य-पद-लोपी कर्मधारयः । तत्र वृष्णिभिः सह यौन-बन्धो विवाह-सम्बन्धः, स-पिण्ड-बन्धो दैहिक-सम्बन्धः, ताभ्यां सह वर्तमानोऽसाव् इति बहुव्रीहि-गर्भता ॥
॥ १०.८२ ॥ राजानं श्रीमद्-उग्रसेनम् ॥ १२० ॥
[१२१]
किं च—
सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।
**यत्रायुतानाम् अयुत-लक्षेणास्ते सदाहुकः ॥ [**भा।पु। १०.९०.४२]
आहुकः उग्रसेनः । यत्र… आस्त इति वर्तमान-प्रयोगेण तत्रापि सदा इति न् इत्यता-वाचकाव्ययेन तेषां न् इत्य-पार्षदत्वं सुव्यक्तम् ॥
॥ १०.९० ॥ श्री-शुकः ॥ १२१ ॥
[१२२]
अतस् तेषां श्री-भगवत्-पार्षदत्वे योग्यताम् अव्यभिचारित्वम् अपि दृष्टान्तेन स्पष्टयति—
तत्रोपविष्टः परमासने विभुर्
बभौ स्व-भासा ककुभोऽवभासयन्
वृतो नृ-सिंहैर् यदुभिर् यदूत्तमो
**यथोडु-राजो दिवि तारका-गणैः ॥ [**भा।पु। १०.७०.१८]
स्पष्टम् । एवम् एव दुर्योधनं प्रति स्वयं विश्व-रूपं दर्शयता श्री-भगवता तेषां यादवादीनां निजावरण-रूपत्वं दर्शितम् इत्य् उद्यम-पर्वणि प्रसिद्धिः ॥
॥ १०.७० ॥ श्री-शुकः ॥ १२२ ॥
[१२३]
यश् चैषाम् एकादश-स्कन्धान्ते तद्-अन्यथा-भावः श्रूयते, स तु श्रीमद्-अर्जुन-पराजय-विमोह-पर्यन्तो मायिक एव । तथा-रचनं च ब्रह्म-शापानिवर्त्यता-ख्यापनायैव गो-ब्राह्मण-हितावतारिणा भगवता विहितम् इति ज्ञेयम् । दृश्यते च बृहद्-अग्नि-पुराणादौ रावण-हृतायाः सीताया मायिकत्वं यथा तद्वत्108 । तथा हि तदानीम् एवाह—
त्वं तु मद्-धर्मम् आस्थाय ज्ञान-निष्ठ उपेक्षकः ।
**मन्-माया-रचिताम् एतां विज्ञायोपशमं व्रज ॥ [**भा।पु। ११.३०.४९]
त्वं तु दारुको ज्ञान-निष्ठो मदीय-लीला-तत्त्वज्ञः, मद्-धर्मं मम स्वभक्त-प्रतिपालयितृत्व-रूपं स्व-तुल्य-परिकर-सङ्गित्व-रूपं च स्वभावम् आस्थाय विश्रभ्य, एताम् अधुना प्रकाशितां सर्वाम् एव मौषलादि-लीलां मम इन्द्र-जालवद् रचितां विज्ञायौपेक्षको बहिर्-दृष्ट्या जातं शोकम् उपेक्षमाण उपशमं चित्त-क्षोभात् निवृत्तिं व्रज प्राप्नुहि । तु-शब्देनान्ये तावन् मुह्यन्तु, ] तव तु तथा मोहो न युक्त एवेति ध्वनितम् । अत्र श्री-दारुकस्य स्वयं वैकुण्ठावतीर्णत्वेन सिद्धत्वाद् एताम् इत्य् अत्रातिसन्निहितार्थ-लाभाच् चान्यथा-व्याख्यानम् एव प्रथम-प्रतीत्य्-अविषय इति विवेक्तव्यम् ।
॥ ११.३० ॥ श्री-भगवान् दारुकम् ॥ १२३ ॥
[१२४]
तथा च पद्य-त्रयम्—
राजन् परस्य तनु-भृज्-जननाप्ययेहा
माया-विडम्बनम् अवेहि यथा नटस्य ।
सृष्ट्वात्मनेदम् अनुविश्य विहृत्य चान्ते
**संहृत्य चात्म-महिमोपरतः स आस्ते ॥ [**भा।पु। ११.३१.११]
परस्य श्री-कृष्णस्य ये तनु-भृतः, प्रयुज्यमानेमयि तां शुद्धां भागवतीं तनुम् [भा।पु। १.६.२९] इति श्री-नारदोक्त्य्-अनुसारेण तदीयां तनुम् एव धारयन्तस् तत्-पार्षदा यादवादयः, तेषां जननाप्यय-रूपा ईहाश् चेष्टाः केवलं परस्यैव मायया अनुकरणम् अवेहि यथा इन्द्रजाल-वेत्ता नटः कश्चिज् जीवत एव मारयित्वेव दग्ध्वेव पुनश् च तद्-देहं जनयित्वेव दर्शयति तस्येव । विश्व-सर्गादि-हेत्व्-अचिन्त्य-शक्तेस् तस्य तादृश-शक्तित्वं न च चित्रम् इत्य् आह—सृष्ट्वेति ।
एवं सति श्री-सङ्कर्षणादौ मुग्धानाम् अन्यथा-भान-हेतूदाहरणाभासः सुतराम् एव मायिक-लीला-वर्णने प्रवेशितो भवति । स्कान्दे श्री-लक्ष्मणस्याप्य् अन्यादृशत्वं न सम्प्रतिपन्नम् । नारायण-वर्मणि च शेषाद् विलक्षण-शक्तित्वेन न् इत्यम् एवोपासक-पालकत्वेन तथैवानुमतम् इति दर्शितम् । अत एव जरासन्ध-वाक्ये, तव राम यदि श्रद्धा [भा।पु। १०.५०.१८] इत्य् अत्र श्री-स्वामिभिर् अपीत्थं वास्तवार्थो व्यञ्जितः—अच्छेद्य-देहोऽसाव् इति स्वयम् एव मत्वा अपरितोषात् पक्षान्तरम् आह—यद् वा, मां जहीति ।
तद् एवं चानेन व्याख्यानेन लोकाभिरामां स्व-तनुं [भा।पु। ११.३१.६] इत्य्-आदि-पद्येषु योगि-जन-शक्ति-विलक्षण-भगवच्-छक्ति-व्यञ्जकं श्री-स्वामि-चरणानाम् अदग्ध्वेत्य् आदि-पद-च्छेदादि-मय-व्याख्या-सौष्ठवं कैमुत्यातिशयेन सुष्ठ्व् एव स्थापितम् । यत एव दृश्यते चाद्याप्य् उपासकानाम् इत्य्-आदिकं च तद्-उक्तं सुसङ्गतं भवति । तत्-तत्-परिकरेणैव सार्धं तेषु तत्-साक्षात्कार इति ।
[१२५]
अप्राकृत-देहानां तेषां तन् न सम्भवतीत्य् आस्ताम्, श्री-कृष्ण-पाल्यत्वेनैव न सम्भवतीत्य् आह—
मर्त्येन यो गुरु-सुतं यम-लोक-नीतं
त्वां चानयच् छरण-दः परमास्त्र-दग्धम् ।
जिग्येऽन्तकान्तकम् अपीशम् असाव् अनीशः
किं स्वानने स्वर् अनयन् मृगयुं स-देहम् ॥ [भा।पु। ११.३१.१२]
यः श्री-कृष्णो यम-लोकं गतम् अपि गुरु-सुतं गुरोर् जातेन पञ्चजन-भक्षितेन तेन मर्त्येन देहेनैव आनयत् । न च ब्रह्म-तेजसो बलवत्त्वं मन्तव्यम् ।त्वां च ब्रह्म्आस्त्र-दग्धं यस् तस्माद् ब्रह्मास्त्राद् आनयद् रक्षितवान् इत्य् अर्थः। किम् अन्यद् वक्तव्यं ? यश् चान्तकानाम् अन्तकम् ईशं श्री-रुद्रम् अपि बाण-सङ्ग्रामे जितवान् । अहो यश् च तं जराख्यं मृगयुम् अपि स्वः स्वर्गं वैकुण्ठ-विशेषं स-शरीरम् एव प्रापितवान् । स कथं स्वानां यदूनाम् अवने ईशो न भवति ? तस्मात् तेष्व् अन्यथा-दर्शनं न तात्त्विक-लीलानुगतम् । स-शरीरं तु तेषां स्व-लोक-गमनम् अतीव युक्तम् इत्य् अर्थः ॥
[१२६]
ननु गच्छन्तु ते स-शरीरा एव स्वं धाम । तत्रापि स्वयं भगवान् विराजत एवेति न तेषां तद्-विरह-दुःखम् अपि । श्री-भगवांस् तु तथा-समर्थश् चेत् तर्हि कथम् अन्यांस् तादृशान् आविर्भाव्य तैः सह मर्त्य-लोकानुग्रहार्थम् अपरम् अपि कियन्तं कालं मर्त्य-लोकेऽपि प्रकटो नासीत्? इत्य् अत्र सिद्धान्तयन् तेषां श्री-भगवतश् च सौहार्द-भरेणापि परस्परम् अव्यभिचारित्वम् आह—
तथाप्य् अशेष-स्थिति-सम्भवाप्ययेष्व्
अनन्य-हेतुर् यद् अशेष-शक्ति-धृक् ।
नैच्छत् प्रणेतुं वपुर् अत्र शेषितं
**मर्त्येन किं स्व-स्थ-गतिं प्रदर्शयन् ॥ [**भा।पु। ११.३१.१३]
यद्यप्य् उक्त-प्रकारेण अशेष-स्थिति-सम्भवाप्ययेषु अनन्य-हेतुः यत् यस्मात् तद्-ऊर्ध्वम् अप्य् अनन्त-तादृश-शक्ति-धृक्, तथापि यादवान् अन्तर्धाप्य निजं वपुर् अत्र शेषितं प्रणेतुं किञ्चित् कालं स्थापयितुं नैच्छत्, किन्तु स्वम् एव लोकम् अनयत् । तत्र हेतुः—तान् विना मर्त्येन लोकेन किं मम प्रयोजनं ? इति स्व-स्थानां तद्-धाम-गतानां तेषां गतिम् एव स्वस्याभिमतत्वेन प्र-कृष्टां दर्शयन्न् इति ॥१३॥
॥ ११.३१ ॥ श्री-शुकः ॥ १२४-१२६ ॥
[१२७]
अतस् तेषां श्री-भगवद्वद् अन्तर्धानम् एव, न त्व् अन्यद् अस्तीति श्री-भगवद्-अभिप्राय-कथनेनाप्य् आह—
मिथो यदैषां भविता विवादो
मध्व्-आमदाताम्र-विलोचनानाम् ।
नैषां वधोपाय इयान् अतोऽन्यो
**मय्य् उद्यतेऽन्तर्दधते स्वयं स्म ॥ [**भा।पु। ३.३.१५]
एषां यदूनां यदा मिथो विवादस् तदाप्य् एषां पृथिवी-पर् इत्याजने वध-रूप उपायो न विद्यते, किम् उतान्येन विवादे स न स्याद् इति । तर्हि तेषां ममाभिलषिते पृथिवी-पर् इत्याजने कतम उपायो भवेत् ? तत्र पुनः परामृशति—अतो वधाद् अन्य एव इयान् एतावान् एव उपायो वर्तते । कोऽसौ ? मयि उद्यते ममेच्छायांसत्यांएते109 स्वयम् अन्तर्दधत इति यः । स्मेति निश्चये । यद् वा, वधस्योपायो न विद्यत इत्य् एवं व्याख्याय अतो वधोपायाद् अन्य इयान् वधोपाय-तुल्य उपायो विद्यते इति व्याख्येयम् । अन्यत् समानम् ॥
॥ ३.३ ॥ श्रीमद् उद्धवो विदुरम् ॥ १२७ ॥
[१२८]
अतएवान्तर्हिते भगवति श्रीमद्-उद्धवस्य विदुर् इति वर्तमान-प्रत्यय-निर्देश-वाक्येन तदानीम् अन्तर्हितस्यापि तद्-वर्गस्यैव श्री-भगवतैव सह संवासो व्यज्यते, यथा—
दुर्भगो बत लोकोऽयं यदवो नितराम् अपि ।
**ये संवसन्तो न विदुर् हरिं मीना इवोडुपम् ॥ [**भा।पु। ३.२.८]
अयं मम हृदये स्फुरन् द्वारका-वासी लोकः । ये संवसन्तः सह वसन्तोऽपि न विदुर् न जानन्ति । अहं तु संवास-भाग्य-हीनो न जानामीति नाश्चर्यम् इति भावः । अत्र तदानीं यदि संवासो नाभविष्यत् तदा “नावेदिषुर्” इत्य् एवावक्ष्यद् इति ज्ञेयम् ॥८॥
[१२९]
नन्व् अधुनापि न जानन्तीति कथं जानासि ? इत्य् आशङ्क्य हेतुं प्राचीन-निजानुभवम् आह—
इङ्गित-ज्ञाः पुरु-प्रौढा एकारामाश् च सात्वताः ।
**सात्वताम् ऋषभं सर्वे भूतावासम् अमंसत ॥ [**भा।पु। ३.२.९]
सात्वतां स्वेषाम् एव ऋषभं न् इत्य-कुल-पतित्वे वर्तमानं स्वयं भगवन्तम् अपि भूतावासं तद्-अंश-रूपं भूतान्तर्यामिणम् एव अमंसत इति, एको देव इत्य्-आदौ सर्व-भूताधिवास [श्वे।उ। ६.११]110 इत्य् अन्तर्यामीति श्रुतेः । उक्तं च वृष्णीनां पर-देवतेति [भा।पु। १०.४३.१७] इति ॥
॥ ३.२ ॥ श्रीमद्-उद्धवो श्री-विदुरम् ॥ १२८-१२९ ॥
[१३०]
यम् एव संवासं पूर्वम् अपि प्रार्थयामास—
नाहं तवाङ्घ्रि-कमलं क्षणार्धम् अपि केशव ।
**त्यक्तुं समुत्सहे नाथ स्व-धाम नय माम् अपि ॥ [**भा।पु। ११.६.४३]
स्व-धाम द्वारकाया एव प्रापञ्चिकाप्रकट-प्रकाश-विशेषम् अपीति । यथा यादवान् अन्यान् नयसि तथा माम् अपिनयेत्य् अर्थः । अर्थान्तरे त्व् अपि-शब्द-वैयर्थ्यं स्यात् ।
॥ ११.६ ॥ श्रीमान् उद्धवः ॥ १३० ॥
[१३१]
पाद्मोत्तर-खण्डे कार्त्तिक-माहात्म्ये च यादवानां तदृशत्वं—
यथा सौमित्रि-भरतौ यथा सङ्कर्षणादयः ।
तथा तेनैव जायन्ते निज-लोकाद् यदृच्छया ॥
पुनस् तेनैव गच्छन्ति तत्-पदं शाश्वतं परम् ।
न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते ॥ [प।पु। ६.२२९.५७-५८]इति ।
अत्र निज-लोकाद् इति तत्-पदम् इति च राम-कृष्णादि-वैकुण्ठं पाद्मोत्तर-खण्ड-मतम् । श्री-मत्स्याद्य्-अवताराणां पृथक् पृथक् वैकुण्ठावस्थितेस् तत्र साक्षाद्-उक्तत्वात् । तादृशानां भगवत इव भगवद्-इच्छयैव जन्मादि-कारणं चोक्तं श्री-विदुरेण—
अजस्य जन्मोत्पथ-नाशनाय
कर्माण्य् अकर्तुर् ग्रहणाय पुंसाम्
नन्व् अन्यथा कोऽर्हति देह-योगं
परो गुणानाम् उत कर्म-तन्त्रम् ॥ [भा।पु। ३.१.४४]इति ।
को वान्योऽपि111 इति टीका च ।
तद् एवं तेषां श्री-कृष्ण-न् इत्य-परिकरत्वे सिद्धे साधिते श्री-वसुदेवादीनां प्राग्-जन्मनि साधकत्वादि-कथनं च भगवत इव भगवद्-इच्छयैव लोक-सङ्ग्रहाद्य्-अर्थम् अंशेनैवावतारात् क्वचिज्-जीवान्तरावेशात् सम्भवति । पुनश् च स्वयम् अवतरत्सु तेषु तद्-अंश-प्रवेश-कथा-रीत्या त्व् एकत्वेन कथनम् इति ज्ञेयम् । यथा प्रद्युम्नस्य व्याख्यातम् । एवं तृतीये वेदाहम् [३.४.११]112 इत्य्-आदि भगवद्-वाक्ये उद्धवं प्रति वस्व्-अंशत्वापेक्षयैव वसो इति सम्बोधनं तादृशांश-पर्यवसानास्पदांशि-रूपत्वेन चरम-जन्मतोक्तिश् च ज्ञेया । अतएवाह—
त्वम् एव पूर्व-सर्गेऽभूः
पृश्निः स्वायम्भुवे सति ।
तदायं सुतपा नाम
**प्रजापतिर् अकल्मषः ॥ [**भा।पु। १०.३.३२]
त्वं श्री-देवकी-देव्य् एवपृश्निर् अभूः, न तु पृश्निस् त्वम् अभूद् इति । एवं तदायम् अपीति ॥
॥ १०.३ ॥ श्री-भगवान् ॥ १३१ ॥
[१३२]
एवम् एवाह—
वसुदेवं हरेः स्थानं
**वदन्त्य् आनकदुन्दुभिम् [**भा।पु। ९.२४.३०] इति ।
सत्त्वं विशुद्धं वसुदेव-शब्दितं यद् ईयते तत्र पुमान् अपावृतः [भा।पु। ४.३.२३] इत्य्-आदौ प्रसिद्धं वसुदेवाख्यं हरेः स्थानम् अत्रानकदुन्दुभिं वदन्ति मुनय इति ॥
॥ ९.२४ ॥ श्री-शुकः ॥ १३२ ॥
[१३३]
तथात्राप्य् एवं व्याख्येयं,
**देवक्यां देव-रूपिण्याम् [**भा।पु। १०.३.८]
वसुदेवस् तद्-रूपिण्यां शुद्ध-सत्त्व-वृत्ति-रूपायाम् एवेति । अत एव विष्णु-पुराणे तां प्रति देव-स्तुतौ—त्वं परा प्रकृतिः सूक्ष्मा [वि।पु। ५.२.७] इत्य्-आदि बहुतरम् ॥
॥ १०.३ ॥ श्री-शुकः ॥ १३३ ॥
[१३४]
अतएवाहम् इव न् इत्यम् एव मत्-पितृ-रूपेणाप्रकट-लीलायां वर्तमानौ युवाम् अधुना प्रकट-लीलाम् अनुगतौ पुनर् अप्रकट-लीला-प्रवेशं यदृच्छयैवाप्स्यथ इत्य् आह—
युवां मां पुत्र-भावेन ब्रह्म-भावेन चासकृत् ।
**चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिं पराम् ॥ [**भा।पु। १०.३.४५]
ब्रह्म-भावेन नराकृति-पर-ब्रह्म-बुद्ध्या । परां प्रकट-लीलातोऽन्यां मद्-गतिं लीलाम् ।
[१३५]
युवयोः प्राग् अंशेनाविर्भूतयोर् अपि मद्-एक-निष्ठासीद् इत्य् आह—
अजुष्ट-ग्राम्य-विषयाव् अनपत्यौ च दम्-पती ।
**न वव्राथेऽपवर्गं मे मोहितौ देव-मायया ॥ [**भा।पु। १०.३.३९]
मम मायया मद्-विषय-स्नेह-मय्या शक्त्येत्य् अर्थः, वैष्णवीं व्यतनोन् मायां पुत्र-स्नेह-मयीं विभुर् [भा।पु। १०.८.४३] इति व्रज-राज्ञीं प्रति च दर्शनात् । तादृश-स्नेह-जनिकया मम कृपयेति वा, माया दम्भे कृपायांचैति विश्व-प्रकाशात् । तत्-प्रेम्णैव ह्य् अपवर्गस्य तिरस्कारः सर्वत्र श्रूयते, यद्यपि मोक्ष-वरणे हेतुर् अस्तीत्य् आह—अजुष्टेति । विषयावेशाभावाद् वैराग्योत्पत्तेर् इति भावः ॥
॥ १०.३ ॥ श्री-भगवान् पितरौ ॥ १३४-१३५ ॥
[१३६]
अथ श्री-गोपादीनाम् अपि तन्-न् इत्य-परिकरत्वम् जयति जननिवास [१०.९०.४८] इत्य् आदाव् एव व्यक्तम्। अत एवाह—
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
**गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ [**भा।पु। १०.२५.१८]
स्पष्टम् ॥ १०.२५ ॥ श्री-भगवान् ॥ १३६ ॥
[१३७]
तथा—
तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् ।
**हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप ॥ [**भा।पु। १०.५.१८]
हरेर् निवास-भूतो य आत्मा, तस्य ये गुणाः, तैर् एव सर्व-समृद्धिमान्, न् इत्य-योगे मत्व्-अर्थीयेन न् इत्यम् एव सर्व-समृद्धि-युक्तः श्री-नन्दस्य व्रजः। ततस् तं श्री-कृष्ण-प्रादुर्भावं आरभ्य तु रमाक्रीडां—
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभिर् अभिपालयन्तम् ।
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् [ब्र।सं। ५.२९] इत्य् अत्र प्रसिद्ध्या,
रमाणां महा-लक्ष्मीणां श्री-व्रजदेवीनाम् अपि साक्षाद् विहारास्पदं बभूव । हरि-निवासात्मनि तत्र श्री-कृष्णो यावन् निगूढतया विहरति स्म, तावत् ता अपि तथैव विहरन्ति स्म । व्यक्ततया तु ता अपि व्यक्ततयेत्य् अर्थः ।
॥ १०.५ ॥ श्री-शुकः ॥ १३७ ॥
[१३८]
एतद् एव प्रपञ्चयति षड्भिः—
अहो भाग्यम् अहो भाग्यं
नन्द-गोप-व्रजौकसाम् ।
यन्-मित्रं परमानन्दं
**पूर्णं ब्रह्म सनातनम् ॥ [**भा।पु। १०.१४.३२]
भाग्यम् अनिर्वचनीया कापि श्री-कृष्णस्य कृपा, तस्य पुनर्-उक्त्य्-आदरेण सर्वथैव अपरिच्छेद्यत्वम् उक्तम् । पूर्ण-परमानन्द-ब्रह्मत्वेनैव सनातनत्वे सिद्धे यत् पुनस् तद्-उपादानं तन्-मित्र-पदस्यैव विशेषणत्वेन लभ्यम् । अथवा, विधेयस्य विशेष-प्रतिपत्त्य्-अर्थम् अनूद्यं विशिष्यते । यथा मनोरमं सुवर्णम् इदं कुण्डलं जातम् इति कुण्डलस्यैव मनोरमत्वं साध्यम् । तस्माद् अत्राप्य् अनूद्यस्य श्री-कृष्णाख्यस्य पर-ब्रह्मणः परमानन्द-पूर्णत्व-लक्षणं विशेषण-द्वयं विधेयाया मित्रताया एव तत्-तद्-भावं साधयतीति तद्-एकार्थ-प्रवृत्तं सनातनत्वं तस्यास् तद्-भावं साधयेत् ।
किं चात्र मित्रम् इति काल-विशेष-योग-निर्देशाभावात् काल-सामान्यम् एव भजते । ततश् च तस्य मित्रता-लक्षणस्य विधेयस्य काल-त्रयावस्थितत्वम् एव स्पष्टम् । कालान्तरासंजननं तु कष्टम् । अत्र चोत्तरयोर् अर्थयोः श्री-कृष्णस्य सनातनत्वे शब्द-लब्धे सति तदीय-मैत्रीमतां परिकराणाम् अपि सनातनत्वं नासम्भवम् अपि, श्री-रुक्मिणी-प्रभृतीनाम् तथा दर्शनात् ।
[१३९]
अहो अस्तु तावद् एषां न् इत्यम् एव श्री-कृष्ण-मैत्री-परमानन्दम् अनुभवतां भाव्यं, सम्प्रति अस्माकम् अपि तत् किम् अपि जातम् इत्य् आह—
एषां तु भाग्य-महिमाच्युत तावद् आस्ताम्
एकादशैव हि वयं बत भूरि-भागाः ।
एतद् धृषीक-चषकैर् असकृत् पिबामः
**शर्वादयोऽङ्घ्र्य्-उदज-मध्व्-अमृतासवं ते ॥ [**भा।पु। १०.१४.३३]
एका अखण्डिता न् इत्येति यावत् । सा भाग्य-महिमा भाग्य-माहात्म्यम् एषां तावद् आस्तां, सम्प्रति शर्वादयोदश-दिक्-पाल-देवा एव वयं भूरि-भागाः । परम-भक्तत्वात् तेषु मुख्यत्वाच् च शर्वादय इत्य् उक्तम् । भूरि-भागत्वम् एव दर्शयति—हृषीक-चषकैश् चक्षुर्-आदि-लक्षण-पान-पात्रैः कृत्वा, वयम् अप्य् एतत् साक्षाद् एव यथा स्यात् तथा ते तव अङ्घ्र्य्-उदज-मध्व्-अमृतासवमसकृत् पुनः पुनर् इहागत्य पिबाम इति । चरण-सौन्दर्यादिकम् एवातिमनोहरत्वात् मध्व्-आदितया त्रिधापि रूपितं समाहार-द्वन्द्वेन । एतद् इति चास्यैव वा विशेषणस्य ।
अत्र “तुष्यतु दुर्जनः” इति न्यायेन श्री-व्रज-वासिनां प्राकृत-देहित्व-मतेऽपि तेषां करणैर् देवता-कर्तृक-भोगो न युज्येत, तस्य च न् इत्यत्वात् [वे।सू। २.४.१७] इत्य् अत्र श्री-शङ्कराचार्येण च करण-पक्षस्यैव हि देवता न भोक्तृ-पक्षस्य इत्य् आत्मन एव भोक्तृत्व-निर्धारणात् ॥१३९॥
[१४०]
अतः पूर्वम् अपि तद् अस्तु मे नाथ स भूरि-भागः [भा।पु। १०.१४.३०] इत्य् आदि यत् प्रार्थितं तद् एतद् एवेत्य् आह—
तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां
यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् ।
यज् जीवितं तु निखिलं भगवान् मुकुन्दस्
**त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥ [**भा।पु। १०.१४.३४]
अनेन श्री-गोकुल-जन्म-लाभाद् एव तव पाद-निषेवा-लक्षणो याचितो भूरि-भागः सदैव सेत्स्यतीति सूचितम् । तस्मात् तेषां भाग-धेयं किं वर्णनीयम् ?
[सर्व-संवादिनी- तद् एताम् अपि परिपाटीं पश्चाद् विधायाह— एषां तु [१०.१४.३३] इत्य्-आदि, तद् भूरि-भाग्यम् [भा।पु। १०.१४.३४] इत्य्-आदि । इत्य् अत्र यत्रावतीर्णः श्री-भगवान् तत्रेह श्री-मथुरा-मण्डले । तत्रापि अटव्यां श्री-वृन्दावने । तत्रापि श्री-गोकुले । कथम्भूतं जन्म ? अत्र टीका च—गोकुल-वासिनां मध्ये अपि कतमस्य यस्य कस्याप्य् अङ्घ्रि-रजसाभिषेको यस्मिन् तत् इत्य् एषा ।]
[१४१]
अहो येषां भक्त्या भवान् अपि न् इत्य-मृणिताम् आपन्नो येषु रुद्ध एवास्ते इत्य् आह—
एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश्
चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति ।
सद्-वेषाद् अपि पूतनापि सकुला त्वाम् एव देवापिता
**यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥ [**१०.१४.३५]
सतां शुद्ध-चित्तानां धात्र्य्-आदि-जनानाम् इव वेषात् । [वृ। अद्द्स्—लेभे गतिं धात्र्य्-उचिताम् [भा।पु। ३.२.२३] इति तृतीयोक्तेः [एन्द् व्र्।] । तस्माद् अनादि-कल्प-परम्परा-गतत्वाद् अवतारत एवैवं प्राप्तत्वेन तैर् एकैर् एव भक्ति-रुद्धत्वात् सनातनं मित्रम् [१०.१४.३२, §१३८] इत्य् एवं साधूक्तम् । ततश् च तद्-भूरि-भाग्यम् [१०.१४.३४, §१४०] इत्य्-आदिकम् अपि साध्व् एव प्रार्थितम् इति भावः ।
[सर्व-संवादिनी- इत्य् अत्र राता दाता त्वत् त्वत्तः । अयत् इतस् ततो गच्छत् ॥]
[१४२]
नन्व् एषां मनुष्यान्तरवत् रागादिकं दृश्यते । कथं तर्हि स्वयं भगवतो न् इत्य-परिकरत्वं तत्र कैमुत्यम् आह—
तावद् रागादयः स्तेनाः तावत् कारागृहं गृहम् ।
**तावन् मोहोऽङ्घ्रि-निगडो यावत् कृष्ण न ते जनाः ॥ [**भा।पु। १०.१४.३६]
स्तेनाः पुरुष-सार-हराः । अन्येषां प्राकृत-जनानाम् अपि तावद् एव रागादयश्चौरादयो भवन्ति यावत् ते जनास् ते तव न भवन्ति, सर्वतो-भावेन त्वय्य् आत्मानं न समर्पयन्ति । समर्पिते चात्मनि, तेषां रागादयोऽपि त्वन्-निष्ठा एवेति रागादीनां प्राकृतत्वाभावान् न चौरादित्वं, प्रत्युत परमानन्द-रूपत्वम् एवेत्य् अर्थः ।
तथैव प्रार्थितं श्री-प्रह्लादेन—
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी ।
त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ [वि।पु। १.२०.१९] इति ।
अतो यदि साधकानाम् एवं वार्ता, तदा किं वक्तव्यं ? न् इत्यम् एव तादृश-प्रियत्वेन सतां श्री-गोकुल-वासिनाम् एवम् इति । इत्थम् एवोक्तम्—
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [भा।पु। १०.११.५८] इति ।
भवन्त्य् अस्मिन्न् इति भवः प्रपञ्चः । यद्यपि प्रपञ्च-जनेष्व् अभिव्यक्तास् ते, तथापि तत्-सम्बन्धिनी या वेदना विषय-दुःखादि-ज्ञानं, तां नाविन्दन्न् इत्य् अर्थः । वेदना ज्ञान-पीडयोः इति कोषज्ञाः ॥
[सर्व-संवादिनी- तावद् इति ।
अन्तर्-गृह-गताः काश्चिद् गोप्योऽलब्ध-विनिर्गमाः ।
कृष्णं तद्-भावनायुक्ता दध्युर् मीलित-लोचनाः ॥
दुःसह-प्रेष्ठ-विरह-तीव्रताप-धुताशुभाः ।
ध्यानप्राप्ताच्युताश्लेष-निर्वृत्या क्षीणमङ्गलाः ॥
तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः ।
जहुर् गुणमयं देहं सद्यः प्रक्षीण-बन्धनाः ॥
राजोवाच—-
कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।
गुण-प्रवाहोपरमस् तासां गुण-धियां कथम् ॥
श्री-शुक उवाच—-
उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः ।
द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥
नॄणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप ।
अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥
कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च ।
न् इत्यं हरौ विदधतो यान्ति तन्-मयतां हि ते ॥
न चैवं विस्मयः कार्यो भवता भगवत्य् अजे ।
योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ [१०.२९.९-१६]]
॥ इति श्री-भागवत-सन्दर्भे श्री-सर्व-संवादिन्यां श्री-कृष्ण-सन्दर्भ-व्याख्या ॥
[१४३]
तर्हि कथं गोकुले प्रपञ्चवद् भानं लोकानां भवति ? तत्राह—
प्रपञ्चं निष्प्रपञ्चोऽपि
विडम्बयसि भूतले ।
प्रपन्न-जनतानन्द-
**सन्दोहं प्रथितुं प्रभो ॥ [**भा।पु। १०.१४.३७]
प्रपञ्चाद् अतीतोऽपि त्वं भूतले स्थितं प्रपञ्चं विडम्बयसि [जन्मादि-लीलया ममायं पिता ममेयं माता इत्य्-आदि भाव-लिङ्गतः] स्वयम् अनेन प्रस्तुतेन गोकुल-रूपेणानुकरोषि । वस्तुतस् तु श्री-गोकुल-रूपम् इदं तव स्वरूपं प्रपञ्चवद् एव भाति, न तु प्रपञ्च-रूपम् एवेति तात्पर्यम् । तद्वच् च भानं किम्-अर्थं ? तत्राह—प्रपन्नेति । एतादृश-लौकिकाकार-लीलयैव हि प्रपन्न-जन-वृन्दस्य परमानन्दो भवतीत्य् एतद्-अर्थम् । तस्मात् साधूक्तम् अहो भाग्यम् इत्य्-आदि ।
॥ १०.१४ ॥ ब्रह्मा श्री-भगवन्तम् ॥ १३८-१४३ ॥
[१४४]
अत एवाह—
तासाम् अविरतं कृष्णे कुर्वतीनां सुतेक्षणम् ।
**न पुनः कल्पते राजन् संसारोऽज्ञान-सम्भवः ॥ [**भा।पु। १०.६.४०]
तासां श्री-गोप-पुर-स्त्रीणां संसारः संसारित्वं प्रापञ्चिकत्वं न पुनः कल्पते, न तु घटते, किन्तु अप्रापञ्चिकत्वम् एव घटत इत्य् अर्थः । यतोऽसाव् अज्ञान-सम्भवः । तासां तु कथं-भूतानां ? अज्ञान-तमः-सूर्यस्य ज्ञानस्योपरि-विराजमानो यः प्रेमा, तस्याप्य् उपरि वर्तमानं यत् सुतेक्षणं पुत्र-भावो वात्सल्याभिधः प्रेमा, तद् एव तत्राप्य् अविरतं न् इत्यम् अनादित एव श्री-कृष्णे कुर्वतीनाम् इति ॥
*इति स्थिते तन्-नाम-सिद्ध-श्री-कृष्ण-नाम-विशेषाङ्कित-विदितानां श्री-कृष्णेन सहान्तरङ्गतया तन्-महा-योग-पीठ-ध्येयानां तद्वद् अन्यास्व् अपि लीलासु तादृशतया दर्शयितव्यानां तासां श्री-कृष्ण-प्रेयसीनां तु किं वक्तव्यम् ?113
॥ १०.६ ॥ श्री-शुकः ॥ १४४ ॥
[१४५]
यस्माद् एवं श्री-गोपादीनां तदीय-न् इत्य-परिकरत्वं, तस्माद् एतत्-प्रकरणत्व-सिद्ध-देहानां साधक-चरीणां कासांचिद् अपेक्षया । यद् वा, एतद् अभिप्रायं तच् च अन्तर्-गृह-गता [भा।पु। १०.२९.९] इत्य्-आदिकं, न चैवं विस्मयः कार्यः [भा।पु। १०.२९.१६] इत्य्-आद्य्-अन्तम् ।
[व्र्। रेप्लचेस् अबोवे परग्रफ् wइथ् थे फ़ोल्लोwइन्ग्: तद् एवम् एव तासां श्री-कृष्णवद् आनन्द-विग्रहाणां तैर् एव विग्रहैः श्री-कृष्ण-सङ्गः प्रोक्तः । उक्तं च तासां विग्रह-माहात्म्यं तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः [भा।पु। १०.३३.६] इत्य्-आदिभिः ।
श्रीमद्-उद्धवेन च तान् नमस्यता प्रथमं एताः परं तनु-भृतः [भा।पु। १०.४७.५८] इत्य् अनेन तासाम् एव परम-तनु-भृत्त्वं प्रदर्श्य,
मध्ये क्वेमाः स्त्रियः [भा।पु। १०.४७.५९] इत्य् अनेन पर-मतम् अनूद्य,
तत् खण्डयता, नायं श्रियोऽङ्ग [भा।पु। १०.४७.६०] इत्य् अनेन लक्ष्मीतोऽपि विलक्षणं तासु तत्-प्रेयसी-रूपत्वं प्रदर्श्य, परम-न् इत्यत्वं स्थापयित्वा,
तत्र च, यः प्रसाद उदगात् इत्य् अनेन तत्-प्रसादस्य सदान्तर्भूय स्थायित्वं सूचयित्वा,
पुनः आसाम् अहो चरण- [भा।पु। १०.४७.६१] इत्य्-आदिना स्वीय-परम-पुरुषार्थ-चरण-रेणुत्वं दर्शितम्,
यत्र भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् [भा।पु। १०.४७.६१] इत्य् अनेन यद् एव पुरुषार्थतया स्थापितम्,
यत्र वृन्दावने इत्य्-आदिना वृन्दावनस्य च तादृशत्वं स्थापितम्,
तद् एतद् व्यतिरेकेण द्रढयितुम् अन्यासाम् आगन्तुकानाम् असिद्ध-देहानां विग्रह-त्यागेनैव तत्-सङ्ग-प्राप्तिर् इत्य् आह—अन्तर्-गृह-गता [भा।पु। १०.२९.९] इत्य्-आदिकेन, न चैवं विस्मयः कार्यः [भा।पु। १०.२९.१६] इत्य् आद्य्-अन्तेन । अन्तर्-गृह-गताः शुश्रूषन्त्यः पतीन् काश्चित् [भा।पु। १०.२९.६] इत्य् अत्रोक्ता इत्य् अर्थः । विशेष-व्याख्या च क्रम-सन्दर्भे114 दर्शयिष्यते । [वृ। सेच्तिओन् एन्द्स्।]
अन्तर्-गृह-गताः काश्चिद् गोप्योऽलब्ध-विनिर्गमाः ।
कृष्णं तद्-भावनायुक्ता दध्युर् मीलित-लोचनाः ॥९
दुःसह-प्रेष्ठ-विरह-तीव्रताप-धुताशुभाः ।
ध्यानप्राप्ताच्युताश्लेष-निर्वृत्या क्षीणमङ्गलाः ॥१०
तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः ।
जहुर् गुणमयं देहं सद्यः प्रक्षीण-बन्धनाः ॥११
राजोवाच—
कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।
गुण-प्रवाहोपरमस् तासां गुण-धियां कथम् ॥१२
श्री-शुक उवाच—
उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः ।
द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥१३
नॄणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप ।
अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥१४
कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च ।
न् इत्यं हरौ विदधतो यान्ति तन्-मयतां हि ते ॥१५
न चैवं विस्मयः कार्यो भवता भगवत्य् अजे ।
योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ [१०.२९.९-१६]
अत्र अन्तर् इति स्फुटम् एव । **अशुभं [**१०.२९.१०] श्री-कृष्ण-प्राप्ताव् अन्तराय-रूपं गुरु-भयादिकम् । मङ्गलं श्री-कृष्ण-प्राप्तौ साधनं सख्य्-आदि-साहाय्य-चिन्तनम्, न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते [प।पु। ६.२२९.५८] इति ह्य् उक्तम् एव । दृश्यते चान्यत्रापि तद्-असम्भव-स्थले तच्-छब्द-प्रयोगः—वत्स्यत्य् उरसि मे भूतिर् भवत्-पाद-हतांहसः [भा।पु। १०.८९.११] इत्य्-आदौ । तत्र यथा श्री-भगवद्-वाक्य-याथार्थ्यायार्थान्तरम् अनुसन्धेयं तद्वद् इहापीति ।
परमात्मानम् [१०.२९.११] इति ब्रह्म-स्तवान्त-निर्दिष्ट-सिद्धान्त-रीत्या श्री-कृष्णस्य स्वभावत एव परम-प्रेमास्पदत्वं दर्शितम् । जार इति या बुद्धिस् तयापि तन्-मात्रेणापि सङ्गताः, न तु साक्षाद् एव जार-रूपेण प्राप्तिर् इति । तद्-भाव-पुरस्कारेण भजनस्य प्राबल्यं व्यञ्जितम् । जार-शब्देन निर्देशात् लोक-धर्म-मर्यादातिक्रमं दर्शयित्वा तथाविध-भावस्यातिनिरर्गलत्वं दर्शितम् । बन्धनं श्री-कृष्ण-प्राप्ति-विरोधि-गुरु-जन-मध्य-वासादि-रूपम् ।
अत्र गुण-मयं देहं जहुर् इत्य् अत्र राज्ञः सन्देहः, कृष्णं विदुर् [भा।पु। १०.२९.१२] इति । हे मुने, ताः श्री-कृष्णं परं केवलं कान्तं निगूढ-वल्लभं विदुः, न तु ब्रह्मेति । तर्हि कथंतासांगुण-प्रवाहस्योपरमः सम्भवति ? यस्य ब्रह्म-भावना स्यात्, तत्र तस्य निर्गुणस्यैवोदयाद् भवेत् प्राचीन-मायिक-गुण-प्रवाहोपरमः । तासु तु कान्ततयैव भावयन्तीषु प्राकृत-गुणातीत-गुणस्यैव तस्योदयात् प्राकृत-गुणाभावेऽपि तद्-गुणानुबन्ध-गुणत्वात् परम-पुरुषार्थानुगतानां तेषां गुणानां कथम् उपरम इत्य् अर्थः ।
यद् वा, तासांगुण-प्रवाहः कथम् उपरमः पारमर्थिको न भवति, येन ततो मुक्तिं कथयसीति भावः । ब्रह्मतया वेदना-वैलक्षण्यं प्रतिपादयति—गुण-धियां ब्रह्म-निष्ठाया अपि त्याजके तस्य परम-सौन्दर्यादि-गुणे धीश् चेतो यासाम् ।
तत्रोत्तरम्—उक्तम् इति । पुरञ्जनेतिहासादिवद् दुरूहत्वात् स्वयम् उक्तस्य व्याख्यानम् इदम् । एवं हि दृष्टान्त-बलेन लभ्यते । यथा चैद्य-शब्देनात्र कारुषोऽपि गृहीतः, तौ च जय-विजयौ। तयोश् च—
देहेन्द्रियासु-हीनानां वैकुण्ठ-पुर-वासिनाम् ।
देह-सम्बन्ध-सम्बद्धम् एतद् आख्यातुम् अर्हसि ॥ [भा।पु। ७.१.३४]
इति श्री-युधिष्ठिर-प्रश्न-दृशा त्व् अप्राकृत-विग्रहत्वेनानश्वर-विग्रहयोर् एव सतोः—
भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् ।
ब्रह्म-तेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ [भा।पु। ३.१६.२९]
इति भगवद्-उक्त्य्-अनुसारेण । इत्थंजय-विजयौ सनकादि-शाप-व्याजेन केवलं भगवतो लीलार्थं संसृताव् अवतीर्य [प।पु। ६.२५२.२४] इति पाद्मोत्तर-खण्ड-गद्यानुसारेण च स्व-भक्त-चित्ताकर्ष-विनोदाय युद्धादि-क्रीडा-निमित्ततया तस्य दुर्घट-घटना-कारिण्येच्छयैव वार-त्रयं स्वीयस्य अणिमादि-सिद्धि-मय-परम-ज्योतिर्-देहस्य गुण-मय-पार्थिव-देहान्तर-प्रवेशः ।
अत एव सप्तमे कृष्ण-चक्र-हतांहसौ [भा।पु। ७.१.४५] इत्य् अत्र टीका च—कृष्ण-चक्रेण हतम् अंहो ययोस् तौ । तयोः पापम् एव हतं न तु तौ इत्य् एषा ।तथा तद्-अर्थम् एव श्री-कृष्णेच्छयैवात्रापि तासाम् अप्राकृत-विग्रहाणाम् एव तद्-अभिसार-प्रतिरोध-समये—
नासूयन् खलु कृष्णाय मोहितास् तस्य मायया ।
मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [भा।पु। १०.३३.३७] इतिवत् ।
तात्कालिक-कल्पितो यो गुणमयो देहः, तत्र प्रवेशः । इमम् एवापेक्ष्य दार्ष्टान्तिकेऽप्य् उक्तम् जहुर् गुणमयं देहम् [भा।पु। १०.२९.११] इति, विशेषण-वैयर्थ्यान् न तु स्वम् इत्य् अर्थः । तत्र च यथा तयोः स-द्वेषस्याप्य् अनुस्मरणस्य115 प्रभावेन तादृशोपाधि-पर् इत्यागात् ततोऽन्तर्धाय भगवत्-प्राप्तिः, तथा सुतराम् एव स-प्रीतेस् तस्य प्रभावेन तत्-प्राप्तिः । अत्र च भक्त-चित्ताकर्षणम् एवं सम्भवति—अहो तादृशोऽसौ श्री-कृष्णे मधुरिमा येन ताः स्व-साक्षात्काराय प्राणान् अपि त्याज्यन्ते स्मेति ।
नॄणाम् [भा।पु। १०.२९.१४] इति सामान्यतो जीवानाम् एव निःश्रेयसाय व्यक्तौ सत्यां भक्तानां तु सुतराम् एवेत्य् आयातम् । अन्यथा तस्य व्यक्तिर् एव न सम्भवेद् इत्य् आह—अव्ययस्येति । निर्गुणस्य प्राकृत-गुण-रहितस्य । गुणात्मनः, तत्र ये चैश्वर्यादयो गुणास् ते आत्मनः स्वरूपाण्य् एव यस्य तस्य ।
तर्ह्य् एतादृश-लीलया कथं नॄणां निःश्रेयसं भवति ? उच्यते । एतद्-बोधनेन भवतीत्य् आह—कामम् [भा।पु। १०.२९.१५] इति । अत्र तन्-मयता-शब्देन तत्-प्रचुरतोच्यते । तत्र काम-स्नेहादिषु तद्-अनुरक्तात्मतेति पर्यवसानं, स्त्रीमयो जाल्म इतिवत् । क्रोध-भयैक्येषु ते प्रायस् तत्-प्रलीनतेति दुग्ध-मयं जलम् इतिवत् । एकस्यैव शब्दस्य विशेषण-वशाद् अर्थ-भेदश् च युज्यते, स्याच् चैकस्य ब्रह्म शब्दवद् [वे।सू। २.३.४] इति न्यायेन । “क्रोध-भययोर्” अत्र पठनम् अन्येषु कैमुत्यापादनायैव, न तु तद्-उपदेश-विवक्षया ।
न च श्री-गोपिकादीनां ये कामादयो भावास् तद्-अनुसरणेनान्ये कृतार्था भवन्तीति चित्रम् इत्य् आह—न च इति । किं वक्तव्यम् एकेषां विमुक्तिर् जगतोऽपि सम्भवतीत्य् आह—यतइति ।एके तु प्रकट-लीलायाम् आराधन-पाकाद् आगन्तुकस्य एवैताः, न तु न् इत्य-सिद्धवत् सच्-चिद्-आनन्द-देहं प्राप्ताः । ततो न दोष इति वर्णयन्ति ॥116
॥ १०.२९ ॥ श्री-शुकः ॥ १४५ ॥
[१४६-१५०]
अथ पूर्ववद् इहापि श्री-व्रजेश्वरादीनां प्राचीन-जन्मादिकं व्याख्येयम् । तथा हि—
त्रय्या चोपनिषद्भिश् च साङ्ख्य-योगैश् च सात्वतैः ।
उपगीयमान-माहात्म्यं हरिं सामन्यतात्मजम् ॥ [भा।पु। १०.८.४५] इत्य् एतत्,
नेमं विरिञ्चो न भवः [भा।पु। १०.९.२०] इति वक्ष्यमाणानुसारि-महा-माहात्म्यं श्रुत्वा विस्मित-मनाः श्री-राजोवाच—
नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् ।
यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥
पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।
गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहम् ॥ [भा।पु। १०.८.४६-७]
ययोः प्रसन्नोऽवतीर्णस् तौ पितराव् अपि । तद् एवं प्रश्नम् अवधार्य श्री-शुक उवाच—
द्रोणो वसूनां प्रवरो धरया भार्यया सह ।
करिष्यमाण आदेशान् ब्रह्मणस् तम् उवाच ह ॥ [भा।पु। १०.८.४८]
आदेशान् गो-पालनादि-लक्षणान् । किम् उवाच ? तद् आह—
जातयोर् नौ महादेवे भुवि विश्वेश्वरे हरौ ।
भक्तिः स्यात् परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ [भा।पु। १०.८.४९] \
स्पष्टम् । ततश् च—
अस्त्व् इत्य् उक्तः स एवेह व्रजे द्रोणो महा-यशाः ।
जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥
ततो भक्तिर् भगवति पुत्री-भूते जनार्दने ।
**दम्पत्योर् नितराम् आसीद् गोप-गोपीषु भारत ॥ [**भा।पु। १०.८.५०-५१]
अन्येषां यः पुत्रो नासीत्, तस्मिंस् तु तयोः पुत्रतां प्राप्त इति च्वि-प्रत्ययार्थः, भक्ति-विशेष-मात्रेणैवोदय-विशेष-नियमात् । वात्सल्याभिध-प्रेम-विशेषेणैव श्री-कृष्णः पुत्रतयोदेति, न तु स्व-देहादाव् आविर्भावेन, हिरण्यकशिपु-सभा-स्तम्भे श्री-नृसिंहस्य ब्रह्मणि श्री-वराहस्य च पितृत्वाप्रयोगात्, न च गर्भ-प्रवेशेन परीक्षिद्-रक्षणार्थं तत्-प्रविष्टस्यापि तस्योत्तरा-मातृत्वाश्रवणात् । तादृश-प्रेमा तु शुद्धः समुद्रिक्तश् च श्री-व्रजेश्वरयोर् एव । अत एव गर्भ-प्रवेशादिकं विनापि तयोः पुत्रतया तस्य प्रसिद्धिः । यथा नन्दस् त्व् आत्मज उत्पन्न [भा।पु। १०.५.१] इत्य्-आदौ, तथोपासना च यथा—सकल-लोक-मङ्गलो नन्द-गोप-तनयः [क्र।दी। २.८] इत्य्-आदौ, न त्व् एवं स्तम्भादेः ।
किं च—श्रीमद् आनकदुन्दुभि-प्रभृतिष्व् आविर्भावोऽपि न प्राकृतवत् तदीय-चरम-धात्व्-आदौ प्रवेशः । किं तर्हि, सच्-चिद्-आनन्द-विग्रहस्य तस्य तन्-मनस्य् आवेश एव । तद् उक्तम्—
ततो जगन्-मङ्गलम् अच्युतांशं
समाहितं शूर-सुतेन देवी ।
दधार सर्वात्मकम् आत्म-भूतं
काष्ठा यथानन्द-करं मनस्तः ॥ [भा।पु। १०.२.१८] इति ।
ततः श्री-नारद-प्रह्लाद-ध्रुवादिषु दर्शनात् सर्व-सम्मतत्वात् तादृश-प्रेम-विषयत्वेन साक्षात् श्री-भगवद्-आविर्भावाव्यवहित-पूर्व-प्रचुर-कालं व्याप्य सन्ततस् तद्-आवेशः श्री-व्रजेश्वरयोर् अप्य् अवश्यम् एव कल्प्यते । ब्रह्म-वर-प्रार्थनयापि तद् एव लभ्यत इति समान एव पन्थाः । वात्सल्यं त्व् अत्राधिकं, येन विना तस्य पुत्र-भावो न सम्भवतीत्य् अत्रैव पुत्रतां मन्यामह इति पुत्रीभूत इत्य् अस्य भावः । इदं प्रकटायाम् एव लीलायां समाहितम्, अप्रकटायां तु तयोर् न् इत्य-सिद्धत्वे एव पुरतोऽवधारयिष्यमाणे लक्ष्मी-विष्णोर् अनादितया आदि-रस-सिद्ध-दाम्पत्यवत् श्री-व्रजेश्वरयोस् तस्य चानादितो वत्सल-रस-सिद्ध-पितृ-पुत्र-भावो विद्यत एव । अतः पुत्र-भूत इति च क्वचित् पाठः ।
[वृ। अद्द्स् हेरे- प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [भा।पु। १०.८.१४] इत्य् अत्र सत्य-वचसः श्री-गर्गस्याप्य् अयम् अभिप्रायः । श्री-देवक्यां उपसंहर विश्वात्मन्न् अदो रूपम् अलौकिकम् [भा।पु। १०.३.३०] इति प्रार्थितवत्यां श्री-भगवान् श्री-देवकी-मनसि स्फुरित-चरं सम्प्रति बहिश् चाविर्भूतं चतुर्भुजत्वम् अन्तर्भाव्य श्री-व्रजेश्वरी-मनसि स्फुरितं द्विभुजत्वं तत्राविर्भावितवान् । तस्यास् त्वरया मनसि स्फूर्ति-भेदश् च तथा तथाविर्भाव-भेदाद् गम्यते । फलेन फल-कारणम् अनुमीयते इति । एन्द् वृ। अद्दितिओन्।]
अत एव—न ह्य् अस्यास्ति प्रियः कश्चिद् [भा।पु। १०.४६.३७] इत्य्-आदि-प्रकरणे—
युवयोर् एव नैवायम् आत्मजो भगवान् हरिः ।
सर्वेषाम् आत्मजो ह्य् आत्मा पिता माता स ईश्वरः ॥ [भा।पु। १०.४६.४२]
इत्य् एतत् श्री-व्रजेश्वरौ प्रति श्रीमद्-उद्धव-वाक्यम् । तद्-औदासीन्य-प्रकटनेनापात-सान्त्वन-मात्र-तात्पर्यक-बाह्यार्थम् अपि वास्तवम् अर्थं त्व् एवं वहति । पूर्वोक्त-प्रकारेणायं प्रियाप्रियादि-मातापित्रादि-रहितोऽपि भगवान् हरिः यः सोऽयं कृष्ण-रूपत्वेन विशेषाकारः सन् युवयोर् एवात्मजो नैव सर्वेषाम् । स एवेश्वर-रूपत्वेन सामान्याकारस् तु सर्वेषाम् आत्मजादि-सर्व-रूपः स्यात् । किन्तु परत्र मायामयत्वात् नास्माकम् आदरः । पूर्वत्र तु मुमुक्षु-मुक्त-भक्त-श्लाघ्य-प्रेममयत्वाद् अत्यादर इति भावः । तथोक्तं प्राग् एव—
तयोर् इत्थं भगवति कृष्णे नन्द-यशोदयोः ।
वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा ॥
युवां श्लाघ्यतमौ नूनं देहिनाम् इह मान-द ।
नारायणेऽखिल-गुरौ यत् कृता मतिर् ईदृशी ॥ [भा।पु। १०.४६.२९-३०] इति ।
तथा—
स पिता सा च जननी यौ पुष्णीतां स्व-पुत्र-वत् ।
शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोष-रक्षणे ॥ [भा।पु। १०.४५.२२]
इति श्री-व्रजेश्वरं प्रति श्री-कृष्ण-रामाभ्यां सान्त्वनं च । श्री-रामस्यैव पर-पुत्रम् अपेक्ष्येति ज्ञेयम् । यथोक्तं तत्रैव तेन—
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भा।पु। १०.४५.२३] इति ।
द्रष्टुम् एष्यामः । मम तत्रागमनस्य भवद्-दर्शनम् एव पुरुषार्थ इत्य् अनेन युष्मान् अपश्यन्त एव स्थास्याम इत्य् अर्थः ।
[वृ। अद्दितिओन्: यद् वा, तथापि भूमन् महिमा-गुणस्य ते विबोद्धुम् अर्हति [भा।पु। १०.१४.६] इत्य् अत्र विबोद्धुं बोध-गोचरी-भवितुम् इतिवद् द्रष्टुं दर्शन-गोचरी-भवितुम् इत्य् अर्थः । तत्र हेतुः—ज्ञातीन् इति ।एन्द् वृ। अद्दितिओन्।]
तस्माद् अनयोर् एव मुख्यं पुत्रत्वं श्री-कृष्णे विराजते इति सिद्धम् ।
प्रकृतम् अनुसरामः—गोप-गोपीनाम् अपि तस्मिन् प्रेमासीद् एव । दम्पत्योस् तयोस् तु तास्व् अपि नितराम् आसीद् इति । उपसंहरति—
कृष्णो ब्रह्मण आदेशं
सत्यं कर्तुं व्रजे विभुः ।
सह-रामो वसंश् चक्रे
**तेषां प्रीतिं स्व-लीलया ॥ [**भा।पु। १०.८.५२]
स्वेषु भक्त-जन-विशेषेषु या लीला तद्-भक्ति-विशेष-वश-लीला-विशेषस् तयैव तेषां सर्वेषाम् अपि प्रीतिं चक्रे । द्वाव् अपि तौ प्रति तेन वर-दानाद् इति भावः । यद्यप्य् एवं तथापि ब्रह्मण आदेशं सत्यं कर्तृ महद्-आशीर् अन्यथा न स्याद् इति दर्शयितुम् अपीत्य् अर्थः । यद् वा स्व-लीलया तेषां प्रीतिं कर्तुं व्रजे वसन् ब्रह्मण आदेशं सत्यं चक्रे । तद् अनुषङ्गतः स्वयम् आदृत्य सर्वत्राव्यभिचारिणं चकारेति ।
॥ १०.८ ॥ श्री-शुकः ॥ १४६-१५० ॥
[१५१-१५२]
तद् एतत् कारणं तद्-आभासम् एव मन्यमानस् तयोर् ब्रह्मादिभ्योऽपि सौभाग्यातिशयस्य ख्यापनार्थम् अनन्तरम् एव, एकदा गृह-दासीषु [भा।पु। १०.९.१] इत्य्-आद्य्-अध्यायम् आरब्धवान् । तत्रैव च साक्षाच्-छ्री-भगवद्-बन्धन-रूप-महा-वशीकरण-कारण-वात्सल्यम् अपि विदितं, तेन ब्रह्मणोऽपि शिव-लक्ष्मीभ्याम् अपि दुर्लभं भगवत्-प्रसाद-भरम् आह—
नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया ।
**प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदात् ॥ [**भा।पु। १०.९.२०]
स आदि-देवो जगतां पुरो गुरुः [भा।पु। २.९.५] इत्य् उक्तेः विरिञ्चस् तावद् भक्तादि-गुरुः, स च।भवस् तु वैष्णवानां यथा शम्भुः [भा।पु। १२.१३.१६] इत्य्-आदि-दर्शनात् ततोऽप्य् उत्कर्षवान्, स च । श्रीस् तु तयोर् अपि भगवद्-भक्ति-शिक्षा-निदर्शन-प्रथम-रूपत्वात् परमोत्कर्षवती । तद् एवम् उत्तरोत्तर-विन्यासेन यथोत्तर-महिमानं सूचयित्वा, श्रीस् तु न केवलं भक्ति-मात्रेण तादृश्य् एव ।
किं तर्हि परम-सख्येन ततोऽप्य् अनिर्वचनीय-माहात्म्या ? इत्य् आह—अङ्ग-संश्रया इति । एवं-भूतापि सा च प्रसादं लेभिरे एव । कस्मात् ? विमुक्तिदात्—
अस्त्व् एवम् अङ्ग भजतां भगवान् मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् । [भा।पु। ५.६.१८]
इत्य्-उक्त-रीत्या प्रायो विमुक्तिम् एव ददाति, न तु तथा-भूतं प्रसादं, तस्मात् । श्री-भगवत एव किन्तु गोपी श्री-गोपेश्वरी यत् तद् अनिर्वचनीयं प्रसाद-शब्देनापि वक्तुं शङ्कनीयं, तस्मात् प्राप, तद्-रूप-प्रसादं विरिञ्चिश् च भवश् च श्रीश् च न लेभिरे न लेभिरे न लेभिरे इत्य् अर्थः । लेभिरे इत्य् अस्य प्रत्येकं नञ्-त्रयेणान्वयः । नञस् त्रिर्-आवृत्तिश् च निषेधस्यातिशयार्था ।
पूर्वोत्तराध्याय-द्वये श्री-बादरायणेर् विवक्षितम् इदम् । द्रोण-धरयोस् तावत् साधारण-देवतात्वं चेत्, तर्हि तयोः श्री-शिवादि-दुर्लभ-चरणारविन्द-स्फूर्ति-लेशस्य श्री-कृष्णस्य तथा प्राप्तौ स्वतः सम्भावना नास्ति । न च तयोस् तादृश-गाढ-भजनादिकं कुत्रचिद् वर्ण्यते । अन्यथा तद् एवाहम् आख्यास्यम् । न च ताभ्यां यद् ईदृशं फलं लब्धं तद् ब्रह्मणि पूर्वं प्रार्थितं, किन्तु दुर्गति-तरण-हेतुत्वेनोत्तम-भक्ति-मात्रं प्रार्थितम् । न च ब्रह्मापि श्री-कृष्णस्य महा-भक्तैर् अपि दुर्लभ-पुत्रत्वादिकं विशिष्य, ताभ्यां वरं दत्तवान् । न च नेमं विरिञ्चः इत्य् आदिनोच्यमान-तादृश-प्रसादाप्ति-राह् इत्यस्य ब्रह्मणो वरस् तादृश-फल-दाने भवति समर्थः । वक्ष्यते च तत्-प्रसादाप्ति-राह् इत्यातिशयः—
तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां
यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् [भा।पु। १०.१४.३४] इत्य्-आदिना ।
तस्मात् तयोस् तादृश-महोदये कारणं नास्ति, किन्तु निष्कारणत्वेन तयोर् न् इत्याम् एव तादृशीं स्थितिं विज्ञाय, मया श्री-भगवल्-लीलयैव स्व-भक्ति-विशेष-प्रचार-कारणक-श्री-भगवद्-इच्छयैवद्रोण-धरा-रूपेणांशेनैवावतीर्णयोर् ऐक्य-विवक्षया यथा कथञ्चित् कारणाभास एवोपन्यस्त इति ।
किं च, श्रीमद्-भागवतेऽस्मिन् श्री-भगवत्-प्रेमैव सर्व-पुरुषार्थ-शिरोमणित्वेनोद्घुष्यते । तस्य च परमाश्रय-रूपं श्री-गोकुलम् एव । तत्रापि श्री-व्रजेश्वरौ । ततस् तत् परमाश्रय-न् इत्यत्वे सिद्ध एव तादृश-ग्रन्थ-प्रयत्नः सकलः स्यात् । यत एव श्री-ब्रह्मादिभिस् तत्र यत् किञ्चिज् जन्म प्रार्थ्यते इति ।
तस्मात् स्वाभाविक्य् एव तयोस् तादृशी स्थितिर् इति प्रतिपादयंस् तत्-सम्बन्धेनैव भजतां सुखापो नान्येषाम् इत्य् आह—
नायं सुखापो भगवान् देहिनां गोपिका-सुतः ।
ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह ॥ [भा।पु। १०.९.२१]
सुखेनाप्यत इति सुखापः । अयं श्री-गोपिका-सुतः भगवान् देहिनां देहाभिमानिनां तप-आदिना न सुखापः न सुलभः, किन्तु तैर् अतिचिरेणैव तेन शुद्धेऽन्तः-करणे कथञ्चिद् भक्तावलोकन-लेशेन जात-सद्-बुद्धिभिस् तद् एव तप-आदिकं तस्मिन्न् अर्पयद्भिः कथञ्चिद् एवासौ लभ्यते । तथा आत्म-भूतानाम् आविर्भूताद्वैत-वृत्तीनां निवृत्त-देहाभिमानानां ज्ञानिनाम् अपि तादृशेन ज्ञानेन न सुखापः, किन्तु पूर्वेणैव कारणेन जात-तद्-आसत्तिभिस् तेन ज्ञानेन यद् ब्रह्म स्फुरति, तद् एवायम् इति चिन्तयद्भिस् तैः कथञ्चिद् एवासौ लभ्यते ।
ततश् च द्वयोर् अपि तयोः साधनयोर् हीनत्वात् तल्-लाभश् च न साक्षात् किन्तु केनचिद् अंशेन व्यञ्जितम्—ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः [गीता १२.४], क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् [गीता १२.५] इति श्री-भगवद्-उक्तेः । शाब्दे परे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनम् अलं विचक्ष्व [भा।पु। १.५.७] इति श्री-व्यास-प्रश्नानन्तरात् ।
भवतानुदित-प्रायं यशो भगवतोऽमलम् ।
येनैवासौ न तुष्येत मन्ये तद् दर्शनं खिलम् ॥ [भा।पु। १.५.८]
इति श्री-नारद-प्रतिवचनाच् च ।
सुखापस् तु केषाम् इत्य् अपेक्षायां निदर्शनम् आह—इह गोपिका-सुते भक्तिमतां, यथा । तथा च श्री-ब्रह्मोक्तिः—ज्ञाने प्रयासम् उदपास्य [भा।पु। १०.१४.३] इत्य्-आदि, श्री-नारदोक्तिश् च यजते यज्ञ-पुरुषं स सम्यग्-दर्शनः पुमान् [भा।पु। १.५.३८] इति ।सुखाप इति श्री-गोपिकायास् तु सुखाप इति किं वक्तव्यम् ? तस्याः सुत एवायं भगवान् इत्य् अतो गोपिका-सुत इति विशेषणं दत्तम् ।
सुखम् आपयतीति वा सुखापः । यतश् चायं न देहाभिमानिनां सुखापः यतो गोपिका-सुतस् तत्-सुतत्व-लीलायाः स्व-साधारण-दृष्ट्यानादरात् । तथा ज्ञानिनाम् अपि न सुखापः यतो गोपिका-सुतः, सर्वात्मैक-वृत्त्य्-उदयेन भगवत्-स्वरूपानन्द-वैचित्री-सारोपरिचर-तल्-लीला-तत्त्वानुभवात् । यथेह श्री-गोपिका-सुते भक्तिमताम् इति निदर्शनम् ।
सुखेनाप्यते ज्ञायते इति वा सुखापः सुबोधः । ततश् चायं देहाभिमानिभिस् तर्कादिना न सुबोधः । तथा ज्ञानिभिर् अपि ज्ञानेन न सुबोधः । तत्र पूर्ववद् धेतुर् गोपिका-सुत इति ।
ननु देहाभिमानिभिर् अपि तत्-तद्-अलौकिक-कर्म-लिङ्गकात् तर्कात् ज्ञानिभिर् अप्य् अनावृत-ब्रह्मत्वावगमात् सुबोध एव । सत्यं, तथापि यथेह श्री-गोपिका-सुते भक्तिमद्भिः सुबोधस् तथा न । ते हि श्री-कृष्ण-भक्ताः स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य् अभावोऽप्य् अजित-रुचिर-लीलाकृष्ट-सारः [भा।पु। १२.१२.६९] इत्य्-आदि-दर्शनात् तादृश-लीलानुभवस्यैव परम-पुरुषार्थत्वम् अवगच्छन्तीति भावः ।
अत्रार्थ-त्रयेऽपीह-पदेन श्री-परव्योम-नाथादि-भक्तिमन्तोऽपि व्यावृत्ताः । गोपिका-सुत इति विशेषणेन च त्रैकालिक-तद्-भक्तानां तत्-सम्बन्धि-सुखापत्वं प्रति तत्-सुतत्वायोग-तद्-अन्यत्व-योगौ व्यवच्छिद्येते। इत्य् अतो विद्वद्-अनुभव-याथार्थ्येन न् इत्य एव तत्-सम्बन्धो विवक्षितः । अतएवायं गोपिका-सुत इति स्वयम् अपि साक्षाद् अङ्गुल्या निर्दिश्यते । तस्माद् अपि साधूक्तं न् इत्य एव श्री-व्रजेश्वरयोस् तत्-सम्बन्ध इति ।
अत्र एकदा गृह-दासीषु [भा।पु। १०.९.१] इत्य्-आदिकम्, नेमं विरिञ्चः [भा।पु। १०.९.२०] इत्य्-आदि पद्य-द्वयान्तम् इदम् उत्तर-वाक्यं, द्रोणो वसूनां प्रवरः [भा।पु। १०.८.४८] इत्य्-आदिकस्य पूर्व-वाक्यस्य बाधकत्वेनैवोक्तं, पूर्व-विरोध-धर्मान्तर-प्रतिपादनाद् अयुक्तत्वाच् च पूर्वस्य असद्-व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्य-शेषात् [वे।सू। २.१.१७] इतिवत् । तत्र च यथैवासच्-छब्दस्य गत्य्-अन्तरं चिन्त्यते, तथात्रापि । तच् च पूर्वम् एव दर्शितं पूर्वोत्तराध्याय-द्वये बादरायणे विवक्षितम् इदम् आरभ्य प्रकरणेन ।
॥ १०.८ ॥ श्री-शुकः ॥ १५१-१५२ ॥
[१५३]
तद् एवं श्रुति-पुराणादि-निगमोक्त्य्-अनुसारेण श्री-कृष्णस्य न् इत्याभिव्यक्तित्वं द्वारकादिषु न् इत्य-विहारित्वं न् इत्य-यादवादि-परिकरत्वं च दर्शितम् । इत्थम् एव च कृष्णस् तु भगवान् स्वयम् इति सुसिद्धम् ।
अथाशङ्कते—यदि न् इत्यम् एव तथाविधः श्री-कृष्णाख्यः स्वयं भगवान् तत्र तत्र एतैर् निज-परिकरैः सार्धं विहरति, तर्हि ब्रह्मादि-प्रार्थनया श्री-नारायण एवावततारेति श्रूयते । तस्य यदि श्री-कृष्णे प्रवेशः, तर्हि च कथं न् इत्यम् एव द्वारकादिषु विराजमानं स्वयं भगवन्तं पर् इत्यज्य ते तस्मै निवेदयितुं गताः ? कथं वा जन्मादि-लीलया क्रमेण मथुरां गोकुलं पुनर् मथुरां द्वारकां च त्यक्त्वा वैकुण्ठम् आरूढवान् ? इति ।
अत्रेदम् उच्यते—यो द्वारकादौ न् इत्यं विहरति, स श्री-कृष्णाख्यः स्वयं भगवान् परात्परो ब्रह्मादिष्व् अप्रकट एव प्रायशः । यस् तु क्षीरोदादि-लीला-धामा नारायणादि-नामा पुरुषः, स एव विष्णु-रूपः साक्षाद् वा निजांशेन वा तेषु प्रकटः सन् ब्रह्माण्ड-पालनादि-कर्तेत्य् उक्तम् एव । तत्र ब्रह्माण्डाधिकारिणो ब्रह्मादयोऽपि ब्रह्माण्ड-कार्यं तस्मा एव निवेदयितुम् अर्हन्ति । ततस् तदापि तस्मा एव पृथिवी-भारावताराय निवेदितवन्तः ।
अनन्तरं सोऽपि पुरुषस् तान् प्रति केश-दर्शनेन, स यावद् उर्व्यां भरम् ईश्वरेश्वरः [भा।पु। १०.१.२२] इत्य्-आदि-वाक्येन च स्वयं भगवत एवावतार-समयोऽयम् इति सूचयित्वा, स्वयम् अप्य् अवतितीर्षां चकार। सा चावतितीर्षा पूर्व-युक्त्या प्रकटीभवति स्वयं भगवति प्रवेशायैव । तदेदं वैकुण्ठाद्य्-आरोहणम् अपि तत्-तद्-अंशेनैव । स्वयं तु तत्र तत्रैव पुनर् निगूढं लीलायते। अत्रोदाहृतं तन्त्र-भागवतादि-वाक्यं वाराहादि-वाक्यं चानुसन्धेयम् । उदाहरिष्यते च—न् इत्यं सन्निहितस् तत्र भगवान् मधुसूदनः [भा।पु। ११.३१.२४] इत्य्-आदिकम्। एष चाभिसन्धिर् न सर्वैर् एवावबुध्यतेति ।
यथ स्व-स्व-दृष्टम् एव, मुनिभिस् तादृग् वर्ण्यते । यथा समुद्र-तीर-स्थ-दृष्ट्यैव अद्भ्यो वा एष प्रातर् उदेत्य् अपः सायं प्रविशतिइति श्रुतिः प्रवर्तते, न तु वस्तुत इति प्राञ्चः । यदि तत्र सुमेरु-परिक्रमादि-वाक्येनान्यथा गतिः क्रियते, तदात्रापि स्वयं भगवत्ता-न् इत्य-विहारितादि-प्रतिपादक-वाक्येन कथं नाम न क्रियताम् ? तथा मथुरादि-पर् इत्यागाद्य्-उक्तिर् अवतारे प्रापञ्चिक-जन-प्रकट-लीलापेक्षयैव । तद्-अप्रकटा तु लीला न् इत्यम् एव विद्यते एव । तस्मान् न् इत्यत्वेन जन्मादिमयत्वेन च लीला-प्रतिपादकानां वाक्यानां समन्वय-स्वारस्याद् इदं लभ्यते, यथा—य एव श्री-कृष्णस् तत्र तत्र न् इत्यम् अप्रकटो विहरति, स एव स्वयं जन्मादि-लीलया प्रकटो भवति । तत्र नारायणादयोऽपि प्रविशन्तीति सर्वं शान्तम् ।
तद् एवं तत्र श्री-कृष्ण-लीला द्विविधा अप्रकट-रूपा प्रकट-रूपा च, प्रापञ्चिक-लोकाप्रकटत्वात् तत्-प्रकटत्वाच् च ।
तत्र अप्रकटा—
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [गो।ता।उ। २.३६] इति ।
मथुरा-तत्त्व-प्रतिपादक-श्री-गोपाल-तापन्य्-आदौ, चिन्तामणि-प्रकर-सद्मसु-कल्प-वृक्ष [ब्र।सं। ५.४०] इत्य्-आदि वृन्दावन-तत्त्व-प्रतिपादक-ब्रह्म-संहितादौ च, प्रकट-लीलातः किञ्चिद् विलक्षणत्वेन दृष्टा, प्रापञ्चिक-लोकैस् तद्-वस्तुभिश् चामिश्रा, कालवदादि-मध्यावसान-परिच्छेद-रहित-स्व-प्रवाहा, यादवेन्द्रत्व-व्रज-युवराजत्वाद्य्-उचिताहरहर्-महा-सभोपवेश-गोचारण-विनोदादि-लक्षणा ।
प्रकट-रूपा तु श्री-विग्रहवत् कालादिभिर् अपरिच्छेद्यैव सती भगवद्-इच्छात्मक-स्वरूप-शक्त्यैव लब्धारम्भ-समापना प्रापञ्चिकाप्रापञ्चिक-लोक-वस्तु-संवलिता तदीय-जन्मादि-लक्षणा ।
तत्राप्रकटा द्विविधा—मन्त्रोपासनामयी स्वारसिकी च । प्रथमा यथा तत्-तद्-एकतर-स्थानादि-नियत-स्थितिका तत्-तन्-मन्त्र-ध्यान-मयी । यथा बृहद्-ध्यान-रत्नाभिषेकादि-प्रस्तावः क्रम-दीपिकायाम् । यथा वा—
अथ ध्यानं प्रवक्ष्यामि सर्व-पाप-प्रणाशनम् ।
पीताम्बर-धरं कृष्णं पुण्डरीक-निभेक्षणम् ॥ इत्य्-आदि गौतमीय-तन्त्रे ।
यथा वा—
वेणुं क्वणन्तम् अरविन्द-दलायताक्षं
बर्हावतंसम् असिताम्बुद-सुन्दराङ्गम् ।
कन्दर्प-कोटि-कमनीय-विशेष-शोभं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
आलोल-चन्द्रक-लसद्-वनमाल्य-वंशी-
रत्नाङ्गदं प्रणय-केलि-कला-विलासम् ।
श्यामं त्रि-भङ्ग-ललितं नियत-प्रकाशं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ब्रह्म-संहितायाम् [५.३९-४०] ।
होमस् तु पूर्ववत् कार्यो गोविन्द-प्रीतये ततः इत्य्-आद्य्-अनन्तरं—
गोविन्दं मनसा ध्यायेत् गवां मध्ये स्थितं शुभम् ।
बर्हापीडक-संयुक्तं वेणु-वादन-तत्-परम् ॥
गोपी-जनैः परिवृतं वन्य-पुष्पावतंसकम् ॥
इति बोधायन-कर्म-विपाक-प्रायश्चित्त-स्मृतौ ।
तद् उ होवाच हैरण्यो गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम् । तदिह श्लोका भवन्ति—
सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।
द्वि-भुजं मौन-मुद्राढ्यं वनमालिनमीश्वरम् ॥
गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रितम् ।
दिव्यालङ्करणोपेतं रक्त-पङ्कज-मध्यगम् ॥
कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् ।
चिन्तयंश् चेतसा कृष्णं मुक्तो भवति संसृतेः ॥
इति श्री-गोपाल-तापन्याम् [१.११-१५]; गोविन्दं सच्-चिद्-आनन्द-विग्रहम् [गो।ता।उ। १.३७] इत्य्-आदि च।
या तु तत्-तत्-कामनात्मक-प्रयोग-मयी पूतना-वधादि-रूपा यद्-यद्-धिया त उरुगाय विभावयन्ति तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय [भा।पु। ३.९.११] इत्य् उक्तानुसारेणाद्यापि साधक-हृदि कदाचित् साम्प्रतीव स्फुरति, सा खलु मन्त्रोपासनामयीत्वेऽपि स्वारसिक्याम् एव पर्यवस्यति, अतीतत्वेन सर्वत्र निर्दिष्टत्वात् ।
अथ स्वारसिकी च यथोदाहृतम् एव स्कान्दे—
वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः ।
वृन्दावनान्तरगतः स-रामो बालकैः सह ॥ इत्य् आदि ।
तत्र च-कारात् श्री-गोपेन्द्रादयो गृह्यन्ते । राम-शब्देन रोहिण्य् अपि । तथा तेनैव क्रीडतीत्य्-आदिना व्रजागमन-शयनादि-लीलापि । क्रीडा-शब्दस्य विहारार्थत्वाद् विहारस्य नाना-स्थानानुसारण-रूपत्वाद् एक-स्थान-निष्ठाया मन्त्रोपासनामय्या भिद्यतेऽसौ । यथावसर-विविध-स्वेच्छामयी स्वारसिकी । एवं ब्रह्म-संहितायाम्—
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभिर् अभिपालयन्तम्
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.२८] इति ।
अत्र कथा गानं नात्यं गमनम् अपि वंशी [ब्र।सं। ५.५२] इत्य् अत्रानुसन्धेयम् । तत्र नाना-लीला-प्रवाह-रूपतया स्वारसिकी गङ्गेव । एकैक-लीलात्मतया मन्त्रोपासनामयी तु लब्ध-तत्-सम्भव-ह्रद-श्रेणिर् इव ज्ञेया । किं च, मन्त्रोपासनामय्याम् अपि व्रज-राजादि-सम्बन्धः श्रूयते, किम् उत स्वारसिक्याम् इति न कुत्रापि तद्-रहितता कल्पनीया । तद् एतत् सर्वं मूल-प्रमाणेऽपि दृश्यते । तत्र प्रकट-रूपा विस्पष्टैव ।
अथाप्रकटायां मन्त्रोपासना-मयीम् आह—
मां केशवो गदया प्रातर् अव्याद्
गोविन्द आसङ्गवम् आत्त-वेणुः । [भा।पु। ६.८.२०] इति ।
आत्त-वेणुर् इति विशेषेण गोविन्दः श्री-वृन्दावन-देव एव, तत्-सह-पाठात् केशवोऽपि श्री-मथुरा-नाथ एव, तौ हि वृन्दावन-मथुरा-प्रसिद्ध-महा-योग-पीठयोस् तत्-तन्-नाम्नैव सहितौ प्रसिद्धौ । तौ च तत्र तत्र प्रापञ्चिक-लोक-दृष्ट्यां श्रीमत्-प्रतिमाकारेणाभातः, स्वजन-दृष्ट्यां साक्षाद्-रूपेण च । तत्रोत्तर-रूपं ब्रह्म-संहितायां गोविन्द-स्तवादौ प्रसिद्धम्। अत एवात्रापि साक्षाद्-रूप-वृन्द-प्रकरण एव एतौ पठितौ । ततश् च नारायण-वर्माख्य-मन्त्रोपास्य-देवतात्वेन, श्री-गोपाल-तापन्य्-आदि-प्रसिद्ध-स्वतन्त्र-मन्त्रान्तरोपास्य-देवतात्वेन च मन्त्रोपासना-मय्याम् इदम् उदाहृतम् ॥
॥ ६.८ ॥ विश्वरूप इन्द्रम् ॥ १५३ ॥
[१५४]
वक्ष्यमाण-भगवद्-अभिप्रायानुसारेण स्पष्टार्थत्वेन च वस्तुतः स्वारसिकीम् आह—
मा खिद्यतं महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके ।
**अन्तर् हृदि स भूतानाम् आस्ते ज्योतिर् इवैधसि ॥ [**भा।पु। १०.४६.३६]
हे महा-भागौ श्री-व्रजेश्वरौ ! मा खिद्यतं यतः श्री-कृष्णं द्रक्ष्यथः । कथं ? यतः सोऽन्तिक एवास्ते । तस्यान्तिक-स्थितेर् अव्यभिचारे दृष्टान्तः—भूतानाम् अन्तर् हृदि परमात्म-लक्षणं ज्योतिर् इव एधसि चाग्नि-लक्षणं ज्योतिर् इवेति । तत्र निरन्तरस् तत्-स्फूर्तिर् एव भवतां प्रमाणम् इति भावः । अर्थान्तरे तूत्तरार्धस्य हेतुत्वास्पष्टत्वं117 परमात्म-रूपेणान्तर्-हृदि-स्थितस्यापि दर्शनानियमात् ॥
॥ १०.४६ ॥ उद्धवः श्री-व्रजेश्वरीम् ॥ १५४ ॥
[१५५]
एवं श्री-भगवान् उवाच—
**भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ॥ [**भा।पु। १०.४७.२९]
ये मया सह भवतीनां योऽयं वियोगः स सर्वात्मना सर्वेणापि प्रकाशेन न विद्यते, किं तु ह्य् एकेन प्रकट-लीलायां विराजमानेन प्रकाशेन वियोगः । अप्रकट-लीलायां त्व् अन्येन प्रकाशेन संयोग एवेत्य् अर्थः ।
अत्रैतद् उक्तं भवति—न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य्-आदि दामोदर-लीला-प्रघट्टक-दृष्ट्या मृद्-भक्षण-लीलादौ श्री-व्रजेश्वर्य्-आदीनां तथानुभूत्या च श्री-विग्रहस्य मध्यमत्व एव विभुत्वं दृश्यते । तच् च परस्पर-विरोधि-धर्म-द्वयम् एकत्राचिन्त्य-विभुत्व-शक्तिमति तस्मिन् नासम्भवं, श्रुतेस् तु शब्द-मूलत्वाद् [वे।सू। २.१.२७] इत्य् एतन् न्यायेन इत्य् एवं भगवत्-सन्दर्भे [§२९] प्रघट्टकेन विवृतम् अस्ति ।
तद् एवं विभुत्वे सति युगपद् अनेक-स्थानाद्य्-अधिष्ठानार्थं रूपान्तर-सृष्टिः पिष्ट-पेषिता । किन्तु युगपन्-मध्यमत्व-विभुत्व-प्रकाशिकया तथैवाचिन्त्य-शक्त्या तद्-इच्छानुसारेणैक एव श्री-विग्रहोऽनेकधा प्रकाशते, बिम्ब इव स्वच्छोपाधिभिः । किन्तु अत्रोपाधि-मात्र-जीवनत्वेन साक्षात् स्पर्शाद्य्-अभावेन वैपरीत्योदय-नियमेन बिम्बस्य परिच्छिन्नत्वेन च प्रतिबिम्बत्वम् । अत्र तु स्वाभावैक-शक्ति-स्फुरितत्वेन साक्षात्-स्पर्शादि-भावेन यथेच्छम् उदयेन श्री-विग्रहस्य विभुत्वेन च बिम्बत्वम् एवेति विशेषः । एवम् एव सर्वेषाम् अपि प्रकाशानां पूर्णत्वम् आह श्रुतिः—
पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते ।
पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते ॥ [बृ।आ।उ। ६.५.४] इति ।
तत्र च तेषां प्रकाशानां तथैवाचिन्त्य-शक्त्या पृथक् पृथग् एव क्रियादीनि भवन्ति । अत एव युगपद् आविर्भूतानां प्रकाश-भेदावलम्बिनीनां निमेषोन्मेषणादि-क्रियाणाम् अविरोधः । अत एव विभोर् अपि परस्पर-विरुद्ध-क्रिया-गणाश्रयस्यापि तत्-तत्-क्रिया-कर्तृत्वं यथार्थम् एव । तद्-यथार्थत्वे बहुशः श्री-भागवतादि-वर्णितं विदुषां तु तद्-उद्भवं सुखं नोपपद्यत इति तद्-अन्यथानुपपत्तिश् चात्र प्रमाणम् । इत्थम् एवाभिप्रेत्य श्री-नारदेन चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् [भा।पु। १०.६९.१] इत्य्-आदौ वपुषा एकत्वेऽपि पृथक्-प्रकाशत्वं तेषु प्रकाशेषु पृथक् पृथक् क्रियाधिष्ठानादित्वं तादृश-शक्तिस् त्व् अन्यत्र मुनि-जनादौ न सम्भवतीति स्वयं चित्रत्वं चोक्तम् । एष एव प्रकाशः क्वचिद् आत्म-शब्देनोच्यते क्वचिद् रूपादि-शब्देन च । यथा तत्रैव न हि सर्वात्मना क्वचिद् इति, अन्यत्र कृत्वा तावन्तम् आत्मानम् [भा।पु। १०.३३.१९] इति, तावद्-रूप-धरोऽव्ययः [भा।पु। १०.५९.४२] इति, कृष्णेनेच्छा-शरीरिणा [भा।पु। ११.३०.४०] इति च ।
तत्र नाना-क्रियाद्य्-अधिष्ठानत्वाद् एव लीला-रस-पोषाय तेषु प्रकाशेष्व् अभिमान-भेदं परस्परम् अननुसन्धानं च प्रायः स्वेच्छयोरीकरोतीत्य् अपि गम्यते । एवं तच्-छक्तिमयत्वात् तत्-परिकरेष्व् अपि ज्ञेयम् । तत्र तेष्व् अपि प्रकाश-भेदः, यथा कन्या-षोडश-सहस्र-विवाहे श्री-देवक्य्-आदिषु । उक्तं हि टीका-कृद्भिः—अनेन देवक्यादि-बन्धु-जन-समागमोऽपि प्रति-गृहं यौगपद्येन सूचित [भा।दी। १०.५९.४२] इति । तेषु श्री-कृष्णे च प्रकाश-भेदाद् अभिमान-क्रिया-भेदो यथा श्री-नारद-दृष्ट-योगमाया-वैभवे तत्र ह्य् एकत्र—
दीव्यन्तम् अक्षैस् तत्रापि प्रियया चोद्धवेन च ।
पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ [भा।पु। १०.६९.२०]इति ।
मन्त्रयन्तं चकस्मिंश्चिन् मन्त्रिभिश् चोद्धवादिभिः [भा।पु। १०.६९.२७] तत्रान्यत्र इति भाव-भेदाद् अभिमान-भेदो लक्ष्यते । अयम् एव तद्-अवस्थोऽहम् अत्रास्मीति । एवं षोडश-सहस्र-विवाहे कुत्रचित् श्री-कृष्ण-समक्षं माङ्गलिकं कर्म कुर्वत्या देवक्यास् तद्-दर्शन-सुखं भवति, तत्-परोक्षं तु तद्-दर्शनोत्कण्ठेति । तथा योग-माया-वैभव-दर्शन एव क्वचिद् उद्धवेन संयोगः, क्वचिद् वियोग इति विचित्रता ।
तद् एवं तत्र प्रकाश-भेदे सति तद्-भावेनाभिमान-क्रिया-भेदे च स्थिते, तदानीं वृन्दावन-प्रकाश-विशेषे स्थितेन श्री-कृष्णस्याप्रकट-प्रकाशेन तासाम् अप्रकट-प्रकाशात्मिकानां संयोगः, तत्-प्रकाश-विशेषे प्राक्-स्थितेन सम्प्रति मथुरां गतेन तत्-प्रकट-प्रकाशेनैव स्वीकृतेन स्थान-त्रयेऽपि सपरिकर-श्री-कृष्ण-न् इत्यावस्थायिता-वाक्यम् अनुपहतं स्यात्, प्रकट-लीलायाम् अन्यत्र स-परिकरस्य तस्य कदाचिद् गमनेऽपि प्रकाशान्तरेणावस्थानाद् इति । तस्मात् साधूक्तं भवतीनां वियोगो मे [भा।पु। १०.४७.२९] इत्य् आदि ।
सेयं च न् इत्य-संयोगिता परम-रहस्येति ब्रह्म-ज्ञान-सादृश्य-भङ्ग्या समाच्छाद्यैवोपदिष्टा । दृश्यते चान्यत्रापि रहस्योपदेशेऽर्थान्तर-समाच्छन्नोक्तिः । यथा महाभारते जतु-गृहे गच्छतः पाण्डवान् प्रति विदुरस्य । यथा वा षष्ठे हर्याश्वादीन् प्रति श्री-नारदस्य ॥
[१५६]
तद् एवं पुनर् अपि तथैवोपदिशति—
यथा भूतानि भूतेषु खं वाय्व्-अग्निर् जलं मही ।
**तथाहं च मनः-प्राण- भूतेन्द्रिय-गुणाश्रयः ॥ [**भा।पु। १०.४७.२९]
यथा खादीनि कारण-रूपाणि भूतानिवाय्व्-आदिषु स्व-स्व-कार्य-रूपेषु भूतेष्व् अवस्थितानि, तत्राकाशस्य स्थितिर् वायौ, वायोर् अग्नाव् इत्य्-आदि । तथा भवतीष्व् अहं बहिर्-अनुपलभ्यमानोऽपि न् इत्यं तिष्ठाम्य् एवेत्य् अर्थः । कथम्भूतोऽहम् ? भवतीनां मद्-एक-जीवातूनां मन-आद्य्-आश्रयः । अन्यथा निमेषम् अपि मद्-वियोगेन तान्य् अपि न तिष्ठेयुर् इति भावः ।
यद् वा, किं-रूपस् तिष्ठसि ? इत्य् आकाङ्क्षायाम् आह—भवतीनां मन-आद्य्-आश्रय-भूतो यो द्विभुज-श्यामसुन्दर-वेणु-विनोदि-रूपस् तद्-रूप एवेति ।
[१५७]
नन्व् इत्थं प्रकाश-वैचित्री कथं स्यात्, यया विरह-संयोगयोर् युगपद् एव स्थितिः ? इत्य् आशङ्क्याह—
आत्मन्य् एवात्मनात्मानं सृजे हन्म्य् अनुपालये ।
**आत्म-मायानुभावेन भूतेन्द्रिय-गुणात्मना ॥ [**भा।पु। १०.४७.३०]
आत्मनि अनन्त-प्रकाश-मये श्री-विग्रह-लक्षणे स्वस्मिन् आत्मना स्वयम् आत्मानं प्रकाश-विशेषं सृजे अभिव्यञ्जयामि । केन ? निमित्त-भूतेन आत्मा-मायानुभावेन अचिन्त्यायाः स्वरूप-शक्तेः प्रभावेन । स्वरूप-भूतया न् इत्य-शक्त्या मायाख्यया युतैति मध्व-भाष्य-धृत-चतुर्वेद-शिखातः । कीदृशेन ? भूतेन्द्रिय-गुणात्मना, भूतानि परमार्थ-सत्यानि यानि ममेन्द्रियाणि, ये च गुणा रूप-रसादयः, तेषाम् आत्मना प्रकाशकेनेत्य् अर्थः । बुद्धीन्द्रियेति पाठे आत्मनेत्य् अस्य विशेषणम् । बुद्धयोऽन्तः-करणानि, इन्द्रियाणि बहिः-करणानि, गुणा रूपादयः, तानि सर्वाण्य् अपि आत्मा स्वरूपं यत्र, तेनेति ।
तद् एवम् आविर्भूय अनु पश्चात् कदापि हन्मि, ततोऽन्यत्र गच्छामि । हन् हिंसा-गतयोः । कदाप्य् अनु पश्चात् पुनः पालये स्वयम् आगत्य पालयामि, निज-विरह-दूनान् इति शेषः । एतत्-कारणं तु यत् त्व् अहं भवतीनां वै [भा।पु। १०.४७.३४] इत्य्-आदौ वक्ष्यते । हन्तेर् अर्थान्तरे त्रयाणाम् एक-कर्म-कर्तृत्वेऽपि तम् आत्मानं प्रकाशं कदाचित् तिरोधापयामि । तस्मात् तं प्रकाशम् आकृष्य प्रकाश-वैविध्यम् एकीकरोमीत्य् अर्थः ।
एवम् एव दशम-सप्ततिममाध्याये स्वामिभिर् अपि व्याख्यातम्—एवं सर्व-गृहेभ्यः पृथक् पृथङ् निर्गत्यानन्तरम् एक एव सुधर्मां प्राविशत् [१०.७०.१७] इति । यथा च माध्व-भाष्य-धृत-पाद्म-वचनम्—
स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः ।
एकीभूयः पुनः शेते निर्दोषो हरिर् आदि-कृत् ॥ इति ।
श्रुतिश् च शङ्कर-भाष्य-धृता—स एकधा भवति, द्विधा भवति, त्रिधा भवति [छा।उ। ७.२६.२] इत्य्-आद्या । तद्-अनन्तरं पुनर् अपि तम् आत्मानं पालये पुनर् अभिव्यज्य निज-प्रेष्ठ-जनैः सह क्रीडया सम्भूतानन्दं करोमीत्य् अर्थः । एवं हन्तिर् अश्लीलोऽपि स्व-वियोगि-जन-विषय-कारुण्य-कृत-भावान्तरेण स्वयम् एव प्रयुक्त इति न दोष आशङ्क्यः—छिन्द्यां स्व-बाहुम् अपि वः प्रतिकूल-वृत्तिम् [भा।पु। ३.१६.६] इतिवत् ।
[१५८]
ननु प्रकटम् एव मथुरायां विक्रीडसि, तर्ह्य् अत्राप्य् अधुना विर्कीडसीत्य् अत्रास्माकं सम्भावना कथं जायताम् ? इत्य् आशङ्क्य तासाम् एवानुभवं प्रमाणयति—
**आत्मा ज्ञान-मयः शुद्धो व्यतिरिक्तोऽगुणान्वयः ।**
**सुषुप्ति-स्वप्न-जाग्रद्भिर् मनो****-वृत्तिभिर्[^११८] ईयते ॥ [**भा।पु। १०.४७.३१]
यद् वा, आस्तां तावद् अप्रकट-लीलायां मद्-वियोगाभाव-वार्ता । प्रकट-लीलायाम् अपि तयानुसन्धीयताम् इत्य् आह—आत्मा ज्ञान-मय इत्य्-आदि । \
अर्थश् चायम्—आत्म-शब्दोऽस्मिन्न् अस्मच्-छब्द-परः । ततश् च आत्मा अहं श्री-कृष्ण-लक्षणो भवतीनां सुषुप्त्य्-आदि-लक्षणाभिर् मनो-वृत्तिभिरीयते अनुभूयत एव । कीदृशः ? ज्ञान-मयो नाना-विद्या-विदग्धः । शुद्धो दोष-रहितः । विगतोऽतिरिक्तो यस्माद् इति वा, विशेषेण्आतिरिक्त इति वा व्यतिरिक्तः सर्वोत्तमः। गुणान्वयः सर्व-गुण-शाली ।
अत एव स च स्फूर्ति-रूपोऽयम् अनुभवः कदाचित् साक्षात्कार-द्वारापि कल्प्यते इति चिर-काल-विरहेऽपि तासां सन्धुक्षण-कारणं ज्ञेयम् । अत्र सुषुप्तेऽपि तत्-स्फूर्ति-निर्देशः सर्वदैव स्फुरामीति-मात्र-तात्पर्यकः ।
यद् वा, तत्र तासां स्वप्न-जाग्रतोर् अनन्य-वृत्तित्वं सिद्धम् एव । वृत्त्य्-अन्तरासम्भवात् तु श्री-कृष्ण-समाधि-लक्षणे सुषुप्तेऽपि तस्मिन्न् एव स्वप्न-जाग्रद्-गतानां वृत्ति-वैचित्रीणां तद्-अनुभाविता-मात्रावशेषतया प्रवेशो भवति । तद् उत्तर-काले प्राकृतैः “सुखम् अहम् अस्वाप्सम्” इतिवत् ताभिः स इति एवानुसन्धीयते इति तथोक्तम् ।
तथा हि गारुडे—
जाग्रत्-स्वप्न-सुसुप्तिषु योगस्थस्य च योगिनः ।
या काचिन् मनसो वृत्तिः स भवत्य् अच्युताश्रयः ॥ इति ।
[१५९]
ननु तथाप्य् अस्माकं विरह एव सर्वोपमर्दकः स्फुरति, किं कुर्मः? इत्य् आशङ्क्य, हन्त यदि मद्-वियोगिताभिमानि-मनो-वृत्तिं कथम् अपि रोद्धुं शक्नुथ, तदा स्वत एव न् इत्य-संयोगित्वम् उदेष्यतीत्य् एवम् उपदेशेन वक्तुं योग-शास्त्र-प्रक्रियाम् आह द्वाभ्याम्—
येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवद् उत्थितः ।
**तन् निरुन्ध्याद् इन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥ [**भा।पु। १०.४७.३२]
उत्थितः पुमान् यथा मिथ्या-भूतम् एव स्वप्नं ध्यायति, एवं बाधितान् अपि इन्द्रियार्थान् शब्दादीन् येन मनसा ध्यायेत चिन्तयेत्, ध्यायंश् च येन इन्द्रियानि प्रत्यपद्यत प्राप, तन् मनो विनिद्रोऽनलसः सन् निरुन्ध्यान् नियच्छेद् इति ।
यद्यपि स्वप्नादिवत् तद्-विरहस् तासु नाज्ञानाध्यस्तः, प्रकट-लीलायां तस्याप्राप्तेस् तासाम् एवानुभव-सिद्धत्वात्, तथाप्य् अप्रकट-लीलायां न् इत्य-संयोगम् अनुसन्धापयितुं तस्य तादृशत्वेनैवोपदेशो भगवता योग्य इति तथोक्तम् । एकांशेऽपि संयोगे वियोगो नास्त्य् एवेति वा ।
[१६०]
तं मनो-निरोधम् एव स्तौति—
एतद्-अन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् ।
**त्यागस् तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ [**भा।पु। १०.४७.३३]
एष मनो-निरोधोऽन्तः समाप्तिः फलं यस्य सः । समाम्नायो वेदः, स तत्र पर्यवस्यतीत्य् अर्थः । मार्ग-भेदेऽप्य् एकत्र प्रयवसाने दृष्टान्तः । समुद्रान्ता आपगता नद्य इव इति । यस्मात् सर्वैर् एव वेदादि-विद्भिः प्रशस्यते मनो-निरोधः, तस्माद् यूयम् अपि मद्-वियोगाभिमानि-मनो-वृत्तिं नियच्छथेति पद्य-द्वयेन ध्वनितम् ।
[१६१]
ननु, «अहो यदि त्वद्-विरहेण वयम् अतिदुःखिता इत्य् अतः कृपालु-चित्त एव त्वम् अस्मभ्यं निज-प्राप्ति-साधनम् उपदिशसि । तर्हि स्वयं किम् उ प्रकटम् एव नायासि, तस्मात् कैतवम् एवेदं तव कृपालुत्वम्» इत्य् आशङ्क्याह—
यत् त्व् अहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् ।
**मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया ॥ [**भा।पु। १०.४७.३४]
साम्प्रतं भवतीनां दृशां प्रियोऽप्य् अहं यद् दूरे वर्ते, तद्भवतीनां मद्-अनुध्यानेच्छया यो मनसः सन्निकर्षस् तद्-अर्थम् । मम भवन्-निकट-स्थितौ मद्-अर्थं भवतीनां दृश्ये वावेशः स्याद्, भवद्-दूरे तु मनस्य् एवेति तत्र मम सन्निकर्षः स्याद् इत्य् एतद्-अर्थः ।
[१६२]
तद् एव निदर्शयति—
यथा दूर-चरे प्रेष्ठे मन आविश्य वर्तते ।
**स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षि-गोचरे ॥ [**भा।पु। १०.४७.३५]
च-कारात् स्त्रीषु प्रेष्ठस्य च ।
[१६३]
“मनः-सन्निकर्षे किं स्यात् ?” “शीघ्रम् एव लब्धो भविष्यामीति ज्ञायताम्” इत्य् आह—
मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्ति यत् ।
**अनुस्मरन्त्यो मां न् इत्यम् अचिरान् माम् उपैष्यथ ॥ [**भा।पु। १०.४७.३६]
विमुक्ता अशेषा विरह-तत्-कारण-भावना-रूपा वृत्तयो येन तन्मनोमयि कृष्ण-रूपे आवेश्यमां कृष्ण-रूपम् एव अनुस्मरन्त्योमां कृष्ण-रूपम् एव अचिराद् एव समीप एवैष्यथ, अनन्य-वेद्यतया प्राप्स्यथ ॥
[१६४]
“तर्हि कथं प्रकटं नागच्छसि ?”तत्राह, तस्य झटिति प्राप्तेर् वृन्दावन एव लीलान्तर-न् इत्यास्तितायाश् च प्रतीत्य्-अर्थं निदर्शनम् अप्य् आह—
या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः ।
**अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥ [**भा।पु। १०.४७.३७]
तद् बहिर्-विघ्न-वञ्चनार्थम् इत्य् अर्थः । ता हि तद्-रात्रि-प्रकट-रास-मात्रम् अलब्धवत्योऽप्य् अस्मिन् वृन्दावन एव सर्व-विघ्नास्पृष्टाः प्रकट-विचित्र-क्रीडा-निधानं माम् आपुर् एवेति । तथा च वासना-भाष्य-धृतं मार्कण्डेय-वचनम्—
तदानीम् एव तं प्राप्ताः श्रीमन्तं भक्त-वत्सलम् ।
ध्यानतः परमानन्दं कृष्णं गोपाल-नायिकाः ॥ इति ।
तत्रापि, हे कल्याण्यः! स-शरीराः ! इति तद्वद्देह-त्यागेन भवतीनां मत्-प्राप्तिर् न स्यात्, किन्त्व् अनेनैव देहेन मत्-प्राप्तिः स्याद् इति भावः ।118 तस्मात् तासां व्रजे प्राकट्येनानुपलम्भात्, तथा मयि भक्तिर् हि भूतानाम् [भा।पु। १०.८२.४४] इत्य्-आदि वक्ष्यमाणानुसारेण मार्कण्डेय-वचनानुसारेण च तदीयाभीप्सित-रूप-विलासस्यैव मम प्राप्तेः सिद्धत्वाच् च, विद्यत एव प्रकटाया अस्या लीलाया पृथक् तस्मिन्न् अन्या लीला, तस्यां च ममेव युष्माकम् अपि स्थितिर् अध्यवसीयताम् । याम् एव लीलां मदीय-व्रजागमनासकृत्-प्रतिज्ञानुसारेण शीघ्रम् एव यदु-पुर्याः सकाशाद्भवत्-प्रेम-यन्त्रिततया समागत्याहं सर्व-समञ्जसतया भवतीनां तत्-तद्-विघ्न-निवारण-पूर्वकं119 सर्वेभ्य एव व्रज-वासिभ्यः सन्ततं दर्शयिष्यामीति भावः । अस्मिन्न् इति निर्देशात् तदानीम् अपि स्वस्य वृन्दावन-स्थत्वं सूचयति ।
प्रकरणेऽस्मिन्न् इदम् उक्तं भवति—न ह्य् अत्र तासाम् अध्यात्म-विद्या श्रेयस्करी भवति ।
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ [भा।पु। ११.२०.३१]
इति श्री-भगवता, ज्ञाने प्रयासम् उदपास्य नमन्त एव जीवन्ति [भा।पु। १०.१४.३] इति ब्रह्मणा च साधारण-भक्तानाम् अप्य् अनुपादेयत्वेनोक्तत्वात् । न च तच्-छ्रवणेन तासां विरह-ज्वाला शाम्यति, तं श्यामं मनोहरं विना साधारण-भक्तानाम् अपि स्वर्गापवर्ग-नरकेष्व् अपितुल्यार्थ-दर्शिनः [भा।पु। ६.१७.२८] इत्य् उक्त-दिशा, नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादम् [भा।पु। ३.१५.४८] इत्य्-आद्य्-उक्त-दिशा वा हेय-रूपत्वेनैवानुभवात् । तासां तु स्व-रसस्य परम-विरोध्य् एव तत् । पूर्वं च श्रूयतां प्रिय-सन्देशोभवतीनां सुखावहः [भा।पु। १०.४७.२८] इत्य् एवोक्तम् ।
अत उक्तं तासाम् एवाभिप्राय-कथने श्री-स्वामिभिर् अपि—ननु किम् अन्यानिवास्मान् आत्म-विद्यया लोभयसि ? वयं तु सर्व-सुन्दर-सर्वालङ्करणेन त्वया विरहं नैव सहामहे [भावार्थ-दीपिका तो १०.४७.३४] इति । तस्माद् विदुरादेर् इवकूटोक्तिर्120 इयम् इत्य् उक्त एवार्थो भवत्य् अन्तरङ्गः । स च युधिष्ठिरादेर् इव121 तासाम् एव गम्य इति ।
॥ १०.४७ ॥ श्री-भगवान् श्री-व्रज-देवीः ॥ १५५-१६४ ॥
[१६५]
पूर्व-व्याख्यानुसारेणैवाह—
एवं प्रियतमादिष्टम् आकर्ण्य व्रज-योषितः ।
**ता ऊचुर् उद्धवं प्रीतास् तत्-सन्देशागत-स्मृतीः ॥ [**भा।पु। १०.४७.३८]
तत्-सन्देशेनागता स्मृतिर् न् इत्य-संयोगानुसन्धान-रूपा यासां, तादृश्यः । अत एव प्रीताः । इतः परं कदाचित् प्रकट-लीलानुभवे सति तासां सन्तोषः प्रकट-लीला-दर्शनतस् तु विरह एवेति भाव-द्वैतं लक्ष्यते ।
[१६६]
तच् च सन्तोषम् आह—
ततस् ताः कृष्ण-सन्देशैर् व्यपेत-विरह-ज्वराः ।
उद्धवं पूजयां चक्रुर् ज्ञात्वात्मानम् अधोक्षजम् ॥ [भा।पु। १०.४७.५३]
तथा तेन सन्दिष्टं तथैव आत्मानम् अनुभूय अधोक्षजं चानुभूयेत्य् अर्थः ।
॥ १०.४७ ॥ श्री-शुकः ॥ १६५-१६६ ॥
[१६७]
स्व-विरहं व्यञ्जयन्ति—
अप्य् एष्यतीह दाशार्हस् तप्ताः स्व-कृतया शुचा ।
**सञ्जीवयन् नु नो गात्रैर् यथेन्द्रो वनम् अम्बुदैः ॥ [**भा।पु। १०.४७.४४]
स्व-निमित्तेन शोकेन तप्ताःनोऽस्मान् गात्रैः कर-स्पर्शादिभिः सञ्जीवयन् किं नुइहैष्यतीति ॥
॥ १०.४७ ॥ श्री-व्रज-देव्य उद्धवम् ॥ १६७ ॥
[१६८]
एवं यथा श्रीमद्-उद्धव-द्वारोपदिष्टं तथा कुरुक्षेत्र-यात्रायाम् अपि ताः प्रतिस्वयम्122 उपदिष्टम् ।
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया ।
गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः ॥ [भा।पु। १०.८२.४१]
इत्य् अनेन स्वागमन-विलम्बे कारणं विज्ञाप्य, पुनश् च—
मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ [भा।पु। १०.८२.४४]
इत्य् अनेन तासां स्व-प्राप्तिम् अवश्यम्-भाविनीं प्रोच्य, तत्रापि तासां काल-विलम्बाक्षमत्वं विलोक्य झटिति सान्त्वनार्थम् उद्धव-द्वारा प्रहित-चर-सन्देशवद् एव स्वेन न् इत्य-संयोगम् उपदिशति—123
**अहं हि सर्व-भूतानाम् आदिर् अन्तोऽन्तरं बहिः ।**
यथा अहम्अहं-कारो भूतादिः सर्वेषां भूतानां खादीनामाद्य्-अन्तादि-रूपः, अहङ्कारान्तर्-गतान्य् एव खादीनीत्य् अर्थः । यथा च खादीनि भूतानि भौतिकानां शराव-सैन्धवादीनाम् आद्य्-अन्तादि-रूपाणि, खादीनाम् अन्तर्-गतान्य् एव तानीत्य् अर्थः । एवम् एतानि प्रकट-लीलायाम् अनुभूयमानानि युष्माकं ममतास्पदानि भूतानि परमार्थ-सत्य-वस्तूनि श्री-वृन्दावनादीनि भूतेष्व् अप्रकट-लीला-गतेषु परमार्थ-सत्य-वस्तुषु तेषु वर्तन्ते । युष्माकं प्रकट-लीलाभिमान्य्-अहन्तास्पदम् आत्मा चाप्रकट-लीलाभिमान्य् अहन्तास्पदेन आत्मनाततो व्याप्तः । एवम् इदन्ताहन्तास्पदं यद् उभयं तच् च पुनः परे प्रकटम् अत्र दृश्यमानेऽपि तस्यां वृन्दाटव्यां विहरमाणेऽक्षरे न् इत्यम् एव युष्मत्-सङ्गिनि मय्य् आश्रय-रूपे आभातं विराजमानं पश्यत इति । तस्मात् प्रकाश-भेदाद् एव तत्-तद्-वस्त्व्-आदि-भेद-व्यपदेशो विरह-संयोग-व्यवस्था चेतीदम् अत्रापि व्यक्तम् ॥
[१६९]
श्री-भगवच्-छिक्षानुरूपम् एव श्री-ऋषिर् उवाच—
अध्यात्म-शिक्षया गोप्य एवं कृष्णेन शिक्षिताः ।
**तद्-अनुस्मरण-ध्वस्त-जीव-कोशास् तम् अध्यगन् ॥ [**भा।पु। १०.८२.४७]
अध्यात्म-शिक्षया तद्-उपदेशेन आत्मानं श्री-कृष्णम् अधिकृत्य या शिक्षा, तया वा । तथा-विधं यद् उपदिष्टं तद्-अनुस्मरणेन न् इत्य-सिद्धाप्रकट-लीलायाः पुनर् अनुसन्धानेन ध्वस्तस्त्यक्त-प्रायो जीव-कोषः प्रपञ्चः, तत्र प्राकट्याभिनिवेशो याभिस् ताः । तं स्वयम् उपदिष्टं न् इत्य-संयुक्त-रूपं श्री-कृष्णम् अध्यगन् प्रणिहितवत्यः ।
तत्रापि पूर्व-दर्शित-श्रुति-पुराणादि-गत-न् इत्यता-वाक्यं, मयि भक्तिर् हि [भा।पु। १०.८२.४४] इति, फल-भेद-वाक्यं च, न ज्ञानं न च वैराग्यम् [भा।पु। ११.२०.३१] इत्य्-आद्य्-अयुक्तता-व्यञ्जि-वाक्यं चानुसन्धाय परोक्ष-वादार्थ-प्रयुक्तम् अर्थान्तरं न प्रमेयम् ॥४८॥
[१७०]
अथ ज्ञान-रूपं प्रकटार्थम् अस्वीकुऋवाणा न् इत्य-लीला-रूपं रहस्यार्थं स्वीकुर्वाणा अपि पूर्ववत् पुनश् च प्रकट-लीलाभिनिवेशेन विरह-भीताः परम-दैन्योत्तरम् एवं प्रार्थयामासुर् इत्य् आह—
आहुश् च ते नलिन-नाभ पदारविन्दं
योगेश्वरैर् हृदि विचिन्त्यम् अगाध-बोधैः
संसार-कूप-पतितोत्तरणावलम्बं
**गेहं जुषाम् अपि मनस्य् उदियात् सदा नः ॥ [**भा।पु। १०.८२.४८]
आस्तां तावद् दुर्विधि-हतानाम् अस्माकं त्वद्-दर्शन-गन्ध-वार्तापि । हे नलिन-नाभ !तव पदारविन्दं त्वद्-उपदेशानुसारेणास्माकं मनस्य् उदियात् ।
ननु किम् इवात्रासम्भाव्यम् ? तत्राहुः—योगेश्वरैर् एव हृदि विचिन्त्यं, न त्व् अस्माभिस् त्वत्-स्मरणारम्भ एव मूर्च्छा-गामिनीभिः । तद् उक्तम् उद्धवं प्रति स्वयं भगवता—
मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ।
स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ [भा।पु। १०.४६.५] इति ।
तद् एवोपपादयन्ति—अगाध-बोधैः साक्षाद्-दर्शनेऽप्य् अक्षुभित-बुद्धिभिः, न त्व् अस्माभिर् इव त्वद्-दर्शनेच्छया क्षुभित-बुद्धिभिः । चरणस्यारविन्दता-रूपकं च त्वत्-स्पर्शेनैव दाह-शान्तिर् भवति, न तु तथा त्वत्-स्मरणेनेति ज्ञापनाय ।
ननु तथा निदिध्यासनम् एव योगेश्वराणां संसार-दुःखम् इव भवतीनां विरह-दुःखं दूरीकृत्य तद्-उदयं करिष्यतीति आशङ्क्याहुः—संसार-कूप-पतितानामेवोत्तरणावलम्बं, न त्व् अस्माकं विरह-सिन्धु-निमग्नानाम् । त्वच्-चिन्तनारम्भे दुःख-वृद्धेर् एवानुभूयमानत्वाद् इति भावः ।
नन्व् अधुनैवागत्य मुहुर् मां साक्षाद् एवानुभवत, तत्राहुः—गेहं जुषां पर-गृहिणीनाम् अस्वाधीनानाम् इत्य् अर्थः । यद् वा, गेहं जुषाम् इति तव सङ्गतिश् च त्वत्-पूर्व-सङ्गम-विलास-धाम्नि तत्-तद्-अस्मत्-काम-दुघे स्वाभाविकास्मत्-प्रीति-निलये निज-गेहे गोकुल एव भवतु, न तु द्वारकादाव् इति स्व-मनोरथ-विशेषेण तस्मिन्न् एव प्रीतिमतीनाम् इत्य् अर्थः । यः कौमार-हरः स एव हि वरः124 [पद्या। ३८२] इत्य्-आदिवत् । तस्माद् अस्माकं मनसि भवच्-चरण-चिन्तन-सामर्थ्याभावात् स्वयम् आगमनस्यासामर्थ्याद् अनभिरुचेर् वा साक्षाद् एव श्री-वृन्दावन एव यद्य् आगच्छसि, तदैव निस्तार इति भावः ।
*तम् एतम् एव भावं श्री-भगवान् अङ्गीचकार । यथोक्तम् एतद्-अनन्तरम्—
तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः ।
युधिष्ठिरम् अथापृच्छत् सर्वांश् च सुहृदोऽव्ययम् ॥ [भा।पु। १०.८३.१]
तद् एवं स्वारसिक्य-प्रकट-लीला दर्शिता ॥४९॥
॥ १०.८२ ॥ श्री-शुकः ॥ १६८-१७० ॥
[१७१]
तद् एवं स्वारसिक्य्-अप्रकट-लीला दर्शिता । अथ प्रकटाप्रकट-लीले125 द्वे अप्य् अर्थ-विशेषेणाह—
गोपीनां तत्-पतीनां च सर्वेषाम् एव देहिनाम् ।
योऽन्तश् चरति सोऽध्यक्षः एष क्रीडन-देह-भाक्**126 ॥ [**भा।पु। १०.३३.३५]
अन्तर्अन्तः-स्थितम् अप्रकटं यथा स्यात् तथा गोपीनां तत्-पतीनां चमायया प्रकट-लीलायां तत्-पतित्वेन प्रतीतानां127 क्रीडन-देह-भाक् सन् तेषाम् एव गोकुल-युवराजतया अध्यक्षश् च सन् यश् चरति क्रीडति, स एव प्रकट-लीला-गतोऽपि भूत्वा सर्वेषां विश्व-वर्तिनां देहिनाम् अपि क्रीडन-देह-भाक् सन्, तेषां पालकत्वेनाध्यक्षोऽपि सन् चरति । तस्माद् अनादित एव ताभिः क्रीडा-शालित्वेन सिद्धत्वात्128 तच्-छक्ति-रूपाणां तासां सङ्गमे वस्तुत एव पर-दारता-दोषोऽपि नास्ति ।
ततस् तेषां तत्-पतित्वं च, नासूयन् खलु कृष्णाय [भा।पु। १०.३३.३७]129 इत्य्-आदि-वक्ष्यमाण-दिशा, तेषां तासां च प्रातीतिक-मात्रं, न तु दैहिकम् । तादृश-प्रतीति-सम्पादनं च तासाम् उत्कण्ठा-वर्धन-पूर्वकतया सर्वोत्तर-निर्विघ्न-न् इत्य-सङ्ग-पोषार्थम् इति तत्-प्रकरण-सिद्धान्तस्य पराकाष्ठा दर्शिता ॥
॥ १०.३३ ॥ श्री-शुकः ॥ १७१ ॥
[१७२]
एवं तत्-तल्-लीला-भेदेनैकस्यापि तत्-तत्-स्थानस्य प्रकाश-भेदः श्री-विग्रहवत् । तद् उक्तम्—वृष्णः परमं पदम् अवभाति भूरि [ऋ।वे। १.१५४.६] इति श्रुत्या । तत्र त्व् इतर-लीलान्तः-पातिभिः प्रायश इतर-लीलावकाश-विशेषो नोपलभ्यते । दृश्यते च प्रकट-लीलायाम् अप्य् असङ्करीभावेनैव विचित्रावकाशत्वम् ।
- यथा द्वादश-योजन-मात्र-प्रमितायाम् एव द्वारकान्तः-पुर्यां क्रोश-द्वय-प्रमित-गृह-कोटि-प्रभृति-वस्तूनि ।
- यथा स्वल्पे गोवर्धन-गर्ते तद्-असङ्ख्य-गोकुल-प्रवेशः ।
- यथा ब्रह्मणा दृष्ट्या वृन्दावनस्य स-वृक्ष-तृण-पक्ष्य्-आद्य्-अवकाशता ब्रह्माण्डाद्य्-अनन्त-वस्त्व्-अवकाशता च ।
- यथा च श्री-नारद-दृष्ट-योग-माया-वैभवे सम-कालम् एव द्वारकायां प्रातस्त्य-माध्याह्निक-सायन्तन-लीला इत्य्-आदि ।
तद् एवं वृन्दावनस्य तावत् प्रकाश-भेदा उदाह्रियन्ते ।
तत्र अप्रकट-लीलानुगतः, यथा यामले रुद्र-गौरी-संवादे—
वीथ्यां वीथ्यां निवासोऽधर-मधु-सुवचस् तत्र सन्तानकानाम्
एके राकेन्दु-कोट्य्-आतप-विशद-करास् तेषु चैके कमन्ते ।
रामे रात्रेर् विरामे समुदित-तपन-द्योति-सिन्धूपमेया
रत्नाङ्गानां सुवर्णाचित-मुकुर-रुचस् तेभ्य एके द्रुमेन्द्राः ॥
यत् कुसुमं यदामृग्यं यत् फलं च वरानने ।
तत् तदैव प्रसूयन्ते वृन्दावन-सुर-द्रुमाः ॥
अर्थश् च—हे अधर-मधु-सुवचः! अधर-मधु-तुल्यानि सुवचांसि यस्याः तथाभूते, हे गौरि ! तत्र श्री-वृन्दावने रत्नाङ्गानां सन्तानकानां मध्ये एके द्रुमेन्द्राराकेन्दु-कोट्य्-आतप-विशद-कराः । हे रामे, तेषु सन्तानकेषु च एकेरात्रेर् विरामेसमुदित-तपन-द्योति-सिन्धूपमेयाः कमन्ते विराजन्ते । तेभ्यस् तान् अतिक्रम्य एके कमन्ते । कथम्भूताः ? _सुवर्णाचित-मुकुर-रुच_इति । तत्र च यदा यत् कुसुमं मृग्यं भवति, यदा च यत् फलं मृग्यं भवति, _तदैव तद् वृन्दावन-सुर-द्रुमाः प्रसूयन्त_इति ।
एवं ब्रह्म-संहितायाम् अपि आदि-पुरुष-गोविन्द-स्तोत्र एव—
श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो
द्रुमा भूमिश् चिन्तामणि-गण-मयि तोयम् अमृतम् ।
कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखी
चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ [ब्र।सं। ५.५६] इति ।
ज्योतिर् लौकिक-लीला-माधुर्याय महा-प्रलयेऽप्य् अनश्वर-सूर्यादि-रूपं यत् तत्र वर्तते, तथा तेषाम् आस्वाद्यम् अपि यत् किञ्चित्, तत् चिदानन्द-रूपम् । परम् अपि परम-तत्त्वम् एव, न तु प्राकृतम् ।
चन्द्रार्कयोः स्थितिश् च तत्र विलक्षणत्वेनैव गौतमीय-तन्त्रे कथिता समानोदित-चन्द्रार्कम् इति हि वृन्दावन-विशेषणम् । समानत्वं च रात्रौ रात्रौ राका-चन्द्र-मयत्वाद् इति ।
अपि च इति परेणान्वयः । रसावेशेन तद्-अज्ञानाद् एव समयो न व्रजतीत्य् उक्तम् । अन्यथा पौर्वापर्याभावे सति चेष्टात्मिकाया लीलायाः स्वरूप-हानिः स्यात् । श्वेतं शुभ्रं दोष-रहितम् इत्य् अर्थः । द्वीपं तद् इवान्यासङ्ग-शून्यं सर्वतः परम् इत्य् अर्थः । तद् उक्तं श्रुत्या—यथा हि सरसि पद्मं तिष्ठति, तथा भूम्यां तिष्ठति [गो।ता।उ। २.३०] इति ।
किं च, ब्रह्म-संहितायाम् एव तत्-स्तवादौ—चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-लक्षावृतेषु [ब्र।सं। ५.२९] इत्य्-आदि ।
एवं पञ्चरात्रादौ130 श्रुति-विद्या-संवादे—
ततः श्वेत-महा-द्वीपश् चतुर्-दिक्षु विदिक्षु च ।
अधश् चोर्ध्वं च दिङ्-नाथास् तोयं क्षीरामृतार्णवः ॥
महा-वृन्दावनं तत्र केलि-वृन्दावनानि च ।
वृक्षाः सुर-द्रुमाश् चैव चिन्तामणि-मयी स्थली ॥
क्रीडा-विहङ्ग-लक्षं च सुरभीनाम् अनेकशः ।
नाना-चित्र-विचित्र-श्री-रास-मण्डल-भूमयः ॥
केलि-कुञ्ज-निकुञ्जानि नाना-सौख्य-स्थलानि च ।
प्राचीन-च्छत्र-रत्नानि फणाः शेषस्य भान्त्य् अहो ॥
यच्-छिरो-रत्न-वृन्दानाम् अतुल-द्युति-वैभवम् ।
ब्रह्मैव राजते तत्र रूपं को वक्तुम् अर्हति ॥ इति ।
इत्थं श्री-वृन्दावनस्याप्रकट-लीलानुगत-प्रकाश एव गोलोक इति व्याख्यातम् । तत्राप्रकट-लीलाया द्वैविध्ये मन्त्रोपासनामय्यां किञ्चिद् विलक्षणः । स च तत्-तन्-मन्त्रेषु यथादर्शित-प्रतिनियत-लीला-स्थान-सन्निवेशः । यथा पूर्व-तापन्यां, यथा च स्कान्दे श्री-नारद-वाक्यम्—
यस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम् ।
तत्-सेवक-समाकीर्णं तत्रैव स्थीयते मया ॥
भुवि गोविन्द-वैकुण्ठं तस्मिन् वृन्दावने नृप ।
यत्र वृन्दादयो भृत्याः सन्ति गोविन्द-लालसाः ॥ इति ।
अथ प्रकट-लीलानुगत-प्रकाशः श्री-विष्णु-पुराण-हरिवंशादौ प्रसिद्धः । स एष एव प्रकाशस् तदानीं प्राकृतैर् अपि कैश्चिद् भाग्य-विशेषोदयवद्भिर् ददृशे, सम्प्रत्य् अस्माभिर् अपि तद्-अंशो दृश्यते । अत्र तु यत्प्राकृत-प्रदेश इव रीतयोऽवलोक्यन्ते, तत् तु श्री-भगवतीव स्वेच्छया लौकिक-लीला-विशेषाङ्गीकार-निबन्धनम् इति ज्ञेयम्, श्री-भगवद्-धाम्नां तेषां सर्वथा प्रपञ्चातीतत्वादि-गुणैः श्रुति-स्मृतिभ्यां कृत-प्रमाणत्वात् । अतएवोक्तम् आदि-वाराहे—
वसन्ति ये मथुरायां विष्णु-रूपा हि ते खलु ।
अज्ञानास् तान् न पश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥ इति ।
तद् एतन्-मूल-प्रमाणेऽप्य् अप्रकट-लीलानुगतः प्रकाशः श्री-वृन्दावनस्य—ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरः [भा।पु। १०.२८.११] इत्य्-आदौ दर्शित एव ।
प्रकट-लीलानुगतो यथा—
अहो अमी देव-वरामरार्चितं
पादाम्बुजं ते सुमनः-फलार्हणम् ।
नमन्त्य् उपादाय शिखाभिर् आत्मनस्
**तमोऽपहत्यै तरु-जन्म यत्-कृतम् ॥ [**भा।पु। १०.१५.५] इत्य् आदि ।
आत्मनः सुमनः-फल-रूपम् अर्हणम् उपादाय आत्मन एव शिखाभिर् नमन्ति । यद् यैः । शृण्वतां पश्यतां च संसारिणां तमोऽपहत्यै तरु-जन्म एतत्-कृतम् इति । यत्-कृतम् इति तृतीया-तत्-पुरुषो वा ॥
॥ १०.१५ ॥ श्री-भगवान् श्री-बलदेवम् ॥ १७२ ॥
[१७३]
यथा च—
सपद्य् एवाभितः पश्यन् दिशोऽपश्यत् पुरः-स्थितम् ।
वृन्दावनं जनाजीव्य- द्रुमाकीर्णं समा-प्रियम् ॥
यत्र नैसर्ग-दुर्वैराः सहासन् नृ-मृगादयः ।
मित्राणीवाजितावास- द्रुत-रुट्-तर्षकादिकम् ॥ [भा।पु। १०.१३.५९-६०] इत्य् आदि ।
समानाम् आत्मारामाणाम् अपि, स-मस्य मा-सहचरस्य श्री-भगवतोऽपि वा । आ सर्वतो-भावेन सर्वांशेनैव प्रियम् इति । तत्रासद्-अंशत्वं निषिद्ध्य सर्वतोऽप्य् आनन्दातिशय-प्रदत्वं प्रदर्शितम् ॥
॥ १०.१३ ॥ श्री-शुकः ॥ १७३ ॥
[१७४]
तद् एवं श्री-कृष्णस्य न् इत्य-लीलास्पदत्वेन131 तान्य् एव स्थानानि दर्शितानि । तच् चावधारणं श्री-कृष्णस्य विभुत्वे सति व्यभिचारि स्यात् । तत्र समाधीयते—तेषां स्थानानां न् इत्य-तल्-लीलास्पदत्वेन श्रूयमानत्वात् तद्-आधार-शक्ति-लक्षण-स्वरूप-विभूतित्वम् अवगम्यते, स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि [छा।उ। ७.२४.१] इति श्रुतेः, साक्षाद् ब्रह्मगोपाल-पुरी [गो।ता।उ। २.२६] इत्य्-आदेश् च ।
ततस् तत्रैवाव्यवधानेन तस्य लीला । अन्येषां प्राकृतत्वात् न साक्षात् तत्-स्पर्शोऽपि सम्भवति, धारण-शक्तिस् तु नतराम् । यत्र क्वचिद् वा प्रकट-लीलायां तद्-गमनादिकं श्रूयते, तद् अपि तेषाम् आधार-शक्ति-रूपाणां स्थानानाम् आवेशाद् एव मन्तव्यम् । वैकुण्ठान्तरस्य त्व् अप्राकृतत्वेऽपि श्री-कृष्ण-विलासास्पदताकर-निज-योग्यता-विशेषाभावान् न तादृशत्वम् इति ज्ञेयम् ।
अथाप्रकट-प्रकट-लीलयोः समन्वयस् त्व् एवं विवेचनीयः । तत्र यद्यपि तस्य मन्त्रोपासना-मय्य्-अप्रकट-लीलायां बाल्यादिकम् अपि वर्तते, तथापि स्वारसिक-लीला-मय-किशोराकारस्यैव मुख्यत्वात् तम् आश्र् इत्यैव सर्वं प्रवर्तते । इति प्रकट-लीलापि तम् आश्र् इत्यैव वक्तव्या । यद् वा, द्वारकायाम् अपि मथुरायाम् अपि वृन्दावनेऽपि युगपद् एक एव किशोराकृतिः श्री-कृष्णाख्यो भगवान् श्रीमद्-आनकदुन्दुभि-व्रजराज-नन्दन-रूपेण प्रापञ्चिक-लोकाप्रकटं न् इत्यम् एव लीलायमान आस्ते ।
अथ कदाचित् भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः [भा।पु। १.८.२०] इत्य्-आद्य्-उक्त-दिशा, सत्य् अप्य् आनुसङ्गिके भू-भार-हरणादिके कार्ये, स्वेषाम् आनन्द-चमत्कार-पोषायैव लोकेऽस्मिंस् तद्-रीति-सहयोग-चमत्कारिणीर्निज-जन्म-बाल्य-पौगण्ड-कैशोरात्मक-लौकिक-लीलाः132 प्रकटयन्, तद्-अर्थं प्रथमत एवावतारित-श्रीमद्-आनकदुन्दुभि-गृहे तद्-विध-यदु-वृन्द-संवलिते स्वयम् एव बाल-रूपेण प्रकटीभवति ।
अथ च तत्र तत्र स्थाने वचन-जात-सिद्ध-निज-न् इत्यावस्थित-कैशोरादि-विलास-सम्पादनाय तैर् एव प्रकाशान्तरेणाप्रकटम् अपि स्थितैः परिकरैः साकं निज-प्रकाशान्तरेणाप्रकटम् अपि विहरत्य् एव ।
अथ श्रीमद्-आनकदुन्दुभि-गृहेऽवतीर्य च तद्वद् एव प्रकाशान्तरेणाप्रकटम् अपि स्थ् इत्यैव स्वयं प्रकटीभूतस्य स-व्रज-श्री-व्रज-राजस्य गृहेऽपि तदीयाम् अनादित एव सिद्धां स्व-वात्सल्य-माधुरीं जातोऽयं नन्दयति । बालोऽयं रिङ्गति । पौगण्डोऽयं विक्रीडतीत्य्-आदि-स्व-विलास-विशेषैः पुनः पुनर् नवीकर्तुं समायाति । तत्र च सकल-माधुरी-शिरोमणि-मञ्जरीम् आकैशोर-बाल्य-केलि-लक्ष्मीम् उल्लास्य गोकुल-जनान् नितराम् आत्म-वशीकृतान्तर्-बहिर्-इन्द्रियाण्य् आपद्य पुनर् अपि तेषां समधिकाम् अपि प्रेम-र्द्धिं संवर्धयन् । श्रीमद् आनकदुन्दुभि-प्रभृतीन् अपि नन्दयन्, भूभार-राजन्य-सङ्घम् अपि संहरन्, मथुरायां प्रयाति । ततश् च द्वारकाख्यं स्व-धाम-विशेषं प्रकाशयितुं समुद्रं गत्वा तत्-तल्-लीला-माधुरीं परिवेशयति ।
अथ सिद्धासु निजापेक्षितासु तत्-तल्-लीलासु च तत्र तत्र न् इत्य-सिद्धम् अप्रकटत्वम् एवोरीकृत्य ताव् अप्रकट-लीला-प्रकाशौ प्रकट-लीला-प्रकाशाभ्याम् एकीकृत्य तथा-विध-तत्-तन्-निज-वृन्दम् अप्रत्यूहम् एवानन्दयतीति । तत्र पूर्ण-कैशोर-व्यापिन्य् एव व्रजे प्रकट-लीला ज्ञेया—क्व चातिसुकुमाराङ्गौ किशोरौ नाप्त-यौवनौ [भा।पु। १०.४४.८] इति ।
नास्मत्तो युवयोस् तात न् इत्योत्कण्ठितयोर् अपि ।
बाल्य-पौगण्ड-कैशोराः पुत्राभ्याम् अभवन् क्वचित् ॥ [भा।पु। १०.४५.३]इति ।
मनांसि तासाम् अरविन्द-लोचनः
प्रगल्भ-लीला-हसितावलोकैः ।
जहार मत्त-द्विरदेन्द्र-विक्रमो
दृशां ददच् छ्री-रमणात्मनोत्सवम् ॥ [भा।पु। १०.४१.२७] इत्य् अपि हि श्रूयते ।
अत एव एकादश-समास् तत्र गूढार्चिः सबलोऽवसद् [भा।पु। ३.२.२६] इत्य् अनेनैकादशभिर्133 एव समाभिस् तस्य पूर्ण-कैशोरत्वं ज्ञेयम् ।
कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले ।
अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् अञ्जसा ॥ [भा।पु। १०.८.२६] इत्य्-आदेः ।
गूढार्चिर् इति । यथा गूढार्चिः कुत्राप्य् अग्निः प्राप्तं प्राप्तम् इन्धनं दहति, तथा गोप-लीलाया गूढ-प्रभाव एव सन् प्राप्तं प्राप्तम् असुरं दहन्न् इत्य् अर्थः । एकादश-पर्यन्तं गूढार्चिः । ततः परं पञ्चदश-पर्यन्तं प्रकटार्चिर् इति साध्याहारं व्याख्यानं त्व् अघटमानं च । एकादशाभ्यन्तरे तत्-तत्-प्रभावस्य मध्ये मध्ये प्रसृतत्वात् ।134
तद् एवं स्थिते लीला-द्वय-समन्वये त्व् अप्रकट-लीलैकानुभाव-समन्वयश् चैवम् अनुसन्धेयः । प्रथमं श्री-वृन्दावने, ततो द्वारका-मथुरयोर् इति । सर्व-प्रकट-लीला-पर्यवसाने युगपद् एव हि द्वारका-मथुरयोर् लीला-द्वयैक्यं मथुरा-प्रकट-लीलाया एव द्वारकायाम् अनुगमनात् । अत एव रुक्मिणी-प्रभृतीनां मथुरायाम् अप्रकट-प्रकाशः श्रूयते।
वृन्दावने त्व् इयं प्रक्रियां विशिष्य लिख्यते । तत्र प्रथमं श्री-वृन्दावन-वासिनां तस्य प्राण-कोटि-निर्मञ्छनीय-दर्शन-लेशस्य विरहः । ततः श्रीमद्-उद्धव-द्वारा सान्त्वनम्। पुनश् च पूर्ववद् एव तेषां महा-व्याकुलतायाम् उदित्वर्यां श्री-बलदेव-द्वारापि तथैव समाधानम् ।
अथ पुनर् अपि परमोत्कण्ठा-कोटि-विस्फुट-हृदयानां सूर्योपराग-व्रज्या-व्याजया तद्-अवलोकन-काम्यया कुरुक्षेत्र-गतानां तेषां घर्मान्ते बाल-चातकानाम् इव निजाङ्ग-नव-घन-सङ्घावलोक-दानेन तादृश-संलाप-मन्द्र-गर्जितेन च पुनर् जीवन-सञ्चारणम् ।
अथ दिन-कतिपय-सहवासादिना च तान् अतिक्षीणतरान् अन्नेन दुर्भिक्ष-दुःखितान् इव संतर्प्य, तैः सह निज-विहार-विशेषाणाम् एकम् एव रम्यम् आस्पदं श्री-वृन्दावनं प्रत्य् एव पूर्ववत् सम्भावितया निजागमनाश्वास-वचन-रचनया प्रस्थापनम् । सूर्योपराग-यात्रा त्व् इयं दूरतः प्रस्तुतापि कंस-वधान् नातिबहु-संवत्सरान् अन्तरा शिशुपाल-शाल्व-दन्तवक्र-वधात् प्राग् एव ज्ञेया । श्री-बलदेव-तीर्थ-यात्रा हि दुर्योधन-वधैक-कालीना । तस्मिन् तस्यां कुरुक्षेत्रम् आगते खलु दुर्योधन-वधः । सा च सूर्योपराग-यात्रायाः पूर्वं पठिता । सूर्योपराग-यात्रा च श्री-भीष्म-द्रोण-दुर्योधनाद्य्-आगमन-मयीति ।
तत्रायं क्रमः—प्रथमं सूर्योपराग-यात्रा । ततः श्री-युधिष्ठिर-सभा । ततः135 शिशुपाल-वधः, ततः कुरु-पाण्डव-द्यूतं, तदैव शाल्व-वधो वन-पर्वणि प्रसिद्धः । दन्तवक्र-वधश् च ततः । ततः पाण्डवानां वन-गमनं, ततः श्री-बलदेवस्य तीर्थ-यात्रा, ततो दुर्योधन-वध इति । तस्माद् उपराग-यात्रा कंस-वधान् नातिकाल-विलम्बेनाभवद् इति लक्ष्यते । यत् तु तस्याम् एवआस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः [भा।पु। १०.८२.६] इति, तद् अपि श्री-प्रद्युम्नानिरुद्धयोर् अल्प-कालाद् एव यौवन-प्राप्त्या सम्भवति । यथोक्तं—नातिदीर्घेन कालेन स कार्ष्णो रूढ-यौवनः [भा।पु। १०.५५.९] इति ।
अथवा अनिरुद्ध-नामा कश्चित् कृष्ण-नन्दन एव, यो दशमान्तेऽष्टादश-महारथ-मध्ये गणितः । तथैव च व्याख्यातं तत्र तैर् इति । अतः कुरुक्षेत्र-यात्रायाम् एव श्रीमद्-आनकदुन्दुभिना श्री-कुन्ती-देवीं प्रत्य् उक्तं—
कंस-प्रतापिताः सर्वे वयं याता दिशो दश ।
एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः ॥ [भा।पु। १०.८२.२१] इति ।
अतः प्रथम-दर्शनाद् एव द्रौपदी-श्री-कृष्ण-महिषीणां परस्पर-विवाह-प्रश्नोऽपि सङ्गच्छते। अत्र आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः [भा।पु। १०.४६.३४] इत्य् आदिकम् अपि पद्यं सहायं भवेत् ।
प्रकृतम् अनुसरामः । अथ वृन्दावनं प्रस्थापितानाम् अपि तेषां पुनर् अपि निजादर्शनेन महा-सन्ताप-वृद्धिम् अतीवोत्कण्ठाभिः श्री-गोविन्दः सस्मार । याम् एव साक्षाद् दृष्टवान् परमोत्कण्ठः श्रीमद् उद्धवः, ताम् अवसरं लब्ध्वा प्रस्तावान्तरे गायन्ति—136
गायन्ति ते विशद-कर्म गृहेषु देव्यो
राज्ञां स्व-शत्रु-वधम् आत्म-विमोक्षणं च ।
गोप्यश् च कुञ्जर-पतेर् जनकात्मजायाः
पित्रोश् च लब्ध-शरणो मुनयो वयं च ॥ [भा।पु। १०.७१.९] इति व्यञ्जयामास ।
ततश् च राजसूय-समाप्त्य्-अनन्तरं शाल्व-दन्तवक्र-वधान्ते झटिति स्वयं गोकुलम् एव जगाम । तथा च पाद्मोत्तर-खण्डे गद्य-पद्यानि—
अथ शिशुपालं निहतं श्रुत्वा दन्तवक्रः कृष्णेन योद्धुं मथुराम् आजगाम । कृष्णस् तु तच् छ्रुत्वा रथम् आरुह्य तेन योद्धुं मथुराम् आययौ । तयोर् दन्तवक्र-वासुदेवयोर् अहो-रात्रं मथुरा-पुर-द्वारि यमुना-तीरे सङ्ग्रामः समवर्तत । कृष्णस् तु गदया तं जघान । स तु चूर्णित-सर्वाङ्गो वज्र-निर्भिन्न-महीधर इव गतासुर् अवनि-तले पपात । सोऽपि हरेः सायुज्यं137 योगि-गम्यं न् इत्यानन्द-सुखं शाश्वतं परमं पदम् अवाप । इत्थं जय-विजयौ सनकादि-शाप-व्याजेन केवलं भगवतो लीलार्थं संसृताव् अवतीर्य जन्म-त्रयेऽपि तेनैव निहतौ जन्म-त्रयावसाने मुक्तिम् अवाप्तौ ।
कृष्णोऽपि तं हत्वा यमुनाम् उत्तीर्य नन्द-व्रजं गत्वा प्राक्तनौ138 पितराव् अभिवाद्याश्वास्य ताभ्यां साश्रुकण्ठम् आलिङ्गितः सकल-गोप-वृद्धान् प्रणम्याश्वास्य रत्नाभरणादिभिस्139 तत्रस्थान् सर्वान् सन्तर्पयामास ।
कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समाचिते ।
गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥
रम्य-केलि-सुखेनैव गोप-वेष-धरःप्रभुः140 ।
बद्ध-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ [प।पु। ६.२५२.१९-२७] इति ।
अत्रेदं ज्ञेयम्—दन्तवक्रस्य मथुरायाम् आगमनं राजसूयानन्तरम् इन्द्रप्रस्थे श्री-कृष्णावस्थानं ज्ञात्वा जरासन्ध-वधार्थं श्रीमद्-उद्धव-युक्ति-च्छायाम् अवलम्ब्य गदा-कुशलंमन्यत्वेनैकाकिनं द्वन्द्व-युद्धाय तम् आह्वयितुं तद्-अर्थम् एव तद्-राष्ट्रं तद् उपद्रावयितुं च । पुनश् च द्वारका-गतं तं श्रुत्वा प्रस्थितस्य तस्य मथुरा-द्वार-गतेन तेन सङ्गमः । यत् स्थानम् अद्यापि द्वारका-दिग्-गतं दतिहेति प्रसिद्धं वर्तते । सर्वम् एतच् च श्री-नारदस्य श्री-भगवद्-रथस्य च मनो-जवत्वात्141 सम्भवति । अतः श्री-भागवतेनापि विरोधो नास्तीति अलं कल्प-भेद-कल्पनया । अत एव झटिति तस्य शाल्व-वध-श्रवणम् अपि तत्रोक्तं सम्पद्यते । तथा श्री-कृष्णस्य गोकुलागमनं च श्री-भागवत-संमतम् एव—
तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः ।
सान्त्वयाम् आस स-प्रेमैर् आयास्य इति दौत्यकैः ॥ [भा।पु। १०.३९.३५] इति ।
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भा।पु। १०.४५.२३] इति ।
हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥ [भा।पु। १०.४६.३५] इति ।
आगमिष्यत्य् अतिदीर्घेण कालेन व्रजम् अच्युतः ।
प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥ [भा।पु। १०.४६.३४] इति च ।
तस्य श्री-मुखेन भक्त-जन-मुखेन च बहुशः सङ्कल्पानाम् अन्यथानुपपत्तेः, सत्य-सङ्कल्पः [मै।उ। १.१] इति हि श्रुतिः । ईश्वराणां वचः सत्यम् [भा।पु। १०.३३.३१] इति स्वयं श्री-भागवतं च ।
न केवलम् एतावद् एव कारणं, तस्य व्रजागमनम् अपि स्फुटम् एवाहुः—
यर्ह्य् अम्बुजाक्षापससार भो भवान्
कुरून् मधून् वाथ सुहृद्-दिदृक्षया ।
तत्राब्द-कोटि-प्रतिमः क्षणो भवेद्
रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥ [भा।पु। १.११.९] इति ।
अत्र मधून् मथुरां वा इति व्याख्याय, तदानीं तन्-मण्डले सुहृदो व्रजस्था एव प्रकटा इति तैर् अप्य् अभिमतम् । तत्र योग-प्रभावेन नीत्वा सर्व-जनं हरिः [भा।पु। १०.५०.५१] इत्य् अत्र सर्व-शब्दात् ।
बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः ।
सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ [भा।पु। १०.६५.१] इत्य् अत्र प्रसिद्धत्वात् ।142
॥ १.११ ॥ द्वारका-वासिनः श्री-भगवन्तम् ॥ १७४ ॥
[१७५]
तद् एतद्-आगमनं दन्तवक्र-वधानन्तरम् एव श्री-भागवत-सम्मतं, यतः ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा।पु। १०.४५.२३] इति कंस-वधान्ते—
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया ।
गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः ॥ [भा।पु। १०.८२.४१]
इति कुरुक्षेत्र-यात्रायां च श्री-भगवद्-वाक्येन तद्-अनागमने दन्तवक्र-वधान्तं तच्-छत्रु-पक्ष-क्षपण-लक्षणं सुख-दानम् एवापेक्षितम् आसीत् ।
तद् एवं मास-द्वयं प्रकटं क्रीडित्वा, श्री-कृष्णोऽपि तान् आत्म-विरहार्ति-भय-पीडितान् अवधाय, पुनर् एव माभूद् इति भू-भार-हरणादि-प्रयोजन-रूपेण निज-प्रिय-जन-सङ्गमान्तरायेण संवलित-प्रायां प्रकट-लीलां तल्-लीला-बहिरङ्गेणापरेण जनेन दुर्वेद्यतया तद्-अन्तराय-सम्भावना-लेश-रहितया तया निज-सन्तताप्रकट-लीलयैकीकृत्य, पूर्वोक्ताप्रकट-लीलावकाश-रूपं श्री-वृन्दावनस्यैव प्रकाश-विशेषंतेभ्यः कृष्णं च तत्र छन्दोभिः स्तूयमानम् [भा।पु। १०.२८.१८] इत्य्-आद्य्-उक्त-दिशा स्वेन नाथेन स-नाथं श्री-गोलोकाख्यं पदम् आविर्भावयामास । एकेन प्रकाशेन च द्वारवतीं च जगामेति ।
तथा पाद्मोत्तर-खण्ड एव तद्-अनन्तरं गद्यम्—
अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्र-दार-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूप-धरा विमानम् आरूढाः परम-वैकुण्ठ-लोकम् अवापुर् इति ।कृष्णस् तु नन्द-गोप-व्रजौकसां सर्वेषां परमं निरामयं स्व-पदं दत्त्वा दिवि देव-गणैः संस्तूयमानो द्वारवतीं विवेश ॥ [प।पु। ६.२५२.२८-२९] इति च ।
इत्थं माथुर-हरि-वंशेऽपि प्रसिद्धिर् अस्तीति श्रूयते । तत्र नन्दादयः पुत्र-दार-सहिताः इत्य् अनेन पुत्राः श्री-कृष्णादयः । दाराः श्री-यशोदादय इति लब्धे पुत्रादि-रूपैर् एव श्री-कृष्णादिभिः सह तत्-प्राप्तेः कथनात् । प्रकाशान्तरेण तत्र तेषां स्थितिश् च तैर् अपि नावगतेति लभ्यते । वासुदेव-प्रसादेन वसुदेवाद् आगतस्य तस्यअकस्मात्143 आगमन-रूपेण परम-प्रसादेन दिव्य-रूप-धरास् तदानन्दोत्फुल्लतया पूर्वतोऽप्य् आश्चर्य-रूपाविर्भावं गता इत्य् अर्थः । विमानम् आरूढा इति गोलोकस्य सर्वोपरि-स्थिति-दृष्ट्य्-अपेक्षया ।
वस्तुतस् त्व् अयम् अभिसन्धिः—कृष्णोऽपि तं हत्वा यमुनाम् उत्तीर्य इति गद्यानुसारेण यमुनाया उत्तर-पारे एव व्रज-वासस् तदानीम् इत्य् अवगम्यते । स च तेषां वृन्दावन-दर्शनाक्षमतया एव तत्-पर् इत्यागेन तत्र गतत्वात् । ततश् च विमान-शिरोमणिना स्वेनैव रथेन पुनः तस्याः दक्षिण-पार-प्रापण-पूर्वकं श्रीमद्-गोपेभ्यः श्री-वृन्दावन एव पूर्वं गोलोकतया दर्शिते तत्-प्रकाश-विशेष एव निगूढं निवेशनं वैकुण्ठावाप्तिर् इति, अक्के चेन् मधु विन्देत किम् अर्थं पर्वतं व्रजेद् इति न्यायेन । समीपार्थेऽव्ययम् अक्के-शब्दः । न वेद स्वां गतिं भ्रमन्न् [भा।पु। १०.२८.१४] इति वदता श्री-भगवता तेषां गतित्वेनापि विभावितोऽसौ लोकः । तस्माद् वृन्दावने निगूढ-प्रवेश एव समञ्जसः । अत्र वृन्दावन-न् इत्य-लीला-वाक्य-वृन्दं चाधिकम् अप्य् अस्ति प्रमाणम् ।
एवम् एव श्री-गर्ग-वाक्यं कृतार्थं स्यात्—
एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः ।
अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥ [भा।पु। १०.८.१६] इति ।144
अथ गद्यान्ते द्वारवतीं विवेश इति च शाल्व-वधार्थं निर्गतैः श्री-भगवत्-प्रत्यागमनं प्रतीक्षमाणैः यादवैः सहैवेति श्री-भागवतवद् एव लभ्यते, तं विना स्वयं गृह-प्रवेशानौच् इत्यात्, क्षणार्धं मेनिरेऽर्भकाः [भा।पु। १०.१४.४३] इतिवद् अल्प-काल-भावनेन वा।
तद् एवं पुनः श्री-गोकुलागमनाभिप्रायेणैव श्री-वृन्दावन-नाथोपासना-मन्त्रे निहत-कंसत्वेन तद्-विशेषणं दत्तम् । यथा बोधायनोक्तेः—गोविन्दं मनसा ध्यायेद् गवां मध्ये स्थितं शुभम् इति ध्यानानन्तरं, गोविन्दं गोपी-जन-वल्लभेश कंसासुर-घ्न त्रिदशेन्द्र-वन्द्य इत्य्-आदि । अन्यत्र च, गोविन्द गोपी-जन-वल्लभेश विध्वस्त-कंस इत्य् आदि ।
एवम् एव गौतमीये श्रीमद्-दशाक्षरोपासनायां वैश्य-विशेस-गोपाल-लीलाय तस्मै यज्ञ-सूत्र-समर्पणं विहितं—यज्ञ-सूत्रं ततो दद्याद् अथवा स्वर्ण-निर्मितम्।145
इत्थम् एव पुनः-प्राप्त्य्-अभिप्रायेणोक्तम्—अनुस्मरन्त्यो मां न् इत्यम् अचिरान् माम् उपैष्यथ [भा।पु। १०.४७.३६] इति, दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः [भा।पु। १०.८२.४४] इति ।अथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः [भा।पु। १०.८३.१] इति च ।
तथैव केवलेन हि भावेन [भा।पु। ११.१२.८-९] इत्य्-आदि-पद्य-द्वय-कृतेन साधक-चरीणां गोपीनां प्रथमं तत्-प्राप्ति-प्रस्तावेन, न् इत्य-प्रेयसीनाम् अपि तन्-महा-वियोगानन्तर-प्राप्तिं तस्य वियोगस्यातीतत्व-निर्देशाद् द्रढयति द्वाभ्याम्—
रामेण सार्धं मथुरां प्रणीते
श्वाफल्किना मय्य् अनुरक्त-चित्ताः ।
विगाढ-भावेन न मे वियोग-
तीव्राधयोऽन्यं ददृशुः सुखाय ॥
तास् ताः क्षपाः प्रेष्ठतमेन नीता
मयैव वृन्दावन-गोचरेण ।
क्षणार्धवत् ताः पुनर् अङ्ग तासां
**हीना मया कल्प-समा बभूवुः ॥ [**भा।पु। ११.१२.१०-११]
अत्र विगाढ-भावेन वियोग-तीव्राधयः सत्यो मत्तोऽन्यं निज-सख्य्-आदिकम् अपि न सुखाय ददृशुः । ततश् चाधुना तु सुखाय पश्यन्तीति वियोगो नास्तीत्य् अर्थः । एवं तास् ताः क्षपाः मया हीनाः सत्यः कल्प-समा बभूवुर् अधुना तु तादृश्यो न भवन्तीति नास्त्य् एव वियोग इत्य् अर्थः ।
पूर्वं त्व् एतम् एवोद्धवं प्रति—
मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ।
स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥
धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन ।
प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥ [भा।पु। १०.४६.५-६]
इत्य् अत्र वर्तमान-प्रयोग एव कृत इति सोऽयम् अर्थः स्पष्ट एव प्रतिपत्तव्यः ।146
[१७६]
ततश् च प्रकटाप्रकट-लीलयोः पृथक्त्वाप्रतिपत्त्यैवाप्रकट-भावम् आपद्य स्व-नाम-रूपयोर् एव ताः स्थिता इत्य् आह—
ता नाविदन् मय्य् अनुषङ्ग-बद्ध-
धियः स्वम् आत्मानम् अदस् तथेदम् ।
यथा समाधौ मुनयोऽब्धि-तोये
**नद्यः प्रविष्टा इव नाम-रूपे ॥ [**भा।पु। ११.१२.१२]
तास् तथाभूत-विरहौत्कण्ठ्यातिशयेनाभिव्यक्त-दुर्धर-महा-भावाः सत्यः, तथा आगमिष्यत्य् अतिदीर्घेन कालेन व्रजम् अच्युतः [भा।पु। १०.४६.३४] इति भगवद्-उक्त्य्-अनुसारेण यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वा [भा।पु। १.११.९] इति द्वारका-वासि-प्रजा-वचनानुसारेण च, कदाचित् तासां दर्शनार्थं गते मयि लब्धो योऽनुषङ्गो महा-मोदन-भावाभिव्यक्ति-कारी पुनश् च संयोगः, तेन बद्धा धीर् यासां तथाभूताः सत्यः, स्वं ममतास्पदम् आत्मानम् अहङ्कारास्पदं चादः अप्रकट-लीलानुगतत्वेनाभिमतं वा तथेदं प्रकट-लीलानुगतत्वेनाभिमतं वा यथा स्यात् तथा तदानीं नाविदन्, किन्तु द्वयोर् ऐक्येनैवाविदुर् इत्य् अर्थः ।
प्रकटाप्रकटतया भिन्नं प्रकाश-द्वयम् अभिमान-द्वयं लीला-द्वयं चभेदेनैवाजानन्न् इति विवक्षितम् । ततश् च नाम च रूपं च तस्मिन् तत्-तन्-नाम-रूपात्मनि अप्रकट-प्रकाश-विशेषे प्रविष्टाइव, न तु प्रविष्टा वस्त्व्-अभेदाद् इत्य् अर्थः । नाम-रूप इति समाहारः ।
तत्र प्रकटाप्रकट-लीला-गतयोर् नाम-रूपयोर् अभेदे दृष्टान्तः—यथा समाधौ मुनयः इति। समाधिर् अत्र शुद्ध-जीवस्येति गम्यम् । तयोर् लीलयोर् भेदावेदने दृष्टान्तः—यथाब्धि-तोये नद्य इति ।यथा नद्यः पृथिवी-गताम् अब्धि-तोय-गतां च स्व-स्थितिं भेदेन न विन्दन्ति, किन्तूभयस्याम् अपि स्थितौ समुद्र-तोयानुगताव् एव प्रविशन्ति, तथा मद्-अनुषङ्गे सति प्रकटाम् अप्रकटां च लीला-स्थितिं ताश् च भेदेन न विदुः, किन्तु मय्य् एवाविविशुर् इत्य् अर्थः । दृष्टान्तस् त्व् अयम् लीला-भेदावेदनांश एव, न तु सर्वावेदनांशे, लोकवत् तु लीला-कैवल्यम् [वे।सू। २.१.३३] इतिवत् ॥147
[१७७]
तद् एवं प्रकटाप्रकट-लीलयोर् द्वयोर् अपि तासां स्व-प्राप्तौ भाव एव कारणं दर्शितम् । ततश् चाप्रकट-लीलायां प्रविष्टा अपि यद्-विशेषेणाधिक्येन तं प्रापुस्तद्दर्शयन्न्148 अन्यद् अप्य् अनुवदति—
मत्-कामा रमणं जारम्
अस्वरूप-विदोऽबलाः ।
ब्रह्म मां परमं प्रापुः
**सङ्गाच् छत-सहस्रशः ॥ [**भा।पु। ११.१२.१३]
अयम् अर्थः—यथा “भीष्मम् उदारं दर्शनीयं कटं करोति” इत्य् अत्र क्रिया खलु विशेष्यस्य कृतिं प्रत्यायन्ती विशेषणानाम् अपि प्रत्याययति, “कटं करोति, तं च भीष्मम्…” इत्य्-आदि-रीत्या, तथात्रापि प्रतीयते । विशेष्यं चात्र ब्रह्मैव । सर्व-विशेषणाश्रयणीय-परम-वस्तुतया तेषु विशेषणेषु तस्याभेदेनानुगमात्, एकम् एवाद्वितीयं ब्रह्म [छा।उ। ६.१.१] इति श्रुतेः । परमम् इत्य्-आदीनि तु विशेषणानि तद्-अभिन्नत्वेऽपि प्रतिस्वं भेदकत्वात्, स एकधा भवति द्विधा भवति [छा।उ। ७.२६.२] इत्य्-आदि-श्रुतेः । तद् एवं स्थिते, क्रमोऽप्य् अत्रार्थिक एव गृह्यते, पच्यन्तां विविधाः पाकाः [भा।पु। १०.२४.२६] इत्य्-आदौ, सर्व-दोहश् च गृह्यताम् [तत्रैव] इतिवत्, अग्नि-होत्रं जुहोति यवागुं पचति इत्य्-आदिवच् च ।149
ततश् च, एवं पूर्वोक्त-रीत्या ता अबला ब्रह्म प्रापुः, तच् च परमं भगवद्-रूपं प्रापुः, परमं यो महद् ब्रह्म इति सहस्र-नाम-स्तोत्रात्, शुभाशयः स्व-चित्तस्य सर्वगस्य तथात्मनः [वि।पु। ६.७.७५] इति विष्णु-पुराणाच् च । तादृशं तं च मां कृष्णाख्यम् एव प्रापुत्ः, नराकृति परं ब्रह्म इति पुराण-वर्गात् । ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति श्री-गीतोपनिषद्भ्यः । तद्-रूपस्यैव स्वस्य प्राप्तिस् तासु स्वयम् एव श्री-भगवता प्रोक्ता—
मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्तिर् यत् ।
अनुस्मरन्त्यो मां न् इत्यम् अचिरान् माम् उपैष्यथ ॥ [भा।पु। १०.४७.३६] इति ।
मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ [भा।पु। १०.८२.४४] इति च ।
अथ तादृशं च मां भाव-विशेष-संवलितम् एव प्रापुर् इत्य् आह—मत्-कामा रमणं जारम् अस्वरूप-विदः इति । रमण-शब्देन पतिर् एवोच्यते, नन्दन-शब्देन पुत्र इव रूढ्या यौगिकत्व-बाधात् । यथा मित्रा-नन्दन-शब्देनात्र मित्रा-पुत्र एवोच्यते, न तु मित्रा-पतिः । मित्रा-रमण-शब्देन च मित्रा-पतिः, न तु मित्रा-पुत्रः, तद्वद् अत्रापि । कोष-मते च रमण-शब्दः पत्याव् एव रूढः, पटोल-मूले रमणं स्यात् तथा रमणः प्रियेइति विश्व-प्रकाशात् । स्त्री-जाति-सम्बन्धे सति रमण-शब्दवत् प्रिय-शब्देन पतिर् एवोच्यते, तथैव प्रसिद्धेः । धवः प्रियः पतिर् भर्ता इत्य् अमर-कोषाच् च । पतित्वं तूद्वाहेन कन्यायाः स्वीकारित्वम् इति लोक एव, भगवति तु स्व-भावेनापि दृश्यते । परम-व्योमाधिपस्य महा-लक्ष्मी-पतित्वं ह्य् अनादि-सिद्धम् इति ।
जार-शब्देन सर्वत्रोपपतिर् एवोच्यते—जारस् तूपपतिः समौ इत्य् अमर-कोषात् । उपपतित्वं चाधर्मेण पतीयमानत्वम्,150 यथोपधर्मत्वम् अधर्मे धर्मायमानत्वम् इति, उभयत्रापि वेद-विरुद्धत्वात् । तद् एव जारः पाप-पतिः समौ इति त्रिकाण्ड-शेषः । ततश् च जारत्वं रमणे नास्ति, रमणत्वं जारे नास्ति । धर्मोपधर्मयोर् इव द्रव्यस्य स्वामि-चौरयोर् इव च विरुद्ध-वस्तुत्वाद् इति स्थिते, ब्रह्म मां परमम् इतिवन् नैकाधिकरणत्वं जारत्व-रमणत्वयोः सम्भवति । तस्माद् अधिकारिणीनां तासां विशेषण-भेदेन तद्-द्वयं समादधत् तद्-अर्थं चैकस्य वास्तवत्वम् अन्यस्य त्व् अवास्तवत्वं दर्शयति—मत्-कामा रमणम् इति, जारम् अस्वरूप-विदः इत्य् आभ्यां तत्र जारत्वस्यैव प्रातीतिक-मात्रत्वाद् अवास्तवत्वं स्वामिभिर् अङ्गीकृतं, नान्यस्य, जार-बुद्धि-वेद्यम् अपि इत्य् उक्तत्वात् । स्थापयिष्यते च तद् इदम् अस्माभिर् उत्तरत्र ।
ततश् चायम् अर्थः—स्वरूपं मन्-न् इत्य-प्रेयसी-रूपत्वम् अजानन्त्यो जन्मादि-लीला-शक्त्या विस्मरन्त्यो मां जारं प्रापुः धर्म-विरुद्धतया प्रतीताव् अपि रागातिशयेन जारतयापि स्वीकृतं प्रापुर् इत्य् अर्थः । तथा तत्-प्राप्ताव् अपि मत्-कामाः इति, यत् पत्य्-अपत्य्-सुहृदाम् अनुवृत्तिर् अङ्ग [भा।पु। १०.२९.३२] इत्य्-आदि-रीत्या मयि कामोऽभिलाष-विशेषः ।
कथम् अन्यत्र पतित्वं स्वप्नवद् विलीयते ? श्री-कृष्ण एव पतित्वं जाग्रद्वद् आविर्भवेद् इत्य् एवं-रूपो यासां तादृश्यः सत्यो रमण-रूपम् एव मां प्रापुर्इति । एतद्-अर्थम् एव पृथक्-कृत्य तासां विशेषणाभ्यां सह स्व-विशेषण-द्वयं मत्-कामा रमणम्इति, जार-स्वरूप-विदः इति यथा-योगं च पठितम्, न तु ब्रह्म मां परमम् इत्य् एभिः सह कृतम् ।
तद् इदं स्वेषु तदीय-स्वीयात्वं प्रकटयितुम् अपि तासां प्रार्थनापि दृश्यते । यस्मात् अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते [भा।पु। १०.४७.२१] इत्य् अत्र तदीयात्व एव स्वाभिमतिं व्यज्य, तत्र च किङ्करीणाम् इत्य् अनेन दैन्यात् पुनस् तद् अपलाप्य, पुनर् उत्कण्ठया भुजम् अगुरु-सुगन्धम् [भा।पु। १०.४७.२१] इत्य्-आदिना स्पष्टतयैव स्वीयात्वेन स्वेषु तदीय-स्वीकारस्याभिकाङ्क्षा-व्यञ्जना श्री-राधा-देव्या कृतेति हि गम्यते । दैन्यं चात्र पतित्व-कामनायाम् अपि स्यम सुन्दर ते दास्यः [भा।पु। १०.२२.१५] इतिवद् गम्यम् । स्पष्टं च तत्-स्वीकरण-प्रार्थना च ।
यद्यपि माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः [भा।पु। १०.४६.४] इत्य् अनेन बल्लव्यो मे मद्-आत्मिकाः [भा।पु। १०.४६.६] इत्य् अनेन चास्मासु स्वीयात्व-भावस् तस्यापि मनसि वर्तते एव, तथापि धारयन्त्य् अतिकृच्छ्रेण [भा।पु। १०.४६.६] इत्य्-आदि स्वाभिप्रायेण यद्य् आगत्य स्पष्टम् एव स्वीक्रियामहे, तदैवास्माकं निस्तारः स्याद् इति तस्याभिप्रायः । तस्मात् साध्व् एव तथा व्याख्यातं मत्-कामा रमणम् इति ।
अथ प्रस्तुतम् एवानुसरामः । जारतया प्रतीतत्वेन रमणत्वेन च प्राप्तौ हेतुः—अबलाइति । एतत्-पदेन हि तासु निज-कारुण्यं व्यञ्जितम् । तेन च तस्य कारणं रामेण सार्धं इत्य्-आद्य् उक्तं तासां महा-प्रेम स्मारितम् । तस्मात् तथा मत्-प्राप्तौ तादृश-महा-प्रेमैव हेतुर् इत्य् अर्थः । तद् एवम् उभयथा-प्राप्ताव् अपि मत्-कामा इत्य् अनेन रमणतया प्राप्ताव् एव पर्याप्तिः दर्शिता । अन्यथा तु अहं भक्त-पराधीनः [भा।पु। ९.४.६३] इति, स्वेच्छामयस्य [भा।पु। १०.१४.२] इति, ये यथा मां प्रपद्यन्ते [गीता ४.११] इति च प्रतिज्ञा-हानिः स्यात् । तत्र ये यथा इति येन कामना-प्रकारेणेत्य् अर्थः, तत्-क्रतु-न्यायात् ।तद् एवं तासाम् अभीष्ट-पूरणं कैमुत्येनैवायातम् । ततश् चास्तां तासां तदीय-परम-लक्ष्मी-रूपाणां वार्ता । तत्-सङ्गाद् अन्या अपि शत-सहस्रशस् तथा मां प्रापुर् इत्य् आह—सङ्गाद् इति ।
अत्रैवं विवेचनीयं—तासां न् इत्य-प्रेयसीनां तस्मिन् जारत्वं न सम्भवत्य् एव । श्रीमद्-दशार्णादौ हि तन्-नाम्ना तासां पतित्वेनैवासाव् अभिधीयते, वल्लभो दयितेऽध्यक्षेइति विश्व-प्रकाशादि-गत-वल्लभ-शब्दस्य द्व्य्-अर्थत्वेऽपि दयितत्वस्य तास्व् अर्हत्वात् । गौतमीय-तन्त्रे च तन्-मन्त्र-व्याख्यायां पतित्वेनैव तद्-व्याख्या दृश्यते । तन्-नाम्नः खलु ब्रह्मत्वेश्वरत्व-योगेन व्याख्या-द्वयं विधायोत्तर-पक्षत्वेनाभीष्टं व्याख्यानम् आह गौतमीय-तन्त्रे द्वितीयाध्याये दशार्ण-व्याख्यायां—
अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा ।
नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥ इति ।
अत्रानेक-जन्म-सिद्धत्वम् अनादि-कल्प-परम्परा-प्रादुर्भूतत्वम् एवोच्यते,
- बहूनि मे व्यतीतानि जन्मानि तव चार्जुन [गीता ४.५] इतिवत्, वैवस्वत-मन्वन्तरान्तर्गतावश्यम्भावं तत्-प्रादुर्भावं विना कल्पाभावात्,
- अनादि-सिद्ध-वेद-प्राप्त-तद्-उपासना-सिद्धानादित्वात्,
- तद्-एक-पतित्वं च तत्-तन्-मन्त्रोपासना-शास्त्रे तासां कालानवच्छेदेन तद्-आराधन-तत्-परतया स्थितानां ध्यातुं विधीयमानत्वात्,
- पत्य्-अन्तर-सम्बन्ध-गन्धस्याप्य् अश्रवणात्,
- तथा च ब्रह्म-संहितायां—
आनन्द-चिन्-मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्मभूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४८] इति ।
अत्र निज-रूपतया स्वीयतया, न तु परकीयतया लक्षिताभिस् ताभिः कलाभिः शक्तिभिः । लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् इत्य्-उक्त-रीत्यामन्त्रतस् तच्-छब्द-प्राप्त्या च गोपी-रूपाभिः सह गोलोक एव निवसति इति प्रकट-लीलायाम् इव परकीयात्व-प्रपञ्चनं निषिद्धम् । कलात्वेनैव निज-रूपत्वे प्राप्ते निज-रूपतयेत्य् अस्य तथैव सार्थकत्वात् ।
तथैवोक्तं—श्रियः कान्ताः कान्तः परम-पुरुषः [ब्र।सं। ५.५६] इति । अत्र श्री-परम-पुरुषयोर् औपपत्यं न सम्भवतीति युक्तं च दर्शितवान् । तपन्यां ताः प्रति दुर्वाससो वचनं, स वो हि स्वामी [गो।ता।उ। २.२७] इति । पति-रमण-वल्लभ-शब्दवत् स्वामि-शब्दश् च तथा प्रसिद्धः, स्वामिनौ देवृ-देवरौ इत्य् अमर-कोषात् । ते च शब्दा एक-निष्ठत्वेन प्रयोगाद् अन्योन्यम् अन्यार्थतां निरस्यन्ति, कृष्णाय वासुदेवाय देवकी-नन्दनाय च [भा।पु। १.८.२१] इत्य्-आदिवत् ।
आस्ताम् अप्रकट-लीलाया वार्ता, गुप्त-तादृशतायां प्रकट-लीलायाम् अपि रास-प्रसङ्गे श्री-शुकेनापि सुखावेशाद् अगुप्तम् एव कृष्ण-वध्वः [भा।पु। १०.३३.७] इत्य् उक्तम् । ऋषभस्य जगुः कृतानि [भा।पु। १०.३३.२१] इत्यत्र स्वामिनापि ऋषभस्य पत्युः इति व्याख्यातम् । गोपी-पतिर् अनन्तोऽपि वंश-ध्वनि-वशं गतःइति सङ्गीत-शास्त्रे । श्री-यमुना-स्तवे श्री-शङ्कराचार्य-वचनैर् अप्य् उक्तम्, विधेहि तस्य राधिका-धवाङ्घ्रि-पङ्कजे रतिम् इति । श्री-गीत-गोविन्दे श्री-जयदेव-चरणैश् च पत्युर् मनः कीलितम् [गी।गो। १२.१४]इति ।
तस्मात् स्वयं भगवता साध्व् एव दर्शितम्—जारम् अस्वरूप-विदः इति मत्-कामा रमणम् इति च । पूर्वं ययैव लीला-शक्त्या तासाम् उक्तण्ठातिशय-प्रकटनार्थं तन्-न् इत्य-प्रेयसीत्व-स्वरूपानुसन्धानावरण-पूर्वकं श्री-कृष्णे जारत्वं प्रत्यायितम्, आयत्याम् अपि तथैव पुनस् तस्मिन् स्वाभाविक-पतित्व-प्रकाश-मय-सुख-चमत्कार-कर-तादृश-स्वरूपानुसन्धानं क्रियते इति भावः । आस्तां न् इत्य-प्रेयसीनां तासां वार्ता, तत्-सङ्गात् प्राप्तवतीनाम् अन्यासाम् अपि तस्मिन् रमणत्वम् एव सिध्यति, न तु जारत्वम् ।
तद् एव व्यञ्जितम्—मत्-कामा इत्य् अनेन ब्रह्म मां परमं प्रापुः इत्य् अनेन च परम-ब्रह्मणः सर्वांशित्वात् सर्व-पातृत्वाच् च सर्वाधिपत्यम् एव सिध्यति, न तु परत्वम् । तत्र च सति तासु तादृश-मत्-कामासु पतित्वम् एव स्यात्, न जारत्वम् इत्य् अभिप्रायात् । तद् उक्तं दत्तात्रयेणापि पारमार्थिक-तद्-विवेक-श्लाघा-गर्भ-गुरुत्वेन मतया पिङ्गलया आत्मना रमणेन वै [भा।पु। ११.८.४०] इति, रमेऽनेन यथा रमा [भा।पु। ११.८.३५] इति । रमा-देव्या च स वै पतिः स्याद् अकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् [भा।पु। ५.१८.२०] इति । तस्माद् वास्तव-वस्तुन एव फलत्व-पर्यवसानाज् जार-बुद्ध्यापि प्राप्ते तस्मिन् रमणतया प्राप्तेर् एव लालसा-विषयत्वाच् च पतित्वम् एव पर्यवस्यति ।
तद् एवम् एवोक्तं—
तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः
जहुर् गुण-मयं देहं सद्यः प्रक्षीण-बन्धनाः ॥ [भा।पु। १०.२९.११]
अत्र जिघांसयापि हरये स्तनं दत्त्वाप सद्-गतिम् [भा।पु। १०.६.३५] इति यथा विगीतार्थेन जिघांसया-पदेन संसजन्न् अपि-शब्दो जिघांसायास् तत्राप्रवर्तनीयत्वं व्यनक्ति, तथापि पुरुषार्थः सिद्ध इति विषयस्य शक्तिम् एव स्थापयति, तथा विगीतार्थेन जार-पदेन संसजन-जारत्वस्य तथात्वं विषयस्य च तां गमयति ।
रमणत्वं तु न तथा विगीतम्, प्रत्युत—
याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ [भा।पु। १०.९०.२७]
इत्य्-आदिना सुष्ठु स्तुतम् एव । न च आसाम् अहो चरण-रेणु-जुषाम् [भा।पु। १०.४७.६१] इत्य्-आदिना जारत्वम् अपि स्तुतं, किन्तु तासां राग एव स्तुतः, येन जारत्वेनाप्य् असौ स्वीकृत इति ।जार-बुद्ध्या सहेति या जार-वादिनः कल्पना सा त्व् असत्यैव, अनर्हत्वात्, जार-पद-संसक्तस्यापि-शब्दस्यान्यथा-प्रत्यायकत्वेन दर्शितत्वात्, सह-पद-सापेक्षत्वेन कष्टत्वात्, उपपद-विभक्तेः कारक-विभक्तिर् बलीयसी इति न्यायात्, साधकतमस्यान्यस्य कल्पनीयत्वाच् च।
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥
इति पाद्मोत्तर-खण्ड-श्रवणात् एताः खलु तदापि न सिद्ध-देहा इति पर्यवसीयते । ततश् च तस्य देहस्य पत्युश् च त्यागेन श्री-कृष्ण-प्राप्तौ परकीयात्वानुपपत्तिः । किम् उत माया-मात्रेण परकीयात्वेन प्रतीयमानानां न् इत्य-प्रेयसीनाम् । एवम् एव च स्वयं भगवतापि दर्शितं—या मया क्रीडता रात्र्यां [भा।पु। १०.४७.३०] इत्य्-आदिना । किन्तु जार-पदम् एतादृग् अश्लीलं यत् खलु जारतया भजन्तीभिर् अपि न जारं प्रतिवचन-विषयीक्रियते, किन्तु रमणादि-पदम् एवेति तद् अभिधेयं कथम् इव फलाय कल्पते ?
तद् एवं जारम् इति ब्रह्मेत्य्-आद्य् अनूद्य-वर्गान्तः-पात्य् एव, किन्तु भ्रममयत्वान् निन्दितत्वाच् च जारत्वस्य हेयत्वम् । रमणम् इति तु विधेयम् इति यद् उक्तम्, तत् खलु प्रकट-लीलायां पूर्वस्य स्पष्टतया वर्णितत्वेन श्रोतरि प्रसिद्धत्वात्, उत्तरस्य तद्वद् अवर्णितत्वेनापि प्रसिद्धत्वाद् अपि सिध्यति। प्रसिद्धत्वाप्रसिद्धत्वे एव तयोः प्रवृत्ति-हेतुः ब्राह्मणोऽयं पण्डितः इतिवत् । न च अनुवादम् अनुक्त्वा तु न विधेयम् उदीरयेत् इति सर्वत्रोपलभ्यते । यस्य पर्णमयी जुहुर् भवति [जैमिनि-सूत्र151 ४.३] इत्य् अत्र वैपरीत्य-दर्शनात्, अप्राप्ते हि शास्त्रम् अर्थवत् इति न्यायेन च, दध्ना जुहोति इत्य्-आदिवद् अप्राप्ते रमणत्व एव तात्पर्यम्, न च पूर्व-पूर्व-प्रसिद्धे ब्रह्मत्वादि-जारत्व-पर्यन्ते । अनधिगतार्थ-गन्तृ-प्रमाणम् इति च वृद्धाः ।
किं च, जारत्वस्य वास्तवत्वेऽश्लीलता दुर्निवारा, अवास्तवत्वे व्यभिचारित्वम् एवेति । सर्वथा तद्-विधेयं न भवत्य् एव वेत्य् अलम् अतिविस्तरेण ।
अत्र ब्रह्मेत्य् एवोक्ते भगवन्तंश्रुत-निर्विशेष-ब्रह्म-वादस्य कस्यचित् सन्देह-विषयो भवतीति परमम् इत्य् उक्तम् । परमम् इत्य् उक्ते श्री-कृष्ण-रूपत्वं न प्रतीयते इति माम् इत्य् उक्तम् । माम् इत्य् एवोक्ते ब्रह्मत्वं परमत्वं च प्रमाणान्तर-सापेक्षं भवतीति तत् तद् उच्यते । तथा जारम् इत्य् एवोक्ते पर्यवसितं न सिध्यतीति रमणम् इत्य् उक्तम् । रमणम् इत्य् एवोक्ते पूर्व-प्रतीतत्वाद् रमण-पदेनापि कथञ्चिज् जारत्वम् एव लक्ष्येतेति तन्-निरासार्थं जारम् इति चानूद्यते । परमाभीष्टत्वाद् अपि रमणत्वस्यैव विधेयत्वं, न तु जारत्वस्य । [एन्द् वृ। रेअदिन्ग्।]
तथापि सर्वत्र पर्यवसाने निरुपद्रवेष्ट-प्राप्तिर्152 एव खलु सिद्धान्त-रस-शास्त्रयोः सम्मता । प्राचीनैर् आधुनिकैश् च153 लौकिकालौकिक-वर्णकैः कविभिस् तथैवोपाख्यायते । श्रीमद्-अस्मद्-उपजीव्य-चरणैर् अपि ललित-माधवेपूर्ण-मनोरथ-नामन्य् अङ्के तथैव समापितम् । तद् एवोज्ज्वल-नीलमणौ प्रमाणीकृत्य सर्व-रस-पूरकः समृद्धिमयः सम्भोग उदाहृतः । श्री-भगवता च यत् त्व् अहं भवतीनां वै [भा।पु। १०.४७.३४] इत्य्-आदिना, या मया क्रीडता रात्र्याम् [भा।पु। १०.४७.३७] इत्य्-आद्य्-अन्तेन तथैवाभिप्रेतम् ।
जार-भाव-मयः सङ्गमश् च सदैव सोपद्रवः । सोपद्रवतम् एव हि जार-वादिनां रस-हेतुर् इति गत्य्-अन्तरं च न शक्यम् इति154 पर्यवसान-पुरुषार्थत्वे तत्-तच्-छास्त्र-सम्मतो न स्यात् । तथा पर-कोटि-सङ्ख्यानां निज-पदाब्ज-दलैः [भा।पु। १०.३५.१६] इत्य्-आदि-युगले, कुज-गतिं गमिता न विदामः कश्मलेन कवरं वसनं वा [भा।पु। १०.३५.१७] इत्य्-आदि-रीतीनाम् उद्भट-महा-भावानां155 तासां व्रजे भाव-संगोपनं पूर्वम् अपि दुष्करम् आसीत् ।
महा-विरहे तु जाते, निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन् कुल-वृद्ध-बान्धवाः [भा।पु। १०.३९.२८] इति, विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति [भा।पु। १०.३९.३१] चेति, ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः [भा।पु। १०.४६.४] इति, कृष्ण-दूते व्रजायाते उद्धवे त्यक्त-लौकिकाः [भा।पु। १०.४७.९] इति, गत-ह्रियः [भा।पु। १०.४७.१०] इति, काचिन् मधुकरं दृष्ट्वा [भा।पु। १०.४७.११] इति, या दुस्त्यजं स्वजनम् आर्य-पथं च हित्वा [भा।पु। १०.४७.६१] इति, गोप्यो हसन्त्यः पप्रच्छू राम-दर्शनादृताः [भा।पु। १०.६५.९] इति,
मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि ।
यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ॥ [भा।पु। १०.६५.११] इति च श्रूयते ।
अत्र निवारयाम [भा।पु। १०.३९.२८] इत्य्-आदिकं यथा सङ्कॢप्तं, तथैव विसृज्य लज्जाम् [भा।पु। १०.३९.३१] इत्य्-आदिनाचरितम् । तासां लज्जा-त्यागः खलु भाव-व्यक्त्यैव स्यात्, सर्वेषां गोकुल-वासिनां रोदनादि-साम्यात् । ततस् तद्-व्यक्ति-पूर्वक-रोदन-द्वारेण ताभिर् निवारणम् अपि योग्यम् इति ।
एवं त्यक्त-लौकिका [भा।पु। १०.४७.९] इत्य्-आदिषु च सुष्ठ्व् एव भाव-व्यक्तिर् गम्यते । किं बहुना, मातरम् [भा।पु। १०.६५.११] इत्य्-आदौ “मात्र्-आदीन् जहिम” इत्य् उक्तं, न तु पूर्व-रागवत् पति-सुतान्वय-भ्रातृ-बान्धवान् अतिविलङ्घ्य [भा।पु। १०.३१.१६] इति मात्रम् उक्तम् । गोप्यो156 हसन्त्यः [भा।पु। १०.६५.९] इति तून्माद-लक्षणम् । तदानीं हासायोग्यत्वात्, यथैव काचिन् मधुकरं दृष्ट्वा [भा।पु। १०.४७.११] इत्य्-आदाव् उन्माद एव दृश्यते ।
तद् एवं तदानीं तु दुर्धर-महा-भावेनोन्मत्त-चेष्टानां निरपत्रप-व्यञ्जित-भावानां त्यक्त-मात्रादीनां तासाम् असङ्ख्यानां भावस्य संगोपनं नोपपद्यत एव । किन्तु ज्ञातोऽप्य् असौ महा-विरह-पीडया सर्वैरज्ञात इव आसीत् । अनन्तरं त्व् अनुसन्दध एव । स तु भाव-सङ्गोपनयैव काल-कतिपयं स्वस्य रसताम् आवहति, व्यक्तत्वे तु स्वस्य परेषाम् अपि सर्वत्र वस्तुतो धर्म-मयत्व-प्रतीतौ जातायाम् एवेति रस-विदां मतम् । अधर्म-मयत्व-प्रतीतौ त्व् अश्लीलतया व्याहन्यत एव रसः । अधर्म-मयत्वं च द्विधा—परकीयात्वेन पर-स्पृष्टत्वेन157 च । तस्माद् यथैश्वर्य-ज्ञान-मय्यां श्री-परीक्षित्-सभायाम् ऐश्वर्य-ज्ञान-रीत्यैव तत् परिहृत्य रसावहत्वं समाहितम् । तथा लोकवल्-लीला-कैवल्यावलम्बने प्रेम-मय्यां श्री-गोकुल-सभायां लोक-रीत्यैव समाधेयम् । तथा हि—
नासूयन् खलु कृष्णाय
मोहितास् तस्य मायया ।
मन्यमानाः स्व-पार्श्व-स्थान्
स्वान् स्वान् दारान् व्रजौकसः॥ [भा।पु। १०.३३.३७]
इति यत् श्रूयते, तच् चात्राप्य् अवश्यम् एव सङ्गमनीयम् । तस्य चायम् अर्थः—तस्य मायया मोहिताः सन्तो नासूयन् तस्य स्व-न् इत्य-प्रेयसी-स्वीकार-लक्षणे गुणे कथम् असाव् अस्मद्-धामार्थ-सुहृत-प्रियात्म-तनय-प्राणाशय-जीवातुतमः पर-दार-स्वीकारामङ्गलम् अङ्गीकरोतीति दोषारोपं नाकुर्वन्न् इत्य् अर्थः । माया-मोहितत्वम् एवाह—मन्येति । स्वरूप-सिद्धानां भगवद्-दाराणाम् अपर-कर्तृक-बलात्कार-परिहारार्थम् अधुना चान्यदा च तत्-तद्-आकारतया तस्य माया-कल्पिता ये ये स्वे स्वे दारास् तान् स्व-पार्श्व-स्थान् मन्यमानाः भगवद्-दाराभेदेन158 स्व-मत्या निश्चिन्वाना इत्य् अर्थः ।
तद् एवं अन्तर्-गृह-गताः काश्चित् [भा।पु। १०.२९.९] इत्य् अत्रोक्तानाम् अपि समाधानं ज्ञेयम् । परम-समर्थायास् तस्याः मायाया निज-प्रभु-प्रेयसीनां तद्-एकानुराग-स्वभावानां मर्यादा-रक्षणार्थं परिणयम् आरभ्य सदैव सावधानतायाः योग्यत्वात् तद्-दिनम् उपलक्षणम् एवेति ।
श्रूयते159 च कूर्म-पुराणे द्वात्रिंशाध्यायस्यान्ते पति-व्रता-मात्रस्य परात् परिभवो न सम्भवतीति कैमुत्येन श्री-सीता-देव्य्-उदाहृता—
पति-व्रताधर्म-परा रुद्राण्य् एव न संशयः ।
नास्यां पराभावं कर्तुं शक्नोतीह जनः क्वचित् ॥
यथा रामस्य सुभगा सीता त्रैलोक-विश्रुता ।
पत्नी दाशरथेर् देवी विजिग्ये राक्षसेश्वरम् ॥
रामस्य भार्यां विमलां रावणो राक्षसेश्वरः ।
सीतां विशाल-नयनां चकमे काल-चोदितः ॥
गृहीत्वा मायया वेशं चरन्तीं विजने वने ।
समाहर्तुं मतिं चक्रे तापसः किल भाविनीम् ॥
विज्ञाया सा च तद्-भावं स्मृत्वा दाशरथिं पतिम् ।
जगाम शरणं वह्निम् आवसथ्यं शुचि-स्मिता ॥
उपतस्थे महा-योगं सर्व-पाप-विनाशनम् ।
कृताञ्जली राम-पत्नी साक्षात् पतिम् इवाच्युतम् ॥
नमस्यामि महायोगं कृतान्तं गहनं परम् ।
दाहकं सर्व-भूतानाम् ईशानं काल-रूपिणम् ॥ इत्य् आदि ।
इति वह्निं पूज्य जप्त्वा राम-पत्नी यशस्विनी ।
ध्यायन्ती मनसा तस्थौ रामम् उन्मीलितेक्षणा ॥
अथाववस्थ्याद् भगवान् हव्य-वाहो महेश्वरः ।
आविरासीत् सुदीप्तात्मा तेजसैव दहन्न् इव ।
सृष्ट्वा मायामयीं सीतां स रावण-वधेच्छया ॥
सीताम् आदाय धर्मिष्ठां पावकोऽन्तरधीयत ।
तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः ।
समादाय ययौ लङ्कां सागरान्तर-संस्थिताम् ।
कृत्वा च रावण-वधं रामो लक्षण-संयुतः ।
समादायाभवत् सीतां शङ्काकुलित-मानसः ।
सा प्रत्ययाय भूतानां सीता मायामयी पुनः ।
विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् ।
दग्ध्वा मायामयीं सीतां भगवान् उग्र-दीधितिः ।
रामायादर्शयत् सीतां पावकोऽभूत् सुर-प्रियः ।
प्रगृह्य भर्तुश् चरणौ कराभ्यां सा सुमध्यमा ।
चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥
दृष्ट्वा हृष्ट-मना रामो विस्मयाकुल-लोचनः ।
ननाम वह्निं शिरसा तोषयामास राघवः ॥
उवाच वह्ने भगवन् किम् एषा वर-वर्णिनी ।
दग्ध्वा भगवता पूर्वं दृष्ट्या मत्-पार्श्वम् आगता ॥
तम् आह देवो लोकानां दाहको हव्य-वाहनः ।
यथा वृत्तं दाशरथिं भूतानाम् एव सन्निधौ ॥ [कू।पु। ३२.५१३-५३०] इत्य् आदि ।
एवम् अग्नि-पुराणम् अपि दृश्यम् । तद् एवम् अपि यत् तु वाल्मीकिना नेदं स्पष्टीकृतं तत् खलु करुण-रस-पोषणार्थम् एवेति गम्यते । सेयं च तस्य परिपाटी क्वचिद् अन्येनाप्य् उपजीव्यते इति ज्ञेयं । तद् एवं पतिव्रता-मात्राणां विशेषतः श्री-भगवत्-प्रेयस्याः प्रभावे सति—
य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः ।
नारयोऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ [भा।पु। १०.८.१८]
इति सामान्य-विषये गर्ग-वचने च सति, तादृशीनां भ्रमेऽपि तं न् इत्य-कान्तमपर् इत्यजन्तीनां न् इत्यं तत्-कान्तं परिचरन्ती माया श्री-रामावसथ्याग्निवद् अपि किं रक्षां न कुर्वीत ? किन्तु तदीय-लीला-नाट्य-रक्षार्थम् तत्-पतिं-मन्यादिष्व् एव विवाहादि-शयनादि-समयेष्व् एव च स्वरूप-सिद्धा आवव्रिरे, अन्येषु चान्यदा च कल्पिता एवेति गम्यते । तावद् एव च युक्तं, तासु मर्यादा-रक्षणोत्कण्ठा-वर्धनैक-प्रयोजनत्वात् तस्याः ।
अथ तासाम् अपत्य-श्रवणं च यातृ-मानिनी-प्रभृतीन्, आपत्येषु तद्-व्यवहारात् । साम्ब-लक्षणा-प्रयानयने श्री-बलदेवम् उद्दिश्य, स-सुतः स-स्नुषः प्रायात् सुहृद्भिर् अभिनन्दितः [१०.६८.५२] इतिवत् ।160
स्वापत्यत्वे सति विभाव-वैगुण्येन रसाभासत्वम् आपद्येत । ततश् च भजते तादृशीः क्रीडा याः श्रुत्वा तात्-परो भवेत् [भा।पु। १०.३३.३६] इति, सिषेव इत्य्-आदौ सर्वाः शरत्-काव्य-कथा-रसाश्रया [भा।पु। १०.३३.२६] इति च विरुध्यते । पर-पुत्रत्व-प्रतिपादनायैव हि पाययन्त्यः शिशून् पय इत्य् एवोक्तं न तु सुतान् स्तनम् इति । अत एव मातरः पितरः पुत्रा भ्रातरः पतयश् च वः [भा।पु। १०.२९.२०] इति परिहासत्वेनैव श्री-भगवद्-वाक्यं रसाय सम्पद्यते । वास्तवत्वेन तु वैरस्यायैव स्यात्, तासाम् अङ्गीकरिष्यमाणत्वात् । क्वचित् ताभिर् एव तेषु यत् पति-शब्दः प्रयुक्तस् तद्-बहिर्-लोक-व्यवहारत एव नान्तर्-दृष्टितः यत्-पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग [भा।पु। १०.२९.३२] इत्य्-आदिना तद्-अङ्गीकारात् । माम् एव दयितं श्रेष्ठम् आत्मानं मनसा गताः [भा।पु। १०.४६.४] इति भगवता तासाम् अन्तः-करण-प्रकाशनात् ।परं सौख्यं हि नैराश्यं स्वैरिण्य् अप्य् आह पिङ्गला [भा।पु। १०.४७.४७] इत्य्-आदिना ताभिः स्वेषां तद्-एक-निष्ठता-व्यञ्जनात्, गोप्यः161 किम् आचरयद् अयम् इत्य्-आदौ, दामोदराधर-सुधाम् अपि गोपिकानां भुङ्क्ते स्वयम् [भा।पु। १०.२१.९] इत्य् अनेन, अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते [भा।पु। १०.४७.२१] इत्य् अनेन ताभिः स्वयम् उक्तेश् च ।
तत एतद् उक्तं भवति रास-पञ्चाध्याय्यां नासूयन् खलु कृष्णाय [भा।पु। १०.३३.३७] इत्य् उक्त-दिशा, स वो हि स्वामी [गो।ता।उ। २.२२] इति ताः प्रति तापनी-स्थित-दुर्वाससो वाक्यवत्, कृष्ण-वध्व इत्य्-उक्त-रीत्या च याः खलु योगमायाम् उपाश्र् इत्यैति श्रवणात् तत्-तद्-अर्थ-भगवन्-नियुक्त-योगमाया-कल्पिताकल्पिततया योगमायैक-विदितं162 स्वतः परतश् च प्रच्छन्नं द्विविधायमाना आसन्, तास् तु पश्चाद् योग-माययैव देव्या प्रापिताभ्यांमर्यादोत्कलिकाभ्यां163 स्व-पालितस्य रस-पोष-तरोः पर्यवसान-निरुपद्रव-महा-सुख-प्राप्ति-रूपाय फलाय मुन्य्-आकाशादि-वाण्य्-आदिकं द्वारी-कृत्य वा स्वयम् एव प्रकटीभूय एव वा श्री-गोकुल-वासिनः प्रति तथैव व्यक्ती-कृताः, स्वरूपेण माम् एव रमणं प्रापुः, नासूयन् खलु कृष्णाय इत्य्-आद्य्-उक्तासूया-परिहारस्य सम्यक्त्वाय तत्-कल्पितास् तु स्व-स्व-पतिम् इत्य् एव श्री-भगवन्-मतम् ।
दृश्यते च संज्ञा-छायादिवत् कल्पनाया व्यक्तत्वम् एव परिणामः सर्वत्र । तद् इत्थम् एव माता-पित्र्-आदीनाम् अभीष्टं सिध्यति, तस्मिन्न्164 एव तेषां वात्सल्यस्य विश्रान्तेः ।
न च दाम्पत्ये प्रकटे,
बहु वार्यते यतः खलु यत्र प्रच्छन्न-कामुकत्वं च ।
या च मिथो दुर्लभता सा परमा मन्मथस्य रतिः ॥ [उ।नी। १.२०]
इति भरतानुसृत-निवारणाद्य्-अभावाद्रस-निष्पत्तिर् न स्याद् इति वाच्यम् । तस्य निवारणं खलु न भय-दानेन भवेत् सर्वातिशायि-सामर्थ्यात्, किन्तु लज्जा-दानेनैव । लज्जा तु कुलीन-कुमाराणां स्व-स्त्री-गत-रहस्य-विहार-विशेषस्य परेणानुमिताव् अपि जायते । किम् उत—
यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस् तत्र सन्नतिः ।
सन्नतिर् ह्रीस् तथा श्रीश् च न् इत्यं कृष्णे महात्मनि ॥ [ह।वं। २.१०१.७३ (९६.७२)]
इति हरिवंशाद्य्-उक्तानुसारेण परम-लज्जादि-गुण-निधानस्य व्रजे नव-वयः श्रीलताम् एवाभिव्यञ्जतस् तस्य सिद्धे च लज्जालुत्वे स्वयम् एव निवारणादि-त्रयं सिध्यति । किन्तु लज्जा द्विविधा सङ्गोप्य न्याय्य-कर्मणि सङ्कोच-मात्र-करी, अन्याय्य-कर्मणि न्यक्कार-करी च । अत्र पूर्वाव्याजान्तराच्छन्ना नातिविरोधिनी, उत्तरा यशः-प्रियेण तेन कृतेऽपि व्याजे तस्यानुमितिश् चेद् द्विगुणीभूय विरोधिनी ।
तद् एवं सति गोप-नारीभिर् अनिशं क्रीडयामास केशवः [प।पु। ६.२५२.२६] श्रुतानिश-क्रीडा पारदार्ये सर्वथा न सम्भवति, स्व-दारत्वे तु तासाम् असङ्ख्यानां स्व-स्वरूप-पत्य्-अप्राप्ता जात-परम-दुःखानां गुरुभिर् अपि सम्मतः सान्त्वनादि-रूपो य आवश्यक-धर्मस् तद्-विध-व्याजेन सम्भवति । यच् च,
रम्य-केलि-सुखेनैव गोप-वेश-धरः प्रभुः ।
बहु-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ [प।पु। ६.२५२.२७]
इत्य् एतत्-पद्यम् तद्-अनन्तरं च सर्वेषां मनोरमत्वं बहु-प्रेम-रस-प्रदत्वं च इत्थम् एव सङ्गच्छते इति । न च गोप-नारीभिर् इति पर-दारत्वं शब्द-लब्धम्, देवहुत्यां सा त्वं ब्रह्मन् नृप-वधूर् [३.२१.२८] इति कर्दमं प्रति भगवद्-वाक्याज् जात्य्-अपेक्षयापि सम्भवात् ।
न च निवारणादिभिर् औपपत्यम् एव भरत-मतं, रत्नावली-नाटिकायां ययाति-चरितादिवद् दाम्पत्येऽपि सम्भवात्, नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा [उ।नी। ५.३] इति विरोधात् ।
तद् एवं गूढतया मायया प्रणीतानां रमणतया तस्य प्राप्तौ मत्-कामा रमणम् इति पद्यं योजितम् । नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः [भा।पु। १०.२२.४]इति कृत-जपानां कुमारीत्वेन प्रसिद्धानां परासाम् अपि सङ्कल्प-सिद्धिर् एव श्री-भगवता कृता । तत्रैव हि स्वयम् अङ्गीकृतम् याताबला व्रजं सिद्धाः इति । तद् एतत्-पक्षेऽपि पूर्ववद् एव गुप्त-पतित्वाज् जारम् इव जारम् इति सङ्गमनीयम् । तस्माच् च श्री-गोपालोत्तर-तापन्यां ताः प्रति दुर्वाससा यद् उक्तं तद् एव निगमनीयम् जन्म-जराभ्यां भिन्नं स्थाणुर् अयम् इत्य्-आदौ, स वो हि स्वामी भवति [गो।ता।उ। २.२३] इति ।
॥ ११.१२ ॥ श्री-भगवान् उद्धवम् ॥ १७५-१७७ ॥
[१७८]
पूर्वोक्त एवाप्रकट-लीला-प्रवेश-प्रकट-लीलाविष्कार-रूपोऽर्थस् तद्-अनन्तर-प्रश्नोत्तराभ्याम् अप्य् अभिप्रेतोऽस्ति । प्रश्नस् तावत् श्री-उद्धव उवाच—
संशयः शृण्वतो वाचं तव योगेश्वरेश्वर ।
न निवर्तत आत्म-स्थो येन भ्राम्यति मे मनः ॥ [भा।पु। ११.१२.१६]
तव वाचं शृण्वतोऽवधारयतोऽपि ममात्मस्थः संशयो मयोदितेष्व् अवहित इत्य्-आदिकाध्याय-त्रय-गत-महा-वाक्यार्थ-पर्यालोचनासामर्थ्यं न निवर्तते । कुतः ? येन यत एव रामेण सार्धं मथुरां प्रणीते [भा।पु। ११.१२.१०] इत्य्-आदि-लक्षणात् तव वाक्यान् मम मनो भ्राम्यति । हन्त तासाम् अनेन सङ्गमः कुत्र कथं विद्यते ? इति चिन्तया न स्वस्थं वर्तते इत्य् अर्थः ।
[१७९]
तथोत्तरं तत्र तस्य संशयम् अपनेतुं द्वाभ्यां तावत् तच्-चित्तं स्वस्थयन् श्री-भगवान् उवाच—
स एष जीवो विवर-प्रसूतिः
प्राणेन घोषेण गुहां प्रविष्टः ।
मनो-मयं सूक्ष्मम् उपेत्य रूपं
**मात्रा स्वरो वर्ण इति स्थविष्ठः ॥ [**भा।पु। ११.१२.१७]
स एष मल्-लक्षणो जीवो जगतो जीवन-हेतुः विशेषतो व्रजस्य जीवन-हेतुर् वा परमेश्वरः प्राणेन मत्-प्राण-तुल्येन घोषेण व्रजेन सह विवर-प्रसूतिर् विवराद् अप्रकट-लीलातः प्रसूतिः प्रकट-लीलायाम् अभिव्यक्तिर् यस्य तथाभूतः सन्, पुनर् गुहाम् अप्रकट-लीलाम् एव प्रविष्टः । कीदृशः सन् ? किं कृत्वा ? मात्रा मम चक्षुर्-आदीनि स्वरो भाषा-गानादि-वर्णो रूपम् इति इत्थं स्थविष्टः स्व-परिजनानां प्रकट एव सन्, अन्येषां सूक्ष्मम् अदृश्यं बहिरङ्ग-भक्तानां च मनोमयं कथञ्चिन् मनस्य् एव गम्यं यद्रूपं प्रकाशस् तद् उपेत्य ।
[१८०]
प्रकट-लीलाविष्कारं च स-दृष्टान्तं स्पष्टयति—
यथानलः खेऽनिल-बन्धुर् उष्मा
बलेन दारुण्य् अधिमथ्यमानः ।
अणुः प्रजातो हविषा समेधते
**तथैव मे व्यक्तिर् इयं हि वाणी ॥ [**भा।पु। ११.१२.१८]
दृष्टान्तोऽयं गर्भादि-क्रमेणाविर्भाव-मात्रांशे । तृतीयेऽपि तद् उक्तं श्रीमद्-उद्धवेनैव—अजोऽपि जातो भगवान् यथाग्निः [भा।पु। ३.२.१५] इति ।व्यक्तिर् आविर्भावः । हि यस्माद् इयं स्व-रहस्यैक-विज्ञस्य ममैव वाणी, नात्रासम्भावना विधेयेत्य् अर्थः । ततश् चानन्तरं वक्ष्यमाण एवं गदिर् [भा।पु। ११.१२.१९] इत्य्-आदि ग्रन्थस् तु संशयापनोदने व्याख्येयः । एवं पूर्वोक्त-वाक्यस्यैवार्थ-भेदेन गदिर् लौकिक-भाषणम् इति ज्ञेयम् । तस्याप्य् उत्पत्तिर् ज्ञेयेत्य् अर्थः । स च स-तात्पर्यकोऽर्थ-भेदष् टीकायाम् एव दृश्यते इति ॥
॥ ११.१२ ॥ श्री-शुकः ॥ १७९-१८० ॥
[१८१]
तद् एवं श्रीमद्-भागवते पुनर्-व्रजागमनादि-रूपोऽयम् अर्थो बहुधा लब्धोऽपि पाद्मोत्तर-खण्डवद् यन् न स्पष्टतया वर्णितस् तत् खलु निजेष्ट-देवत्वस्य बहिर्-मुखान् प्रत्याच्छादनेच्छया अन्तर्-मुखान् प्रत्युत्कण्ठा-वर्धनेच्छयेति गम्यते । अतएवोक्तम्—परोक्ष-वादा ऋषयः परोक्षं च मम प्रियम् [भा।पु। ११.२१.३५] इति ।
यद् एतत् तु मया क्षुद्रतरेण तरलायितं ।
क्षमतां तत् क्षमा-शीलः श्रीमान् गोकुल-वल्लभः ॥
तद् एतत् श्रील-वृन्दावने लीला-द्वयस्य मिलनं सावसरम् एव प्रस्तुतम् । द्वारकायां तु प्रसिद्धम् एव । तत्र मौषलादि-लीला मायिक्य् एवेति पूर्वम् एव दर्शितम् । वस्तुतस् तु द्वारकायाम् एव स-परिकरस्य श्री-भगवतो निगूढतया स्थितिः, यादवानां च न् इत्य-परिकरत्वात् । तत्-त्यागेन स्वयं भगवत एवान्तर्धाने, तैर् अतिक्षोभेणोन्मत्त-चेष्टैर् उपमर्दिता पृथिव्य् एव नश्येद् इति प्रथमं तेषाम् अन्तर्धापनम् । अतएवोक्तम्—
भू-भार-राज-पृतना यदुभिर् निरस्य
गुप्तैः स्व-बाहुभिर् अचिन्तयद् अप्रमेयः ।
मन्येऽवनेर् ननु गतोऽप्य् अगतं हि भारं
यद् यादवं कुलम् अहो अविषह्यम् आस्ते ॥ [भा।पु। ११.१.३] इति ।
अत्र तेषाम् अधार्मिकतया तु पृथिवी-भारत्वं न मन्तव्यम् ।
ब्रह्मण्यानां वदान्यानां न् इत्यं वृद्धोपसेविनाम् ।
विप्र-शापः कथम् अभूद् वृष्णीनां कृष्ण-चेतसाम् ॥ [भा।पु। ११.१.८] इत्य्-आदौ,
शय्यासनाटनालाप- क्रीडा-स्नानादि-कर्मसु ।
न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः ॥ [भा।पु। १०.९०.४६]
इत्य्-आदौ च परम-साधुत्व-प्रसिद्धेः । पृथिवी-भारश् च व्यक्ति-बाहुल्य-मात्रेण नेष्यते, पर्वत-समुद्रादीनाम् अनन्तानां विद्यमानत्वात् । तथा न वस्तव्यम् [भा।पु। ११.६.३५]165 इत्य्-आदि भगवद्-वाक्यस्य तात्पर्यम् इदम्—माययापि यदूनां तादृशत्व-दर्शनं ममानन्द-वैभव-धाम्नि मदीय-जन-सुखद-मद्-विलासैक-निधौ द्वारकायां नोचितं, प्रभासे तु तत्-तद्-अयोगाद् उचितम् इति । \
अथ च जिजीविषुभिः [भा।पु। ११.६.३४] इत्य् उक्त्वा, वृजिनानि तरिष्यामः [भा।पु। ११.६.३८] इति चोक्त्वा वस्तुतस् तु तेषां तादृशत्वं न भविष्यतीत्य् एवोक्तम् । तत्र चास्माभिः [भा।पु। ११.६.३४]इति वयम् [भा।पु। ११.६.३७] इति चोक्त्वा स्वेनैक्य-सूचनया स्वात्मवद् अन्यथा-भावत्वम् एक-गतित्वं व्यञ्जितम् इति ।
तद् एवं स्थिते तैः साकं श्री-भगवतो द्वारकायाम् एव न् इत्यां स्थितिम् आह—
द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् ॥
न् इत्यं सन्निहितस् तत्र भगवान् मधुसूदनः ।
**स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् ॥ [**भा।पु। ११.३१.२३-२४]
लोक-दृष्ट्यैव हरिणा त्यक्ताम्, अत्यक्ताम् इति वा, न् इत्यं सन्निहित इति वक्ष्यमाणत्वात् । ततश् चोभयथाप्य् आप्लावनं परितो जलेन परिखावद् आवरणं, तज्-जल-मज्जनं च समुद्रेणैव श्री-भगवद्-आज्ञया त्यक्त-भूमि-लक्षणस्य हस्तिनापुर-प्रस्थापित-बहिर्-जन-गृहाद्य्-अधिष्ठान-बहिर्-आवरणस्यैव । तथा रचनं विश्वकर्मणा, तस्यैव प्रकट-लीलायाः प्रापञ्चिक-मिश्रत्वात् । अतः सुधर्मादीनां स्वर्गाद् आगमनं च युज्यते । अप्रकट-लीलायां ततोऽपि दिव्यतरं सभान्तरादिकम् अपि स्यात् । श्रीमान् यादवादि-गृह-वृन्द-लक्षण-शोभोपशोभावान् यो भगवद्-आलयस् तं वर्जयित्वा । तद् एवम् अद्यापि समुद्र-मध्ये कदाचिद् असौ दूरतः किञ्चिद् दृश्यते इति तत्रत्यानां महती प्रसिद्धिः ।
अत्र महाराजेति सम्बोधनं दृष्टान्त-गर्भम् । यद् वा, महान्तो राजानो यादव-लक्षणा यत्र तथा-भूतं तद्-आलयं श्री-कृष्ण-न् इत्य-धाम-स्वरूपं द्वारका-पुरम् । न केवलं पुर-मात्रास्तित्वं, तत्र च श्रीमति भगवद्-आलये मधुसूदनः श्री-कृष्णो न् इत्यम् एव सन्निहितः, अर्थात् तु तत्रत्यानाम्।
किं-वान्तत्र सन्निहितः ?भगवान् यादवादि-लक्षणाखिल-निजैश्वर्यवान् एव ।
तद्-आलयम् एव विशिनष्टि—स्मृत्या इति । साक्षाद् अधुना व्यक्त-तद्-दर्शनाभावात् स्मृत्येत्य् उक्तम् । यः स्वयम् एवम्-भूतस् तस्य त्व् अन्यथा सम्भावितत्वम् अपि नास्तीति । एवम् एव विष्णु-पुराणे—
प्लावयामास तां शून्यां द्वारकां च महोदधिः ।
वसुदेव-गृहंत्व् एकं नाप्लावयत सागरः ॥
नात्याक्रमत् ततो ब्रह्मंस् तद् अद्यापि महोदधिः ।
न् इत्यं सन्निहितस् तत्र भगवान् केशवो यतः ॥
तद् अतीव महा-पुण्यं सर्व-पाप-प्रणाशनम् ।
विष्णु-क्रीडान्वितं स्थानं दृष्ट्वा पापात् प्रमुच्यते ॥ [वि।पु। ५.३८.९-१०] इति ।
अथैव166 श्री-हरि-वंशे यादवान् प्रतीन्द्र-प्रेषितस्य नारदस्य वाक्यम्—
कृष्णो भोगवतीं रम्याम् ऋषि-कान्तां महा-यशाः ।
द्वारकाम् आत्मसात् कृत्वा समुद्रं गमयिष्यति ॥ [ह।वं। २.१०२.३२]
इत्य् अत्र आत्मसात् कृत्वा इति, न तु त्यक्त्वेति ॥
॥ ११.३१ ॥ श्री-शुकः ॥ १८१ ॥
[१८२]
तद् एवम् अप्रकट-प्रकट-लीलयोः समन्वयो दर्शितः । एते एव पाद्मोत्तर-खण्डे भोग-लीला-शब्दाभ्याम् उच्येते—भोगे न् इत्य-स्थितिस् तस्य लीलां संहरते कदा [प।पु। ६.२२६.९] इत्य्-आदिना। यां कदाचित् संहरते सा लीलेत्य् अर्थः ।
तत्र प्रकट-लीला-गत-भावस्य विरह-संयोगादि-लीला-वैचित्री-भर-वाहित्वेन बलवत्तरत्वात् उभय-लीलैकी-भावानन्तरम् अपि तन्मयस् तेषाम् अभिमानोऽनुवर्तत एव ।
तत्रैश्वर्य-ज्ञान-संवलित-भावानां श्री-यादवानाम् । स तावन् नूनम् एवं सम्भवति—“अहो सर्वदैवानन्य-जीवातूनाम् अस्माकम् ईशिता श्री-कृष्णाख्यो भगवान् अयं नाना-लीलामृत-निर्झरैः सान्द्रानन्द-चमत्कारम् आस्वादयितुं यादव-शिखामणेर् न् इत्यम् एव पितृ-भाव-समृद्धस्य श्रीमद्-आनकदुन्दुभेर् गृहे स्व-जन्मना स्वान् अस्मान्167 अलंचकार । ततश् च साधितास्मद्-आनन्द-सत्र-प्रधान-विविध-कार्यः परम-बान्धवोऽसौ परमेश्वरस् तत्-तद्-रूपान् एवास्मान् पुनर् ब्रह्माद्यैर् अपि दुरधिगमे श्री-मथुरा-नाम्नि श्री-द्वारका-नाम्नि वा परम-धाम्नि नाना-माधुरी-धुरीणाभिर् आत्म-लीलाभिर् अनुशीलित एव विभ्राजते” इति ।
सोऽयम् अभिमानः श्री-वृन्दावने तु निज-निज-सम्बन्ध-सन्धायक-प्रेमैकानुसारिणां श्री-व्रज-वासिनां नूनम् एव समुज्जृम्भते—“अहो!
योऽसौ गोकुल-कुल-भाग-धेय-पुञ्ज-मञ्जुल-प्रकाशो मादृशां दृशां जीवन-सञ्चय-निर्मञ्छनीय-पाद-लाञ्छन-लेशो वाञ्छातीत-सुख-सन्तति-सन्तानको महा-वन-व्रज-महा-खनि-जनि-नील-मणिर् आविरासीत्,
योऽसौ दुष्ट-भोज-राज-विसृष्टैः पूतनादि-ग्रह-समूहैर् उपरक्तोऽपि मुहुर् अनुकूलेन विधिना तेषां स्वयम् एव विनाश-पूर्वकं चकोरेभ्यः चन्द्रमा इवास्मभ्यम् अवतीर्ण168 एवासीत्,
योऽसौ तादृश-तदीय-महा-गुण-गणाद् एव परितुष्यद्भिर् मुनि-देवैर् इव दत्तेन केनापि प्रभावेण मुहुर् अपि विपद्-गणाद् आत्म-क्लेशम् अगणयन्न् एव नः परित्रातवान्,
योऽसौ निज-शील-लावण्य-रूप-गुण-विलास-केलि-विनिगूढ-सौहृद्य-प्रकटन-चातुरी-गुम्फित-माधुरीभिर् अस्मान् सुष्ठु पुष्टांश् चकार,
योऽसौ लघुनापि गुणाभासेनास्माकम् आनन्द-सन्दोहम् अभिविन्दमानो यद् यद् अपि मादृशाम् अभिलषितं तद्-अतीतं वा, तत् तद् अपि प्रतिलवम् अप्य् आश्चर्य-भूतं निज-माधुर्य-वर्यम् उल्लासितवान्,
योऽसौ सकल-साधु-जनावनाय विख्यापित-यादव-सम्बन्धस् तद्-द्वारा स्वयम् अपि च राजन्यासुर-सङ्घ-संहरणाय यदु-पुरीं प्रस्थितवान्,
योऽसौ कार्यानुरोधेन तत्रैव चिराय तिष्ठत आत्मनो विप्रयोगेन सन्तप्त-बुद्धीन् उद्धवादिभिर् अस्मान् असकृद् आश्वासयामास,
योऽसौ पुनर् उत्कण्ठा-कोटि-समाकृष्ट-मूर्तिभिस् तीर्थ-व्रज्या-व्याजेन कुरुक्षेत्र-प्रगतैर् अस्माभिः श्वास-मात्रावशिष्टैर् इवामृत-वारिधि-रूप-लब्धो बभूव,
योऽसौ तथा-विधान् अस्मान् आत्म-सन्निधौ मास-कतिपयं संवास्य, परम-स्वजनतया मुधैव कृताभिमानेभ्यो यादवेभ्यो निगूढां काम् अपि स्नेह-मुद्राम् अस्मासु समुद्घटय्य, “भवताम् एवाहम्” इति व्यञ्जनया मुहुर् एवास्मान् अभितः सन्धुक्षितवान्,
योऽसौ श्री-वृन्दावनम् एवास्माकम् आत्मनोऽपि परमम् अभीष्टम् इति निष्टङ्क्य, शपथादिना निज-झट् इत्य्-आगमने विस्रभ्य, साग्रहम् अस्मान् अत्रैव प्रस्थापितवान्,
सोऽयम् अहो अकृतापर-कर्तव्य-शेष एवास्मान् निजागमनं विना समारब्ध-प्राण-कोटि-मोचन-व्यवसायान् आशङ्क्य झटिति स्वयम् एव गोकुलं साम्प्रतम् आगम्य निज-विरह-काल-व्याल-मुखान् निष्कास्य च स्वावलोकनामृत-पूरेण सिञ्चन्न् एवास्ते ।
तत्र च प्रतिक्षणम् अपि नव-नवी-कृतेनानन्य-साधारणेन केनापि स्नेह-सन्दोहमयेन केवलेन निज-स्वभाव-विशेषेण,
तत्रापि निज-सौन्दर्य-वर्यामृत-पूर-प्रपा-चय-चयनेन,
तत्रापि विविध-पुष्पादि-विभूषण-पर-भाग-पराभोगेन,
तत्रापि विलास-माधुरी-धुरा-विशेषाधानेन,
तत्रापि विचित्र-गुण-गणोल्लास-चमत्कार-विद्या-विनोदेन,
तत्रापि गो-पालन-गवाकारण-बाल्य-क्रीडन-मोहन-मन्त्रायित-मुरली-वादनादि-विभ्रमेण,
तत्रापि गोकुल-निर्गमन-प्रवेशादि-लीला-चातुरी-माधुर्याडम्बरेण,
तत्रापि सुहृदां यथायथम् अनुसन्तर्पण-केलि-कला-विशेष-प्रकाशित-स्नेहातिशयेनास्मान् उपलालयन्न् एवास्ते ।
तेन वयम् अहो समय-गमनागमनम् अपि सम्भालयितुं न पारयामः”इति ।
एतद्-अनुसारेण द्वारकातः समागते श्री-कृष्णे केषाञ्चिद् व्रज-वासिनाम् एव तदानीन्तनम् उल्लास-वचनं जयति इत्य्-आदिकं श्री-शुक-मुखाद् आविर्भूतम् इति व्रजैकान्त-भक्ता व्याचक्षन्ते, अक्लेशेनैवार्थ-विशेष-स्फूर्तेः । सम्भवति च श्री-भागवतस्य विचित्रार्थत्वं, विद्वत्-काम-धेनु-रूपत्वात् । तथा हि—
जयति जन-निवासो देवकी-जन्म-वादो
यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् ।
स्थिर-चर-वृजिन-घ्नः सुस्मित-श्री-मुखेन
**व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ [**भा।पु। १०.९०.४८]
कोऽपि सोऽयम् अस्माकं जीवन-कोटि-प्रियतमो विष्वक्-प्रचारेण श्री-वृन्दावनस्यैव विशेषतः स्थावराणां जङ्गमानां च तद्-विरहाद् यद् दुःखं तन्-निहन्ता जयति सर्वोत्कर्षेण वर्तते, अर्थाच् छ्री-वृन्दावन एव । श्री-वृन्दावनस्य स्थावराणाम् अपि भावो वर्णित एव, केवलेनैव भावेन [भा।पु।११.१२.८] इत्य्-आदिना ।
केन विशिष्टः ? सुस्मितेन श्री-मुखेन । एतेन सदातनम् आनन्दैक-रसत्वं स्वेषु सदैव सुप्रसन्नत्वं च तस्य प्रकाशितम् । किं कुर्वन् ? व्रज-रूपं यत् पुरं, तत्-सम्बन्धिन्यो या वनिता जनितानुरागाः कुल-वध्वः, तासां काम-देवं सर्व-प्रेमानन्दोपरि-विराजमानत्वात् तासां कामस् तु देवः परम-दिव्य-रूपः, तं वर्धयन् ।
ननु श्री-देवक्याः पुत्रोऽयम् इत्य् एवं वदन्ति, तत् कथं युस्माकम् अत्रास्मदीयत्वेनाभि-मानः ? तत्राह—देवक्यां जन्मेति वादो मिथ्यैव लोक-ख्यातिर् यस्य सः ।
तर्हि कथं वासुदेव इति नाम ? इत्य् आशङ्क्याह—जननिवासो जनानां स्वजनानाम् अस्माकं निवासत्वाद् आश्रयत्वाद् एव तथाभिधीयत इत्य् अर्थः । स्वजनेष्व् अस्मासु कृत-वासत्वाद् एव वा । ततश् चाधिकरणे कर्तरि वौणादिको वासुः । स च दीव्यति क्रीडतीति देवश् च स इति विग्रहः । प्राग् अयं वासुदेवस्य [भा।पु। १०.८.१४] इत्य्-आदिका श्री-गर्गोक्तिर् अपि नास्मभ्यं भातीति भावः ।
किम्-अर्थम् असौ देवकी-जन्म-वादोऽभूत् ? इत्य् आशङ्कायाम् आह—यदु-वराः परिषत् सहाय-रूपा यत्र तादृशं यथा स्यात् तथा, स्वैर् दोर्भिर् भुज-प्रायैर् अर्जुनादिभिर् अधर्मं तत् प्रचुरं दुष्ट-कुलम् अस्यन् निहन्तुं, लक्षण-हेत्वोः, क्रियायाः शतृ-प्रत्यय-स्मरणात् । तस्याम् आत्म-जन्मनि ख्यापिते ते ते सहाया भविष्यन्तीत्य् एवम् अनुसन्धायेत्य् अर्थः । तथोक्तं कंस-वधानन्तरं श्री-कृष्णेन श्री-व्रजेश्वरं प्रति, ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा।पु। १०.४५.२३] इति । अत्र विशेषणेनैव श्री-कृष्ण-रूप-विशेष्य-पदम् उपस्थाप्यते—अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम् [सु।र।को। ९७९]169 इतिवत् ॥
॥ १०.९० ॥ श्री-शुकः ॥ १८२ ॥
[१८३]
अथ तेषां तेन परमानन्देन समयाननुसन्धानम् अप्य् उक्तम्, व्रजति न हि यत्रापि समयः [ब्र।सं। ५.५६] इति । अतस् तेषां श्री-कृष्णागमन-परमानन्द-मत्तानाम् अद्यैवायम् आगत इतीव सदा हृदि वर्तते ।
स एष यद्वद् अप्रकट-स्वारसिक्यां प्रकट-लीला-गत-भाव-प्रवेशः, तथा तद्-वैभव-रूपासु मन्त्रोपासनामयीष्व् अपि स्व-स्व-प्राक्तन-तत्-तद्-भाव-प्रवेशो ज्ञेयः । गङ्गाया भावस् तदीय-ह्रद-श्रेणीष्व् एव । उभयत्राप्य् असौ समान एव दर्शितः । पाद्म-पाताल-खण्डे—गो-गोप-गोपिका-सङ्गे यत्र क्रीडति कंसहा इति, गोविन्द गोपीजन-वल्लभेश कंसासुरघ्न इत्य् आभ्याम् । एवं यथा स्वारसिक्याम् इव मन्त्र-मय्याम् अपि नन्दनन्दनत्वम् अनुगच्छेत्, एवं श्रूयते—सकल-लोक-मङ्गलो नन्द-गोप-तनयो देवता [गौ।त। २.२३] इत्य् अत्र गौतमीय-तन्त्रे द्वितीयाध्याये, नन्दनन्दन इत्य् उक्तः इत्य् अत्र च ।170
तद् एवं प्रकट-लीला-गत-भाव-विशेषस्याप्रकट-लीलायां प्रवेशाद् बहिर्-अन्तर्धान-लीला-द्वितयस्यैक्यं वर्णितम् । तत्र यद्यपि पूर्व-पूर्वम् अपि तादृश-भावस् तेषाम् अनादित एवानुवर्तते, तथापि तम् एव नवनवीकृत्य समुद्दीपयितुं पुनः पुनर् अवतार इति ज्ञेयम् ।
तद् एवं श्री-कृष्णस्य स्वयं भगवत्त्वं दर्शितम् । तत्रापि श्री-गोकुले तत्-प्रकाशातिशयो दृश्यते । स चैश्वर्य-गतस् तावत् सत्य-ज्ञानानन्तानन्द-रस-मात्रैक-मूर्ति-ब्रह्माण्ड-कोटीश्वर-दर्शनादौ । कारुण्य-गतश् च पूतनाया अपि साक्षान् मातृ-गति-दाने । माधुर्य-गतश् च,
व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः ।
गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ॥ [भा।पु। १०.८३.४३]
इति श्री-पट्ट-महिषी-प्रार्थनादौ ।
अत्र स्थितेऽपि सर्वतोऽपि प्रेम-वरीयसीनां तासां तत्-पाद-स्पर्श-सौभाग्ये तन्-माधुर्य-प्रकाशातिशय-वैशिष्ट्याभिप्रायेणैव तथोक्तिः सङ्गच्छते । तथैव चोक्तं—
त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं
यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् ॥ [भा।पु। १०.२९.४०] इत्य्-आदिषु ।
अतो लीला-गतश् चासौ श्लाघ्यते पितरौ नान्वविन्देतां कृष्णोदारार्भके हितम् [भा।पु। १०.८.४७] इत्य्-आदिषु । अतस् तदीयानाम् अप्य् उत्कर्ष उक्तः, वृन्दावनं गोवर्धनं यमुना-पुलिनानि च वीक्ष्यामि [भा।पु। १०.११.३६] इत्य्-आदौ । ततः परिकराणां तु अहो भाग्यम् अहो भाग्यम् [भा।पु। १०.१४.३२] इत्य्-आदौ, इत्थं सताम् [भा।पु। १०.१२.११] इत्य्-आदौ, नन्दः किम् अकरोत् [भा।पु। १०.८.४३] इत्य्-आदौ, एताः परम् [भा।पु। १०.४७.५१] इत्य्-आदौ, गोप्यस् तपः किम् अचरन् [भा।पु। १०.४४.१४] इत्य्-आदौ ।
तत्रापि तत्रातिशुशुभे ताभिः [भा।पु। १०.३३.६] इत्य्-आदौ च तासु प्रकाशातिशय-सीमा दर्शिता । ततः सर्वास्व् अपि तासु अनयाराधितो नूनंभगवान् हरिर् ईश्वरः [भा।पु। १०.३०.२८] इत्य्-आदिभिः प्रेम-वरीयस्त्वेन प्रसिद्धायां श्री-राधिकायां तु किम् उतेति ज्ञेयम् ।
अत्र चेदं तत्त्वम्—द्वितीये सन्दर्भे खलु परमत्वेन श्री-भगवन्तं निरूप्य तस्य शक्ति-द्वयी निरूपिता । तत्र प्रथमा श्री-वैष्णवानां श्री-भगवद्वद् उपास्या तदीय-स्वरूप-भूता, यन्-मय्य् एव खलु तस्य सा भगवत्ता । द्वितीया चाथ तेषां जगद्वद् उपेक्षणीया माया-लक्षणा, यन्-मय्य् एव खलु तस्य जगत्ता ।
तत्र पूर्वस्यां शक्तौ शक्तिमति भगवच्-छब्दवल् लक्ष्मी-शब्दः प्रयुज्यत इत्य् अपि द्वितीय एव दर्शितम् । ततोऽस्मिन् सन्दर्भे तु स च भगवान् श्री-कृष्णाख्य एवेति निर्धारिते, तदीया स्वरूप-शक्तिस् तु किम्-आख्येति निर्धार्यम् । तत्र द्वयोर् अपि पुर्योः श्री-महिसाख्या ज्ञेया । मथुरायाम् अप्य् अप्रकट-लीलायां श्रुतौ रुक्मिण्याः प्रसिद्धेर् अन्यासाम् उपलक्षणात् । श्री-महिषीणां तदीय-स्वरूप-शक्तित्वं स्कान्द-प्रभास-खण्डे श्री-शिव-गौरी-संवादे गोप्याद् इत्य-माहात्म्ये दृष्टम्—
पुरा कृष्णो महा-तेजा यदा प्रभासम् आगतः ।
सहितो यादवैः सर्वैः षट्-पञ्चाशत्-प्रकोटिभिः ॥
षोडशैव सहस्राणि गोप्यस् तत्र समागताः ।
लक्षम् एकं तथा षष्ठिर् एते कृष्ण-सुताः प्रिये ॥ इत्य् उपक्रम्य,
ततो गोप्यो महा-देवि विद्या याः षोडश स्मृताः ।
तासां नामानि ते वक्ष्ये तानि ह्य् एक-मनाः शृणु ॥
लम्बिनी चन्द्रिका कान्ता क्रूरा शान्ता महोदया ।
भीषणी नन्दिनी शोका सुपूर्व-विमला क्षया ॥
शुभदा शोभना पुण्या हंसस्यैताः कला क्रमात् ।
हंस एव मतः कृष्णः परमात्मा जनार्दनः ॥
तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिताः ।
चन्द्र-रूपी मतः कृष्णः कला-रूपास् तु ताः स्मृताः ॥
सम्पूर्ण-मण्डला तासां मालिनी षोडशी कला ।
प्रतिपत्-तिथिम् आरभ्य सञ्चरत्य् आसु चन्द्रमाः ॥
षोडशैव कला यास् तु गोपी-रूपा वराणने ।
एकैकशस् ताः सम्भिन्नाः सहस्रेण पृथक् पृथक् ॥
एवं ते कथितं देवि रहस्यं ज्ञान-सम्भवम् ।
य एवं वेद पुरुषः स ज्ञेयो वैष्णवो बुधैः ॥ [७.१.११८.५-८, १०-१६] इति ।
अत्र गोप्यो राज्ञ्यः इत्य् अर्थः, गोपो भूपेऽपि इति नाम-लिङ्गानुशासनात् । लम्बिनी अवतार-शक्तिः । सुपूर्व-विमला सुविमला । हंसस्येत्य् अत्र प्राप्तस्य हंस-शब्दस्य वाच्यम् आह—हंस एवेति । स च चन्द्र-रूपी चन्द्र-दृष्टान्तेनोद्देश्य इत्य् अर्थः । कला-रूपा इति ताश् च शक्तयश् च चन्द्रस्यामृतेत्य् -आदि-कला-दृष्टान्तेनोद्देश्या इत्य् अर्थः । अनुक्ताम् अन्तिमां महा-शक्तिम् आह—सम्पूर्णेति । सेयं तु कला-समष्टि-रूपा ज्ञेया । दृष्टान्तोपपादनाय चन्द्रस्य तादृशत्वम् आह—प्रतिपद् इति । आसु एतत्-तुल्यासु कलासु ।
विवक्षितम् आह—षोडशैवेति । षोडशानाम् एव विद्या-रूपत्वात्, एतद्-उपदेशस्य ज्ञान-सम्भव-रहस्यत्वात्, तज्-ज्ञानस्य वैष्णवतानुमापक-लिङ्गत्वाच् च ।
क्रूरा-भीषणी-शोकानाम् अपि भगवत्-स्वरूप-भूतानाम् एव सतीनां (१) मल्लानाम् अशनिः [भा।पु। १०.४७.१७] इतिवत् श्री-कृष्णस्य कठिनत्व-प्रत्यायकत्वात्, (२) मृत्युर् भोज-पतेर् इतिवद् दुर्जन-वित्रासकत्वात्, (३) असतां शास्ता इतिवत् तदीय-शोक-हेतुत्वाद् एव च तत्-तन्-निरुक्तिर् उपपद्यते, यथा प्रकाशैक-रूपाया एव सूर्य-कान्तेर् उलूकेषु तम-आदि-व्यञ्जकतेति । अतश् चन्द्र-रूपी मतः कृष्णः, कला-रूपास् तु ताः स्मृताः इति स्फुटम् एव स्वरूप-भूतत्वं दर्शितम् ।
तद् एवं तासां स्वरूप-शक्ति-भूतत्वे लक्ष्मीत्वं सिध्यत्य् एव । तद् एवम् अभिप्रेत्य लक्ष्मीत्वम् आह—
गृहेषु तासाम् अनपाय्य् अतर्क-कृन्
निरस्त-साम्यातिशयेष्व् अवस्थितः ।
रेमे रमाभिर् निज-काम-सम्प्लुतो
**यथेतरो गार्हक-मेधिकांश् चरन् ॥ [**भा।पु। १०.५९.४३]
टीका च—रमाभिर् लक्ष्म्या अंश-भूताभिर् इत्य् एषा । स्वरूप-शक्तित्वाद् एव रेमे इत्य् उक्तम् । अत एव निजः स्वकीयः परमानन्द-शक्ति-वृत्ति-विशेषोदय-रूप-प्रेम-विशेष-स्वरूपो यः कामस् तेन सम्प्लुतो व्याप्त इति ॥
॥ १०.५९ ॥ श्री-शुकः ॥ १८३ ॥
[१८४]
इत्थम् अष्टानां श्री-पट्ट-महिषीणां तु तत्-स्वरूप-शक्तित्वं कैमुत्येनैव सिध्यति । तत्र श्री-सत्यभामाया भू-शक्ति-रूपत्वं पाद्मोत्तर-खण्डादौ प्रसिद्धम् । श्री-यमुनायाः कृपा-शक्ति-रूपत्वं स्कान्द-यमुना-माहात्म्यादाव् इत्य्-आद्य् अन्वेषणीयम् । किन्तु श्री-हरिवंशादौ सत्यभामायाः सौभाग्यातिशयस्य विख्यातत्वात् प्रेम-शक्ति-प्रचुर-भू-शक्तित्वं ज्ञेयम् । स्वयं लक्ष्मीस् तु श्री-रुक्मिणी—
द्वारकायाम् अभूद् राजन् महा-मोदः पुरौकसाम् ।
रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ॥ [भा।पु। १०.५४.६]
इत्य्-आदिषु तस्याम् एव भूरिशः प्रसिद्धेः । अतः स्वयं लक्ष्मीत्वेनैव परस्पर-योग्यताम् आह—
अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा ।
**असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः ॥ [**भा।पु। १०.५३.३७]
स्पष्टम् ।
॥ १०.५३ ॥ विदर्भ-पुर-वासिनः परस्परम् ॥ १८४ ॥
[१८५]
तथा तां रुक्मिणीं श्रियम् इत्य्-आदौ,
**या लीलया धृत-तनोर् अनुरूप-रूपा [**भा।पु। १०.६०.९] इति । स्पष्टम् ।
अतः स्वयं भगवतोऽनुरूपत्वेन स्वयं लक्ष्मीत्वं सिद्धम् एव । अत एव वैदर्भीं भीष्मक-सुतांश्रियो मात्रां स्वयं-वरे [भा।पु। १०.५२.१६] इत्य् अत्र माति अन्तर्भवत्य् अस्याम् इति मात्रा-पदं बाहुल्याद् अधिकरण एवौणादिकं ज्ञेयम् । कार्त्स्न्ये अवधारणे मात्रम् इतिवत्। ततश् च वैकुण्ठ-प्रसिद्धाया लक्ष्म्या अन्तर्-भावास्पदत्वाद् एषैव लक्ष्मीः सर्वतः परिपूर्णेत्य् अर्थः ।
यत् तु— \
नन्व् एवम् एतद् अरविन्द-विलोचनाह
यद् वै भवान् भगवतोऽसदृशी विभूम्नः ।
क्व स्वे महिम्न्य् अभिरतो भगवांस् त्र्य्-अधीशः
क्वाहं गुण-प्रकृतिर् अज्ञ-गृहीत-पादा ॥ [भा।पु। १०.६०.३४]
इति तस्या एवोक्तिस् तत्र निजांशाभासम् एव दैन्येन स्वं मत्वोक्तम् इति मन्तव्यम् । यद् वा, गुणा गौणी प्रकृतिः स्वभावो यस्याः सा अपकृष्ट-रूपेत्य् अर्थः । यथा तत्रैव, स्यान् मे तवाङ्घ्रिर् अरणं सृतिभिर् भ्रमन्त्याः [भा।पु। १०.६०.४३] इति मनुष्यावतारताभिनिवेशात् तस्या एव दैन्योक्तिः ।
अत्र दैव-प्रेरितो वास्तवोऽर्थस् त्व् एवं—हेऽरविन्द-लोचन ! भगवतस् तव असदृश्य् अहम् इत्य् एतद्यद् भवान् आह ननु निश्चितं तत् त्व् एवं वक्ष्यमाण-प्रकारकं, न त्व् अन्य-प्रकारकम् । तथैवाह—स्वे स्वरूप-भूते महिम्नि ऐश्वर्यादाव् अभिरतो भगवान्, क्व कुत्रान्यत्र ? तथ्आहं ता ते गुणा ऐश्वर्यादय एव प्रकृतिः स्वरूपं यस्यास् तथाभूता क्व कुत्रान्यत्र ? किन्तु न कुत्रचिद् अन्यत्रेति । द्वयोर् एकत्रैव स्वरूपे स्थितिर् इत्य् अर्थः ।
अत एव न विद्यते ज्ञो विज्ञो येभ्यस् तैर्गृहीतौ171 सेवितौ पादौ यस्यास् तथाभूताहम् । तस्माच् छक्ति-शक्तिमतोर् अत्यन्त-भेदाभावाद् एवोपमानोपमेयत्वाभावेन सादृश्याभाव इति भावः ।
एवं सृतिभिर् भ्रमन्त्या [१०.६०.४३] इत्य् अत्रापि हि त्वदीय-पदवीभिर् इत्य् एव वास्तवोऽर्थः । तद् उक्तम्—देवत्वे देव-देहेयं मनुष्यत्वे च मानुषी [वि।पु। १.९.१४३] इति ।
एवम् एव—
अस्त्व् अम्बुजाक्ष मम ते चरणानुराग
आत्मन् रतस्य मयि चानतिरिक्त-दृष्टेः ।
यर्ह्य् अस्य वृद्धय उपात्त-रजो-ऽतिमात्रो
माम् ईक्षसे तद् उ ह नः परमानुकम्पा ॥ [भा।पु। १०.६०.४६]
इत्य् अत्रापि तस्याः प्रकृतित्वं दैन्यजेनाभेदोपचारेणैव व्याख्येयम् । यद् वा, यस्य गार्हस्थस्य उपात्ता अङ्गीकृता रजोऽतिमात्रो सर्व-भूतानुरञ्जनातिशयो येन सः ।
वास्तवार्थस् त्व् एवं यद् उक्तं—उदासीना वयम् [१०.६०.२०] इत्य्-आदि श्री-भगवता, तत्राह—अस्त्व् इति । हे अम्बुजाक्ष ! _आत्मन् _आत्मनि मयि च रतस्य ते चरणानुरागो ममास्तु । मयि रतत्वं चोक्तं—तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि [भा।पु। १०.५३.२] इति स्वयम् एवेति भावः ।
नन्व् आत्म-रतस्य मम कथं त्वयि रतिः ? तत्राह—अनतिरिक्त-दृष्टेः । शक्तिमत्य् आत्मनि शक्तौ च मय्य् अनतिरिक्ता पृथग्-भाव-शून्या दृष्टिर् यस्य, शक्ति-शक्तिमतोर् अपृथग्-वस्तुत्वात्, द्वयोर् अपि मिथो विशिष्टतयैवावगमाद् वा युज्यत एव, मय्य् अपि रतिर् इति भावः ।
तद् एवं सत्याम् अपि स्वाभाविक्यां रतौ, विशेषतस् तु, _यर्ह्य् अस्य _रत्य्-आख्यस्य भावस्य वृद्धये उपात्ता रजोऽतिमात्रा रागातिशयो येन तथाभूतस् त्वं माम् ईक्षसे स-भावम् आलोकयसि, तदासौ नोऽस्मान् प्रति परमैवानुकम्पेति । एवम् उदासीनत्वं तव साक्षान् मत्-सम्बन्धाद् अन्यत्रैवेति मम सुदृढ एव विश्वास इति भावः । तस्मात् साधूक्तं या लीलया धृत-तनोः [भा।पु। १०.६०.९] इत्य्-आदिना श्री-रुक्मिणी-देव्याः स्वयं लक्ष्मीत्वम् ॥
॥ १०.६० ॥ श्री-शुकः ॥ १८५ ॥
[१८६-१८७]
अथ वृन्दावने तदीय-स्वरूप-शक्ति-प्रादुर्भावाश् च श्री-व्रज-देव्यः । यथा ब्रह्म-संहितायाम्—
आनन्द-चिन्मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.३७] इति ।
ताभिः श्री-गोपीभिः, मन्त्रे तच्-छब्द-प्रयोगात्172 । कलाभिः शक्तिभिः । निज-रूपतया स्व-स्वरूपतया । शक्तित्वं च तासां पूर्वोक्तोत्कर्षेण परम-पूर्ण-प्रादुर्भावानां सर्वासाम् अपि लक्ष्मीत्वम् एव । तद् उक्तं तत्रैव—लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् इति, श्रियः कान्ताः कान्तः परम-पुरुषः [ब्र।सं। ५.२९] इति च ।
एतद् अभिप्रेत्यैव स्वायम्भुवागमेऽपि श्री-भू-लीला-शब्दैस् तत्-प्रेयसी-विशेष-त्रयम् उपदिष्टम्। तस्माल् लक्ष्मीत्वेऽप्य् आसां कुरु-पाण्डव-न्यायेन, नायं श्रियोऽङ्ग [१०.४७.६०] इत्य्-आदौ173 लक्ष्मीतोऽप्य् उत्कर्ष-वर्णनम् आसां पर-व्योमादि-स्थिताभ्यस् तन्-नाम्नैव लक्ष्मीभ्य आधिक्य-विवक्षयेति मन्तव्यम् । श्री-वृन्दावन-लक्ष्म्यस् त्व् एता एवेति । एवम् एव पाद-न्यासैर् भुज-विधूतिभिः [भा।पु। १०.३३.७] इत्य्-आदौ कृष्ण-वध्वः इत्य् उक्तम् ।
अत एव गोपी-जनाविद्या-कला-प्रेरकः [गो।ता।उ। १.८] इत्य् अत्र तापनी-वाक्ये श्रीमद्-दशाक्षरस्थ-नाम-निरुक्तौ ये गोपी-जनास् ते आ सम्यग् या विद्या परम-प्रेम-रूपा, तस्याः कला वृत्ति-रूपा इति व्याख्येयम्, राज-विद्या राज-गुह्यम् [गीता ९.२] इत्य्-आदि श्री-गीता-प्रकरणात् । अविद्या-कला-शब्देन अविद्यैव कला वृत्तिर् यस्याः सा सर्वेन्द्रिय-विमोह-कारिणी प्रेम-शक्तिर् एवाख्याता, व्याख्यान्तरे174 भगवत्य् अविद्या-संश्लेषाभावात् ।
तद् उक्तं—
ह्लादिन्या संविद्-आश्लिष्टः सच्चिदानन्द ईश्वरः ।
स्वाविद्या-संवृतो जीवः संक्लेश-निकराकरः ॥ [भावार्थ-दीपिका १.७.६]इति स्वामि-सूक्तौ ।
तथा—
ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये ।
ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि।पु। १.१२.६९] इति विष्णु-पुराणे च ।
अथवा, वैभव-मात्राभिज्ञान् प्रति विराड्-उपासनावत् गोपीजन-शब्दस्यान्य-निरुक्तिर् इयम् । यथा तत्रैव गोपाल-पद-निरुक्तौ सृष्टि-पर्यन्तम् आलाति [गो।ता।उ। २.३७] इत्य् उक्तम् । तत्राविद्या-कला-शब्देन मायैवोच्यते इति ।175 ततस् तासां प्रेरकस् तत्-तत्-क्रीडायां प्रवर्तक इति वल्लभ-शब्देनैकार्थ्यम् एव, स वो हि स्वामी [गो।ता।उ। २.२०] इति तस्याम् एव श्रुतौ ताः प्रति दुर्वाससो वाक्यात् ।
यच् च तासां क्वचित् पूर्व-जन्मनि साधकत्वम् इव श्रूयते, तत् तु पूर्वेषाम्176 एव व्याख्येयम्। तास् तु न् इत्य-सिद्धा एव । अत इदम् इत्थम् एव व्याख्येयम्—
ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो विभुः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥ [भा।पु। १०.३२.१०]
यथा यथावत् । अत एवाधिकं व्यरोचत इत्य् उक्तम् उपपद्यते, स्व-शक्ति-विलासत्वात्177 श्री-भगवतः ।
[१८७]
गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् ।
गृहीत-कण्ठ्यस् तद्-दोर्भ्यां गायन्त्यस् तं विजह्रिरे ॥ [भा।पु। १०.३३.१५]
गोप्य एव श्रियः । कान्तं मनोहरम् । एकान्त-वल्लभं रहो-रमणम् अपाणि-ग्राहकत्वात्178 ।
॥ १०.३२ ॥ श्री-शुकः ॥ १८६-१८७ ॥
[१८८]
तासां महत्त्वं तु ह्लादिनी-सार-वृत्ति-विशेष-प्रेम-रस-सार-विशेष-प्राध्यान्यात् । तद् उक्तं आनन्द-चिन्मय-रस-प्रतिभाविताभिः [ब्र।सं। ५.३७] इति । आनन्द-चिन्मय-रसेन प्रेम-रस-विशेषेण प्रतिभाविताभिर् इत्य् अर्थः । अत एव तत्-प्राचुर्य-प्रकाशेन श्री-भगवतोऽपि तासु परमोल्लास-प्रकाशो भवति । येन ताभी रमणेच्छा जायते । तथैवाह—
भगवान् अपि ता रात्रीः शरदोत्फुल्ल-मल्लिकाः ।
वीक्ष्य रन्तुं मनश् चक्रे योग-मायाम् उपाश्रितः ॥ [भा।पु। १०.२९.१]
योग-मायां दुर्घट-सम्पादिकां स्वरूप-शक्तिं तत्-तल्-लीला-सौष्ठव-घटनाय उपाश्रित इति तस्मै तां प्रवर्त्येत्य् अर्थः ।
॥ १०.२९ ॥ श्री-शुकः ॥ १८८ ॥
[१८९]
अथ तासां नामानि श्रूयन्ते भविष्योत्तरे मल्ल-द्वादशी-प्रसङ्गे श्री-कृष्ण-युधिष्ठिर-संवादे—
गोपी-नामानि राजेन्द्र प्राधान्येन निबोध मे ।
गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका ।
राधानुराधा सोमाभा तारका दशमी तथा ॥ इति ।
दशम्य् अपि तारका-नाम्न्य् एवेत्य् अर्थः । स्कान्दे प्रह्लाद-संहितायां द्वारका-माहात्म्ये मय-निर्मित-सरः-प्रस्तावे श्री-ललितोवाचेत्य् आदिना—ललिता179 श्यामला धन्या विशाखा राधा शैव्या पद्मा भद्रेत्य् एतान्य् अष्टैव गृहीतानि ।
अथ वर्णिता शत-कोटिभिर् इत्य् आगम-प्रसिद्धेः । अन्यान्य् अपि लोक-शास्त्रयोर् अवगन्तव्यानि । अत्र शत-कोटित्वान्यथानुपपत्त्य्-आदिना तासां तन्-महा-शक्तित्वम् एवावगम्यते ।
तद् एवं परम-मधुर-प्रेम-वृत्ति-मयीषु तास्व् अपि तत्-सारांशोद्रेक-मयी श्री-राधिका । तस्याम् एव प्रेमोत्कर्ष-पराकाष्ठाया दर्शितत्वात्, प्रीति-सन्दर्भे दर्शयिष्यमाणत्वाच् च । यत्र च तत्-प्रेम-वैशिष्ट्यं, तत्रैव यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा।पु। ५.१८.१२] इत्य्-आदिवत् सर्वा अप्य् ऐश्वर्यादि-रूपा अन्याः शक्तयो नात्यादृता अप्य् अनुगच्छन्तीति श्री-वृन्दावने श्री-राधिकायाम् एव स्वयं-लक्ष्मीत्वम् ।
अत180 एव सतीष्व् अन्यास्व् अपि मुख्याभिप्रायेणैव तस्या एव वृन्दावनाधिपत्येन नाम-ग्रहणम् । यथा पाद्मे कार्त्तिक-माहात्म्ये शौनक-नारद-संवादे—
वृन्दावनाधिपत्यं च दत्तं तस्यै प्रत्युष्यता ।
कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने ॥ [प।पु। ५.७७.३९] इत्य् अनेन ।
अन्यत्र साधारणे देशे देव्य् एवाधिकारिणी, श्री-_वृन्दावन्_आभिधे वने तु श्री-राधिकैवेत्य् अर्थः । एवं स्कान्दे—
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां च राधा वृन्दावने वने ॥ इति ।
तथा मात्स्येऽपि । शक्तित्व-मात्र-साधारण्येनैव लक्ष्मी-सीता-रुक्मिणी-राधा-नामापि देव्या सह गणनम् । वैशिष्ट्यं तु लक्ष्मीवत् सीतादिष्व् अपि ज्ञेयम् । तस्मान् न देव्या सह लक्ष्म्य्-आदीनाम् ऐक्यम्, श्री-राम-तापनी-श्री-गोपाल-तापन्य्-आदौ तासां स्वरूप-भूतत्वेन कथनात् । श्री-राधिकायाश् च यामले पूर्वोदाहृत-पद्य-त्रयानन्तरम्—
भुज-द्वय-युतः कृष्णो न कदाचिच् चतुर्-भुजः ।
गोप्यैकया युतस् तत्र परिक्रीडति सर्वदा ॥ इति ।
अत्र वृन्दावन-विषयक-तत्-सहित-सर्वदा-क्रीडित्व-लिङ्गावगतेन परस्पराव्यभिचारेण स्वरूप-शक्तित्वम् ।
यत्181 तु मात्स्ये देव्या दक्षं प्रति—
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।
देवकी मथुरायां तु पाताले परमेश्वरी ।
चित्रकुटे यथा सीता विन्ध्ये च विन्ध्य-वासिनी ॥
इत्य्-आदिना स्वरूप-शक्ति-व्यूह-रुक्मिणी-राधा-देवकी-सीतानां मायांश-रूपेण स्वेन सहाभेद-कथनं, तत् खलु यथा देवेन्द्रः प्रतर्दनं प्रति प्राणोऽस्मि प्रज्ञात्मा [कौषीतकी-ब्राह्मण ३.२] इत्य्-आदिकम् । यथा वा, वामदेवश् चाहं मनुर् अभवं सूर्यश् च [बृ।आ।उ। १.४.१०] इत्य्-आदिकं परमात्मना सहाभेदं मत्वावादीति । न वक्तुर् उपदेशाद् इति [वे।सू। १.१.२९] वेदान्त-सूत्रेषु, शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [वे।सू। १.१.३०] इत्य् अनेन विचारितम् तद्वद् इहापीति गम्यते । शास्त्रं खलु चतुर्धा परावरयोर् अभेदं दर्शयति यथा—तत् त्वम् असि इति परमात्म-जीवयोश् चित्-साम्येन, यथा सर्वं समाप्नोषि ततोऽसि सर्वः [गीता ११.४०] इत्य् अधिष्ठानाधिष्ठात्रोर् अभेदोपचारेण । यथा वा, रामोऽहम् इत्य् आदिकम् अहङ्ग्रहोपासनेनेति । यत्रापि यथा-स्वं मन्तव्यम् । विशेषतः श्री-राधायाः स्वयं लक्ष्मीत्वम् ।
तथा च बृहद्-गौतमीये श्री-बलदेवं प्रति श्री-कृष्ण-वाक्यम्—
सत्त्वं तत्त्वं परत्वं च तत्त्व-त्रयम् अहं किल ।
त्रि-तत्त्व-रूपिणी सापि राधिका मम वल्लभा ॥
प्रकृतेः पर एवाहं सापि मच्-छक्ति-रूपिणी ।
सात्त्विकं रूपम् आस्थाय पूर्णोऽहं ब्रह्म-चित्-परः ॥
ब्रह्मणा प्रार्थितः सम्यक् सम्भवामि युगे युगे ।
तया सार्धं त्वया सार्धं नाशाय देवता-द्रुहाम् ॥ इत्य्-आदि ।
सत्त्वं कार्यत्वं, तत्त्वं कारणत्वं, ततोऽपि परत्वं चेति यत् तत्त्व-त्रयं तद् अहम् इत्य् अर्थः । अत एव श्री-राधिका-प्रसङ्गे तत्-पुरतोऽपि—
देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः संमोहिनी परा ॥ इति ।
ऋक्-परिशिष्ट-श्रुतिश् च तथैवाह—राधया माधवो देवो माधवेनैव राधिका । विभ्राजन्ते जनेष्व् आ । विभ्राजन्ते विभ्राजते । आ सर्वत इति श्रुति-पदार्थः । अत एव तस्याः सर्वोत्तमत्वं सौभाग्यातिशयत्वं चादि-वाराहे तत्-कुण्ड-प्रसङ्गे द्रष्टव्यम् । श्री-भागवते अनयाराधितो नूनम् [१०.३०.२८] इत्य्-आदौ च ।182
एतत् सर्वम् अभिप्रेत्य मूर्धण्य-श्लोके तादृशोऽप्य् अर्थः सन्दधे । तत्र तयोर् महा-महैश्वर्य-प्रतिपादकोऽर्थः पूर्ववत् स्वयम् अनुसन्धेयः । परम-माधुरी-प्रतिपादकोऽर्थस् तु, यथा—
जन्माद्यस्य यतोऽन्वयाद् इतरतश् चार्थेष्व् अभिज्ञः स्वराट्
तेने ब्रह्म हृदा य आदि-कवये मुह्यन्ति यत् सूरयः ।
तेजो-वारि-मृदां यथा विनिमयो यत्र त्रि-सर्गोऽमृषा
धाम्ना स्वेन सदा निरस्त-कुहकं सत्यं परं धीमहि ॥ इति ।
यतोऽन्वयाद् अनुगच्छति सदा निज-परमानन्द-शक्ति-रूपायां तस्यां श्री-राधायाम् आसक्तो भवतीत्य् अन्वयः श्री-कृष्णः, तस्मात् । यस्मात् तथा इतरत इतरस्याश् च तस्य सदाद्वितीयायाः श्री-राधाया एव । यतो यस्या आद्यस्य आदि-रसस्य जन्म प्रादुर्भावः । याव् एवादि-रस-विद्यायाः परम-निधानम् इत्य् अर्थः ।
अत एव तयोर् अत्यद्भुत-विलास-माधुरी-धुरीणताम् उद्दिशति—योऽर्थेषु तत्-तद्-विलास-कलापेषु अभिज्ञो विदग्धः । या च स्वेन तथा-विधेनात्मना राजते विलासतीति स्वराट् ।
अत एव सर्वतोऽप्य् आश्चर्य-रूपयोस् तयोर् वर्णने मम तत्-कृपैव सामग्रीत्य् आह—आदि-कवये प्रथमं तल्-लीला-वर्णनम् आरभमाणाय मह्यं श्री-वेद-व्यासाय हृदा अन्तः-करण-द्वारैव ब्रह्म निज-लीला-प्रतिपादकं शब्द-ब्रह्म यस्तेने, आरम्भ-सम-कालम् एव युगपत् सर्वम् इदं महा-पुराणं मम हृदि प्रकाशितवान् इत्य् अर्थः । एतच् च प्रथमस्य सप्तम एव व्यक्तम् ।
यद् यस्यां च सूरयः शेषादयोऽपि मुह्यन्ति स्वरूप-सौन्दर्य-गुणादिभिः अत्यद्भुता केयम् इति निर्वक्तुम् आरब्धा निश्चेतुं न शक्नुवन्ति । एवं-भूता सा यदि कृपां नाकरिष्यत्, तदा लब्ध-माधव-तादृश-कृपस्यापि मम—
तैस् तैः पदैस् तत्-पदवीम् अन्विच्छन्त्योऽग्रतोऽबलाः ।
वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ [भा।पु। १०.३०.२६]
इत्य्-आदिना तस्या लीला-वर्णन-लेशेऽपि साहस-सिद्धिर् असौ नाभविष्यद् एवेति भावः ।
तयोर् आश्चर्य-रूपत्वम् एव व्यनक्ति—तेजो-वारि-मृदां अचैतन्यानाम् अपि यथा येन प्रकारेण विनिमयः परस्परं स्वभाव-विपर्ययोर् भवति, तथा यो विभ्राजत इति शेषः । वाक्य-शेषं च भावाभिभूतत्वेन न वक्तुं शक्तवान् इति गम्यते । तत्र तेजसश् चन्द्रादेस् तत्-पद-नख-कान्ति-विस्फारतादिना वारि-मृद्वन् निस्तेजस्त्व-धर्मावाप्तिः । वारिणो नद्य्-आदेश् च वंशी-वाद्यादिना183 वह्न्य्-आदि-तेजोवद् उच्छूनता-प्राप्तिः, पाषाणादि-मृद्वच् च स्तम्भ-प्राप्तिः । मृदश् च पाषाणादेस् तत्-कान्ति-कन्दली-च्छुरितत्वेन तेजोवद् उज्ज्वलता-प्राप्तिः, वंशी-वाद्यादिना वारिवच् च द्रवता-प्राप्तिर् इति । तद् एतत् सर्वं तस्य लीला-वर्णने प्रसिद्धम् एव ।
यत्र यस्यां च विद्यमानायां त्रिधा-सर्गः श्री-भू-लीलेति-शक्ति-त्रयी-प्रादुर्भावो वा, द्वारका-मथुरा-वृन्दावनानीति स्थान-त्रय-गत-शक्ति-वर्ग-त्रय-प्रादुर्भावो वा, वृन्दावन एव रस-व्यवहारेण सुहृद्-उदासीन-प्रतिपक्ष-नायिका-रूप-त्रि-भेदानां सर्वासाम् अपि व्रज-देवीनाम् एव प्रादुर्भावो वा, मृषा मिथ्यैव । यस्याः सौन्दर्यादि-गुण-सम्पदा तास् ताः कृष्णस्य न किञ्चिद् इव प्रयोजनम् अर्हन्तीत्य् अर्थः ।
तद् धीमहीति यच्-छब्द-लब्धेन तच्-छब्देनान्वयः । परम-शक्ति-शक्तिमत्त्वेनातिशायित-महाभाव-रसेन वा परस्परम् अभिन्नतां गतयोर् ऐक्येनैव विवक्षितं तद् इति । अत एव सामान्यतया परामर्शान् नपुंसकत्वं च ।
कथम्भूतम् ? स्वेन धाम्ना स्व-प्रभावेन सदा निरस्तं स्व-लीला-प्रतिबन्धकानां जरती-प्रभृतीनां प्रतिपक्ष-नायिकानां च कुहकं माया येन तत् ।
तथा सत्यं तादृशत्वेन न् इत्य-सिद्धम् । यद् वा, परस्परं विलासादिभिर् अनवरतम् आनन्द-सन्दोह-दाने कृत-सत्यम् इव जातम्, तत्र निश्चलम् इत्य् अर्थः । अत एव परम्, अन्यत्र कुत्राप्य् अदृष्ट-गुण-लीलादिभिर् विश्व-विस्मापकत्वात् सर्वतोऽप्य् उत्कृष्टम् ।
अत्रैकोऽपि धर्मो भिन्न-वाचकतया वाक्ययोर् निर्दिष्ट इत्य् उभय-सादृश्यावगमात् प्रतिवस्तूपमा-नामालङ्कारोऽयम् । इयं च मुहुर् उपमितम् इतिमाला-प्रतिवस्तूपमा । तेन तैस् तैर् गुणैर् मिथो योग्यतया निबद्धत्वात् सम-नामापि ।
एतद्-अलङ्कारेण च—अहो परस्परं परस्मात् परम् अपि तन्-मिथुन-भूतं किम् अपि तत्त्वं मिथो गुण-गण-माधुरीभिः समताम् एव समवाप्तम् इति सकल-जीव-जीवातु-तामरस-पीयूष-धाराधाराधरता-सम्पदा कस्मै वा निज-चरण-कमल-विलासं न रोचयतीति स्वतः-सम्भवि वस्तु व्यज्यते । तद् आहुः—
वस्तु वालङ्कृतिर् वेति द्विधार्थः सम्भवी स्वतः ।
कवेः प्रौढोक्ति-सिक्तो वा तन्-निबद्धस्य वेति षट् ॥184
षड्भिस् तैर् व्यज्यमानस् तु वस्त्व्-अलङ्कार-रूपकः ।
अर्थ-शक्त्य्-उद्भवो व्यङ्ग्यो याति द्वादश-भेदतः ॥ [सा।द। ४.८-९] इति ।
अतः सर्वतोऽपि सान्द्रानन्द-चमत्कार-कर-श्री-कृष्ण-प्रकाशे श्री-वृन्दावनेऽपि परमाद्भुत-प्रकाशः श्री-राधया युगलितस् तु श्री-कृष्ण इति । तद् उक्तं श्रुत्या—राधया माधवो देवः इत्य्-आदिना । तद् उक्तम् आदि-पुराणेवेदान्तिनोऽपि इति पद्यानन्तरम्—
अहम् एव परं रूपं नान्यो जानाति कश्चन ।
जानाति राधिका पार्थ अंशान् अर्चन्ति देवताः ॥ इति ।
तयोर् न् इत्य-विलासस् त्व् इत्थं यथा वर्णितोऽस्मद्-उपजीव्य-चरणाम्बुजैः—
वाचा सूचित-शर्वरी-रति-कला-प्रागल्भ्यया राधिकां
व्रीडा-कुञ्चित-लोचनां विरचयन्न् अग्रे सखीनाम् असौ ।
तद्-वक्षोरुह-चित्र-केलि-मकरी-पाण्ड् इत्य-पारं गतः
कैशोरं सफली-करोति कलयन् कुञ्जे विहारं हरिः ॥ [भ।र।सि। २.१.२३१] इति ।
तद् एवं सन्दर्भ-चतुष्टयेन सम्बन्धो व्याख्यातः । तस्मिन्न् अपि सम्बन्धे श्री-राधा-माधव-रूपेणैव प्रादुर्भावस् तस्य सम्बन्धिनः परमः प्रकर्षः । एतद्-अर्थम् एव व्यतानिषमिमाः सर्वा अपि परिपाटीर् इति पूर्णः सम्बन्धः ।
गौर-श्याम-रुचोज्ज्वलाभिर् अमलैर् अक्ष्णोर् विलासोत्सवैर्
नृत्यन्तीभिर् अशेष-मादन-कला-वैदग्ध्य-दिग्धात्मभिः ।
अन्योन्य-प्रियता-सुधा-परिमल-स्तोमोन्मदाभिः सदा
राधा-माधव-माधुरीभिर् अभितश् चित्तं ममाक्राम्यताम् ॥
इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री-भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन-भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे श्री-कृष्ण-सन्दर्भो नाम चतुर्थः सन्दर्भः ॥
श्री-भागवत-सन्दर्भे सर्व-सन्दर्भ-गर्भ-गे
श्री-कृष्ण-सन्दर्भ-नामा सन्दर्भोऽभूच् चतुर्थकः ॥
समाप्तोऽयं श्री-कृष्ण-सन्दर्भः ॥
-
पूर्व-सन्दर्भ-त्रयेण (छ, ज, य्) ↩︎
-
(य् हेरे इन्सेर्त्स्) नानाविर्भावत्वात् तानि वचनानि तत्त्व-निर्धारणार्थम् उद्ध्रियन्ते। ↩︎
-
संशयाभावान् नोपयुक्तम् इति तद्-वचनं नोदाहरणीयम् । श्री-भगवत्-परमात्मनोस् तूदाह्रियते (छ-ज) ↩︎
-
नाम ओन्ल्य् इन् य्। ↩︎
-
पूर्वं (छ, ज) ↩︎
-
य् हेरे इन्सेर्त्स्- श्रीमद्-ईश्वराकारादिषु बहुषु च सत्सु श्री-भगवन्-नाम कतमाकारः परमात्मा वा, तयोश् च किं-स्वरूपादिकम् इति ↩︎
-
(छ, ज) हेरे इन्सेर्त्- प्रथमं श्री-भगवत्-परमात्मनौ निर्धारयन् ↩︎
-
आदौ जीवाविर्भाव-महद्-आदि-सृष्टितः पूर्वं पौरुषं रूपं जगृहे प्रकटितवान् । केन हेतुना ? लोक-सिसृक्षया। लोकानां समष्टि-व्यष्टि-जीवानां तद्-अधिष्ठानानां च प्रादुर्भावार्थम् इत्य् अर्थः । तस्मिन् हि तानि लीनान्य् आसन्न् इति । अतस् तत्-प्रादुर्भावस् तृतीये तद्-द्वारैव उक्तः, भगवान् एक आसेदम् [भा।पु। ३.५.२३] इत्य्-आदि-प्रकरणे, —काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः ।पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥ [भा।पु। ३.५.२६] इति ।तत्र तेषां सद्-भावं विवृणोति—महद्-आदिभिः सम्भूतं मिलितम्, अन्तर्भूत-महद्-आदि-तत्त्वम् इत्य् अर्थः, सोऽन्तः-शरीरेऽर्पित-भूत-सूक्ष्मा [भा।पु। ३.८.११] इति तृतीयाद् एव । सम्-पूर्वो भवतिः सङ्गमार्थे प्रसिद्ध एव, सम्भूयाम्भोधिम् अभ्येति महा-नद्यो नगापागेति [शिशु।व। २.१००] इत्य्-आदौ । (छ, ज, य्) ↩︎
-
इन्सेर्त्- तस्य जगत्-सृष्ट्य्-आदि-कर्तृत्वेन (छ, ज)। ↩︎
-
तद् एवं सामान्यतो भगवत्-परमात्मानौ निरूप्य परमात्मानं तावद् अनेकैः स्थान-कर्म-स्वरूपाकार-विशेषैर् निर्धारयति त्रिभिः— [श्लोक १.३.२] । यस्य पौरुष-रूपस्य अम्भसि प्रलय-कालीन-गर्भोदके शयानस्य सतः ॥ ↩︎
-
तो बे फ़िल्लेद् इन्। अथ यस्य रूप-द्वयस्य सामान्यत ऐकविध्येन स्वरूपम् आह—तद् वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् [भा।पु। १.३.३] इति । तत् श्री-भगवतः पौरुषं रूपं वै प्रसिद्धौ विशुद्धोऽर्जित-सत्त्वाभिव्यक्तत्वाच् छक्ति-स्वरूपयोर् अभेदाच् च तद्-रूपम् एवेत्य् अर्थः । उक्तं च द्वितीयं पुरुष-व्यूहम् अधिकृत्य स्वरूपत्वं तद्-रूपस्य—नातः परं परम यद् भवतः स्वरूपम् [भा।पु। ३.९.३] इत्य् अत्र । विशुद्धं जाड्यांशेनापि रहितम्, स्वरूप-शक्ति-वृत्तित्वात् । ऊर्जितं सर्वतो बलवत् परमानन्द-रूपत्वात्—को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् [तै।उ। २.७.१] इति श्रुतेः । तस्माच् छाक्षाद् भगवद्-रूपे तु कैमुत्यम् एवायातम् । तद् एवं पुरुषस्य द्विधा स्थान-कर्मणी उक्त्वा स्वरूपवद् आकारं त्व् एक-प्रकारम् आह पश्यन्त्य् अदो [§४] ↩︎
-
चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत । मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ॥ नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकान् अकल्पयन् ॥ ↩︎
-
विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः । प्रथमं महतः स्रष्टृ द्वितीयं त्व् अण्ड-संस्थितम् । तृतीयं सर्व-भूत-स्थं तानि ज्ञात्वा विमुच्यते ॥ ↩︎
-
स एष आद्यः पुरुषः कल्पे कल्पे सृजत्य् अजः । आत्मात्मन्य् आत्मनात्मानं स संयच्छति पाति च ॥ ↩︎
-
आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सद्-असन्-मनश् च । द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥ ↩︎
-
थे सेच्तिओन् फ़्रोम् तद् एवं सङ्कर्षणस्य इन् §२ उप् तो थिस् पोइन्त् इन् छ, ज अन्द् य् इस् अस् फ़ोल्लोwस्- ततोऽत्रावान्तर-भेदेऽप्य् अभेद-स्वीकारेण द्वि-व्यूहोक्तिर् इत्य् एव विशेष इति वासुदेव-स्थानीयो भगवांस् तस्माद् अन्य एवेत्य् आयातम् । एवम् एकादशे च—
भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानम्
अवाप नारायण आदि-देवः ॥ [भा।पु। ११.४.३] इत्य् अत्र तैर् एव व्याख्यातम् । आदौ पुरुषावतारम् आह—भूतैर् इति । यदा स्व-सृष्टैः भूतैः विराजं ब्रह्माण्डं पुरं निर्माय तस्मिन् लीलया प्रविष्टः, न तु भोक्तृत्वेन । प्रभूत-पुण्यस्य जीवस्य तत्र भोक्तृत्वाद् इत्य् एवम् अस्योत्तरत्र श्लोक-द्वयेऽप्य् एवम् एवार्थो दृश्यते । तथा द्वितीयस्य षष्ठे स एष आद्यः पुरुषः [भा।पु। २.६.३९] इत्य् आदि-पद्ये च टीका—स एष आद्यो भगवान् यः पुरुषावतारः सन् सृष्ट्य्-आदिकं करोति इत्य् एषा । एवम् आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४२] इत्य् अस्य टीका च दर्शितैव । तथा तृतीयस्य विंशे दैवेन [भा।पु। ३.२०.१२] इत्य् आदिकं सोऽनु [भा।पु। ३.२०.१७] इत्य् अन्तम् स-टीकम् एव प्रकरणम् अत्रानुसन्धेयम् । तस्माद् विराट्त्वेन तद्-रूपं न व्याख्यातम् । अत्र महत्-स्रष्टृ-ब्रह्माण्ड-प्रविष्ट-पुरुषयोर् अभेदेनैवोक्तिः । अथ तटस्थ-स्वरूप-लक्षणाभ्यां तद् एव विशिनष्टि—
यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः ।
तद् वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥ [भा।पु। १.३.३] अवयव-संस्थानैः साक्षाच्-छ्री-चरणादि-सन्निवेशैर् लोक-विस्तरो विराड्-आकारः प्रपञ्चः कल्पितः । यथा तद्-अवयव-सन्निवेशास् तथैव पातालम् एतस्य हि पाद-मूलम् [भा।पु। २.१.२६] इत्य्-आदिना नवीनोपासकान् प्रति मनः-स्थैर्याय प्रख्यापितः । न तु वस्तुतस् तद् एव तस्याङ्गम् इत्य् अर्थः । तच् छ्री-भगवतः पौरुषं रूपं । वै प्रसिद्धौ । विशुद्धोर्ज्जित-सत्त्वाभिव्यक्तत्वाच् छक्ति-स्वरूपयोर् अभेदाच् च तद्-रूपम् एवेत्य् अर्थः । ↩︎
-
तद् एवं स्थान-कर्म-स्वरूपाण्य् अभिधाय आकारम् अप्य् आह (छ, ज, य्) ↩︎
-
थिस् क़ुओते नोत् इन् य्। ↩︎
-
अस्य सहस्र-पादादित्वं परमात्म-सन्दर्भे च व्यञ्जितं तृतीयस्य चतुर्थे श्री-मैत्रेयेण (य्) ↩︎
-
तस्य पूर्णत्वम् एव विवृणोति—(य्) ↩︎
-
निधानं स्व-राश्मीन् सूर्य इव (छ, ज, य्) ↩︎
-
जगतोऽपीत्य् आह (छ, ज, य्) ↩︎
-
तद्-अंशांशिनोर् (छ, ज, य्) ↩︎
-
साक्षात् पुरुष एव (छ, ज, य्) ↩︎
-
तत्- (छ, ज, य्) ↩︎
-
उपक्षय- (छ, ज, य्) ↩︎
-
फ़्रोम् कुल्यास् तत्- नोत् इन् छ, ज, य् ↩︎
-
गणनात् तु (छ, ज) ↩︎
-
तत्-समो वा (ख, च) ↩︎
-
ततो जगन्-मङ्गलम् अच्युतांशं समाहितं शूर-सुतेन देवी । दधार सर्वात्मकम् आत्म-भूतं काष्ठा यथानन्द-करं मनस्तः ॥ ↩︎
-
ययोर् आत्म-समं वित्तं जन्मैश्वर्याकृतिर् भवः तयोर् विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥ ↩︎
-
फ़्रोम् दर्शयिष्यते नोत् इन् य्। ↩︎
-
अविप्लुत इति क्रम-सन्दर्भे। ↩︎
-
पोर्तिओन्स् ओफ़् वेर्सेस् चोब्ब्लेद् तोगेथेर्। ↩︎
-
शुक्ल इति यादवपुर-संस्करणम् । ↩︎
-
“मत्स्याद्य्-अवताराणां मत्स्यादि-शब्द-साम्येन” इत्य् अत्र क्रम-सन्दर्भ-पाठस् त्व् अधिकः। ↩︎
-
स्वयम् आविविशतुः (ग) ↩︎
-
-एनाविविशतुः (ग) ↩︎
-
थे हरिदस् स्हस्त्रि एदितिओन् तकेस् अ तुर्न् हेरे। ↩︎
-
थिस् परग्रफ् नोत् इन् य्। ↩︎
-
अफ़्तेर् भगवतोऽपि, छ अन्द् ज हवे- श्री-कृष्णत्वेनैव दर्शितत्वात् तस्य च अहम् एवासम् एवाग्रे [२.९.३३] इत्य्-आद्य्-उक्तेस् तस्मिन्न् एव तात्पर्यं स्पष्टम् इति। ↩︎
-
स्वयम् एवावतारी । सात्वतां यादवानाम् (य्) ↩︎
-
य् हस् ओन्ल्य् स्पष्टम्। ↩︎
-
स्वरूप- (य्) ↩︎
-
मुख्योऽभिधेय (छ, ज, य्) ↩︎
-
ततश् च ↩︎
-
इत्य् अस्मात् परं, “सौम्य-क्रूरेषु शान्तिदत्व-शत्रु-निवारकत्वादिषु वस्तुषु फलेषु मध्ये यस्मिन् वस्तुनि फले तस्य भगवतो यन् नाम यच्-छक्तित्वेनोक्तम् इत्य् अर्थः, तन्-नाम तस्मिन् वस्तुनि साधकम् एवेत्य् अन्वयः। यथेदं नाम रोग-नाशकम्, इदं नाम भोग-दायकम् इत्य्-आदि । एवम् एव राम-नाम मुक्तिदं कृष्ण-नाम प्रेम-भक्तिदं इति साधकं तच्-छक्ति-प्रकाशकम्” इत्य् अतिरिक्त-पाठः क-कर-लिप्यां प्राप्तः । ↩︎
-
थिस् सेन्तेन्चे नोत् इन् य्। ↩︎
-
सिद्धम् (य्) ↩︎
-
श्री-कृष्णस्य श्री-चरण-चिह्न-विषयेऽधिका जिज्ञासा चेत् भागवत-१०.३०.२५-पद्यस्य संक्षेप-वैष्णव-तोषणी द्रष्टव्या । तथा श्रील-विश्वनाथ-चक्रवर्ति-पाद-धृतः श्री-रूप-चिन्तामणि-नामा च ग्रन्थो द्रष्टव्यः । ब्रह्म-सूत्र-३.४.३५-माध्व-भाष्य-धृत-ब्रह्माण्ड-वाक्य ↩︎
-
फ़्रोम् तथा च… नोत् इन् य्। ↩︎
-
फ़्रोम् पुराण-वर्गात्… नोत् इन् य्। ↩︎
-
फ़्रोम् सत्ये प्रतिष्ठितः … नोत् इन् य्। ↩︎
-
कस्मै येन विभासितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा । योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस् तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि ॥ ↩︎
-
इत्य् अपि (य्) ↩︎
-
थिस् सेन्तेन्चे ओन्ल्य् इन् ख। ↩︎
-
फ़्रोम् भीष्म-पर्वणि नोत् इन् छ, ज, य्। ↩︎
-
फ़्रोम् यथास्व-मत्य्- तो हेरे तकेन् फ़्रोम् क, ख, घ, च (प्) ↩︎
-
थिस् परग्रफ् नोत् इन् य्। ↩︎
-
तथापि इदानीम् अस्य प्रादुर्भाववति अस्मिन् द्वापरे तु स शुक्लो युगावतारस् तथा रक्तः पीतोऽपि – एतद् अप्य् उपलक्षणम् अन्य-द्वापर-युगावतारः शुक-पक्ष-वर्णोऽपि…(छ, ज, य्) ↩︎
-
थिस् परग्रफ् नोत् इन् य्। ↩︎
-
गतं इन् सोमे एदितिओन्स् ↩︎
-
-वेश- इति आकरे। ↩︎
-
दनुजेन्द्र-निषूदन (य्)। ↩︎
-
विधूय तद् अमेयात्मा भगवान् धर्म-गुब् विभुः । मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः ॥ ↩︎
-
नृ।ता।उ। १.६- ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण-पिङ्गलम् । ↩︎
-
चरणारविन्दं(भागवत) ↩︎
-
तादृशत्व-सम्भवाभावाच् च (छ, ज, य्) ↩︎
-
फ़्रोम् स्थित इति तो एन्द् नोत् इन् य्। ↩︎
-
फ़्रोम् _तद् इदं च_तो एन्द् नोत् इन् य्। ↩︎
-
फ़्रोम् अस्तु वा नोत् इन् Xय्ज़्। ↩︎
-
अद्यैव त्वद् ऋतेऽस्य किं मम न ते मायात्वम् आदर्शितम् एकोऽसि प्रथमं ततो व्रज-सुहृद्-वत्साः समस्ता अपि तावन्तोऽसि चतुर्भुजास् तद् अखिलैः साकं मयोपासितास् तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते ॥ च्फ़्। भगवत्-सन्दर्भ ३७। ↩︎
-
अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् । यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ सेए §७५, १३८। ↩︎
-
तस्मिन् भवन्ताव् अखिलात्म-हेतौ नारायणे कारण-मर्त्य-मूर्तौ । भावं विधत्तां नितरां महात्मन् किं वावशिष्टं युवयोः सुकृत्यम् ॥ ↩︎
-
नौमीड्य तेऽभ्र-वपुषे तडिद्-अम्बराय गुञ्जावतंस-परिपिच्छ-लसन्-मुखाय । वन्य-स्रजे कवल-वेत्र-विषाण-वेणु- लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय ॥ ↩︎
-
अद्यैव त्वद् ऋतेऽस्य किं मम न ते मायात्वम् आदर्शितम् एकोऽसि प्रथमं ततो व्रज-सुहृद्-वत्साः समस्ता अपि तावन्तोऽसि चतुर्भुजास् तद् अखिलैः साकं मयोपासितास् तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते ॥ च्फ़्। भगवत्-सन्दर्भ ३७। ↩︎
-
अतस् तत्र (य्) ↩︎
-
१०.३.२८- मा प्रत्यक्षं मांस-दृशां कृषीष्ठाः ↩︎
-
अवरस्य (प्) ↩︎
-
थेसे अरे नोत् रामानुजऽस् एxअच्त् wओर्द्स्। प्रकृतिः स्वभावः, स्वम् एव स्वभावम् अधिष्ठाय स्वेनैव रूपेण स्वेच्छया संभवामीत्य् अर्थः ।… आत्म-मायया आत्मीयया मायया । माया वयूनं ज्ञानम् [निघण्टु २२] इति ज्ञान-पर्यायोऽत्र माया-शब्दः । तथा चाभियुक्त-प्रयोगः—मायया सततं वेत्ति प्राणिनां च शुभाशुभम् इति । आत्मीयेन ज्ञानेन आत्म-संकल्पेनेत्य् अर्थः । ↩︎
-
थिस् पोर्तिओन् फ़्रोम् “अथवा, नाहं” इस् नोत् इन् थे य् एदितिओन्। ↩︎
-
सूती-गृहे ननु जगाद भवान् अजो नौ सञ्जज्ञ इत्य् अनु-युगं निज-धर्म-गुप्त्यै । नाना-तनूर् गगनवद् विदधज् जहासि को वेद भूम्न उरुगाय विभूति-मायाम् ॥ ↩︎
-
-मण्डितम् (छ, ज) ↩︎
-
फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं श्री-वत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे ॥ ↩︎
-
फ़्रोम् मृत्यु-सञ्जय-तन्त्रे च तो हेरे नोत् इन् य्। ↩︎
-
तत्राग्रे इन् पुरिदस्, हरिदस् स्हस्त्रि अन्द् गौडीय मठ एदितिओन्स् ↩︎
-
अभिपालयन्तम् लक्ष्मी-सहस्रम् इन् गौडीय मठ एदितिओन् ↩︎
-
वैशिष्ट्यापेक्षया (य्) ↩︎
-
फ़्रोम् *: तद् इदं क्रोडीकृत-गोकुलं वृन्दावनाख्ययातिप्रसिद्धम् इति न निर्दिष्टम् । क्रोडीकृत-तत्-सर्वम् अस्य तु बहिर्-मण्डलं गोलोक-श्वेतद्वीपाख्यं ज्ञेयम् । (छ, ज, यदव्पुर्) ↩︎
-
थिस् वेर्से नोत् इन् थे बेन्गलि प्रिन्तेद् एदितिओन्स्। ↩︎
-
तत् तत् स्कान्द-प्रह्लाद-संहितादाव् अन्वेष्टव्यम् (छ, ज, य्) ↩︎
-
दिव्य-कदम्बाशोकादि-वृक्षादयोऽप्य् अद्यापि महा-भागवतैः साक्षात् क्रियन्ते इति प्रसिद्धावगतेः इति (घ, च) पाण्डु-लिप्योः पाठान्तरम्। ↩︎
-
अल्तेर्नते रेअदिन्ग् +++ ↩︎
-
क्लेदादिना (प्), वेदादिना (य्) ↩︎
-
थिस् सेन्तेन्चे नोत् इन् जदव्पुर्।x ↩︎
-
वाक्य-च्छेद-भेदे (प्), वाक्य-भेदे (ख, च, ज) ↩︎
-
अक्षुभिततया (प्) ↩︎
-
पुराणान्तर-वचनम् (छ, ज, यादव्पुर्) ↩︎
-
अफ़्तेर् जन इति… फ़्रोम् क, ख, घ, च ओन्ल्य्। ↩︎
-
परम- नोत् इन् च, छ, य्। ↩︎
-
थिस् सेन्तेन्चे नोत् फ़ोउन्द् इन् प्। तकेन् फ़्रोम् य्। ↩︎
-
इत्य्-आदिभिर् बहु-वर्णित- (छ, ज, य्) ↩︎
-
१०९.५३ इन् थे च्रितिचल् एदितिओन्। थे लिने रेअद्स् थेरे- देवतार्थं वयं चापि मानुषत्वम् उपागताः। ↩︎
-
ओन्ल्य् छ-ज-य् हवे _गोलोकाख्यम्। _प् हस् गोकुलाख्यम्। थे लत्तेर् मुस्त् बे चोर्रेच्त् बेचौसे ओफ़् थे wओर्द् _अत्र _ग्लोस्सेद् अस् भूमौ। ↩︎
-
ओन्ल्य् इन् क। ↩︎
-
च, छ, य्। ↩︎
-
य् ओन्ल्य्। ↩︎
-
थे व्। एदितिओन् हस् कूर्म-पुराणे व्यास-गीतायां सद्-आचार-प्रसङ्गे पतिव्रता-माहात्म्ये। छत्तेर्जेए क़ुओतेस् थे फ़ोल्लोwइन्ग् वेर्से फ़्रोम् अग्नि पुरन—सीतया राधितो वह्निश् छाया-सीताम् अजीजनत् । तां जग्राह दश-ग्रीवः सीता वह्नि-पुरं गता ॥ ↩︎
-
ममेच्छया (छ, ज, य्) ↩︎
-
एको देवो सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा । कर्माध्यक्षः सर्व-भूताधिवासः साक्सी चेताः केवलो निर्गुणश् च ॥ ↩︎
-
को वान्योऽपि गुणानां परो गुणातीतो देह-योगं कर्म-विस्तारं वाऽर्हतीति ॥ ↩︎
-
वेदाहम् अन्तर् मनसीप्सितं ते ददामि यत् तद् दुरवापम् अन्यैः सत्रे पुरा विश्व-सृजां वसूनां मत्-सिद्धि-कामेन वसो त्वयेष्टः ↩︎
-
थिस् परग्रफ् फ़ोउन्द् इन् व्रिन्दवन् एदितिओन्स्। ↩︎
-
थेरे इस् नो सुप्प्लेमेन्तर्य् चोम्मेन्तर्य् इन् थे एxतन्त् एदितिओन्स् ओफ़् क्रम-सन्दर्भ। ↩︎
-
सह द्वेषाभासस् तस्याप्य् अनुस्मरणस्य (छ, ज) ↩︎
-
फ़्रोम् एके नोत् इन् यादव्पुर्। ↩︎
-
हेतुत्वास्पष्टत्वात् (छ, ज, य्) ↩︎
-
तत्रापि, हे कल्याण्यः ! सर्व-विघ्न-रहिताः ! अर्थान्तरे स-शरीरा एव च । तासां शरीर-पर् इत्यागादिकं तु मायिकम् एवेति भावः । इति छ, ज, य् पाठान्तरम्। ↩︎
-
सर्व-… पूर्वकम् इति य्-ग्रन्थे नास्ति। ↩︎
-
विदुरस्येव (छ, ज, य्) ↩︎
-
युधिष्ठिरस्येव (छ, ज, य्) ↩︎
-
कुरुक्षेत्रे साक्षाद् अपि (छ, ज, य्) ↩︎
-
इत्य् अत्र तादृशीनां साक्षाद् एव तत्-प्राप्तिः फलं नान्येषाम् इवामृतत्व-मात्रम् इत्य् एतत् तासाम् आश्वासन-रूप-भगवद्-वचनानन्तरम् । ननु त्वं द्वारकायाम् एव सदा क्रीडसि वयं तु वृन्दावन-वासिन्यः कथं प्राप्स्याम इत्य् आशङ्क्य युष्माभिर् न् इत्य-संयुक्त एवाहम् अस्मीति तथाविधम् आत्मानम् उपदिशति द्वाभ्यां— (छ, ज, य्)
भौतिकानां यथा खं वार् भूर् वायुर् ज्योतिर् अङ्गनाः ॥
एवं ह्य् एतानि भूतानि भूतेष्व् आत्मात्मना ततः ।
**उभयं मय्य् अथ परे पश्यताभातम् अक्षरे ॥ [**भा।पु। १०.८२.४५-४६] ↩︎
-
यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास् ते चोन्मीलित-मालती-सुरभयः प्रौढाः कदम्बानिलाः सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ रेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ठते ॥ ↩︎
-
थे य् रेअदिन्ग् इस् अथाप्रकट-लीले (?) ↩︎
-
क्रीडनेनेह देह-भाक् ↩︎
-
मायया…प्रतीतानां रेप्लचेद् ब्य् तत्-पतिं-मन्यानां (छ, ज, य्) ↩︎
-
स्वीकृतत्वात् (छ, ज, य्) ↩︎
-
फ़ोर् उत्कण्ठा… पोषार्थम् जुस्त् उत्कण्ठा-पोषार्थम् (य्) ↩︎
-
नारद-पञ्चरात्रे च (छ, ज, य्) ↩︎
-
न् इत्य नोत् इन् छ, ज य्। ↩︎
-
चमत्कृत- (छ, ज, य्) ↩︎
-
फ़्रोम् हेरे- अत्रैकादश-समा व्याप्य गूढार्चिर् इत्य् एष एवार्थः । अथवा एकादशभिर् एव… (छ, ज, य्) ↩︎
-
थिस् परग्रफ् तकेन् फ़्रोम् क-ख-घ-च (प्)। थे परग्रफ् इस् फ़ोउन्द् इन् क्रम-सन्दर्भ तो ३.२.२६। ↩︎
-
तस्यां (छ, ज, य्) ↩︎
-
थिस् wओर्द् सेएम्स् सुपेर्फ़्लुओउस्। थे स्पेअकेर् ओफ़् थे वेर्से इस् उद्धव, सो थे वेर्ब् स्होउल्द् बे सिन्गुलर्, अन्द् इत् इस् थे समे अस् थे फ़िर्स्त् wओर्द् ओफ़् थे वेर्से। ↩︎
-
सारूप्येण (प्) ↩︎
-
सोत्कण्ठौ (प्) ↩︎
-
बहु-वस्त्राभरणादिभिस् (प्) ↩︎
-
-धरो हरिः ↩︎
-
मनोमयत्वात् (छ, ज, य्) ↩︎
-
थिस् वेर्से तो एन्द् तकेन् फ़्रोम् ओन्ल्य् क, ख, घ, च (प्) ↩︎
-
वसुदेवाद् आगतस्य तस्य नोत् इन् य्। ↩︎
-
थिस् वेर्से नोत् इन् य्। ↩︎
-
थिस् परग्रफ् नोत् इन् य्। ↩︎
-
फ़्रोम् पूर्वम्… नोत् इन् य्। ↩︎
-
तयोर् लीलयोर् भेदावेदने दृष्टान्तस् त्व् अयं । लीलाब्धे आवेदनांश एव, न तु सर्वावेदनांशे लोकवत् तु लीला-कैवल्यम् [वे।सू। २.१.३३] इतिवत् । (य्) ↩︎
-
अफ़्तेर् _प्रविष्टा अपि… _ यादृशं तस्य स्वरूपं प्राप्तास्— (छ, ज, य्) ↩︎
-
थिस् परग्रफ् नोत् इन् य्। ↩︎
-
प्रतीयमानत्वम्। ↩︎
-
क़ुओतेद् अत् व्स् ३.४.२ ब्य् स्हन्कर। शतपथ ब्राह्मण ३.६.१। ↩︎
-
पर्याप्तिर् (ह्द्स्) ↩︎
-
आधुनिकैश् च ओन्ल्य् इन् छ, ज, य्। ↩︎
-
फ़्रोम् सोपद्रवत्वं, छ, ज, य् हवे ओन्ल्य् तस्माद् असौ। ↩︎
-
महा ओन्ल्य् इन् छ, ज, य्। ↩︎
-
फ़्रोम् हेरे तो एन्द् ओफ़् परग्रफ् ओन्ल्य् इन् छ, ज अन्द् य्। ↩︎
-
पर-स्पर्शेन (छ, ज, य्) ↩︎
-
अधुना चान्यदा च… तस्य… भगवद्-दाराभेदेन। थेसे wओर्द्स् अरे नोत् इन् य्। ↩︎
-
फ़्रोम् हेरे तो लीला-नाट्य-रक्षार्थम् नोत् इन् य्। ↩︎
-
य् हस् थे फ़ोल्लोwइन्ग्- यथैव हि तव सुतः सति यदाधर-बिम्बे दत्त-वेणुः [भा।पु। १०.३५.१४] इत्य्-आदौ, शुश्रूषन्त्यः पतीन् काश्चित् [भा।पु। १०.२९.७] इत्य्-आदौ, ता वार्यमाणाः पतिभिः [भा।पु। १०.२९.८] इत्य्-आदौ च स्वरूप-सिद्धानाम् एव दर्शनं तत्र तत्रावगतम् । एवम् अन्यत्राप्य् अवगम्यम् । तासाम् अन्य-कृत-ध्वंसाभावस्य कारणं प्रभावश् च सम्भाव्यते— य एतस्मिन् महा-भागाः प्रीतिं कुर्वन्ति मानवाः । नारयोऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ [१०.८.१८] इति कैमुत्य-प्राप्तेः । अथ तासाम् अपत्य-श्रवणं च यातृ-मानिनी-प्रभृतीनाम् अपत्ये तद्-व्यवहारात् । ↩︎
-
थिस् लस्त् सेन्तेन्चे नोत् इन् य्। ↩︎
-
विदिताः (छ, ज, य्) ↩︎
-
प्रापञ्चिताभ्यां (*य्) ↩︎
-
फ़्रोम् हेरे तो एन्द् ओफ़् अनुच्छेद नोत् इन् य्। ↩︎
-
न वस्तव्यम् इहास्माभिर् जिजीविषुभिर् आर्यकाः । प्रभासं सुमहत्-पुण्यं यास्यामोऽद्यैव मा चिरम् ॥ ↩︎
-
थिस् सेच्तिओन् तो एन्द् ओफ़् अनुच्छेद नोत् इन् य्। ↩︎
-
स्वान् स्वान् (छ, ज, य्) ↩︎
-
वितीर्ण (य्) ↩︎
-
अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम् उदय-गिरि-वनाली-बाल-मन्दार-पुष्पम् । विरह-विधुर-कोक-द्वन्द्व-बन्धुर् विभिन्दन् कुपितकपि-कपोल-क्रोड-ताम्रस्-तमांसि ॥ साह् इत्य-दर्पण ९.६, ↩︎
-
पोर्तिओन् फ़्रोम् स एष यद्वद्… नोत् इन् य्, एत्च्। ↩︎
-
अज्ञैर् अस्य श्री-विष्णोस् तव तत्त्वज्ञैर् ↩︎
-
उवाच पुरतस् तस्मै तस्य दिव्या सरस्वती । कामः कृष्णाय गोविन्द हे गोपी जन इत्य् अपि । वल्लभाय प्रिया वह्नेर् मन्त्रम् ते दास्यति प्रियम् ॥२४॥ ↩︎
-
फ़्रोम् लक्ष्मीत्वेऽपि तो इत्य् आदौ नोत् इन् य् एत्च्। ↩︎
-
व्याख्यान्तरे नोत् इन् प्। ↩︎
-
_अथवा _तो _इति। _नोत् इन् य् एत् अल्। ↩︎
-
पूर्वासाम् (य्) ↩︎
-
स्व-शक्त्य्-एक-प्रकाशकत्वात् (छ, ज, य्) ↩︎
-
अपाणि-ग्राहकत्वात् नोत् इन् य् एत् अल्। ↩︎
-
स्कान्द-प्रह्लाद-संहितायां द्वारका-माहात्म्ये माया-सरः-प्रस्तावे पुनर् उद्धवागमने प्रिय-प्राप्तिवत् प्रिय-दूत-प्राप्ताव् अपि स्व-स्वभावाभिव्यक्तेस् तद्-भावोक्ति-सहितान्य् एवाष्टौ नामानि निर्दिष्टानि, किन्त्व् अत्यन्त-दुःख-मयोक्तित्वान् नैतादृश-रसावसरे दृश्यानि । कदाचिद् विचारावसरे त्व् अपेक्ष्याणीत्य् अनन्य-गतिकत्वेनैव लिख्यन्ते, यथा—तच् छ्रुत्वा वचनं तस्य ललिता क्रोध-मूर्च्छिता । उद्धवं साश्रु-नयना सोवाच रुदती तदा ॥ श्री-ललितोवाच— असत्यो भिन्न-मर्यादः शठः क्रूर-जन-प्रियः । मा कृथाः पुरतोऽस्माकं कथास् तस्याकृतात्मनः ॥ धिक् धिक् पाप-समाचारो धिग् असौ निष्ठुराशयः । हित्वा यः स्त्री-जनान् मूढो गतो द्वारवतीं प्रति ॥ श्री-श्यामलोवाच— किं तस्य मन्द-भाग्यस्य स्वल्प-पुण्यस्य दुःखदाः । मा कुरुध्वं कथाः सख्यः कथाः कथयतापराः । श्री-धन्योवाच— केनायं हि समानीतो दूतो दुष्ट-जनस्य च । यातुं तेन पथा पापो येन नायाति वै पुनः । श्री-विशाखोवाच— न शीलं न कुलं यस्य ज्ञायते जन्म कर्म च । हीनस्य पुरुषार्थेषु तेन सङ्गो निरर्थकः । श्री-राधोवाच— पूतना-घातने यस्य नास्ति पाप-कृतं भयम् । तस्य स्त्री हनने साध्वः शङ्का कापि न विद्यते ॥ श्री-शैब्योवाच— सत्यं ब्रूहि महाभाग किं करोति यदूत्तमः । संवृतो नागर-स्त्रीभिः कथास्माकं करोति किम् ॥ श्री-पद्मोवाच— कदोद्धव महा-बाहुः नागरी-जन-वल्लभः । समेष्यतीह दाशार्हः पद्म-पत्रायतेक्षणः ॥ श्री-भद्रोवाच— हा कृष्ण गोप-प्रवर हा गोपी-जन-वल्लभ । समुद्धर महाबाहो गोपीः संसार-सागरात् ॥ इति । इति लघु-तोषणी १०.३२.८। तत्र द्रष्टव्यम्। ↩︎
-
थे त्wओ एदितिओन्स् दिफ़्फ़ेर् चोन्सिदेरब्ल्य् हेरे। सेए नेxत् फ़ोओत्नोते। थिस् इस् नोत् इन् पुरिदस् अन्द् नोत् चोन्तैनेद् इन् हिस् फ़ोओत्नोतेस् एइथेर्। ↩︎
-
फ़ोर् थे सेच्तोन् बेगिन्निन्ग् हेरे अन्द् एन्दिन्ग् स्वयं लक्ष्मीत्वम्। य् एत् अल् हवे ओन्ल्य्- अत एव सतीष्व् अप्य् अन्यासु एकया इत्य् अनेन तत्रापि पर-मुख्यात्वम् अभिहितम् । ↩︎
-
फ़्रोम् अत एव, नोत् इन् य् एत् अल्। ↩︎
-
तत्-संसर्ग-॥। (य् एत् अल्)। ↩︎
-
य् एत्च्। हवे थे फ़ोल्लोwइन्ग् इन् थे प्लचे ओफ़् थिस् साह् इत्य-दर्पण वेर्से- प्रतिवस्तूपमा सा स्याद् वाक्ययोर् गम्य-साम्ययोः । एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥ [सा।द। १०.४९] इति । इयं मालयापि दृश्यते इति । एवं समं स्याद् आनुरूप्येण श्लाघा योग्यस्य वस्तुन इति । तथा वस्तु वालङ्कृतिर् वापि द्विधार्थः सम्भवी स्वतः । कवेः प्रौढोक्ति-सिद्धो वा तन्-निबद्धस्य वेति षट् । षड्भिस् तैर्॥। ↩︎