३ परमात्मा

षट्-सन्दर्भ-नामक-
श्री-भागवत-सन्दर्भे तृतीयः
परमात्म-सन्दर्भः सर्व-संवादिनी-समुपेतः

English

Version 3.01

2006.06.23

Three texts were used in preparing this edition:

  1. (ed.) Chinmayi Chatterjee (Calcutta: Jadavpur University, 1972). This edition is riddled with errors and does not appear to have used a reliable source. For this reason, not all of its readings have been noted.
  2. With Sarva-saṁvādinī. (ed.) Haridas Shastri (Vrindavan: Gadai Gaurahari Press, 1983). This edition is based on (3)
  3. (ed.) Puridāsa. Kalikata, 1951. This is a critical edition making use of 10 different texts, listed here.
  • (ka) varāha-nagara-śrī-gaurāṅga-grantha-mandira-stha-1216-saṅkhyaka-kara-lipiḥ.
  • (kha) śrī-vṛndāvana-vāsi-śrīmad-vanamāli-lāla-gosvāmi-mahodayasya granthāgāre rakṣitā kara-lipiḥ.
  • (ga) 1716-tama-śakābde likhitā śrī-vṛndāvana-keśighāṭa-ṭhora-nivāsi-śrīmad-vaiṣṇava-caraṇa-dāsa-mahāśaya-sakāśāt prāptā karalipiḥ;
  • (gha) purī-śrī-gaṅgā-mātā-maṭhastha-123-saṅkhyaka-karalipiḥ;
  • (ṅa) ḍhākā-viśvavidyālaya-granthāgāra-sthā 2396-si-saṅkhyaka-karalipiḥ;
  • (ca) baṅgīya-sāhitya-pariṣat-sthitā 1443-saṅkhyaka-karalipiḥ;
  • (cha) śrī-gauḍa-maṇḍalataḥ prāptā karalipiḥ;
  • (ja) 1299-tama-baṅgābde murśidābāda-barahamapurataḥ śrī-rāma-nārāyaṇa-vidyāratna-sampādito granthaḥ;
  • (jha) 1307-tama-baṅgābde śrī-śyāmalāla-gosvāmi-sampādito granthaḥ;
  • (ña) 1348-tama-baṅgābde śrī-rādhā-ramaṇa-gosvāmi-vedānta-bhūṣaṇena sampāditaḥ “Indian Research Institute” ity-ākhya-saṁsthayā śrī-bhāratī-granthamālāyāṁ prakāśito granthaḥ.

षट्-सन्दर्भ-नामक- श्री-भागवत-सन्दर्भे तृतीयः

परमात्म-सन्दर्भः

श्री-कृष्ण-चैतन्य-देवो जयति ।1

तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ ।

दाक्षिणात्येन भट्टेन पुनर् एतद् विविच्यते ॥इ॥

तस्याद्यं ग्रन्थनालेखं क्रान्त-व्युत्क्रान्त-खण्डितम्2

पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥इइ॥

[१.१]

अथ परमात्मा विव्रियते । यद्यपि परमात्मत्वं वैकुण्ठेऽपि प्रभोर् अस्ति, तद् अपि च भगवत्ताङ्गं, तत् स्याद् इत्थं3 जगद्-गतं वाच्यम् ।4 तत्र तं जगद्-गत-जीव-निरूपण-पूर्वकं निरूपयति द्वाभ्याम्—

क्षेत्रज्ञ एता मनसो विभूतीर्
जीवस्य माया-रचितस्य नित्याः ।
आविर्हिताः क्वापि तिरोहिताश् च
शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः ॥ [भा।पु। ५.११.१२]
क्षेत्रज्ञ आत्मा पुरुषः पुराणः
साक्षात् स्वयं ज्योतिर् अजः परेशः ।
नारायणो भगवान् वासुदेवः
स्व-माययात्मन्य् अवधीयमानः ॥ [भा।पु। ५.११.१३]

यः शुद्धोऽपि मायातः परोऽपि माया-रचितस्य वक्ष्यमाणस्य सर्व-क्षेत्रस्य5 मायया6 कल्पितस्य मनसोऽन्तः-करणस्य एताः प्रसिद्धा विभूतीर् वृत्तीर् विचष्टे विशेषेण पश्यति, पश्यंस् तत्राविष्टो भवति, स खल्व् असौ जीव-नामा स्व-शरीर-द्वय-लक्षण-क्षेत्रस्य ज्ञातृत्वात् क्षेत्रज्ञ उच्यते इत्य् अर्थः ।

तद् उक्तम्—

यया संमोहितो जीव आत्मानं त्रिगुणात्मकं ।
परोऽपि मनुतेऽनर्थं तत्-कृतं चाभिपद्यते ॥ [भा।पु। १.७.५] इति ।

तस्य मनसः कीदृशतया माया-रचितस्य ? तत्राह—जीवस्य जीवोपाधितया जीव-तादात्म्येन रचितस्य । ततश् च तत्तयोपचर्यमाणस्येत्य् अर्थः । ततश् च कीदृशस्य ? अविशुद्धं भगवद्-बहिर्मुखं कर्म करोतीति तादृशस्य । कीदृशीर् विभूतीः ? नित्या अनादित एवानुगताः । अत्र च कदा कीदृशीः ? इत्य् अपेक्षायाम् आह—जाग्रत्-स्वप्नयोर् आविर्भूताः सुषुप्तौ तिरोहिताश् इति ।7

यस् तु…

  • पुराणो जगत्-कारण-भूतः पुरुषः, आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४१] इत्य्-आदि द्वितीयादौ प्रसिद्धः,
  • साक्षाद् एव स्वयं-ज्योतिः स्व-प्रकाशः, न तु जीववद् अन्यापेक्षया;
  • अजो जन्मादि-शून्यः;
  • परेषां ब्रह्मादीनां अप्ईशः****;8
  • नारं जीव-समूहः स्व-नियम्यत्वेन्आयनं यस्य सः;
  • भगवान् ऐश्वर्याद्य्-अंशवान्, भगवद्-अंशत्वात्;
  • वासुदेवः सर्व-भूतानाम् आश्रयः;

स्व-मायया स्व-स्वरूप-शक्त्या आत्मनि स्व-स्वरूपे अवधीयमानः अवस्थाप्यमानः, कर्म-कर्तृ-प्रयोगः; मायायां मायिकेऽप्य् अन्तर्यामित्वेन9 प्रविष्टोऽपि स्वरूप-शक्त्या स्वरूप-स्थ एव, न तु तत्-संसक्त इत्य् अर्थः, वासुदेवत्वेन सर्व-क्षेत्र-ज्ञातृत्वात्,

…सोऽपरो माया-मोहितो जीवो माया-रहितः शुद्धः10 क्षेत्रज्ञःआत्मा परमात्मेति ।

तद् एवम् अपि मुख्यं क्षेत्रज्ञत्वं परमात्मन्य् एव । तद् उक्तम्—

सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो
न वेद सर्वज्ञम् अनन्तम् ईडे [भा।पु। ६.४.२५] इति ।

[१.२]

श्री-गीतोपनिषत्सु—

इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते ।
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्-विदः ॥
क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत ।
क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥ [गीता १३.१-२]

अत्र खलु_ क्षेत्रज्ञं चापि मां विद्धि_ इति सर्वेष्व् अपि क्षेत्रेषु मां च क्षेत्रज्ञं विद्धि, न तु जीवम् इव स्व-स्व-क्षेत्र एवेत्य् एवार्थं वहति11 । न च जीवेशयोः सामानाधिकरण्येन निर्विशेष-चिद्-वस्त्व् एव ज्ञेयतया निर्दिशति, सर्व-क्षेत्रेषु इत्य् अस्य वैयर्थ्यापत्तेः,12 ज्ञेयं यत् तत् प्रवक्ष्यामि [गीता १३.१२] इत्य्-आदिना, सर्वतः पाणि-पादं तद् सर्वतोऽक्षि-शिरो-मुखम् [गीता १३.१३] इत्य्-आदिना स-विशेषस्यैव13 निर्देक्ष्यमाणत्वात्,14 अमानित्वम् [गीता १३.७-११] इत्य्-आदिना ज्ञानस्य च तथोपदेक्ष्यमाणत्वात् ।

किं च, “क्षेत्रज्ञं चापि” इत्य् अत्र तत् त्वम् असि [छा।उ। ६.८.७] इतिवत् सामानाधिकरण्येन तन्-निर्विशेष-ज्ञाने विवक्षिते, “क्षेत्रज्ञेश्वरयोर् ज्ञानम्” इत्य् एवानूद्येत, न तु “क्षेत्र-क्षेत्रज्ञयोर् ज्ञानम्” इति । किन्तु क्षेत्र-क्षेत्रज्ञयोर् इत्य् अस्यायम् अर्थः—द्विविधयोर् अपि क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं, तन् ममैव ज्ञानं मतम्, अन्यार्थस् तु परामर्शः [वे।सू। १.३.२०] इति न्यायेन मज्-ज्ञानैक-तात्पर्यकम् इत्य् अर्थः, ज्ञेयस्यैकत्वेनैव निर्दिष्टत्वात्, योग्यत्वाच् च ।

न च निरीश्वर-साङ्ख्यवत् क्षेत्र-क्षेत्रज्ञ-मात्र-विभागाद् अत्र ज्ञानं मतं, माम् इत्य्15 अनेनेश्वरस्यापेक्षितत्वात् ।

न च विवर्त-वादवद् ईश्वरस्यापि भ्रम-मात्र-प्रतीत-पुरुषत्वम्, तद्-वचन-लक्षण-स-वेद-गीतादि-शास्त्राणाम्16 अप्रामाण्यात्, बौद्ध-वादापत्तेः। तस्यां च सत्यां बौद्धानाम् इव विवर्त-वादिनां तद्-व्याख्यानायुक्तेः ।

न च तस्य सत्य-पुरुषत्वेऽपि निर्विशेष-ज्ञानम् एव मोक्ष-साधनम् इति तदीय-शास्त्रान्तरतः समाहार्यम्, एवं सतत-युक्ता ये [१२.१] इत्य्-आदि-पूर्वाध्याये निर्विशेष-ज्ञानस्य हेयत्वेन विवक्षितत्वात् । तत्रैव च, ये तु सर्वाणि कर्माणि [१२.६] इत्य्-आदिनानन्य-भक्तान् उद्दिश्य, तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् [१२.७] इत्य् अनेन तज्-ज्ञानापेक्षापि नादृतेति17 । तद् उक्तम् एकादशे स्वयं भगवता—यत् कर्मभिर् यत् तपसा18 [भा।पु। ११.२०.३२-३३] इत्य्-आदि । मोक्ष-धर्मे च—

या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये ।
तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति ।19

अत्र तु पूर्वाध्याय-विश्लाघितं तद् एवावृथा-कर्तुं स-विशेषतया निर्दिश्य,

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥ [गीता १३.१८]

इत्य् अन्तेन भक्ति-संवलिततया सुकरार्थ-प्रायं कृतम् । अत एवात्र व्यष्टि-क्षेत्रज्ञ एव भक्तत्वेन निर्दिष्टः, समष्टि-क्षेत्रज्ञस् तु ज्ञेयत्वेनेति क्षेत्र-ज्ञानाभ्यां सह ज्ञेयस्य पाठाद् अनुस्मार्य, तद्-अनन्तरं च तस्य तस्य च जीवत्वम् ईश्वरत्वं च क्षरं नेति दर्शितम् । यतः—

पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृति-जान् गुणान् ।
कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु ॥ [गीता १३.२१]

इति जीवस्य प्रकृति-स्थत्वं निर्दिश्य, स्वतस् तस्याप्राकृतत्व-दर्शनया स्फुटम् एवाक्षरत्वं ज्ञापितम् ।

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्य् उक्तो देहेऽस्मिन् पुरुषः परः ॥ [गीता १३.२२]

इति जीवात् परत्वेन निर्दिष्टस्य परमात्माख्य-पुरुषस्य तु कैमुत्येनैव तद् दर्शितम् ।

द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूट-स्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।
यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ [गीता १५.१६-१७]

इत्य् अत्र जीवस्याप्य् अक्षरत्वं कण्ठोक्तम् एव । तत्रोपद्रष्टा परम-साक्षी । अनुमन्ता तत्-तत्-कर्मानुरूपः प्रवर्तकः । भर्ता पोषकः । भोक्ता पालयिता। महेश्वरः सर्वाधिकर्ता । परमात्मा सर्वान्तर्यामीति व्याख्येयम् ।

उत्तर-पद्ययोस् तु कूटस्थ एक-रूपतया तु यः काल-व्यापी स कूटस्थः इत्य् अमर-कोषाद् अवगतार्थः । असौ शुद्ध-जीव एव, “उत्तमः पुरुषस् त्व् अन्यः” इत्य् उत्तरात् । तद् एवम् अत्रापि क्षेत्र-क्षेत्रज्ञ-सर्व-क्षेत्रज्ञा उक्ताः । अत्र चोत्तरयोर् “अन्यः” इत्य् अनेन भिन्नयोर् एव सतोर् अक्षरयोर् न तत्-तद्-रूपता-परित्यागः सम्भवेद् इति, न कदाचिद् अपि निर्विशेष-रूपेनावस्थितिर् इति दर्शितम् । तस्मान् मद्-भावायोपपद्यते [गीता १३.१८] इति यद् उक्तं, तद् अपि तत्-सार्ष्टि-प्राप्ति-तात्पर्यकम्+++([ ])+++। तद् एवं द्वयोर् अक्षरत्वेन साम्येऽपि जीवस्य हीन-शक्तित्वात् प्रकृत्य्-आविष्टस्य तन्-निवृत्त्य्-अर्थम् ईश्वर एव भजनीयत्वेन ज्ञेय इति भावः ।

[१.३]

तस्माद् इदं शरीरम् [गीता_ १३.१] _इत्य्-आदिकं पुनर् इत्थं विवेचनीयम् । “इदम्” इति स्व-स्वापरोक्षम् इत्य् अर्थः । शरीर-क्षेत्रयोर्20 एकैकत्वेन ग्रहणम् अत्र व्यक्ति-पर्यवसानेन जाति-पुरस्कारेणैवेति गम्यते, “सर्व-क्षेत्रेषु” इति बहु-वचनेनानुवादात् । “एतद् यो वेत्ति” इत्य् अत्र देहोऽसवोऽक्षा-मनव इत्य् आदौ, सर्वं पुमान् वेद-गुणांश् च तज्-ज्ञः [भा।पु। ६.४.२५]21 इत्य्-उक्त-दिशा, क्षेत्रज्ञ एता मनसो विभूतीर् [भा।पु। ५.११.१२] इत्य्-उक्त-दिशा च जानातीत्य् अर्थः।

“क्षेत्रज्ञं चापि मां विद्धि” इत्य् अत्र मां स्वयं भगवन्तम् एव सर्वेष्व् अपि समष्टि-व्यष्टि-रूपेषु क्षेत्रेषु, न तु पूर्व-क्षेत्रज्ञवत् निज-निज-क्षेत्र एव, “क्षेत्रज्ञं च विद्धि” इति । तद् उक्तम्—विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इति । यत्र गत्य्-अन्तरं नास्ति, तत्रैव लक्षणा-मय-कष्टम् आश्रीयेत । तथापि तेन सामानाधिकरण्यं यदि विवक्षितं स्यात्, तर्हि “क्षेत्रज्ञं चापि मां विद्धि” इत्य् एतावद् एव “तं च मां विद्धि” इत्य् एतावद् एव वा प्रोच्येत, न तु “सर्व-क्षेत्रेषु भारत” इत्य् अधिकम् अपि । किन्तु क्षेत्रज्ञ एता मनसो विभूतीर् [भा।पु। ५.११.१२] इत्य्-आदिवत् क्षेत्रज्ञ-द्वयम् अपि वक्तव्यम् एव स्यात् । तथा च ब्रह्म-सूत्रं—गुहां प्रविष्टाव् आत्मानौ हि तद्-दर्शनात् [वे।सू। १.२.११] इति ।

तद् द्वैविध्यम् एव चोपसंहृतम्—पुरुषः प्रकृति-स्थो हि [गीता १३.२१] इत्य्-आदिना । तस्माद् उपक्रमार्थस्य उपसंहाराधीनत्वाद् एष एवार्थः समञ्जसः । यथोक्तं ब्रह्म-सूत्र-कृद्भिः—असद्-व्यपदेशान् नेति चेन्, न, धर्मान्तरेण वाक्य-शेषात् [वे।सू। २.१.१७] इति ।22

अथ “क्षेत्र-क्षेत्रज्ञयोर् ज्ञानम्” इत्य् अत्र यत् क्षेत्रे ज्ञानेन्द्रिय-गतं तेनागतं23 च ज्ञानं दर्शयिष्यते, यच् च पूर्व-क्षेत्रज्ञे निज-निज-क्षेत्र-ज्ञानं दर्शितं, तत् तन् मज्-ज्ञानांशस्य क्षेत्रेषु च्छाया-रूपत्वात्, क्षेत्रज्ञेषु यत् किञ्चिद् अंशांशतया प्रवेशान् ममैव ज्ञानं मतम् इति ।

तस्मात् साधूक्तं मुख्यं क्षेत्रज्ञत्वं परमात्मन्य् एवेति ।

अत्र श्री-भगवतः परमात्म-रूपेणाविर्भावोऽपि, अजनि च यन्-मयं तद् अविमुच्य नियन्तृ भवेत् [भा।पु। १०.८७.३०] इत्य्-उक्त-दिशा शक्ति-विशेषालिङ्गिताद् यस्माद् एवांशाज् जीवानाम् आविर्भावः, तेनैवेति ज्ञेयम् । तद् उक्तं तत्रैव—विष्टभ्याहम् [गीता १०.४२] इत्य्-आदि । श्री-विष्णु-पुराणे च—

यस्यायुतांशांशे विश्व-शक्तिर् इयं स्थिता ।
पर-ब्रह्म-स्वरूपस्य प्रणमाम तम् अव्ययम् ॥ [वि।पु। १.९.५३] इति ।

पूर्ण-शुद्ध-शक्तिस् तु कला-काष्ठा-निमेषादि- [वि।पु। १.९.४४]24 इत्य् अनेन दर्शिता ।

तथा श्री-नारद-पञ्चरात्रे, नारद उवाच—

शुद्ध-सर्गम् अहं देव ज्ञातुम् इच्छामि तत्त्वतः ।
सर्ग-द्वयस्य चैवास्य यः परत्वेन वर्तते ॥

तत्रैतत्-पूर्वोक्तः प्राधानिकः शाक्तश् चेत्य् एतत् सर्ग-द्वयस्येति ज्ञेयम् ।

श्री-भगवान् उवाच—
यः सर्व-व्यापको देवः पर-ब्रह्म च शाश्वतम् ।
चित्-सामान्यं जगत्य् अस्मिन् परमानन्द-लक्षणम् ॥
वासुदेवाद् अभिन्नं तु वह्न्य्-अर्केन्दु-शत-प्रभम् ।
वासुदेवोऽपि भगवांस् तद्-धर्मा परमेश्वरः ॥
स्वां दीप्तिं क्षोभयत्य् एव तेजसा तेन वै युतम् ।
प्रकाश-रूपो भगवान् अच्युतं चासृजद्25 द्विज ॥
सोऽच्युतोऽच्युत-तेजाश् च स्वरूपं वितनोति वै ।
आश्रित्य वासुदेवं च स्वस्थो मेघो जलं यथा ॥
क्षोभयित्वा स्वम् आत्मानं सत्य-भास्वर-विग्रहम् ।
उत्पादयामास तदा समुद्रोर्मि-जलं यथा ॥
स चिन्मयः प्रकाशात्मा उत्पाद्यात्मानम् आत्मना ।
पुरुषाख्यम् अनन्तं च प्रकाश-प्रसरं महत् ॥
स च वै सर्व-जीवानाम् आश्रयः परमेश्वरः ।
अन्तर्यामी च तेषां वै तारकाणाम् इवाम्बरम् ॥
सेन्धनः पावको यद्वत् स्फुलिङ्ग-निचयं द्विज ।
अनिच्छातः प्रेरयति तद्वद् एष परः प्रभुः ॥
प्राग्-वासना-निबन्धानां बन्धानां च विमुक्तये ।
तस्माद् विद्धि तद्-अंशांस् तान् सर्वांशं तम् अजम् प्रभुम् ॥ इति ।

अत एव यत् तु ब्रह्मादौ श्री-प्रद्युम्नस्य, मन्व्-आदौ श्री-विष्णोः, रुद्रादौ श्री-सङ्कर्षणस्यान्तर्यामित्वं श्रूयते, तन् नानांशम् आदायावतीर्णस्य तस्यैव तत्-तद्-अंशेन तत्-तद्-अन्तर्यामित्वम् इति मन्तव्यम् । अत एव रुद्रस्य सङ्कर्षण-प्रकृतित्वं पुरुष-प्रकृतित्वं चेत्य् उभयम् अप्य् आम्नातं, प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञां… भव उपधावति26 [भा।पु। ५.१७.१६] इत्य्-आदौ, आदाव् अभूच् छत-धृतिर्27 [भा।पु। ११.४.५] इत्य्-आदौ च। एष एव—

भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वम् एकः पञ्चधा स्थितः ॥ [वि।पु। ५.१८.५०]

इत्य्-आदौ विवृतः । तस्मात् सर्वान्तर्यामी पुरुष एव ब्रह्मेति परमात्मेति [भा।पु। १.२.११] इत्य्-आदौ परमात्मत्वेन निर्दिस्ट इति स्थितम् । व्याख्यातं च स्वामिभिः नमस् तुभ्यं भगवते ब्रह्मणे परमात्मने [भा।पु। १०.२८.६] इत्य् अत्र वरुण-स्तुतौ—परमात्मने सर्व-जीव-नियन्त्रे इति ।

अस्य परमात्मनो मायोपाधितया पुरुषत्वं तूपचरितम् एव । तद् उक्तं वैष्णवे एव—

नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति
वृद्धिर् न यस्य परिणाम-विवर्जितस्य ।
नापक्षयं च समुपैत्य विकल्प-वस्तु
यस् तं नतोऽस्मि पुरुषोत्तमम् आद्यम् ईड्यम् ॥
तस्यैव योऽनु गुण-भुग् बहुधैक एव
शुद्धोऽप्य् अशुद्ध इव मूर्ति-विभाग-भेदैः ।
ज्ञानान्वितः सकल-सत्त्व-विभूति-कर्ता
तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥ [वि।पु। ६.८.६०-६१] इति ।

अत्र तस्यैव अनु पूर्वोक्तात् परमेश्वरात् समनन्तरम् । बहुधा ब्रह्मादि-रूपेण । अशुद्ध इव सृष्ट्य्-आदिष्व् आसक्त इव । मूर्ति-विभागानां दक्षादि-मन्व्-आदि-रूपाणां भेदैः । सर्व-सत्त्वानां विभूति-कर्ता विस्तार-कृत् इति स्वामी । तत्र गुण-भुग् इति षाड्-गुण्यानन्द-भोक्तेत्य् अर्थः ।

यत् तत् सूक्ष्मम् अविज्ञानम् अव्यक्तम् अचलं ध्रुवम् ।
इन्द्रियैर् इन्द्रियार्थैश् च सर्व-भूतैश् च वर्जितम् ॥
स ह्य् अन्तरात्मा भूतानां क्षेत्रज्ञश् चेति कथ्यते ।
त्रिगुण-व्यतिरिक्तो वै पुरुषश् चेति कल्पितः ॥ [म।भा। १२.३२१.२८-२९]

इति मोक्ष-धर्मेऽपि नारायणीयोपाख्याने । श्रुतयोऽप्य् एनं शुद्धत्वेनैव वर्णयन्ति—

एको देवो सर्व-भूतेषु गूढः
सर्व-व्यापी सर्व-भूतान्तरात्मा ।
कर्माध्यक्षः सर्व-भूताधिवासः
साक्सी चेताः केवलो निर्गुणश् च ॥ [श्वे।उ। ६.११] ।
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः जनयन्तीं28 सरूपाः ।
अजो ह्य् एको जूषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ [श्वे।उ। ४.५] इत्य्-आद्याः ।

तस्मात् साधु व्याख्यातं क्षेत्रज्ञ एता इत्य्-आदि-पद्य-द्वयम् ॥

॥ ५.११ ॥ श्री-ब्राह्मणो रहूगणम् ॥१॥

[२]

अथ तस्याविर्भावे योग्यता प्राग्वद् भक्तिर् एव ज्ञेया । आविर्भावस् तु त्रिधा, यथा नारदीये तन्त्रे—29

विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः ।
प्रथमं30 महतः स्रष्टृ द्वितीयं त्व् अण्ड-संस्थितम् ।
तृतीयं सर्व-भूत-स्थं तानि ज्ञात्वा विमुच्यते ॥ इति ।

तत्र प्रथमः—यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति [बृ।आ।उ। २.१.२०], स ऐक्षत [बृ।आ।उ। १.२.५] इत्य्-आद्य्-उक्तो महा-समष्टि-जीव-प्रकृत्योर् एकतापन्नयोर् द्रष्टेत्य् एक एव । अयम् एव सङ्कर्षण इति, महा-विष्णुर् इति च । ब्रह्म-संहितायां यथा—

तल्-लिङ्गं भगवान् शम्भुर् ज्योती-रूपं सनातनम् । [ब्र।सं। ५.८]
तस्मिन्न् आविरभूल् लिङ्गे महा-विष्णुर् जगत्-पतिः ॥ [ब्र।सं। ५.१०]

सहस्र-शीर्षा पुरुष [ब्र।सं। ५.११] इत्य् आरभ्य,

नारायणः स भगवान् आपस् तस्मात् सनातनात् ।
आविरासीत् कारणार्णो-निधिः सङ्कर्षणात्मकः ।
योग-निद्रां गतस् तस्मिन् सहस्रांशः स्वयं महान् ॥
तद्-रोम-बिल-जालेषु बीजं सङ्कर्षणस्य च ।
हैमान्य् अण्डानि जातानि महा-भूतावृतानि तु ॥ [ब्र।सं। ५.१२-१३] इत्य्-आदि ।

लिङ्गम् इति । यस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थिता [वि।पु। १.९.५३] इत्य् अनुसारेण तस्य महा-भगवतः श्री-गोविन्दस्य पुरुषोत्पादकत्वाल् लिङ्गम् इव लिङ्गं, यः खल्व् अंश-विशेषः, तद् एव शम्भुः, शम्भु-शब्दस्य मुख्याया वृत्तेर् आश्रय इत्य् अर्थः31

अथ द्वितीय-पुरुषः—तत् सृष्ट्वा तद् एवानुप्राविशत् [तै।उ। २.६.२] इत्य्-आद्य् उक्तः समष्टि-जीवान्तर्यामी । तेषां ब्रह्माण्डात्मकानां बहु-भेदाद् बहु-भेदः । तत्रैव सूक्ष्मान्तर्यामी प्रद्युम्नः, स्थूलान्तर्याम्य् अनिरुद्ध इति क्वचित् । अनेन महा-वैकुण्ठ-स्थाः सङ्कर्षणादयस् तद्-अंशिनः । ये तु चित्ताद्य्-अधिष्ठातारो वासुदेवादयस् ते तद्-अंशा एवेत्य्-आदि विवेचनीयम् ।

तृतीयोऽपि पुरुषः

द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते ।
एकस् तयोर् खादति पिप्पलान्नम्
अन्यो निरश्नन्न् अभिचाकशीति ॥32 [ऋग्-वेद १.१६३.२०, मु।उ। ३.१.१, श्वे।उ। ४.६]

इत्य्-आद्य्-उक्तो व्यष्ट्य्-अन्तर्यामी । तेषाम् बहु-भेदाद् बहु-भेदः ।

तत्र प्रथमस्याविर्भावो यथा—

आद्योऽवतारः पुरुषः परस्य

कालः स्वभावः सद् असन् मनश् च ।

द्रव्यं विकारो गुण इन्द्रियाणि

विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥****33 [भा।पु। २.६.४१] इति ।

टीका च—परस्य भूम्नः पुरुषः प्रकृति-प्रवर्तकः । यस्य सहस्र-शीर्ष- [ऋग्-वेद १०.९०.१] इत्य्-आद्य् उक्तो लीला-विग्रहः स आद्योऽवतारः । इत्य् एषा ॥

अत्र चान्यत्र चावतारत्वं नामैक-पाद-विभूत्य्-आविर्भावत्वं ज्ञेयम् ॥

॥ २.६ ॥ श्री-ब्रह्मा नारदम् ॥२॥

[३]

द्वितीयस्य यथा—

कालेन सोऽजः पुरुषायुषाभि-
प्रवृत्त-योगेन विरूढ-बोधः ।
स्वयं तद् अन्तर्-हृदयेऽवभातम्
अपश्यतापश्यत यन् न पूर्वम् ।
मृणाल-गौरायत-शेष-भोग-
पर्यङ्क एकं पुरुषं शयानम् ॥ [भा।पु। ३.८.२२-२३]

अयं गर्भोदक-स्थः सहस्र-शीर्षा प्रद्युम्न एव । पुरुषायुषा वत्सर-शतेन । योगो भक्ति-योगः ।

एतद् अग्रेऽप्य् अव्यक्त-मूलम्34 [भा।पु। ३.८.२९] इत्य् अत्र अव्यक्तं प्रधानं मूलम् अधो-भागो यस्येत्य् अर्थः । भुवनाङ्घ्रिपेन्द्रम् [भा।पु। ३.८.२९] इति । भुवनानि चतुर्दश तद्-रूपा अङ्घ्रिपाः, तेषाम् इन्द्रं तन्-नियन्तृत्वेन वर्तमानम् इत्य् अर्थः ॥

॥ ३.८ ॥ श्री-मैत्रेयो विदुरम् ॥३॥

[४]

तृतीयस्याविर्भावो यथा—

केचित् स्व-देहान्तर्-हृदयावकाशे
प्रादेश-मात्रं पुरुषं वसन्तम् ।
चतुर्-भुजं कञ्ज-रथाङ्ग-शङ्ख-
गदा-धरं धारणया स्मरन्ति ॥ [भा।पु। २.२.८]

प्रादेशस् तर्जन्य्-अङ्गुष्ठयोर् विस्तारः, तत्-प्रमाणं, हृद्य् अपेक्षया मनुष्याधिकारत्वात् [वे।सू। १.३.२५] इति न्यायेन ॥35

॥ २.२ ॥ श्री-शुकः ॥४॥

[५]

एवं पुरुषस्यानेक-विधत्वेऽपि दृष्टान्तेनैक्यम् उपपादयति—

यथानिलः स्थावर-जङ्गमानाम्
आत्म-स्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेवः
क्षेत्रज्ञ आत्मेदम् अनुप्रविष्टः ॥ [भा।पु। ५.११.१४]

आत्म-स्वरूपेण प्राण-रूपेण, निविष्ट ईशेद् ईशेत नियमयति । इदं विश्वम् । श्रुतिश् च—

वायुर् यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस् तथा सर्व-भूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश् च ॥ [क।उ। २.२.१०] इति काठके ॥

॥ ५.११ ॥ श्री-ब्राह्मणो रहूगणम् ॥५॥

[६]

तथा,

एक एव परो ह्य् आत्मा सर्वेषाम् एव देहिनाम् ।
नानेव गृह्यते मूढैर् यथा ज्योतिर् यथा नभः ॥ [भा।पु। १०.५४.४४]

देहिनां जीवानाम् । आत्मा परमात्मा ॥

॥ १०.५४ ॥ श्री-बलदेवः श्री-रुक्मिणीम् ॥६॥

[७]

एवम् एक एव परो ह्य् आत्मा
भूतेष्व् आत्मन्य् अवस्थितः ।
यथेन्दुर् उद-पात्रेषु
भूतान्य् एकात्मकानि च ॥ [भा।पु। ११.१८.३२]

भूतेषु जीवेषु एक एव पर आत्मा, न त्व् असौ जीववत् तत्र तत्र लिप्तो भवति इत्य् आह—आत्मनि स्व-स्वरूप एव अवस्थितःभूतानि जीव-देहा अपि येन कारण-रूपेणैकात्मकानीति ॥

॥ ११.१८ ॥ श्री-भगवान् उद्धवम् ॥७॥

[८]

एवम् एकस्य पुरुषस्य नानात्वम् उपपाद्य तस्य पुनर् अंशा विव्रियन्ते । अत्र द्विविधा अंशा स्वांशा विभिन्नांशाश् च । विभिन्नांशास् तटस्थ-शक्त्य्-आत्मका जीवा इति वक्ष्यते । स्वांशास् तु गुण-लीलाद्य्-अवतार-भेदेन विविधाः । तत्र लीलाद्य्-अवताराः प्रसङ्ग-सङ्गत्या श्री-कृष्ण-सन्दर्भे वक्ष्यते ।

गुणावतारा36 यथा—

आदाव् अभूच् छत-धृती रजसा ऽस्य सर्गे
विष्णुः स्थितौ क्रतु-पतिर् द्विज-धर्म-सेतुः ।
रुद्रोऽप्ययाय तमसा पुरुषः स आद्य
इत्य् उद्भव-स्थिति-लयाः सततं प्रजासु ॥ [भा।पु। ११.४.५]

युगपत् गुण-त्रयाधिष्ठाता आद्यः पुरुषः
पृथक् पृथग् अपि तत्-तद्-गुणाधिष्ठान-लीलयैव
आदौ रजसा अस्य जगतः सर्गे विसर्गे कार्ये
शत-धृतिर् ब्रह्मा अभूत्
स्थितौ विष्णुः सत्त्वेनेति शेषः ।
तत्र साक्षाद्-गुणानुक्तिश् च37 तस्यातिरोहित-स्वरूपतया तत्-सम्बन्धोपचारस्याप्य् उट्टङ्कनम् अयुक्तम् इत्य् अभिप्रायेण । पालन-कर्तृत्वेन क्रतु-पतिस् तत्-फल-दाता ।
यज्ञ-रूपस् तु लीलावतार-मध्य एव श्री-ब्रह्मणा द्वितीये गणितः । द्विजानां धर्मानांसेतुः पालक इत्य् अर्थः ।
तमसा तस्य आप्ययाय रुद्रो ऽभूत् इत्य् अनेन प्रकारेण उद्भव-स्थिति-लया भवन्तीति ।

विश्वास-टिप्पनी

shrI jIva takes रजसा in भा।पु। ११.४.५ literally (not रजो-गुण-प्रचुर etc.. as would make sense considering tons of usages like BG).

अत्र ब्रह्म-रुद्रयोर् अवतारावसरो मोक्ष-धर्मे विविक्तोऽस्ति38 । यथा—

ब्राह्मे रात्रि-क्षये प्राप्ते तस्य ह्य् अमित-तेजसः ।
प्रसादात् प्रादुरभवत् पद्मं पद्म-निभेक्षण ॥
तत्र ब्रह्मा समभवत् स तस्यैव प्रसादजः ।
अह्नः क्षये ललाटाच् च सुतो देवस्य वै तथा ।
क्रोधाविष्टस्य संजज्ञे रुद्रः संहार-कारकः ॥ [म।भा। १२.३२८.१५-१६] इति ।

श्री-विष्णोस् तु तृतीये दृश्यते—

तल्-लोक-पद्मं स उ एव विष्णुः
प्रावीविशत् सर्व-गुणावभासम् ।
तस्मिन् स्वयं वेद-मयो विधाता
स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ [भा।पु। ३.८.१५] इति ।

अस्यार्थः—तल्-लोकात्मकं पद्मम्सर्व-गुणान् जीव-भोग्यान् अर्थान् अवभासयतीति तथा। तत् यस्माज् जातं श्री-नारायणाख्यः पुरुष एव विष्णु-संज्ञः सन् स्थापन-रूपान्तर्यामितायै प्रावीविशत् प्रकर्षेनालुप्त-शक्तितयैवाविशत् । स्वार्थे णिच् । तस्मिन् श्री-विष्णुना लब्ध-स्थितौ पद्मं पुनः सृष्ट्य्-अर्थं स्वयम् एव ब्रह्माभूत् स्थितस्यैव मृद्-आदेर् घटादितया सृष्टेः । अत एव स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञा [भा।पु। १.२.२३] इत्य् अन्यत्रापि ॥

॥ ११.४ ॥ द्रुमिलो निमिम् ॥ ८ ॥

[९]

एवं—यो वा अहं च गिरिशं च विभुः स्वयं च [भा।पु। ३.९.१६] इत्य् आदौ त्रिपाद् इति ।39

टीका च—यो वै एकस् त्रिपात् त्रयो ब्रह्मादयः पादाः स्कन्धा यस्य इत्य् एषा । वृक्ष-रूपत्वेन तद्-वर्णनाद् एषां स्कन्धत्वम् ॥

॥३.९॥ ब्रह्मा गर्भोद-शायिनम् ॥९॥

[१०]

तेषाम् आविर्भावो यथा—

तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना ।
निर्गतेन मुनेर् मूर्ध्नः समीक्ष्य प्रभवस् त्रयः ॥
अप्सरो-मुनि-गन्धर्व-सिद्ध-विद्याधरोरगैः ।
वितायमान-यशसस् तद्-आश्रम-पदं ययुः ॥ [भा।पु। ४.१.२१-२२] इत्य्-आदि

मुनेर् अत्रेः । श्री-मैत्रेयः ॥१०॥

[११]

यथा वा—

सरस्वत्यास् तटे राजन् ऋषयः सत्रम् आसते ।
वितर्कः समभूत् तेषां त्रिष्व् अधीशेषु को महान् ॥ [भा।पु। १०.८९.१]

इत्य्-आदिर् इतिहासः ।

श्री-विष्णोः स्थानं च क्षीरोदादिकं पाद्मोत्तर-खण्डादौ जगत्-पालन-निमित्तक-निवेदनार्थं ब्रह्मादयस् तत्र मुहुर् गच्छतीति प्रसिद्धेः, विष्णु-लोकतया प्रसिद्धेश् च। बृहत्-सहस्र-नाम्नि च क्षीराब्धि-मन्दिर इति तन्-नाम-गणे पठ्यते । श्वेतद्वीप-पतेः क्वचिद् अनिरुद्धतया ख्यातिश् च, तस्य साक्षाद् एवाविर्भाव इत्य् अपेक्षयेति ॥

एवं परीक्षया40 तत्र त्रिदेव्यास् तारतम्यम् अपि स्फुटम् ।

॥ १०.८९ ॥ श्री-शुकः ॥११॥

[१२]

तथा चान्यत्र द्वयेनाह—

सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर्
युक्तः परः पुरुष एक इहास्य धत्ते ।
स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः ॥ [भा।पु। १.२.२३]

इह यद्यप्य् एक एव परः पुमान् अस्य विश्वस्य स्थित्य्-आदये सृष्टि-स्थिति-लयार्थं तैः सत्त्वादिभिर् युक्तः पृथक् पृथक् तत्-तद्-अधिष्ठाता, तथापि परस् तत्-तद्-असंश्लिष्टः सन् हरि-विरिञ्च-हरेति संज्ञा भिन्ना धत्ते, तत्-तद्-रूपेणाविर्भवतीत्य् अर्थः । तत्रापि तत्र तेषां मध्ये श्रेयांसि धर्मार्थ-काम-मोक्ष-भक्त्य्-आख्यानि शुभ-फलानि सत्त्व-तनोर् अधिष्ठित-सत्त्व-शक्तेः श्री-विष्णोर् एव स्युः

अयं भावः—उपाधि-दृष्ट्या तौ द्वौ सेवमाने रजस्-तमसोर् घोर-मूढत्वाद् भवन्तोऽपि धर्मार्थ-कामा नाति-सुखदा भवन्ति, तथोपाधि-त्यागेन सेवमाने भवन्न् अपि मोक्षो न साक्षान् न च झटिति, किन्तु कथम् अपि परमात्मांश एवायम् इत्य् अनुसन्धानाभ्यासेनैव परमात्मन एव भवति । तत्र तत्र साक्षात् परमात्माकारेणाप्रकाशात्41 तस्मात् ताभ्यां श्रेयांसि न भवन्ति ।

अथोपाधि-दृष्ट्यापि श्री-विष्णुं सेवमाने सत्त्वस्य शान्तत्वात् धर्मार्थ-कामा अपि सुखदाः । तत्र निष्कामत्वेन तु तं सेवमाने सत्त्वात् सञ्जायते ज्ञानम् [गीता १४.१७] इति, कैवल्यं सात्त्विकं ज्ञानम् [भा।पु। ११.२५.२४] इति चोक्तेर् मोक्षश् च साक्षात् ।

अत उक्तं स्कान्दे—

बन्धको भव-पाशेन भव-पाशाच् च मोचकः42
कैवल्यदः परं ब्रह्म विष्णुर् एव सनातनः ॥ इति ।

उपाधि-परित्यागेन तु पञ्चम-पुरुषार्थो भक्तिर् एव भवति, तस्य परमात्माकारेणैव प्रकाशात् । तस्मात् श्री-विष्णोर् एव श्रेयांसि स्युर् इति ।

[१३]

अत्र तु यत् त्रयाणाम् अभेद-वाक्येनोपजप्त-मतयो विवदन्ते, तत्रेदं ब्रूमः—यद्यपि तारतम्यम् इदम् अधिष्ठान-गतम् एव, अधिष्ठाता तु परः पुरुष एक एवेति भेदासम्भवात् । सत्यम् एवाभेद-वाक्यं, तथापि तस्य तत्र तत्र साक्षात्त्वासाक्षात्त्व-भेदेन प्रकाशेन तारतम्यं दुर्निवारम् एवेति स-दृष्टान्तम् आह—

पार्थिवाद् दारुणो धूमस्
तस्माद् अग्निस् त्रयीमयः ।
तमसस् तु रजस् तस्मात्
सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [भा।पु। १.२.२४]

पार्थिवात्, न तु धूमवद् अंशेनाग्नेयात्, तत एव वेदोक्त-कर्मणः साक्षात् प्रवृत्ति-प्रकाश-रहिताद् दारुणो यज्ञीयान् मथन-काष्ठात् सकाशाद् अंशेनाग्नेयो धूमस् त्रयीमयः पूर्वापेक्षया वेदोक्त-कर्माधिक्याविर्भावास्पदम् । तस्माद् अपि स्वयम् अग्निस् त्रयीमयः साक्षात् तद्-उक्त-कर्माविर्भावास्पदम् ।43

एवं काष्ठ-स्थानीयात् सत्त्व-गुण-विदूरात् तमसः सकाशाद् धूम-स्थानीयं किञ्चित् सत्त्व-सन्निहितं रजो ब्रह्म-दर्शनं—वेदोक्त-कर्म-स्थानीयस्य तत्-तद्-अवतारिणः पुरुषस्य44 प्रकाश-द्वारम् । तु-शब्देन लयात्मकात् तमसः सकाशाद् रजसः सोपाधिक-ज्ञान-हेतुत्वेनेषद्-गुण-च्छवि-प्रादुर्भाव-रूपं किञ्चित् ब्रह्म-दर्शन-प्रत्यासत्ति-मात्रम् उक्तं, न तु सर्वथा, विक्षेपकत्वम् । यद् अग्नि-स्थानीयं सत्त्वं, तत् साक्षात् ब्रह्मणो दर्शनम् । साक्षाद् एव सम्यक् तत्-तद्-गुण-रूपाविर्भाव-द्वारं, शान्त-स्वच्छ-स्वभावात्मकत्वात् । अतो ब्रह्म-शिवयोर् असाक्षात्त्वं, श्री-विष्णौ तु साक्षात्त्वं सिद्धम् इति भावः ।

तथा च श्री-वामन-पुराणे—

ब्रह्म-विष्ण्व्-ईश-रूपाणि त्रीणि विष्णोर् महात्मनः ।
ब्रह्मणि ब्रह्म-रूपः स शिव-रूपः शिवे स्थितः ।
पृथग् एव स्थितो देवो विष्णु-रूपी जनार्दनः ॥ इति ।

तद् उक्तं ब्रह्म-संहितायां—

भास्वान् यथाश्म-शकलेषु निजेषु तेजः
स्वीयं कियत् प्रकटयत्य् अपि तद्वद् अत्र ।
ब्रह्मा य एव जगद्-अण्ड-विधान-कर्ता
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४८]
क्षीरं यथा दधि विकार-विशेष-योगात्
सञ्जायते न तु ततः पृथग् अस्ति हेतोः ।
यः शम्भुताम् अपि तथा समुपैति कार्याद्
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४५]
दीपार्चिर् एव हि दशान्तरम् अभ्युपेत्य
दीपायते विवृत-हेतु-समान-धर्मा ।
यस् तादृग् एव हि च विष्णुतया विभाति
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४६] इत्य् आदि ।

न च दधि-दृष्टान्तेन विकारित्वम् आयातम् । तस्य श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] इति न्यायेन मुहुः परिहृतत्वात् । यथोक्तम्—यत उदयास्त-मयौ विकृतेर् मृद् इवाविकृतात् [भा।पु। १०.८७.१५]45 इति ।

दृष्टान्त-त्रयेण तु क्रमेणेदं लभ्यते—सूर्य-कान्त-स्थानीये ब्रह्मोपाधौ सूर्यस्येव तस्य किञ्चित् प्रकाशः । दधि-स्थानीये शम्भूपाधौ क्षीर-स्थानीयस्य न तादृग् अपि प्रकाशः। दशान्तर-स्थानीये विष्णूपाधौ तु पूर्ण एव प्रकाश इति ॥

॥ १.२ ॥ श्री-सूतः ॥१३॥

[१४]

एवम् एवाह त्रिभिः—

शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः ।
वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा ॥
ततो विकारा अभवन् षोडशामीषु कञ्चन**46 ।**
उपधावन् विभूतीनां सर्वासाम् अश्नुते गतिम् ॥
हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥
[भा।पु। १०.८८.३-५] इति ।

शश्वच् छक्ति-युतः प्रथमतस् तावन् नित्यम् एव शक्त्या गुण-साम्यावस्थ-प्रकृतिज-रूपोपाधिना युक्तः, गुण-क्षोभे सति त्रिलिङ्गो गुण-त्रयोपाधिः । प्रकटैश् च सद्भिस् तैर् गुणैः संवृतश् च ।

ननु तम-उपाधित्वम् एव तस्य श्रूयते, कथं तत्-तद्-उपाधित्वं ? तत्र वैकारिक इति । अहम् अहं-तत्त्वं हि तत्-तद्-रूपेण त्रिधा । स च तद्-अधिष्ठातेत्य् अर्थः । मुख्यतया नास्तां नामान्यद् गुण-द्वयं, गौणतया त्व् आस्त एवेत्य् अर्थः ।

ततस् तेन भगवत्-प्रतिनिधि-रूपेणाधिष्ठिताद् अहं-तत्त्वात् षोडश-विकारा ये अभवन्, अमीषु विकारेषु मध्ये सर्वासां विभूतीनां सम्बन्धिनं कञ्चन उपधावन् तद्-उपाधिकत्वेन तम् उपासीनो गतिं प्राप्यं फलं लभते ।

हि प्रसिद्धौ हेतौ वा । हरिस् तु प्रकृतेर् उपाधितः परस् तद्-धर्मैर् अस्पृष्टः । अत एव निर्गुणोऽपि कुतस् त्रिलिङ्गत्वादिकम् इति भावः । तत्र हेतुः—साक्षाद् एव पुरुष ईश्वरः, न तु प्रतिबिम्बवद् व्यवधानेनेत्य् अर्थः । अतो विद्याविद्ये मम तनू [भा।पु। ११.११.३, §५४] इतिवत् तनु-शब्दोपादानात् कुत्रचित् सत्त्व-शक्तित्व-श्रवणम् अपि प्रेक्षादि-मात्रेणोपकारित्वाद् इति भावः । अत एव सर्वेषां शिव-ब्रह्मादीनां दृक् ज्ञानं यस्मात् तथाभूतः सन्न् उपद्रष्टा तद्-आदि-साक्षी भवति । अतः स तं भजन् निर्गुणो भवेद् गुणातीत-फल-भाग् भवतीति ॥

॥ १०.८८ ॥ श्री-शुकः ॥१४॥

[१५]

अत एव विष्णोर् एव परम-पुरुषेण साक्षाद् अभेदोक्तिम् आह—

सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥ [भा।पु। २.६.३१] इति ।

अहं ब्रह्मा । श्रुतिश् चात्र—

स ब्रह्मणा सृजति स रुद्रेण विलापयति ।
सोऽनुत्पत्तिर् अलय एव हरिः परः परमानन्दः ॥ इति महोपनिषदि [२.३.१४]47

॥ २.६ ॥ ब्रह्मा नारदम् ॥१५॥

[१६]

तत्रैवाह—

अत्रानुवर्ण्यतेऽभीक्ष्णं
विश्वात्मा भगवान् हरिः ।
यस्य प्रसाद-जो ब्रह्मा
रुद्रः क्रोध-समुद्भवः ॥ [भा। १२.५.१]

अत्र श्री-विष्णुर् न कथित इति तेन साक्षाद् अभेद एवेत्य् आयातम् । तद् उक्तम्—स उ एव विष्णुर् [भा।पु। ३.८.१५] इति । श्रुतिश् च, पुरुषो वै नारायणोऽकामयत अथ नारायणाद् अजोऽजायत यतः प्रजाः सर्वाणि भूतानि [ना।उ। १] इति ।

नारायणः परं ब्रह्म
तत्त्वं नारायणः परम् ।
ऋतं सत्यं परं ब्रह्म
पुरुषं कृष्ण-पिङ्गलम् ॥ [म।ना।उ। १३.४] इति ।
एको ह नारायण आसीन्, न ब्रह्मा, न च शङ्करः । स मुनिर् भूत्वा समचिन्तयत् ।
तत एव व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर् वरुण-रुद्रेन्द्रा48 इति च ।

तस्मात् तस्यैव वर्णनीयत्वम् अपि युक्तम् ।

॥ १२.५ ॥ श्री-सूतः ॥ १६ ॥

[१७.१]

ननु, त्रयाणाम् एक-भावानां यो न पश्यति वै भिदां [भा।पु। ४.७.५४], तथा न ते मय्य् अच्युतेऽजे च भिदाम् अण्व् अपि चक्षते [भा।पु। १२.१०.२२] इत्य्-आदाव् अभेदः श्रूयते, पुराणान्तरे च विष्णुतस् तयोर् भेदे नरकः श्रूयते ?

सत्यं, वयम् अपि भेदं न ब्रूमः, परम-पुरुषस्यैव तत्-तद्-रूपम् इत्य् एकात्मत्वेनैवोपक्रान्तत्वात् । शिवो ब्रह्मा च भिन्न-स्वभावादितया दृश्यमानोऽपि प्रलये सृष्टौ च तस्मात् स्वतन्त्र एवान्य ईश्वर इति न मन्तव्यं, किन्तु विष्ण्व्-आत्मक एव स स इति हि तत्रार्थः । तद् उक्तं, ब्रह्मणि ब्रह्म-रूपः सः [वाम।पु।]49 इत्य्-आदि ।

न च प्रकाशस्य साक्षाद्-असाक्षाद्-रूपत्वादि-तारतम्यं वयं कल्पयामः, परं शास्त्रम् एव वदति50 । शास्त्रं तु दर्शितम् । एवं भगवद्-अवतारानुक्रमणिकासु त्रयाणां भेदम् अङ्गीकृत्यैव केवलस्य श्री-दत्तस्य गणना सोम-दूर्वासोस् त्व् अगणना ।

किं च, ब्राह्मे ब्रह्म-वैवर्ते च ब्रह्म-वाक्यं—

नाहं शिवो न चान्ये च तच्-छक्त्य्-एकाङ्ग-भागिनः ।
बाल-क्रीडनकैर् यद्वत् क्रीडतेऽस्माभिर् अच्युतः ॥ इति ।

अत एव श्रुतौ—यं कामये तम् उग्रं कृणोमि तं ब्रह्माणं तम् ऋषिं तं सुमेधाम् इत्य् उक्त्वा, मम योनिर् अप्स्व् अन्तः [ऋग्-वेद १०.१२५.५,७] इति शक्ति-वचनम् । अप्स्व् अन्तर् इति कारणोदशायी सूच्यते, आपो नारा इति प्रोक्ता [वि।पु। १.४.६] इत्य्-आदेः । योनिः कारणम् ।

एवम् एव स्कान्दे—

ब्रह्मेशानादिभिर् देवैर् यत् प्राप्तुं नैव शक्यते ।
तद्वत् स्वभावः कैवल्यं स भवान् केवलो हरे ॥ इति ।

तथा विष्णु-सामान्य-दर्शिनो दोषः श्रूयते । यथा वैष्णव-तन्त्रे—

न लभेयुः पुनर् भक्तिं हरेर् ऐकान्तिकीं जडाः ।
एकाग्र-मनसश् चापि विष्णु-सामान्य-दर्शिनः ॥ इति ।

अन्यत्र–

यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ [प।पु। ६.२३५.९] इति ।

तथा च मन्त्र-वर्णः—मध्ये वामनम् आसीनं विश्वे-देवा उपासते [कठ।उ। २.२.३] इति ।

[१७.२]

ननु क्वचिद् अन्य-शास्त्रे शिवस्यैव परम-देवत्वम् उच्यते ? सत्यं, तथापि शास्त्रस्य सारासारत्व-विवेकेन तद् बाधितम् इति । तथा च पाद्म-शैवयोर् उमां प्रति श्री-शिवेन श्री-विष्णु-वाक्यम् अनुकृतम्—

त्वाम् आराध्यतया शम्भो ग्रहीष्यामि वरं सदा ।
द्वापरादौ युगे भूत्वा कलया मनुषादिषु ॥
स्वागमैः कल्पितैस् त्वं तु जनान् मद्-विमुखान् कुरु ।
मां च गोपय येन स्यात् सृष्टिर् एषोत्तरोत्तरा ॥ इति ।

वाराहे च—

एष मोहं सृजाम्य् आशु यो जनान् मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोह-शास्त्राणि कारय ॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
प्रकाशं कुरु चात्मानम् अप्रकाशं च मां कुरु ॥ इति ।

पुराणानां च मध्ये यद् यत् सात्त्विक-कल्प-कथा-मयं, तत् तत् श्री-विष्णु-महिमा-परं, यद् यत् तामस-कल्प-कथामयं,51 तच् छिवादि-महिम-परम् इति । श्री-विष्णु-प्रतिपादक-पुराणस्यैव52 सम्यग्-ज्ञान-प्रदत्वम्, सत्त्वात् सञ्जायते ज्ञानम् [गीता १४.१७] इति दर्शनात् । तथा च मात्स्ये—

सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः ।
राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥
तद्वद् अग्नेश् च माहात्म्यं तामसेषु शिवस्य च ।
सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥ इति ।
वैष्णवं नारदीयं च तथा भागवतं शुभे ।
गारुडं च तथा पाद्मं वाराहं शुभ-दृशे ।
ब्रह्माण्डं ब्रह्म-वैवर्तं मार्कण्डेयं तथैव च ।
भविष्यं वामनं ब्राह्म्यं राजसानि निगद्यते ।
मात्स्यं कूर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च ।
आग्नेयकं तथैतानि तामसानि निगद्यते ॥ इत्य्-आदि ।

अत उक्तं स्कान्दे षण्मुखं प्रति श्री-शिवेन—

शिव-शास्त्रेषु तद् ग्राह्यं भगवच्-छास्त्र-योगि यत् ।
परमो विष्णुर् एवैकस् तज्-ज्ञानं मोक्ष-साधनम् ।
शास्त्राणां निर्णयस् त्व् एष तद् अन्यन् मोहनाय हि ॥ इति ।

[१७.३]

तथैव च द्रष्टुं मोक्ष-धर्मे नारायणोपाख्याने—

सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा ।
ज्ञानान्य् एतानि राजर्षे विद्धि नाना-मतानि वै ॥१॥
सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते ।
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥२॥
अपान्तरतमाश् चैव वेदाचार्यः स उच्यते ।
प्राचीनगर्भं तम् ऋषिं प्रवदन्तीह केचन ॥३॥
उमापतिर् भूतपतिः श्रीकन्थो ब्रह्मणः सुतः ।
उक्तवान् इदम् अव्यग्रो ज्ञानं पाशुपतं शिवः ॥४॥
पञ्चरात्रस्य कृत्स्नस्य वक्ता तु भगवान् स्वयम् ।
सर्वेषु च नृप-श्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते ॥५॥
यथागमं यथा-ज्ञानं निष्ठा नारायणः प्रभुः ।
न चैनम् एवं जानन्ति तमो-भूता विशां-पते ॥६॥
तम् एव शास्त्र-कर्तारः प्रवदन्ति मनीषिणः ।
निष्ठां नारायणम् ऋषिं नान्योऽस्तीति वचो मम ॥७॥
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः ।
स-संशयान् हेतु-बलान् नाध्यावसति माधवः ॥८॥
पञ्चरात्र-विदो ये तु यथा-क्रम-परा नृप ।
एकान्त-भावोपगतास् ते हरिं प्रविशन्ति वै ॥९॥
सांख्यं च योगं च सनातने द्वे
वेदाश् च सर्वे निखिलेन राजन् ।
सर्वैः समस्तैर् ऋषिभिर् निरुक्तो
नारायणो विश्वम् इदं पुराणम् ॥१०॥ [म।भा। १२.३३७.५९-६८] इति ।

अत्र अपान्तरतमा इति श्री-कृष्ण-द्वैपायनस्यैव जन्मान्तर-नाम-विशेष इति तत्रैव ज्ञेयम् ।

अत्रैवं व्याख्येयम् । पञ्चरात्र-सम्मतं श्री-नारायणम् एव सर्वोत्तमत्वेन वक्तुं नाना-मतं दर्शयति—साङ्ख्यम् (१) इति । तत्र पञ्चरात्रम् एव गरिष्ठम् आचष्टे—

पञ्चरात्रस्य इत्य्-आदौ, भगवान् स्वयम् (५) इति ।

अथ—द्वौ भूत-सर्गौ लोकेऽस्मिन् दैव आसुर एव च [गीता १६.६] इति श्री-गीतासु श्रूयते । यद् एव तानि नाना-मतानि (१) इत्य् उक्तं, तत् त्व् आसुर-प्रकृत्य्-अनुसारेणेति ज्ञेयम् । दैव-प्रकृतयस् तु तत्-तत्-सर्वावलोकेन पञ्चरात्र-प्रतिपाद्ये श्री-नारायण एव पर्यवस्यन्तीत्य् आह—सर्वेषु (५) इति।

आसुरांस् तु निन्दति—न चैनम् (६) इति । तद् उक्तं विष्णु-धर्माग्नि-पुराणयोः—

द्वौ भूत-सर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
विष्णु-भक्ति-परो दैव आसुरस् तद्-विपर्ययः ॥ [अग्नि-पुराण ३८१.३९] इति ।

ननु तत्र तत्र नाना-मतय एव दृश्यन्ते, तत्राह—तम् एव (७) इति । पञ्चरात्रेतर-शास्त्र-कर्तारो हि द्वि-विधाः—किञ्चिज्-ज्ञाः सर्व-ज्ञाश् च । तत्राद्या यथा—स्व-स्व-ज्ञानानुसारेण यत् किञ्चित् तत्त्वैक-देशं वदन्ति, तत् तु समुद्रैक-देश-वर्णनं समुद्र इव पूर्ण-तत्त्वे श्री-नारायण एव पर्यवस्यति इति ते तम् एव किञ्चिद् वदन्ति । ये तु सर्वज्ञास् ते चैवम् अभिप्रयन्ति—नास्माभिर् आसुराणां मोहनार्थम् एव कृतानि शास्त्राणि, किन्तु दैवानां व्यतिरेकेण बोधनार्थम् । ते हि रजस्-तमः-शबलस्य खण्डस्य च तत्त्वस्य तथा क्लेश-बहुलस्य साधनस्य प्रतिपादकान्य् एतानि शास्त्राणि दृष्ट्वा, वेदांश् च दुर्गान् दृष्ट्वा निर्विद्य, सर्व-वेदार्थ-सारस्य शुद्धाखण्ड-तत्त्व-श्री-नारायणस्य सुख-मय-तद्-आराधनस्य च सुष्ठु प्रतिपादके पञ्चरात्रे एव गाढं प्रवेक्ष्यन्तीति । तद् एतद् आह—निःसंशयेषु (८) इति।

तस्माज् झटिति वेदार्थ-प्रतिपत्तये पञ्चरात्रम् एवाधेतव्यम् इत्य् आह—पञ्चरात्र- (९) इति ।

यत एवं तत उपसंहरति—साङ्ख्यं च योगश् च (१०) इति । तद् एवं पञ्चरात्र-प्रतिपाद्यस्य श्री-भगवत एवम् उत्कर्षे स्थिते, आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य्-आद्य् असकृद् अपूर्वम् उपदिशता श्री-भागवतेन प्रतिपाद्य-रूपस्य तस्य किम् उतेत्य् अपि विवेचनीयम् ।

[१७.४]

तद् एतद्-उक्तानुसारेण सदा-शिवेश्वर-त्रिदेवी-रूप-व्यूहोऽपि निरस्तः । तस्माद् एव च श्री-भगवत्-पुरुषयोर् एव शैवागमे सदा-शिवादि-संज्ञे तन्-महिम-ख्यापनाय धृत इति गम्यते53 । सर्व-शास्त्र-शिरोमणौ श्री-भागवते तु त्रिदेव्याम् एव तत्-तारतम्य-जिज्ञासा, पुरुष-भगवतोस् तु तत्-प्रसङ्ग एव नास्ति ।

ब्रह्मादयो यत्-कृत-सेतु-पाला
यत्-कारणं विश्वम् इदं च माया ।
आज्ञा-करी यस्य पिशाच-चर्या
अहो विभूम्नश् चरितं विडम्बनम् ॥ [भा।पु। ३.१४.२९]

इत्य् अत्र तृतीये गुणावतारत्वेन परमेश्वराभेद-दृष्ट्या तथात्वम् उक्तम् इति ज्ञेयम् ।54

ननु,

न ते गिरित्राखिल-लोकपाल-
विरिञ्च-वैकुण्ठ-सुरेन्द्र-गम्यम् ।
ज्योतिः परं यत्र रजस् तमश् च
सत्त्वं न यद् ब्रह्म निरस्त-भेदम् ॥ [भा।पु। ८.७.३१]

इत्य् अत्र तस्य परत्वं श्रूयते एवाष्टमे ? मैवम् । महिम्ना स्तूयमाना हि देवा वीर्येण वर्धन्ते इति वैदिक-न्यायेन तद्-युक्तेः । स हि स्तवः काल-कूट-नाशनार्थ इति । तत्रैव प्रीते हरौ भगवति प्रीयेऽहं सचराचरः [भा।पु। ८.७.४०] इति । तथा नवमे—

वयं न तात प्रभवाम भूम्नि
यस्मिन् परेऽन्येऽप्य् अज-जीव-कोषाः ।
भवन्ति काले न भवन्ति हीदृशाः
सहस्रशो यत्र वयं भ्रमामः ॥ [भा।पु। ९.४.५६] इति ।

एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्र-यन्त्रिताः [भा।पु। ५.१७.२३] इति च तद्-वाक्य-विरोधात् ।

अथवा यत् शिवस्य ज्योतिस् तत्र स्थितं परमात्माख्यं चैतन्यं तत्-सम्यग्-ज्ञाने तस्याप्य् अक्षमता युक्तैव । यद् उक्तम्—

द्यु-पतय एव ते न ययुर् अन्तम् अनन्ततया
त्वम् अपि यद्-अन्तराण्ड-निचया ननु सावरणाः । [भा।पु। १०.८७.४१] इति ।

ब्रह्म-संहिता-मते तु भगवद्-अङ्ग-विशेष55 एव सदा-शिवो न त्व् अन्यः । यथा तत्रैव सर्वादि-कारण-गोविन्द-कथने—

नियतिः सा रमा-देवी तत्-प्रिया तद्-वशंवदा ।
तल्-लिङ्गे भगवान् शम्भुर् ज्योती-रूपः सनातनः ॥
या योनिः सा परा शक्तिर् [ब्रह्म-संहिता ५.७-८] इत्य्-आदि,
तस्मिन् आविर्भभूल् लिङ्गे महाविष्णुः इत्य्-आद्य्-अन्तम् ॥

तद् एतद् अभिप्रेत्य सदा-शिवत्वादि-प्रसिद्धिम् अप्य् आक्षिप्याह—

अथापि यत्-पद-नखावसृष्टं
जगद्-विरिञ्चोपहृतार्हणाम्भः ।
सेशं पुनात्य् अन्यतमो मुकुन्दात्
को नाम लोके भगवत्-पदार्थः ॥ [भा।पु। १.१८.२१]

स्पष्टम् ॥ १.१८ ॥ श्री-सूतः ॥१७॥

[१८]

तस्मान् नाहं न च शिवोऽन्ये च तच्-छक्त्य्-एकांश-भागिनः [ब्र।वै।पु।] इत्य् एवोक्तं साध्व् एव इत्य् आह—ब्रह्मा भवोऽहम् अपि यस्य कलाः कलायाः [भा।पु। १०.६८.३७] इति ।

शेषं स्पष्टम् ॥ १०.६८ ॥ श्री-बलदेवः ॥१८॥

[१९]

अथ परमात्म-परिकरेषु जीवः । तस्य च तटस्थ-लक्षणं क्षेत्रज्ञ एताः [भा।पु। ५.११.१२] इत्य् एवोक्तं56 । स्वरूप-लक्षणं पाद्मोत्तर-खण्डादिकम् अनुसृत्य, श्री-रामानुजाचार्य-मताचार्य-वरेण परम-वृद्ध-श्री-वैष्णव-सम्प्रदाय-गुरुणा57 श्री-जामातृ-मुनिनोपदिष्टम् । तत्र प्रणव-व्याख्याने पाद्मोत्तर-खण्डं, यथा—

ज्ञानाश्रयो ज्ञान-गुणश् चेतनः प्रकृतेः परः ।
न जातो निर्विकारश् च एक-रूपः स्वरूप-भाक्58
अणुर् नित्यो व्याप्ति-शीलश् चिद्-आनन्दात्मकस् तथा ।
अहम्-अर्थोऽव्ययः क्षेत्री भिन्न-रूपः सनातनः ॥

अदाह्योऽच्छेद्यो ह्य् अक्लेद्यस् त्व् अशोष्योऽक्षर एव च ।

एवम्-आदि-गुणैर् युक्तः शेष-भूतः परस्य वै ॥
म-कारेणोच्यते जीवः क्षेत्र-ज्ञः परवान् सदा ।
दास-भूतो हरेर् एव नान्यस्यैव कदाचन ॥ [प।पु। ६.२२६.३४-३७] इति ।

श्री-जामातृ-मुनिनाप्य् उपदिष्टं, यथा—

आत्मा न देवो न नरो न तिर्यक् स्थावरो न च ।
न देहो नेन्द्रियं नैव मनः प्राणो न नापि धीः ॥१॥
न जडो न विकारी च ज्ञान-मात्रात्मको न च ।
स्वस्मै स्वयं-प्रकाशः स्याद् एक-रूपः स्वरूप-भाक् ॥२॥
चेतनो व्याप्ति-शीलश् च चिद्-आनन्दात्मकस् तथा ।
अहम्-अर्थः प्रति-क्षेत्रं भिन्नोऽणुर् नित्य-निर्मलः ॥३॥
तथा ज्ञातृत्व-कर्तृत्व-भोक्तृत्व-निज-धर्मकः ।
परमात्मैक-शेषत्व-स्वभावः सर्वदा स्वतः ॥४॥ इति ।

श्री-रामानुज-भाष्यानुसारेण व्याख्या चेयम् । तत्र देवादित्वं निरस्तम् एवास्ति तत्त्व-सन्दर्भे—59

अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु
प्राणो हि जीवम् उपधावति तत्र तत्र ।
सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते
कूटस्थ आशयम् ऋते तद् अनुस्मृतिर् नः ॥ [भा।पु। ११.३.३९] इत्य् अनेन ॥

देहादित्वं निरस्यन्न् आह—

विलक्षणः स्थूल-सूक्ष्माद्
देहाद् आत्मेक्षिता स्व-दृक् ।
यथाग्निर् दारुणो दाह्याद्
दाहकोऽन्यः प्रकाशकः ॥ [भा।पु। ११.१०.८]

विलक्षणत्वे हेतुः—ईक्षिता तस्य द्रष्टा, प्रकाशकश् च, स्वयं तु स्व-दृक् स्व-प्रकाश इति ॥

॥ ११.१० ॥ श्री-भगवान् ॥१९॥

[२०]

जडत्वं निरस्यन्न् आह—

जाग्रत्-स्वप्न-सुषुप्तं च गुणतो बुद्धि-वृत्तयः ।
तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ [भा।पु। ११.१३.२७]

या तु मयि तुर्ये स्थितो जह्यात् [भा।पु। ११.१३.२८] इत्य्-आदौ परमेश्वरेऽपि तुर्यत्व-प्रसिद्धिः, सान्यथैव ।

विराट् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः ।
ईशस्य यत् त्रिभिर् हीनं तुरीयं तत्-पदं विदुः ॥60

इत्य्-आद्य्-उक्तेर् वासुदेवस्य चतुर्-व्यूहे तुर्य-कक्षाक्रान्तत्वाद् वा ॥

॥ ११.१३ ॥ श्री-भगवान् ॥२०॥

[२१]

विकारित्वं निरस्यन्न् आह—

विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः ।
कलानाम् इव चन्द्रस्य कालेनाव्यक्त-वर्त्मना ॥ [भा।पु। ११.७.४८]

चन्द्रस्य जल-मय-मण्डलत्वात् कलानां सूर्य-प्रतिच्छवि-रूप-ज्योतिर्-आत्मत्वात् यथा कलानाम् एव जन्माद्या नाशान्ता भावाः, न तु चन्द्रस्य, तथा देहस्यैव ते भावा अव्यक्त-वर्त्मना कालेन भवन्ति, त्व् आत्मन इत्य् अर्थः ॥

॥ ११.७ ॥ श्री-दत्तात्रेयो यदुम् ॥२१॥

[२२]

ज्ञान-मात्रात्मको न च [§१८] इति किं तर्हि ? ज्ञान-मात्रत्वेऽपि ज्ञान-शक्तित्वं प्रकाशस्य61 प्रकाशन-शक्तित्ववत्, तादृशत्वम् अपि62

नात्मा जजान न मरिष्यति नैधतेऽसौ
न क्षीयते सवन-विद् व्यभिचारिणां हि ।
सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं
प्राणो यथेन्द्रिय-बलेन विकल्पितं सत् ॥ [भा।पु। ११.३.३८]

इत्य् अनेन तत्त्व-सन्दर्भ एव दर्शितम्63 । अत्र उपलब्धि-मात्रत्वेऽपि सवनवित्त्वेनोक्तेः64 स्पष्टम् एव तादृश-ज्ञान-शक्तित्वम् । अत एव शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः [भा।पु। ५.११.१२] इत्य् उक्तम् । प्रकारान्तरेणापि तद् आह—

गुणैर् विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः ।
विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया ॥ [भा।पु। ३.२६.५]

अत्र विलोक्य इत्य् अनेन, मुमुहे इत्य् अनेन, ज्ञान-गूहया इत्य् अनेन च पराग्-भूतायाः प्रकृतेस् तत्-कृताद् अज्ञानाच् च प्रत्यग्-भूतं यज् ज्ञानं, तत् तस्य स्वरूप-शक्तिर् एव स्याद् इति गम्यते । श्री-गीतोपनिषदश् च तथा—अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [गीता ५.१५] इति ॥

॥ ३.२६ ॥ श्री-कपिलदेवः ॥२२॥

सर्व-संवादिनी: तत्र जीव-प्रकरणे ज्ञान-मात्रात्मको न च इत्य् अस्य व्याख्यायां युक्तिश् च दर्श्यते । अत्र निर्विशेष-वादिन एवं मन्यन्ते—देहादाव् आत्म-शब्द-प्रत्ययौ न गौणौ । गौण्यादि हि स-विशेष-वस्तूपजीव्यम् । यथा—“सिंहो देवदत्तः” इत्य् अत्र क्रौर्य-शौर्यादि-विशेषवान् सिंहः । तस्माद् विशेष-गन्ध-रहितस्यात्मनो भ्रान्त्यैव तच्-छब्द-प्रत्ययाव् इति ।

तद् एवं सति वयं ब्रूमः—निर्विकल्प-प्रत्यये भ्रमाभावाद् भ्रान्तिर् अपि स-विशेषत्वे प्रवर्तते, यथा शौक्लादि-समान-विशेषिणि शुक्ति-रजतादौ, नीलं नभ इत्य् आदौ च सूर्याद्य्-अंशे नभसश् च दृष्ट्याद्य्-अवकाश-प्रद-सूक्ष्म-वितत-समान-देश-स्थिताकारत्व-लक्षणेनैकेन विशेषेण जाताद् भ्रमांशाद् एव नभ इति प्रतीतिर् जायते । ततस् तदीय-नीलादि-प्रतिभासोऽपि नभस्य् एवारोप्यत इति स-विशेषत्वोपजीविन्य् एव भ्रान्तिर् इति, तस्मान् न ज्ञान-मात्रात्मेति ।

किं च, उपलब्धिर् ह्य् अनुभूतिः । अनुभूतित्वं च नाम वर्तमान-दशायां स्व-सत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वं वा भवेत्, स्व-सत्तयैव स्व-विषय-साधनत्वं वा भवेत् [वे।सू। १.१.१, श्री-भाष्य, अनु। ५७] । तत्रोभयथैव तन्-मात्र-वादि-मतेऽपि शक्तिमत्त्वापातः । तथा—विषय-प्रकाशनतयैवोपलब्धेर् एव हि संविदः स्वयं-प्रकाशता साधिता । संविदो विषय-प्रकाशनता-स्वभाव-विरहे सति स्वयं-प्रकाशत्वासिद्धेर् अनुभवान्तराननुभवान्तराननुभाव्यत्वाच् च तुच्छतैव स्यात् ।

स्वाप-मूर्च्छादिषु—सुखम् अहम् अस्वाप्सम् इत्य् आद्य्-अनुभवेन स-शक्तित्वम् एव साधयिष्यामः [भा।दी। ६.१६.५५] ।

यद् अपि नास्या दृशेर् दृशि-रूपाया दृश्यः कश्चिद् अपि धर्मोऽस्ति, दृश्यत्वाद् एव तेषां न दृशि-धर्मत्वम् इति तर्क्यते, तद् अपि स्वाभ्युपगतैः प्रमाण-सिद्धैर् नित्यत्व-स्वयं-प्रकाशत्वादि-धर्मैर् अनेकान्तकम्… तेषाम् अनित्यत्व-जडत्वाद्य्-अभाव-रूपतायाम् अपि तथा-भूतैर् अपि चैतन्य-धर्म-भूतैस् तैर् अनैकान्त्यम् अपरिहार्यम् । संविदि तु स्वरूपातिरेकेण जडत्वादि-प्रत्यनीकत्वम् इत्य् अभाव-रूपो भाव-रूपो वा धर्मो नाभ्युपेतश् चेत्, तत्-तन्-निषेधोक्त्या किम् अपि नोक्तं स्यात् ।

किं च, संवित् सिध्यति वा न वा ? सिध्यतीति चेत्, आयाता स-धर्मतास्याः । नो चेत्, तुच्छतापत्तिर् गगन-कुसुमादिवत् । सिद्धिर् एव संविद् इति चेत्, कस्य कं प्रतीति वक्तव्यम् । यदि न कस्यचित् कञ्चित् प्रति सा, तर्हि न सिद्धिः । सिद्धिर् हि पुत्रत्वम् इव कस्यचित् कञ्चित् प्रति भवति । [श्री-भाष्ये ६२-६३]

आत्मन इति चेत्, कोऽयम् आत्मा ? ननु संविद् एवेत्य् उक्तम् इति चेत्, संवित्-सिद्ध्योर् भेदावगमात् सा संवित् तदीया शक्तिर् एवेत्य् अवसीयते, न तु स्वरूपम् इति । तद् एवम् आयाता ज्ञान-मात्र-स्वरूपेऽपि स्वभाव-सिद्धा ज्ञातृत्व-नित्यत्वादि-धर्मवत्ता । पराभिध्यानात् [वे।सू। ३.२.५] इत्य् एतत् सूत्रं शङ्कर-मतेऽपि तस्य शक्तिमत्त्वं साधयति । तत् पुनर् ईश्वर-समान-धर्मत्वादिकम् अग्रे लेख्यम् ।

अथैकोनविंशतितम-वाक्य-व्याख्यान्तम् आरभ्य, सप्तत्रिंश-वाक्यावधि-ग्रन्थानुव्याख्या । स्वस्मै स्वयं-प्रकाशः इत्य् अत्रैवम् अपि वक्तव्यम् । अद्वैत-मतेऽप्य् अनुभूतित्वं नाम वर्तमान-दशायां स्व-सत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वं स्व-सत्तयैव स्व-विषय-साधनत्वं वा । ते चानुभाव्यत्वेऽपि स्वानुभव-सिद्धे नापगच्छत इति नानुभूतित्वम् अपगच्छति । ततो जीवस्य परानुमेयत्वे परमात्मनुभाव्यत्वेऽप्य् अनुभूतित्वं नापगच्छति ।

तद् एवं, स्वस्मै प्रकाशत्वे सिद्धे, ज्ञान-मात्रात्मको न च इति पुष्टम् । अत्र विज्ञान-मय-प्रकरणे सुषुप्तिम् अधिकृत्य श्रुतिर् भवति—असुप्तः सुप्तान् अभिचाकशीति [बृ।आ।उ। ४.३.११], अत्रायं पुरुषः स्वयं ज्योतिर् भवति [बृ।आ।उ। ४.३.१४], न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते [बृ।आ।उ। ४.३.३०] इत्य् आद्या ।

एक-रूपः स्वरूप-भाक् इत्य् अत्र श्रुतिश् च—स यथा सैन्धव-घनोऽनन्तरोऽबाह्यः कृत्स्नो रस-घन एव । एवं वा अरेऽयम् आत्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञान-घन एव विज्ञान-घनः [बृ।आ।उ। ४.५.१३] इति ।

अहम् अर्थः इति केवलस्य सुखस्यात्मत्वं परिहृतम् । ज्ञान-मात्रत्वेऽपि ज्ञातृत्वं चात्म५ पूर्वं साधितं, तच् चाहम्-भावं विना न सिध्यतीति पूर्व-सिद्ध एवासाव् अनूद्यते स्पष्ठतार्थम् । अहं-प्रत्यय-सिद्धो ह्य् अस्मद्-अर्थः । युष्मत्-प्रत्यय-विषयो युष्मद्-अर्थः । तत्राहं जानामीति सिद्धो ज्ञाता युष्मद्-अर्थ इति वचनं, “जननी मे बन्ध्या” इतिवत् व्याहतार्थं [श्री-भाष्ये १.१.१, अनु। ६५]

किं च, स्वस्मै स्वयं-प्रकाशः एवाजडत्वाद् आत्मेति प्रतिपादितम् । केवलं ज्ञानं सुखं चान्यस्यैवाहम् अर्थस्य ज्ञातुर् अवभासते—“अहं जानामि, अहं सुखी” इति । तस्मात् स्वात्मानं प्रति स्व-सत्तयैव सिध्यन् न जडोऽहम् अर्थ एवात्मा ।

तद् एवम् अर्थ-रूपे निरुपाधि-प्रिये तस्मिन् ज्ञाने यत् तु जानाम्य् अहम् इति पृथग् ज्ञानं प्रतीयते, तद् अहम् अर्थं प्रभेव दीपं विशिनष्टि । ज्ञान-मात्र आत्मन्य् अहम् अर्थोऽध्यस्यत इति तु न युज्यते । अध्यासकाभावात् अनहङ्कारस्य ज्ञान-मात्रस्य जडस्य चाहङ्कारस्य तत्-कर्तृत्वं न सम्भवतीति । न च तस्मिन्न् अहङ्कारे ज्ञान-च्छायापत्तिः । उभयोर् अप्य् अचाक्षुषत्वात् । न चान्तः-पिण्डे वह्नि-सम्पर्क-कृतौष्ण्यवज् ज्ञान-मात्र-सम्पर्क-कृत-ज्ञातृत्वं तस्मिन्न् अहङ्कारे मन्तव्यम् । औष्ण्यवत् तद् धर्मासम्प्रतिपत्तेः ।

नन्व् असाव् अहङ्कारः स्वात्मानुस्यूत-तज्-ज्ञानम् अभिव्यञ्जयन् ज्ञातृत्व-भावम् आपद्यत इति चेत् ? तद् अप्य् अयुक्तम् । अहङ्कारादि-धर्मिणस् तस्य धर्मत्वानुपपत्तेः। स्वयं ज्योतिष आत्मनो व्यञ्ज्यत्वायोगात्, व्यङ्ग्यत्वे च भवताम् अननुभूतित्व-प्रसङ्गात् । तद्-आयत्त-प्रकाशेनाहङ्कारेण तस्य प्रकाश्यत्वासम्भवाच् च । न च रविकराभिव्यङ्ग्येन हस्तेन च रविकरा अभिव्यज्यन्ते । हस्त-प्रतिहत-गतयो हि ते बाहुल्यात् स्वयम् एव स्फुटतरम् उपलभ्यन्ते । तस्मात् स्वत एव ज्ञातृतया सिध्यन् अहम् अर्थ एव प्रत्यग्-आत्मा, न ज्ञप्ति-मात्रम् ।

एवं, “सुखम् अहम् अस्वाप्सम्” इति सुषुप्त्य्-अनन्तरं परामर्शात् तत्राप्य् अहम्-अर्थता, सुखिता ज्ञातृता च गम्यते । तदानीं तमो-गुणाभिभवान् न स्फुटोऽवबोधः । “एतावन्तं कालं नाहम् अज्ञासिषं” इति तु पराग्-विषयकः प्रतिषेधः । अज्ञान-साक्षिणोऽहम् अर्थस्यानुवृत्तेः । “माम् अहं न ज्ञातवान्” इति परामर्शे च तदानीम् एकोऽहम् अंशः स्वाज्ञान-विषयत्वेन प्रतीयते । अन्यस् तु तत्-साक्षित्वेन । ततः पूर्वं परामर्श-कोटि-प्रविष्टं महत्-तत्त्व-जं देहोऽहम् इत्य् उपाध्यभिमानिनम् अहम् अंशं सुषुप्तौ निलीनं तदानीम् अनुभव-सिद्धस् ततः परोऽहम् अंशः शुद्धात्मा न ज्ञातवान् इत्य् एवं तत्र विवेकः । जाग्रद्-आद्य्-अवस्थयोर् अहम् अर्थस् तद्-युगलस्याविवेकश् च परस्पर-तादात्म्यापत्त्य्-अपेक्षया । ततः पराग्-रूपस्यैवाहङ्कारस्य क्षेत्रान्तः-पातः । अस्यैवाहङ्कारस्याभूत् तद्-भावेष्व् अर्थेषु च्वि-प्रत्ययम् उत्पाद्य व्युत्पत्तिर् द्रष्टव्या [वे।सू। १.१.१, अनु ७५] ।

तस्माद् अहम् अर्थस् तद्-अन्यस् तदा साक्षित्वेनावतिष्ठत एव । तथैव, सुषुप्ताव् आत्मा तत्राज्ञान-साक्षित्वेनास्त इति भवदीया प्रक्रिया । साक्षित्वं च साक्षाज् ज्ञातृत्वम् एव । तथा च भगवान् पाणिनिः—साक्षाद् द्रष्टरि संज्ञायाम् इति । न चायं साक्षी “जानामि” इति प्रतीयमानोऽस्मद्-अर्थ एवेति कुतस् तदानीम् अहम् अर्थो न प्रतीयेत ? मोक्ष-दशायाम् अप्य् अहम्-अर्थो नानुवर्तत इति चेद् अस्मच्-छब्दाभिधेयस्यात्मनो नाश-भयात् । तदा या काचित् संविद् अनुवर्त्स्यति, तत्राप्य् आत्मत्वेनाभिमानाभावाद् अपसर्पेद् एवासौ मोक्ष-प्रस्तावाद् इति मोक्ष-शास्त्र-वैयर्थ्यं स्यात् ।

किं च, स च प्रत्यग्-आत्मा मुक्ताव् अप्य् अहम् इत्य् एव प्रकाशते, स्वस्मै प्रकाशमानत्वात् । यो यः स्वस्मै प्रकाशते, स स सर्वोऽहम् इत्य् एव प्रकाशते, यथा तथावभासमानत्वेनोभय-वादि-सम्मतः संसार्य्-आत्मा । यः पुनर् अहम् इति न चकास्ति, नासौ स्वस्मै प्रकाशते, यथा घटादिः । [वे।सू। १.१.१, अनु ७४]

ततो देहादि-व्यतिरिक्तोऽहम् इत्य् एवात्मनः स्वरूपम् इति तथा ज्ञानं नाज्ञत्वम् उत्पादयति, अपि तु देहाद्य्-अहं-भाव-विरोधित्वान् मोचयत्य् एव । अत एव लब्ध-विज्ञानानाम् अप्य् अहम्-भावः श्रूयते—तद् धैतत् पश्यन्न् ऋषिर् वाम-देवः प्रतिपेदेऽहं मनुर् अभवं सूर्यश् चेति [बृ।आ।उ। १.४.१०], अहम् एव प्रथम-मासं वर्तामि च भविष्यामि [अथर्व-शिराः, ९] इति ।

किं च, सकलेतराज्ञान-विरोधिनः सच्-छब्द-प्रत्यय-मात्र-भाजः पर-ब्रह्मणोऽप्य् अभिमानोऽप्य् एवम् एव । यथा—हन्ताहम् इमास् तिस्रो देवताः [छा।उ। ६.३.२] इति, बहु स्यां प्रजायेय [तै।उ। ६.२] इति, स ऐक्षत लोकान् नु सृजा [ऐ।उ। १.१.१] इति, यस्मात् क्षरम् अतीतोऽहं [गीता १५.१८] इत्य् आदि च बहुतरम् । तस्माद् अहम्-अर्थ एवात्मा प्रतिक्षेत्रं भिन्न इति ।

तत्रान्ये प्रतिक्षेत्रम् अभेदं द्विधा वर्णयन्ति । उपाधि-पार्थक्याद् व्यवहारे पृथग्-अभिमानिनोऽपि तत्-तद्-उपाधेः कल्पितत्वाद् वस्तुतस् त्व् अभिन्ना एवेति केचित् । व्यवहारेऽप्य् एक एव जीवोऽभिमानी स्वप्नवत् तत्-कल्पितास् तद्-अभिमान-शून्यास् त्व् अपर इति केचित् । तत्रोभयम् अपि मूलाज्ञानाश्रय-निरूपणासामर्थ्याद् एव निरस्तम् अस्ति । तथा परिच्छेदाभास-प्रतिबिम्ब-वादेषु संशयस्य दर्शयिष्यमाणत्वान् न प्राग्-उक्तम् अपि मतं बुद्धि-गोचरम् । एको देवः [श्वे।उ। ६.११] इत्य् आदि-वाक्यं तु परमात्म-परम् । अस्यैकत्व-विशेषेण जीवस्य तु बाहुल्यं सूच्यते । एवम् अन्यत्रापि विवेचनीयम् । अग्रे तु जीव-परमात्मनोर् एक-स्वरूपत्वे निषिद्धे स्वयम् एवाभेदः पराहन्येत ।

अथैक-जीव-वादे तु तन्-मत-गुरूणाम्—“त्वम् एव स एको जीवः । परे तु जीवेश्वर-रूपा विकल्पास् तत्-कल्पिताः स्थाणु-पुरुष-कल्पाः” इति । सर्वं प्रत्य् एवं वदतां वञ्चन-कारित्वम् एव लक्ष्यते । स्वस्य चेतनाभिमान-सत्तोपलब्धेर् अन्योऽपि तथा-विधो भवेद् इति सम्भव-प्रमाण-सिद्धश् च जीवान्तरम् । तथान्यत्रापि प्राणिनि स्ववत् तत्-तद्-धर्मोपलब्धेर् अनुमान-सिद्धं च । बाण-कन्यादाव् अनिरुद्धादिवत् स्व-प्रदृष्टानाम् अपि काल्पनिकत्व-व्यभिचारात् तद्-दृष्टानां सर्वेषाम् एवाकाल्पिकत्वेन स्थापयिष्यमाणत्वात्, वैधर्म्याच् च न स्वप्नादिवत् [वे।सू। २.२.२९] इति न्यायाच् च दृष्टान्त-वैकल्यं च, तथा सहस्रधा पृथक् पृथक् सुख-दुःखाभिमानि-जीवानन्त्य-प्रतिपादक-श्रुति-पुराणागम-स्मृति-प्रभृति-शास्त्र-सहस्र-कदर्थना च।

तच् च शास्त्रम्—ये वैके चास्माल् लोकात् प्रयन्ति, चन्द्रमसम् एव ते सर्वे गच्छन्ति [कौषी।उ। १.२] इत्य् आदि । एवम् अनाद्य्-अविद्या-युक्तस्य जीवस्य स्वतो ज्ञानोत्पत्त्य्-असम्भवात् स्व-तर्काप्रतिष्ठानाद् वेद-गुरूपदेशयोश् च तद्-अज्ञान-मात्र-कल्पितत्वेन स्व-तर्क-वचनान्तरे च पर्यवसानाव् अनिर्मोक्ष-प्रसङ्गश् च जायत इति । तस्मात् प्रतिक्षेत्रं भिन्न एव जीवः ।

तथैव स्व-मुक्तिकं श्री-भगवद्-वाक्यम्—

अनाद्य्-अविद्या-युक्तस्य पुरुषस्यात्म-वेदनम् ।
स्वतो न सम्भवाद् अन्यस् तत्त्व-ज्ञो ज्ञान-दो भवेत् ॥ [भा।पु। ११.२२.१०] इति ।

नैषा तर्केण मतिर् आपनेया प्रोक्तोऽन्येनैव सुज्ञानाय प्रेष्ठ [क।उ। १.२.९] इति श्रुतेः।

[२३]

शक्त्य्-अन्तरं चाहुः—

स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन्

भजति सरूपतां तद् अनु मृत्युम् अपेत-भगः ॥

[भा।पु। १०.८७.३८] इति ॥

टीका च— तु जीवः यद् यस्माद् अजया मायया अजाम् अविद्याम् अनुशयीत आलिङ्ग्येत, ततो गुणांश् च देहेन्द्रियादीन् जुषन् सेवमानः आत्मतया अध्यस्यन्, तद्-अनु तद्-अनन्तरं स-रूपतां तद्-धर्म-योगं च जुषन् अपेत-भगः पिहितानन्दादि-गुणः सन् मृत्युं संसारं भजति प्राप्नोति इत्य् एषा ॥

॥ १०.८७ ॥ श्रुतयः ॥२३॥

[२४]

तथा—

तत्-सङ्ग-भ्रंशितैश्वर्यं
संसरन्तं कुभार्यवत् ।
तद्-गतीर् अबुधस्येह
किम् असत्-कर्मभिर् भवेत् ॥ [भा।पु। ६.५.१५]

तस्याः पुंश्चली-रूपाया मायायाः सङ्गेन भ्रंशितम् ऐश्वर्यं किञ्चित् स्वीय-ज्ञानादि-सामर्थ्यं यस्य तम् । तस्या गतीः संसरन्तं गच्छन्तं जीवं स्व-स्वरूपम् अबुधस्य अजानत इत्य् उत्तरेणान्वयः65

॥ ६.५ ॥ हर्यश्वाः ॥२४॥

[२५]

तथा—

ईश्वरस्य विमुक्तस्य
कार्पण्यम् उत बन्धनम् ॥ [भा।पु। ३.७.९]

ईश्वरस्य किञ्चिज्-ज्ञानादि-शक्तिमतः

॥ ३.७ ॥ मैत्रेयः ॥२५॥

[२६]

तथा—

विप्रलब्धो महिष्यैवं
सर्व-प्रकृति-वञ्चितः ।
नेच्छन्न् अनुकरोत्य् अज्ञः
क्लैब्यात् क्रीडा-मृगो यथा ॥ [भा।पु। ४.२५.६२]

महिष्या पुरञ्जन्या विप्रलब्धः पुरञ्जनः सर्वया प्रकृत्या ज्ञानादि-रूपया वञ्चितः त्याजितः सन् नेच्छन् तद्-इच्छयैवेत्य् अर्थः । अनुकरोति तद्-धर्मात्मन्य् अध्यस्यति । अत्र जीवस्य शक्तिमत्तायां, पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्ध-विपर्ययौ [वे।सू। ३.२.५] इत्य् एतत् सूत्रम् अप्य् अनुसन्धेयम् ॥

॥ श्री-नारदः प्राचीनबर्हिषम् ॥२६॥

[२७.१]

पूर्वोक्तम् एवार्थं व्यञ्जयितुं स्वस्मै स्वयं-प्रकाशः [§१८] इत्य् उक्तम् । तथा-भूतत्वं च विलक्षणः [भा।पु। ११.१०.८] इत्य्-आद्य्-उक्त-पद्य एव स्व-दृग् इत्य् अनेन व्यक्तम् अस्ति ।

तत्र प्रकाशस् तावद् गुण-द्रव्य-भेदेन द्विविधः । प्रथमो निजाश्रयस्य स्फूर्ति-रूपः । द्वितीयः स्व-पर-स्फूर्ति-निदानं वस्तु-विशेषः । तत्रात्मनो द्रव्यत्वाद् अयम् एव गृह्यते—यथा दीपश् चक्षुः प्रकाशयन् स्व-पर-स्फूर्तिं66 स्वयम् एव करोति, न तु घटादि-प्रकाशवत् तद्-आदि-सापेक्षः, तस्माद् अयं स्वयं-प्रकाशः । तथापि स्वं प्रति न प्रकाशते, यत एव जड इत्य् उच्यते । आत्मा तु67 स्वं परं च प्रकाशयन् स्वात्मानं प्रति प्रकाशमानत्वात् स्वस्मै स्वयं-प्रकाशः, यत एव चिद्-रूप उच्यते ।68

तद् उक्तम् अन्यैर् अपि । स्वयं-प्रकाशत्वं स्व-व्यवहारे परानपेक्षत्वम्, अवेद्यत्वे सत्य् अपरोक्ष-व्यवहार-योग्यत्वं वेति69 । तत्र पूर्वत्र परानपेक्ष्यत्व-स्वरूप-लक्षणे दीप-साधर्म्य-जडत्व-वारणाय स्वस्मैपदम् अपेक्ष्यम्, उत्तरत्र तु स्पष्टतार्थम्70 । अतः स्व-दृक् स्वस्मै स्वयं-प्रकाश इत्य् अर्थः ।

[२७.२]

न चासौ परमात्म-प्रकाश्यत्वे घटवत् पर-प्रकाश्यः, परमात्मनस् तत्-परम-स्वरूपत्वेन पर-प्रकाश्यत्वाभावात् । एवम् एवाह द्वाभ्याम्—

ममाङ्ग माया गुण-मय्य् अनेकधा
विकल्प-बुद्धीश् च गुणैर् विधत्ते ।
वैकारिकस् त्रिविधोऽध्यात्मम् एकम्
अथाधिभूतम् अधिदैवम् अन्यत् ॥
दृग् रूपम् आर्कं वपुर् अत्र रन्ध्रे
परस्परं सिध्यति यः स्वतः खे ।
आत्मा यद् एषाम् अपरो य आद्यः
स्वयानुभूत्याखिल-सिद्ध-सिद्धिः ॥ [भा।पु। ११.२२.३०-३१]

विकल्पं भेदं, तद्-बुद्धीश् च । अनेकधात्वं प्रपञ्चयति—वैकारिक इति । अनेक-विकारवान् अप्य् असौ स्थूल-दृष्ट्या तावत् त्रिविधः । त्रैविध्यम् आह—अध्यात्मम् इत्य्-आदिना । तानि क्रमेणाह—दृग्-आदि-त्रयेण । वपुर् अंशः । अत्र रन्ध्रे दृग्-गोलके प्रविष्टं तत् त्रयं च परस्परम् एव सिध्यति, न तु स्वतः । यस् तु खे आकाशे अर्को वर्तते, स पुनः स्वतः सिध्यति । चक्षुर्-विषयत्वेऽपि स्व-विरोधिनः प्रतियोग्य्-अपेक्षाभाव-मात्रेण स्वत इत्य् उक्तम् । एवं यथा मण्डलात्मार्कः स्वतः सिध्यति, तथात्मापीत्य् आह—यद् यतः पूर्वोक्त-दृष्टान्त-हेतोर् आत्मा एषाम् अध्यात्मादीनां योऽपर आद्यस् तेषाम् आश्रयः, सोऽपि स्वतः सिध्यति, किन्तु स्वयानुभूत्या इति चिद्-रूपत्वाद् विशेषः । न केवलम् एतावत्, अपि तु अखिलानां परस्पर-सिद्धानां सिद्धिर् यस्मात्, तथा-भूतः सन्न् इति ॥

॥ ११.१२ ॥ श्री-भगवान् ॥२७॥

[२८]

यस्मात् स्वरूप-भूतयैव शक्त्या तथा प्रकाशते, तस्माद् एक-रूप-स्वरूप-भाक्त्वम् अपि दीपवद् एव । नात्मा जजान [भा।पु। ११.३.३७]71 इत्य् आदाव् उपलब्धि-मात्रम् इत्य् अनेनैवोक्तं मात्र-पदं तद्-धर्माणाम् अपि स्वरूपानतिरिक्तत्वं ध्वनयति ।

अथ चेतनत्वं नाम स्वस्य चिद्-रूपत्वेऽप्य् अन्यस्य देहादेश् चेतयितृत्वं दीपादि-प्रकाशस्य प्रकाशयितृत्ववत् । तद् एतद् विलक्षण [भा।पु। ११.१०.८] इत्य् आदाव् एव दृष्टान्तेनोक्तम् । प्रकाशक इति चेतयितृत्वे हेतुः ।

व्याप्ति-शीलत्वम् उदाहरिष्यमाण आत्मा [भा।पु। ७.७.१९, §४६] इत्य्-आदौ श्री-प्रह्लाद-वाक्ये, व्यापक इत्य् अनेनोक्तं व्याप्ति-शीलत्वम् अतिसूक्ष्मतया सर्व-चेतनान्तः-प्रवेश-स्वभावत्वम्, ज्ञान-मात्रात्मको न च [§१८] इत्य् अत्र चिद्-आनन्दात्मक इत्य् अपि हेत्व्-अन्तरम् । तत्र तस्य जड-प्रतियोगित्वेन ज्ञानत्वं, दुःख-प्रतियोगित्वेन तु ज्ञानत्वम् आनन्दत्वं च । ज्ञानत्वं तूदाहृतम् । आनन्दत्वं निरुपाधि-प्रेमास्पदत्वेन साधयति—

तस्मात् प्रियतमः स्वात्मा
सर्वेषाम् एव देहिनाम् ।
तद्-अर्थम् एव सकलं
जगच् चैतच् चराचरम् ॥ [भा।पु। १०.१४.५४]

स्पष्टम् ॥ १०.१४ ॥ श्री-शुकः ॥२८॥

[२९]

तस्मिंश् चानन्दात्मके ज्ञाने प्रतिबिम्बं72 युष्मद्-अर्थत्वं न भवति, किन्त्व् आत्मत्वाद् अस्मद्-अर्थत्वम् एव । तच् चास्मद्-अर्थत्वम् अहम्-भाव एव । ततोऽहम् इत्य् एतच्- छब्दाभिधेयाकारम् एव ज्ञानं शुद्ध आत्मा प्रकृत्यावेशोऽन्यथा नोपपद्यते । यत एवावेशात् तदीय-सङ्घात एवाहम् इत्य् अहम्-भावान्तरं प्राप्नोति, तद् एतद् अभिप्रेत्य तस्याहम्-अर्थत्वम् आह—

एवं पराभिध्यानेन
कर्तृत्वं प्रकृतेः पुमान् ।
कर्मसु क्रियमाणेषु
गुणैर् आत्मनि मन्यते ॥ [भा।पु। ३.२६.६]

पराभिध्यानेन प्रकृत्य्-आवेशेन प्रकृतिर् एवाहम् इति मननेन प्रकृतेर् गुणैः क्रियमाणेषु कर्मसु कर्तृत्वम् आत्मनि मन्यते

अत्र निरहम्-भावस्य पराभिध्यानासम्भवात् परावेश-जाताहङ्कारस्य चावरकत्वाद् अस्त्य् एव तस्मिन्न् अन्योऽहम्-भाव-विशेषः । स च शुद्ध-स्वरूप-मात्र-निष्ठत्वान् न संसार-हेतुर् इति स्पष्टम् । एतद् एवाहङ्कार-द्वयं सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते कूटस्थ आशयम् ऋते तद्-अनुस्मृतिर् न [भा।पु। ११.३.३९] इत्य् अत्र दर्शितम्73

उपाध्य्-अभिमानात्मकस्याहङ्कारस्य प्रसुप्तत्वात् तद्-अनुस्मृतिर् नः इत्य् अनेन “सुखम् अहम् अस्वाप्स्वम्” इत्य् आत्मनोऽहतयैव परामर्शाच् च, अत एव “माम् अहं नाज्ञासिषम्” इत्य् अत्र परामर्शेऽपि उपाध्य्-अभिमानिनोऽनुसन्धानाभावः । अन्यस्य त्व् अज्ञान-साक्षित्वेनानुसन्धानम् इति दिक् ।

॥ ३.२६ ॥ श्री-कपिलदेवः ॥२९॥

[३०]

तथा—

नृत्यतो गायतः पश्यन्
यथैवानुकरोति तान् ।
एवं बुद्धि-गुणान् पश्यन्न्
अनीहोऽप्य् अनुकार्यते ॥ [भा।पु। ११.१२.५३]

पूर्ववत् ॥

॥ ११.१२ ॥ श्री-भगवान् ॥३०॥

[३१]

एवम् एव स्वप्न-दृष्टान्तम् अपि घटयन्न् आह—

यद् अर्थेन विनामुष्य
पुंस आत्म-विपर्ययः ।
प्रतीयत उपद्रष्टुः
स्व-शिरश् छेदनादिकः ॥ [भा।पु। ३.७.१०]

उपद्रष्टुर् अमुष्य इति स्वप्न-द्रष्ट्रा अमुना जीवेनेत्य् अर्थः ॥

॥ ३.७ ॥ श्री-मैत्रेयः ॥३१॥

[३२]

साधिते च स्वरूप-भूतेऽहम्-भावे प्रतिक्षेत्रं भिन्नत्वम् अपि साधितम् । यत् तु,

वस्तुनो यद्य् अनानात्वम्
आत्मनः प्रश्न ईदृशः ।
कथं घटेत वो विप्रा
वक्तुर् वा मे क आश्रयः ॥ [भा।पु। ११.१३.२२]

इत्य्-आदौ ज्ञानि-लौकिक-गुरु-रीतिं74 तदीय-प्राकृत-दृष्टिं वानुसृत्य स्वस्य जीवान्तर-साधारण्य-कल्पना-मये श्री-हंस-देव-वाक्ये जीवात्मनाम् एकत्वम्, तत् खलु अंश-भेदेऽपि ज्ञानेच्छून् प्रति ज्ञानोपयोगित्वेन तम् अविविच्यैव समानाकारत्वेन । भेद-व्यपदेशः यथा तत्रैव—

पञ्चात्मकेषु भूतेषु समानेष्व् अपि वस्तुतः ।
को भवान् इति वः प्रश्नो वाचारम्भो ह्य् अनर्थकः ॥ [भा।पु। ११.१३.२३] इति ।

तत्राप्य् अंश-भेदोऽस्त्य् एव । अत उक्तं स्वयं भगवता—शुनि चैव श्वपाके च पण्डिताः समदर्शिनः [गीता ५.१८] इति, निर्दोषं हि समं ब्रह्म [गीता ५.१९] इत्य्-आदि च । अत्र ब्रह्मेति जीव-ब्रह्मैवोच्यते । यथा,

यथाहम् एतत् सद्-असत् स्व-मायया
पश्ये मयि ब्रह्मणि कल्पितं परे [भा।पु। १.५.२७] इति ।

मयि ब्रह्मणि देहात्मकं परे ब्रह्मणि च जगद्-आत्मकं सद्-असत् कार्य-कारण-सङ्घातं स्व-विषयक-मायया जीव-मायाख्यया देह एवाहं, तथा इन्द्र-चन्द्राद्य्-आत्मकं जगद् एवेश्वर इतीदं कल्पितम् एव यया मत्या पश्ये पश्यामीत्य् अर्थः । समान-कारणत्वाद् एव पूर्ववद् अन्यत्र च सोऽहं स च त्वम् इति ।

तद् एवं सर्वेषाम् एव जीवानाम् एकाकारत्वे सति,

यावत् स्याद् गुण-वैषम्यं तावन् नानात्वम् आत्मनः ।
नानात्वम् आत्मनो यावत् पारतन्त्र्यं तदैव हि ॥ [भा।पु। ११.१०.३२]

इत्य्-आदिषु देवादि-देह-भेद-कृतागन्तुक-नानात्वं निगद्यते ।

वेणु-रन्ध्र-विभेदेन
भेदः षड्-जादि-संज्ञतः ।
अभेद-व्यापिनी वायोस्
तथा तस्य महात्मनः ॥ [वि।पु। २.१४.३२]

इत्य्-आदिकं तु परमात्म-विषयकम् एव । तद् एतत् सर्वम् अभिप्रेत्य जीवानां प्रतिक्षेत्रं भिन्नत्वं स्व-पक्षत्वेन निर्दिशन्ति—अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गताः [भा।पु। १०.८७.३०] इति ।

अत्र **यदि-**शब्दात् पूर्व-पाठेन अपरिमितत्वं ध्रुवत्वं चासन्दिग्धम् इति । तत्र स्व-पक्षत्वं पश्चात्-पाठेन सर्व-गतत्वं तु सन्दिग्धम् इति । तत्र पर-पक्षत्वं स्पष्टम् एव ।

अत एव, एको देवः सर्व-भूतेषु गूढः [श्वे।उ। ६.११] इत्य्-आदिकं परमात्म-परं वाक्यं जीवानाम् अनेकत्वं75 बोधयति ॥

॥ १०.८७ ॥ श्रुतयः ॥३२॥

[३३]

प्रति-क्षेत्र-भिन्नत्वे हेत्व्-अन्तरम्—अणुर् इति । अणुः परमाणुर् इत्य् अर्थः । परमाणुश् च यस्य दिग्-भेदेऽप्य् अंशो न कल्पयितुं शक्यते, स एवांशस्य परा काष्ठेति तद्-विदः । अणोर् अप्य् अखण्ड-देह-चेतयितृत्वं प्रभाव-विशेष-रूपाद्76 गुणाद् एव भवति । यथा शिर-आदौ धार्यमाणस्य जतु-जटितस्यापि महौषधि-खण्डस्याखण्ड-देह-पुष्टीकरणादि-हेतुः प्रभावः । यथा वायस्कान्तादेर् लौह-चालनादि-हेतुः प्रभाव एव, तद्वत् । तद् एतद् अणुत्वम् आह—

सूक्ष्माणाम् अप्य् अहं जीवः [भा।पु। ११.१६.११] इति ।

तस्मात् सूक्ष्मता-पराकाष्ठा-प्राप्तो जीव इत्य् अर्थः । दुर्ज्ञेयत्वाद् यत् सूक्ष्मत्वं, तद् अत्र न विवक्षितम्, महतां च महान् अहं सूक्ष्माणाम् अप्य् अहं जीवः [भा।पु। ११.१६.११] इति परस्पर-प्रतियोगित्वेन वाक्य-द्वयस्यानन्तर्योक्तौ स्वारस्य-भङ्गात् । प्रपञ्च-मध्ये हि सर्व-कारणत्वान् महत्-तत्त्वस्य महत्त्वं नाम व्यापकत्वं, न तु पृथिव्य्-आद्य्-अपेक्षया सुज्ञेयत्वं यथा, तद्वत् प्रपञ्चे जीवानाम् अपि सूक्ष्मत्वं परमाणुत्वम् एवेति स्वारस्यम् । श्रुतयश् च—एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [मु।उ। ३.१.९] इति ।

बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः [श्वे।उ। ५.९] इति ।

आराग्र-मात्रो ह्य् अपरोऽपि दृष्टः [श्वे।उ। ५.८] इति च ॥

॥ ११.१६ ॥ श्री-भगवान् ॥३३॥

सर्व-संवादिनी: अणुः इति । अतः स्वयं निरवयव एव जीव इति । तच् चाणुत्वम् उत्क्रान्ति-गत्य्-आगतीनां [वे।सू। २.३.१९] श्रवणात् तावत् प्रतीयते । स यदास्माच् छरीराद् उत्क्रामति, सहैव तैः सर्वैर् उत्क्रामति [तै।उ। ३.४] इति, ये वैके चास्माल् लोकात् प्रयन्ति, चन्द्रमसम् एव ते सर्वे गच्छन्ति [कौषी।उ। १.२] इति, तस्माल् लोकात् पुनर् ऐत्य् अस्मै लोकाय कर्मणे [बृ।आ।उ। ४.४.६] इति च श्रुतेः । \

परिच्छिनस्यैव तत्-तत्-सम्भवे सति देह-प्रमाणतायां विकारितापत्तेर् अणुत्व एव पर्यवसानात् तद् एव व्यक्तम् ।

अत्रोत्क्रान्तिर् वा विभुत्वेऽप्य् अचलतोऽपि ग्राम-स्वाम्य्-अनिवृत्ति-रूपा व्याख्यायेत । गत्य्-आगती तु स्वात्मनैव सम्भवतः । गमेः कर्तृ-स्थ-क्रियात्वात् । अतो गमेः कर्मण्य् अक्रियात्वाद् अतो गमेर् याथार्थ्ये सति तत्-साहचर्येण सर्वोत्क्रम-साहचर्येण चोत्क्रान्तेर् अपि नान्यथात्वं कल्प्यम् । श्रुति-विरुद्धैव चेयं कल्पना—चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीर-देशेभ्यः [बृ।आ।उ। ४.४.२] इत्य्-आदौ तत्-तद्-अङ्गावधिक-विश्लेष-निर्देशात् पक्षिवद् उत्पतन-रूपैवोत्क्रान्तिर् इत्य् आपत्तेः । अत एव श्रुत्य्-आदिषु जलूकाद् दृष्टोऽपि घटते ।

ननु, स वा एष महान् अज आत्मा, योऽयं विज्ञान-मयः प्राणेषु [बृ।आ।उ। ४.४.२२] आकाशवत् सर्व-गतश् च नित्यः, सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.२] इत्य् आदौ व्याप्तिः श्रूयते । न पूर्वत्र अरुन्धती-दर्शनवज् जीवम् अनूद्य ब्रह्मैव निर्दिश्यते, वेदान्तेषु परमात्मधिकारात् । अतः सर्व-गतत्वम् उक्त्वैव सत्यम् इत्य् आदि-प्रसिद्ध-परमात्म-लक्षणम् उक्तम् । महच्-छब्दस् त्व् अग्रे व्याख्यातव्यः । अत्र कुत्रचिद् व्याप्ता ह्य् आत्मान इति बहुत्व-निर्देशाद् इति जीवा न मन्तव्याः । अत्रापि परमात्मधिकारात् । स आत्मेदं सृजति इत्य्-आद्य्-उक्तेः । बहुत्वं त्व् आविर्भावास्पद-भेद-विवक्षया ।

किं च, जीवस्य साक्षाद् अणुत्वम् अपि श्रूयते—एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [मु।उ। ३.१.९] इति प्राण-सम्बन्धोक्तेः । उम्मानम् अपि दृश्यते— बालाग्र-शत-भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः [श्वे।उ। ५.९] इत्य् अत्र, आराग्र-मात्रो ह्य् अपरोऽपि दृष्ट [श्वे।उ। ५.८] इत्य् अत्र च ।

नन्व् अणुत्वे सत्य् एकदेशस्थस्य सकल-देह-गतोपलब्धिर् विरुध्यते ? न, हरि-चन्दन-बिन्दोः सकल-देह-ह्लादनवद् इहाप्य् अविरोधात् । न च हरि-चन्दन-बिन्दोर् एक-देश-स्थत्वं प्रत्यक्ष-सिद्धम्, न त्व् आत्मन इति दृष्टान्त-वैषम्यम् । हृदि ह्य् एष आत्मा [प्र।उ। ३.६], स वा एष आत्मा हृदि [छा।उ। ८.३.३], कतम आत्मेति योऽयं विज्ञान-मयः प्राणेषु हृद्य्-अन्तर्-ज्योतिः पुरुषः [बृ।आ।उ। ४.३.७] इत्य्-आद्य्-उपदेशेभ्यस् तस्यापि तथात्व-सिद्धेः । सिद्धायां चाणुतायाम् इत्थम् अप्य् अविरोधः । चिर्-रूपस्यापि जीवस्य चेतयितृत्व-लक्षण-चिद्-गुण-व्याप्तेर् अणोर् अपि सतो निखिल-देह-व्यापिता स्यात् । लोके दीपादयः प्रकाशा ह्य् एक-देश-स्था अपि सम्यग्-गुहादिकं स्वकीयेन प्रकाशाकारेण गुणेन प्रकाशयन्ति, तद्वत् । न च दीप-प्रभा दीपाद् विशीर्णाः परमाणव एव । परम-रक्तादि-च्छवि-दुकूलादीनां महा-हीरकादि-मणीनां च रक्तादयो गुणा निज-पर्यन्त-भूमिं रञ्जयन्तीति दृश्यते । तत्र गुण-गुणिनोः पृथग्-उपलम्भनाद् दुकूलाद्य्-अनाशात् हीरके तु पराग-क्षरणात्यन्तासम्भवाच् च । सति च पराग्-अक्षरणे वायु-प्रातिकूल्येन मण्य्-आदि प्रभाया एव स्यां दिशि न विसरणं स्यात् । यस्यां तु दिशि तद्-आनुकूल्यम् । तत्र तु विसरण-बाहुल्यं स्याद् इति तद्वद् दीपादीनां गुण एव प्रभा भविष्यति । अत एवाद्रव्यत्वाद् दीपादिवद् असौ वाय्व्-आदिभिर् न विक्षिप्यते । श्री-गीतोपनिषत्स्व् अपि तथा दृष्टान्तितम्—

यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ [गीता १३.३३] इति ॥

एवम् एव अणवश् च [वे।सू। २.४.८] इति न्याय-सिद्धाणुत्वानां मन-आदीन् इन्द्रियाणां प्रकाशो व्याततो दृश्यते, मनसा मेरुं गच्छति इत्य् आदौ दूर-श्रवण-दर्शनादि-सिद्धौ च । श्रुतिश् च—दिवीव चक्षुर् आततं [ऋ।वे। १.२२.२०] इत्य् आदिका । तद् एवं, अणवश् च इत्य् अत्रैव माध्व-भाष्योदाहृति शाण्डिल्य-श्रुतिः, सा यथा—न ह्य् अणु-चक्षुषः प्रकाशो व्याततोऽणुर् ह्य् एवैष पुरुषः इति ।

अन्यत्र च गुणो गुणि-समीप-देशं व्याप्नोतीति दृश्यते, यथा—पुष्पादौ गन्धः । गन्धस्यापि सहैवाश्रयांशेन विश्लेष इति चेत्, न, मूल-द्रव्योन्मान-हानि-प्रसङ्गात् । परमाणूनाम् एव विश्लेषान् नाल्प-काले न मान-हानिर् इति चेत् ? तेषाम् अतीन्द्रियत्वेन तद्-गुण-ग्रहणायोगात् स्फुट-गन्धस् तु कस्तूर्य्-आदिष्व् इति । एवं काय-व्यूह-गन्ध-दृष्टान्तो ज्ञेयः । पृथिवी-गन्धस्य पृथिवी-व्यतिरिक्तं जलादाव् इव जीव-गुणस्य देहान्तर-वृन्देऽपि व्याप्तिः सम्भवति दृष्टान्ते, तद्-गन्धस्य नेता वायुर् दार्ष्टान्तिके त्व् ईश्वर एवेति । तथैव माध्व-भाष्य-प्रमाणित-शाण्डिल्य-श्रुतिः—अथैक एव स गन्धवद् व्यतिरिच्यते, तथैकी-भवत्य् अथ बह्वी भवति । तं यथेश्वरः प्रकुरुते, तथा तथा भवति, सोऽचिन्त्यः परमो गरीयान् इति ।

तस्माज् जीवः स्व-गुणेनैव व्याप्नोतीति । तथा, हृदयायतनत्वम् अणु-परिमाणत्वं चात्मनोऽभिधाय तस्यैव आ लोमेभ्य आ नखाग्रेभ्यः [छा।उ। ८.८.१] इति चैतन्येन गुणेन77 समस्त-शरीर-व्यापित्वं78 दर्शयति [वे।सू। २.३.२७, शङ्कर] ।

एवं प्रज्ञया शरीरं समारुह्य [कौ।उ। ३.६] इति चात्म-प्रज्ञयोः कर्तृ-करण-भावेन पृथग्-उपदेशाद् गुणेनैवास्य सर्व-शरीर-व्यापित्वं गम्यते [वे।सू। २.३.२८, शङ्कर] ।

अत्र यदि प्रज्ञा-शब्दं बुद्धौ वर्तयेत्, तथापि तस्या अणुत्वाभ्युपगमात् तया शरीर-व्याप्तिर् अशक्त्या । प्रज्ञा-रूपेऽपि जीवे प्रज्ञया इति, भेद-व्यपदेशः शिलापुत्र-शरीरवत्79 इत्य् अत्र तु श्रुत्य्-अर्थः क्लिष्टः स्यात् । तद्-एक-मात्रेऽपि शक्ति-स्थापना तु मुहुर् एव दर्शिता । तस्माद् अणुर् एव जीव इति प्राप्ते पुनर् एव ते हेतवः प्रत्यवस्थाप्यन्ते ।

ननूत्क्रान्त्य्-आदयो ह्य् अत्रोपाध्य्-उत्क्रान्त्य्-आदिभिर् एव व्यपदिश्यन्ते ? न, उत्क्रम-वाक्ये, सहैवैतैः [कौ।उ। ३.४] इति सह-शब्द-श्रवणात् । सह-शब्दौ हि प्रधानाप्रधानयोः समानाम् एव क्रियां बोधयति । ततश् च गत्य्-आगत्य् अपि तथैव भवतः । अचलने प्रमाणान्तराभावात् तद्-उत्क्रान्ति-श्रवणाद् एव च घटाकाशवद् अबुध-दृष्ट्य्-अभिप्रायम् इति न च वक्तव्यम् । श्री-गीतोपनिषत्सु दृष्टान्त-विशेषाद् ग्रह्य्-उपादानाच् च तस्यैव चलनाग्रणीत्वं बोधयन्ति—

शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥ [गीता १५.८] इति ॥

एवम् एव च सूत्रम् उपोद्बलयति—तद्-अन्तर-प्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्न-निरूपणाभ्यां [वे।सू। ३.१.१] इति । प्राणस् तु तद्-रथ-स्थानीयः । यथोक्तं श्रुत्या—कस्मिन् नु अहम् उत्क्रान्त उत्क्रान्तो भविष्यामि ? कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति [प्र।उ। ६.३] इति । अतः स्वयं तत्र स्थित एव तृण-जलौकावच् चलति, न तु पक्ष्य्-आदिवद् अङ्गं विक्षिपन्न् एव । अतः लेलायतीव [बृ।आ।उ। ४.३.७] इति श्रुताव् इव शब्द-प्रयोगः । तथापि तस्यैव तत्राग्रणीत्वं रथिवत् । तच् चोक्तं श्रुत्या—तम् उत्क्रामन्तं प्राणोऽनूत्क्रामति । सर्वे प्राणा अनूत्क्रामन्ति [बृ।आ।उ। ४.४.२] इति ।

ननु एषोऽणुर् आत्मा [मु।उ। ३.१.१] इत्य् आदौ परमात्म एव प्रकरणम्, ततोऽणुत्वं च दुर्ज्ञेयत्वेनैव वक्तव्यं ? न, प्राण-लिङ्गेन प्रकरण-बाधात् । श्रुति-लिङ्ग-वाक्य-स्थान-प्रकरण-समाख्यानां पारदौर्बल्यम् अर्थ-विप्रकर्षात् [पू।मी। ३.३.१४] इति । गोप-वन-श्रुताव् अपि स्पष्टम् एवाहैतत्—अणुर् ह्य् एष आत्मायं वा एते सिनीतः पुण्यं वापुण्यं च [२.३.१८-माध्व-भाष्ये धृतायां] इति ।

ननु बालाग्र-शत-भागस्य [श्वे।उ। ५.९] इत्य्-आद्य्-अन्ते, स चानन्त्याय कल्पते इति श्रवणाद् औपाधिकम् एवाणुत्वम्, पारमार्थिकं तु विभुत्वम् इत्य् अवगम्यते ? न, आनन्त्य-शब्दस्य मोक्षे ऋउढत्वात् । अन्तो मरणं, तद्-राहित्यम् आनन्त्यम् इत्य् अर्थः । ब्रह्म-प्रविष्टस्य तत्-तादात्म्यापत्त्या विश्वद्रीचीन-तच्-छक्ति-स्पर्शाद् वानन्त्य-व्यपदेशः । सालोक्ये तु तद्-अनुग्रहात् तत्-स्पर्श इति । तद् उक्तं श्री-भगवता श्रीमद्-उद्धवं प्रति—

जीवो जीवेन निर्मुक्तो गुणैश् चाशय-सम्भवैः ।
मयैव ब्रह्मणा पूर्णो न बहिर् नान्तरश् चरेत् ॥ [भा।पु। ११.२५.३६] इति ॥४॥

श्रुत्य्-अन्तरे तु सूक्ष्म-रूपेणोपाधि-गुणेन तद्-रूपेणैव स्व-गुणेन चाणुत्वम् उक्तम्—बुद्धेर् गुणेनात्म-गुणेन चैव, आराग्र-मात्रो ह्य् अवरोऽपि दृष्टः [श्वे।उ। ५.८] इति ।

नन्व् अणोश् चन्दन-दृष्टान्तेन व्यापकता न घटते, चन्दनस्य सूक्ष्मावयव-विसर्पणेन सकल-देहाह्लादयितृत्व-सम्भवात् । तद् युक्तम्—अदृष्ट-कल्पनापत्तेः । तर्हि कथम् इति चेत् ? अचिन्त्यो हि मणि-मन्त्र-महौषधीनां प्रभाव इति लोक-प्रसिद्धिर् एव भविष्यति । क्वचिज् जतु-जटित-महौषध्य्-आदि-द्रव्येण हस्तादि-बद्धेनापि तत्-तत्-प्रभावो दृश्यते । स्पर्श-मणिनैक-देश-स्पर्शोऽपि लोह-लौष्ट्रस्य सुवर्णता च । स्वीकृतं चैतत् पञ्चम-वेदेन [२.३.१३-माध्व-भाष्य-धृत-ब्रह्माण्ड-पुराणे]—

अणु-मात्रोऽप्य् अयय्ं जीवः स्व-देहं व्याप्य तिष्ठति ।
यथावाप्य शरीराणि हरि-चन्दन-विप्रुषः ॥ इति ॥

अत्र प्रभावातिशय-बोधनायैव हि हरि-चन्दन-शब्दः प्रयुक्तः ।

ननु चेतना-गुण-व्याप्ति-सिद्धान्ते गुणस्य गुणि-देशत्वाद् गुणिनम् अनाश्रितस्य गुणत्वम् एव हीयते । नागुणस्य तद्-अतिरिक्त-व्यापिताया दुकूलादौ दर्शितत्वात् । अतिरिच्य स्थितस्यापि गुणस्य तम् आश्रित्यैवावस्थिति-प्रतिपत्तेः । अत एव गन्धस्यापि न स्वाश्रयत्व-व्यभिचारः । तत एव तत्-प्रवाहात् । अत एवोक्तं श्री-कृष्ण-द्वैपायनेन [वे।सू। २.३.२९-शङ्कर-धृतः]—

उपलभ्याप्सु चेद् गन्धं केचिद् ब्रूयुर् अनैपुणाः ।
पृथिव्याम् एव तं विद्याद् अपो वायुं च संश्रितम् ॥ इति ॥६॥

तस्माद् अणुर् एव जीवः, चेतना-गुणेन तु स्व-शरीर-व्यापीति । अत्राशङ्कते—स वा एष महान् अज आत्मा योऽयं विज्ञान-मयः प्राणेषु [बृ।आ।उ। ४.४.२२] इत्य् अत्र महच्-छब्दान् न सम्भवत्य् अणुत्वम् इति ? उच्यते—युक्ति-सम्बद्धेनाणुत्व-श्रवणेन महच्-छब्दस्य विभुतायां प्रसिद्धाव् अर्थान्तरोपस्थिताव् अणुर् अप्य् उत्कर्ष-गुणेन सारत्वाद् एव महान् इति व्यपदिश्यते, महा-रत्नवत् । यथैव प्राज्ञः परमात्म विभुर् अपि दुर्ज्ञेयता-गुणेनैव, अणोर् अणीयान् [क।उ। १.२.२०] इत्य् उच्यते ।

तद् एवं तद्-गुण-सारत्वात् तु तद्-व्यपदेशः प्राज्ञवत् [वे।सू। २.३.२९] इत्य् अपि व्याख्यातम् । अपरम् इदम् एव व्याचष्टे—स-चेतना-लक्षणो यो गुणो महौषध्य्-आदिवद् अचिन्त्य-प्रभावः, स एव सारो व्यभिचार-रहितो यत्र, तथाभूतत्वात् सर्व-शरीर-व्यापितादि-निर्देशः सम्भवति । यथैव प्राज्ञस्य श्रुताव् अचिन्त्य-शक्तित्वं दृश्यते, तथैवास्यानुरूपस्याद् इत्य् अस्मिन् व्याख्याने महच्-छब्दस्योत्कृष्टता-मात्रं वाच्यं स्वयं ऊह्यम् । हरि-चन्दन-दृष्टान्तेन तादृग् अर्थो न सूत्रे तस्मिन्न् अभिव्यक्त इति पुनः सूत्रं चेदम् इत्य् अपि ज्ञेयम् ।

किं च, तेषां जीव-गुणानां वह्नेर् औष्ण्यादिवद् अनाद्य्-अनन्त-कालावस्थाप्यात्म-समान-कालम् एव व्याप्य भवन-शीलत्वान् न कदाचिद् व्यभिचाराशङ्का । तथा च दर्शयति श्रुतिः—न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते [बृ।आ।उ। ४.३.३०] इत्य् आद्या । मोक्षे तु तेषाम् अभिव्यक्तिर् जायते, यौवने पुं-स्त्री-भाव-विशेषवत् । तद् उक्तं पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्ति-योगात् [वे।सू। २.३.३१] इत्य् अत्र शङ्कर-शारीरकेऽपि—तत् पुनर् ईश्वर-समान-धर्मत्वं तिरोहितं सत् परमेश्वरम् अभिध्यायतस् तिमिर-तिरस्कृतेव दृक्-शक्तिः औषध-वीर्याद् ईश्वर-प्रसादात् आविर्भवति । श्रुतिश् च—

ज्ञात्वा देवं सर्व-पाशापहानिः
क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः ।
तस्याभिध्यानात् तृतीयं देह-भेदे
विश्वैश्वर्यं केवल आप्त-कामः ॥ [श्वे।उ। १.११] इत्य् एवम्-आद्या ॥७॥
बलम् आनन्दम् ओजश् च सहो ज्ञानम् अनाकुलम् ।
स्वरूपान्य् एव जीवस्य व्यज्यन्ते परमाद् विभोः ॥८॥ इति ।

मध्व-भाष्ये दृष्टा गोप-वन-श्रुतिश् च । यदि च तेषां जीवेऽनभिव्यक्त्य्-अभिव्यक्ति-व्यवस्था न कार्या, तदा तेषां नित्यम् एव तस्मिन्न् उपलब्धिः स्यान् नित्यम् एव वा न स्याद् इति दोष आपतेत् । अन्येषां प्राकृतानां देहादि-वस्तूनां तत्र तत्र प्रवृत्तौ जडत्वात् प्रतिबन्ध एव वा स्यात् । जीव-स्वरूप गुणामनने सति प्रवृत्ति-हेत्व्-अभावात् । तस्मात् स्वेन जीवोऽणुः, स्व-गुणेन तु देह-व्यापीति स्थितम् ।

अत्र श्री-रामानुज-पादास् तु स्वयम् एवं व्याचक्षते—यथैकम् एव तेजो-द्रव्यं प्रभा-प्रभवद्-रूपेणावतिष्ठते, तथैवम् एव चैतन्यं तत्-तद्-रूपेणातिष्ठते । यद्यपि प्रभा द्रव्य-गुण-भूता, तथापि तेजो-द्रव्यम् एव, न शौक्ल्यादिवद् गुणः । स्वाश्रयाद् अन्यत्रापि वर्तमानत्वाद् रूपवत्त्वाच् च शौक्ल्यादि-वैधर्मात् प्रकाशवत्त्वाच् च तेजो-द्रव्यम् एव, नार्थान्तरम् । प्रकाशवत्त्वं च—स्व-स्वरूपस्यान्येषां प्रकाशकत्वात् । अस्यास् (प्रभायाः) तु गुणत्व-व्यवहारो नित्य-तद्-आश्रयत्व-तच्-छेषत्व-निबन्धनः । न चाश्रयावयवा एव विशीर्णाः प्रचरन्तः प्रभेत्य् उच्यते, मणि-द्युमणि-प्रभृतीनां विनाश-प्रसङ्गात् ।

तस्माद् यथा दीपादेर् अव्याभिचारि-प्रभा गुणवत्त्वाद् गुणित्व-व्यपदेशस् तथा जीवस्यापि तादृशत्वं युक्तमतः स्वयम् अणोर् जीवस्य तेन गुणेनैव विभुत्वम् । स च चैतन्य-गुणः स्वयम् अविच्छिन्न एव सङ्कोच-विकाशाव् अविद्या-कर्म-संज्ञाख्यया शक्त्या भजतीति ।

अत्राद्वैत-वादिनाम् अपि परिच्छेदो वा प्रतिबिम्बो वाभासो वा जीवः स्यात्—त्रिधाप्य् अविभुर् इत्य् एवायाति । तत्र च बुद्धि-लक्षण-तद्-उपाधेः सूक्ष्मत्वाङ्गीकारात् सूक्ष्मत्वम् अपि सूची-रन्धाकाशवत्, बालुका-कण-प्रतिफलित-सूर्य-तेजोवत्, तद्-आभासवच् च । यत्र यत्रैवोपाधयश् चलन्ति, तत्र तत्रैव परिच्छिन्नत्वेनैवोदयन्ते तानीतीत्थम् एव स्वयं तदावार्येणेन्द्रियाणां विभुत्व-वादो दूषितः । सर्व-गतानाम् अपि वृत्ति-लाभः शरीर-देशे स्याद् इति चेत्, न, वृत्ति-मात्रस्य करणत्वोपपत्तेः । यद् एव हि उपलब्धि-साधनम्—वृत्तिः अन्यद् वा—तस्यैव नः करणत्वम्, संज्ञा-मात्रे विवादः इति करणानां व्यापित्व-कल्पना निरर्थिका [वे।सू। २.४.७ शङ्कर] इत्य् अनेन ।

किं च, स्वयं तेनैव च यस्मिन् द्यौः पृथिवी चान्तरिक्षं [मु।उ। २.२.५] इत्य् आदि-श्रुतौ, द्यु-भ्व्-आद्य्-आयतन- [वे।सू। १.३.१] न्यायेन ब्रह्मैवाङ्गीकुर्वता तद्-आयतनत्वाभावान् न जीवस् तत् प्रतिपाद्य इति, प्राणभृच् च [वे।सू। १.३.४] इत्य् अत्र सूत्रे स्वीकृतम्—न चोपाधि-परिच्छिन्नस्याविभोः प्राण-भृतो द्यु-भ्व्-आद्य्-आयतनत्वम् अपि सम्यक् सम्भवति इति स्वयं लिखितं च । अन्यथा, तत्-सिद्धान्तो हीयते । असन्ततेश् चाव्यतिकरः [वे।सू। २.३.४८] इत्य् अत्रापि लिखितम्—उपाध्य्-असन्तानाच् च नास्ति जीव-सन्तानः इति । तस्माद् उभय-वादि-मतेऽप्य् अविभुर् जीव इति ।

एवम् एव, पृथग्-उपदेशात् [वे।सू। २.३.२८] इत्य् अत्र माध्व-भाष्योदाहृता सोपपत्तिक-कौशिक-श्रुतिः—

भिन्नोऽचिन्त्यः परमो जीव-सङ्घात्
पूर्णः परो जीव-सङ्घो ह्य् अपूर्णः ।
यतोऽप्य् असौ नित्य-मुक्तोऽप्य् अहंश् च
बन्धान् मोक्षं तत एवाभिवाञ्छेत् ॥ इति ॥

तस्माद् अणुर् एव जीवः । तथा ज्ञातृत्वेत्य् अतः पूर्व-युक्त्या ज्ञातृत्वादयस् तस्यैव धर्मा इत्य् अर्थः । तत्र नित्यत्वं चात्मनो नात्मा श्रुतेः [वे।सू। २.३.१७] इति व्यपदेशेन ज्ञानाश्रयत्वं च स्वाभाविकम् एवेति । श्रुतयश् च—विज्ञातारम् अरे केन विजानीयात् [बृ।आ।उ। २.४.१४], न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते [बृ।आ।उ। ४.३.३०], जानात्य् एवायं पुरुषः [रामानुज, वे।सू। १.१.१, अनु ६६], न पश्यो मृत्युं पश्यति, न रोगं नोत दुःखतां [छा।उ। ७.२६.२], स उत्तमः पुरुषः, नोपजनं स्मरतीदं शरीरं [छा।उ। ८.१२.३], एवम् एवास्य परिद्रष्टुर् इमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास् तं गच्छन्ति [प्र।उ। ६.५] इत्य् आद्याः ।

तद् एवं तस्य स्वाभाविके ज्ञातृत्वे सिद्धे, यद् अविद्यया देहोऽहम् इत्य् आदिकं ज्ञातृत्वं, तद् अपि तस्यैव, किन्तु अविद्या-सम्बन्धात् तस्य तत् स्वाभाविकं न भवति, अपि तु विक्रियात्मकम् एव । एतद् अपेक्ष्यैव श्रुतौ—ध्यायतीव लेलायतीव [बृ।आ।उ। ४.३.७] इत्य् अत्र “इव”-शब्द-प्रयोगः कृतः । अतस् तत्-तद्-देहाद्य्-उपाधि स्वास्थ्य-तारतम्यात् तस्य ज्ञातृत्वस्य प्रकाश-तारतम्यं भवतीति ज्ञेयम् । शुद्धस्य ज्ञातृत्वं तूदाहृतम् एव ।

तद् एवं ज्ञातृत्वे सिद्धे, कतृत्वम् अपि तद्वद् एवेति कर्तृत्वम् आह—तच् च कर्तृत्वम् । अचेतनस्य स्वतः कर्तृत्वासम्भवात्, तथा चैतन्य-सामानाधिकर्ण्येनैव तत्-प्रतीतेः—तस्यैव तद्-धर्मः । क्वचित् त्व् अचेतनस्य यद् दृश्यते, तद् अपि जीव-भाव-वशाद् अन्तर्यामि-सम्बन्धाच् च । यथा स्तन्य-क्षरणादि, यथा च—एतस्य वा अक्षरस्य प्रशासने, गार्गि, प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशम् अनु [बृ।आ।उ। ३.८.९] इत्य् आदौ, न ऋते त्वत् क्रियते किं चनारे [ऋ।वे। १०.११२.९] इत्य् आदौ च ।

तस्माच् चैतन्य-रूपस्य जीवस्यैव कर्तृत्वं धर्मः । एतद् एव—कर्ता शास्त्रार्थवत्त्वात् [वे।सू। २.३.३१] इत्य् आरभ्य समाध्य्-अभावात् [वे।सू। २.३.३७] इत्य् एतत्-पर्यन्तं सूत्र-कारेणैव योजितम् । श्रुतिश् च—विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च [तै।उ। २.५.१] इति । न चेदं बुद्ध्य्-अर्थम्—एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः [प्र।उ। ४.९] इति श्रुत्य्-अन्तरम् । यो विज्ञाने तिष्ठन् [बृ।आ।उ। ३.७.२२] इत्य् अन्तर्यामि-श्रुतौ तस्य विज्ञानतयातिप्रसिद्धेश् च । अत एव—तद् एषां प्राणानां विज्ञानेन विज्ञानम् आदाय [बृ।आ।उ। २.१.१७] इत्य् अत्र, प्राणान् गृहीत्वा [बृ।आ।उ। २.१.१८] इत्य् अत्र च प्राण-ग्रहण-विज्ञानाद् आनयोः कर्तृत्वं तस्य लौहाकर्षक-मणिवत् केवलस्यैव गम्यते । अन्य-ग्रहणादौ प्राणादि-करणम्, प्राणादि-ग्रहणादौ तु नान्यद् अस्तीति ।

[३४]

तथा—

अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास्
तर्हि न शास्यतेति नियमो ध्रुव नेतरथा ।
अजनि च यन्-मयं तद् अविमुच्य नियन्तृ भवेत्
समम् अनुजानतां यद् अमतं मत-दुष्टतया ॥ [भा।पु। १०.८७.३०]

अयम् अर्थः—परमात्मनोऽंशत्वं तस्माज् जायमानत्वं च जीवस्य श्रूयते । तत्र ममैवांशो जीव-लोके [गीता १५.७] इत्य्-आदि-सिद्धेऽंशत्वे तावत् तस्य विभुत्वम् उक्तम् इत्य् आहुः—अपरिमिताः, वस्तुत एवानन्त-सङ्ख्या नित्याश् च ये तनु-भृतो जीवाः, ते यदि सर्व-गता विभवः स्युः, तर्हि तेषां व्याप्यत्वाभावेन समत्वात् शास्यतेति नियमो न स्यात् । ईश्वरो नियन्ता जीवो नियम्य इति वेद-कृत-नियमो न घटत इत्य् अर्थः । हे ध्रुव ! इतरथा जीवस्याणुत्वेन व्याप्य-भावे तु सति, तन्-नियम इति न, अपि तु स घटत एवेत्य् अर्थः ।

अथ यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१] इति जायमानत्वावस्थायाम् अपि व्याप्य-व्यापकत्वेनैव नियम्य-नियन्तृत्वं भवति । सर्वत्रैव कार्य-कारणयोस् तथा-भाव-दर्शनाद् इत्य् आहुः—अजनि इति । यन्-मयं यद्-उपादानकं यद् अजनि जायत इत्य् अर्थः, तद् उपादानं कर्तृ तस्य जायमानस्य यन् नियन्तृ भवेत्, तद् अविमुच्य किञ्चिद् अप्य् अनुक्त्वा व्याप्यैवेत्य् अर्थः ।

किं च, यद्-उपादान-रूपं परमात्माख्यं तत्त्वं केनाप्य् अपरेण समं समानम् इत्य् अनुजानतां यः कश्चित् तथा वदति तत्रानुज्ञाम् अपि ददताम् अमतं, ज्ञातं न भवतीत्य् अर्थः । तत्र हेतुः—मत-दुष्टतया तस्य मतस्याशुद्धत्वेन, तत्राशुद्धत्वं श्रुत्वा च विरोधात् । श्रुतिश् च, असमो वा एष परो न हि कश्चिद् एव दृश्यते, सर्वे त्व् एते न वा जायन्ते च म्रियते, सर्वे ह्य् अपूर्णाश् च भवन्ति इति चतुर्वेद-शिखायाम् । न तत्-समश् चाभ्यधिकश् च दृश्यते [श्वे।उ। ६.८] इति । अथ कस्माद् उच्यते ब्रह्मा बृंहति बृंहयति च [अ।शि।उ। ३.५] इति चान्यत्र । बृहत्त्वाद् बृंहणत्वाच् च यद् ब्रह्म परमं विदुः [वि।पु। १.१२.५७] इति श्री-विष्णु-पुराणे ।

अतः परमात्मन एव सर्व-व्यापकत्वम्, एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा [श्वे।उ। ६.११] इत्य्-आदौ । तस्माद् अणुर् एव जीव इति ।

यत् तु श्री-भगवद्-गीतासु नित्यः सर्व-गतः स्थाणुः [गीता २.२४] इत्य्-आदिना जीव-निरूपणं, तत्र सर्व-गतः श्री-भगवान् एव, तत्-स्थस् तद्-आश्रितश् चासाव् अणुश् च इति सर्व-गतः स्थाणुर् जीवः प्रोक्तः ॥

॥ १०.८७ ॥ श्रुतयः ॥३४॥

सर्व-संवादिनी: तद् एतच् छुद्धस्यैव कर्तृत्वं धर्मत्वं योजयितुं पुनः, यथा च तक्षोभयथा [वे।सू। २.३.३८] इति सूत्रयित्वा स च जीवः करण-योगेन स्व-शक्त्या च कर्ता भवतीत्य् अङ्गीकृतम् । तक्षा यथा तक्षणे वास्यादि-करणेन वास्यादि-धारणे तु स्व-शक्तैव कर्ता स्याद् इत्य् उभयथैव कर्ता भवति, तद्वद् इति सूत्रार्थः । कर्ता शास्त्रार्थवत्त्वात् [वे।सू। २.३.३१] इत्य् अतः कर्तेत्य् अनुवर्तमानत्वात् । तत्र जडात्मक-शरीरेन्द्रियाद्य्-आवेशेन तैर् एव करणैर् यत् कर्तृत्वं, तच्-छुद्धाव् एव पुरुषात् प्रवर्तमानम् अपि प्रकृति-वृत्ति-प्राचूर्यात् तत्-तत्-प्रधानत्वेन तत्-करणकत्वम् एवेत्य् उच्यते इत्य् आह—यत् त्व् इति । यत् तु प्राण-ग्रहणादि-पूर्वोत्क्रान्त्यादि, तत्र स्व-कारणतैव स्फुटा । यथोदाहृतम्—प्राणो हि जीवम् उपधावति तत्र तत्र [भा।पु। ११.३.३९] इति, एतत् साम गायन्न् आस्ते [तै।उ। ३.१०.५] इति । जक्षन् क्रीडन् रममाण [छा।उ। ८.१२.३] इत्य् आदौ मुक्तानाम् अपि विहार-लक्षण-कर्तृत्व-श्रवणात् । न च कर्तृत्व-मात्रस्य दुःखावहत्वम् एवेति वाच्यम् । किन्तु प्रकृति-सम्बन्धिन एव कर्तृत्वस्य।

तद् एवं शुद्धात् प्रवर्तमानम् अपि तत्-सम्बन्धि-कर्तृत्वं तं शुद्धं न मलिनयति, चिच्-छक्ति-प्राधान्यात् । अत एवास्यैवौदासीन्याद् अकर्तृत्वादि-व्यपदेशश् च क्वचिद् अस्ति । अत एव शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः [भा।पु। ५.११.१२] इत्य् उक्तम् ।

गुणाः सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् ।
जीवस् तु गुण-संयुक्तो भुङ्क्ते कर्म-फलान्य् असौ ॥ [भा। ११.१०.३१] इत्य् आदिकं च ।

शुद्धस्यैव कर्तृत्व-शक्तौ च यस्यापि ब्रह्मणि लयस् तस्य ब्रह्मानन्देनावरणात् कर्म-संयोगासंयोगाच् च कर्तृत्व-शक्तेर् अन्तर्-भाव एवेत्य् अभ्युपगन्तव्यं, यस्य च भगवद्-भक्ति-रूप-चिच्-छक्त्याविष्टता, चिच्-छकि-वृत्ति-विशेष-पार्षद-देह-प्राप्तिर् वा, तस्य तत्-सेवा-कर्तृत्वे तु न प्रकृति-प्राधान्यम् । पूर्वत्र ताम् उपमर्द्य चिच्-छक्तेः । प्राधान्यात्, अपरत्र कैवल्याच् च ।

[३५]

अथ शुद्ध-स्वरूपत्वान् नित्य-निर्मलत्वम् [§१९] उदाहृतम् एव, शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः [भा।पु। ५.११.१२,, §१] इत्य् अनेन ।

तथा तेनैव शुद्धस्यापि ज्ञातृत्वम् अप्य् उदाहृतम् ।

ज्ञानं च नित्यस्य स्वाभाविक-धर्मत्वान् नित्यम्, अत एव न विक्रियात्मकम् अपि,तथा चैतन्य-सम्बन्धेन देहादेः कर्तृत्व-दर्शनात् । क्वचिद् अचेतनस्य कर्तृत्वं च । न ऋते तत् क्रियते किञ्चनारे इत्य्-आदाव् अन्तर्यामि-चैतन्य-सम्बन्धेन भवतीत्य् अङ्गीकाराच् च शुद्धाद् एव कर्तृत्वं प्रवर्तते । तद् उक्तम्—देहेन्द्रिय-प्राण-मनो-धियोऽमी यद्-अंश-विद्धाः प्रचरन्ति कर्मस्व् [भा।पु। ६.१६.२४] इति । तत् तूपाधि-प्राधान्येन प्रवर्तमानम् उपाधि-धर्मत्वेन व्यपदिश्यते । यथा—कार्य-कारण-कर्तृत्वे कारणं प्रकृतिं विदुः [भा।पु। ३.२६.८] इत्य्-आदौ । परमात्म-प्राधान्येन प्रवर्तमानं तु निरुपाधिकम् एवेत्य् आह—

सात्त्विकः कारकोऽसङ्गी
रागान्धो राजसः स्मृतः ।
तामसः स्मृति-विभ्रष्टो
निर्गुणो मद्-अपाश्रयः ॥ [भा।पु। ११.२५.२६]

स्पष्टम् ॥ ११.२५ ॥ श्री-भगवान् ॥३५॥

[३६]

अथ भोक्तृत्वं संवेदन-रूपत्वेन यथा, तथा तत्रैव चिद्-रूपे पर्यवस्यतीत्य् आह—

भोक्तृत्वे सुख-दुःखानां
पुरुषं प्रकृतेः परम् ॥ [भा।पु। ३.२६.८] इति ।

कारणम् विदुः80 इति पूर्वेणैवान्वयः ॥

॥ ३.२६ ॥ श्री-कपिल-देवः ॥३६॥

[३७]

अथ परमात्मैक-शेषत्वेति व्याख्येयम् । एकः परमात्मनोऽन्यः शेषोऽंशः । स चासौ स च एक-शेषः । परमात्मन एक-शेषः परमात्मैक-शेषः । तस्य भावस् तत्त्वं तद् एव स्वभावः प्रकृतिर् यस्य, स परमात्मैक-शेषत्व-स्वभावः । तथा-भूतश् चायं सर्वदा मोक्ष-दशायाम् अपीत्य् अर्थः । एतादृशत्वं चास्य स्वतः स्वरूपत एव, न तु परिच्छेदादिना । तदीय-स्वाभाविकाचिन्त्य-शक्त्या स्वाभाविक-तदीय-रश्मि-परमाणु-स्थानीयत्वात् औपाधिकावथायास् त्व् अंशेन प्रकृति-शेषत्वम् अपि भवति इति च स्वत इत्य् अस्य भावः ।

शक्ति-रूपत्वं चास्य तटस्थ-शक्त्य्-आत्मकत्वात्, तथा तदीय-रश्मि-स्थानीयत्वेऽपि नित्य-तद्-आश्रयित्वात्, तद्-व्यतिरेकेण व्यतिरेकात् । हेतुर् जीवोऽस्य सर्गादेः [भा।पु। १२.७.१८] इत्य् अनुसारेण जगत्-सृष्टौ तत्-साधनत्वात् । द्रव्य-स्वरूपत्वेऽपि प्रधान-साम्याच् चावगम्यते । उक्तं च प्रकृति-विशेषत्वेन तस्य शक्तित्वम्—

विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथा अपरा ।
अविद्या कर्म-संज्ञाख्या तृतीया शक्तिर् उच्यते ॥ [वि।पु। ६.७.६१] इति,
तया तिरोहितत्वाच् च शक्तिः क्षेत्र-ज्ञ-संज्ञिता ।
सर्व-भूतेषु भूपाल तारतम्येन वर्तते ॥ [वि।पु। ६.७.६३] इति च विष्णु-पुराणे ।

भूमिर् आपोऽनलो वायुर् [गीता ७.४] इत्य्-आदौ भिन्ना प्रकृतिर् अष्टधेत्य् अनन्तरम् ।

अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।
जीव-भूतां महाबाहो ययेदं धार्यते जगत् ॥ इति श्री-गीतोपनिषत्सु च ।

विष्णु-शक्तिः परा प्रोक्ता इत्य्-आदि विष्णु-पुराण-वचने तु तिसॄणाम् एव पृथक् शक्तित्व-निर्देशात् क्षेत्रज्ञस्याविद्या-कर्म-सम्बन्धेन शक्तित्वम् इति परास्तम्, किन्तु स्वरूपेनैवेत्य् आयातम् । तथा च गीतम्, ममैवांश [गीता १५.७] इति । अत एव अपरेयम् इतस् त्व् अन्याम् [गीता ७.५] इत्य् उक्तम् । क्षेत्रज्ञ एता मनसो विभूतीः [भा।पु। ५.११.१२, §१] इत्य्-आदौ क्षेत्रज्ञ-शब्दश् च शुद्धेऽपि प्रवर्तते, क्षेत्र-शब्दस्योपलक्षण-मात्रत्वात् ।

तद् एवं शक्तित्वेऽप्य् अन्यत्वम् अस्य तटस्थत्वात् । तटस्थत्वं च माया-शक्त्य्-अतीतत्वात्, अस्याविद्या-पराभवादि-रूपेण दोषेण परमात्मनो लेपाभावाच् चोभय-कोटाव् अप्रवेशात्81 । तस्य तच्-छक्तित्वे सत्य् अपि परमात्मनस् तल्-लेपाभावश् च यथा क्वचिद् एक-देश-स्थे रश्मौ छायया तिरस्कृतेऽपि सूर्यस्यातिरस्कारः, तद्वत् । उक्तं च तटस्थत्वं श्री-नारद-पञ्चरात्रे—

यत् तटस्थं तु चिद्-रूपं स्व-संवेद्याद् विनिर्गतम् ।
रञ्जितं गुण-रागेण स जीव इति कथ्यते ॥ इत्य्-आदौ ।

अतो विष्णु-पुराणेऽप्य् अन्तराल एव पठितोऽसौ । अन्यत्वं च श्रुतौ, अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरुद्धः [श्वे।उ। ४.९], तयोर् अन्यः पिप्पलं स्वाद्व् अत्ति [मु।उ। ३.१.१] इत्य्-आदौ । अत एवोक्तं वैष्णवे—

विभेद-जनकेऽज्ञाने नाशम् आत्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदम् असन्तं कः करिष्यति ॥ [वि।पु। ६.७.९४] इति ।

देवत्व-मनुष्यत्वादि-लक्षणो _वि_शेषतो यो भेदस् तस्य _जनके_ऽप्य् अज्ञाने नाशं गते ब्रह्मणः परमात्मनः सकाशाद् आत्मनो जीवस्य यो भेदः स्वाभाविकस् तं भेदम् असन्तं कः करिष्यति ? अपि तु सन्तं विद्यमानम् एव सर्व एव करिष्यतीत्य् अर्थः । उत्तरत्र पाठे नासन्तम् इत्य् एतस्य विधेयत्वाद् अन्यार्थः कष्ट-सृष्ट एवेति मोक्षदायाम् अपि तद्-अंशत्वाव्यभिचारः स्वाभाविक-शक्तित्वाद् एव । अत एवाविद्या-विमोक्ष-पूर्वक-स्वरूपावस्थिति-लक्षणायां मुक्तौ तल्-लीनस्य तत्-साधर्म्यापत्तिर् भवति, निरञ्जनः परमं साम्यम् उपैति [मु।उ। ३.१.३] इत्य्-आदि-श्रुतिभ्यः,

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः।
स्वर्गेऽपि नोपजायते प्रलये न व्यथन्ति च ॥ [गीता १४.२] इति श्री-गीतोपनिषद्भ्यश् च ।

अत एव ब्रह्म वेद ब्रह्मैव भवति [मु।उ। ३.२.९] इत्य्-आदिषु च ब्रह्म-तादात्म्यम् एव बोधयति, स्वाभाव्यापत्तिर् उपपत्तेः [वे।सू। ३.१.२३] इतिवत् ।

तद् एवं शक्तित्वे सिद्धे, शक्ति-शक्तिमतोः परस्परानुप्रवेशात् शक्तिमद्-व्यतिरेके शक्ति-व्यतिरेकात् चित्त्वाविशेषाच् च क्वचिद् अभेद-निर्देश एकस्मिन्न् अपि वस्तुनि शक्ति-वैविध्य-दर्शनाद् भेद-निर्देशश् च नासमञ्जसः ।

श्री-रामानुजीयास् तु अधिष्ठानाधिष्ठात्रोर् अपि जीवेशयोर् अभेद-व्यपदेशो व्यक्ति-जात्योर् गवादि-व्यपदेशवद् इति मन्यन्ते । यथा श्री-विष्णु-पुराणे—

योऽयं तवागतो देव समीपं देवता-गणः ।
स त्वम् एव जगत्-स्रष्टा यतः सर्व-गतो भवान् ॥ [वि।पु। १.९.६९] इति ।

श्री-गीतासु च—सर्वं समाप्नोषि ततोऽसि सर्वः [गीता ११.४०] इति । तत्र ज्ञानेच्छून् प्रति शास्त्रम् अभेदम् उपदिशति, भक्तीच्छून् प्रति तु भेदम् एव । क्वचित् तु परमात्म-प्रतिबिम्बत्वं यद् अस्य श्रूयते, यथा—

यथा पुरुष आत्मानम् एकम् आदर्श-चक्षुषोः ।
द्विधा-भूतम् अवेक्षेत तथैवान्तरम् आवयोः ॥ [भा।पु। ४.२८.६३] इति,

तद् अपि ज्ञानेच्छून् प्रत्य् अभेद-दृष्टि-पोषणार्थम् एवोच्यते, न वास्तव-वृत्त्यैव प्रतिबिम्बत्वेन । अद्वय-वाद-गुरु-मतेऽप्य् अम्बुवद् अग्रहणाद्82 [वे।सू। ३.२.१९] इति न्याय-विरोधात्, वृद्धि-ह्रास-भाक्त्वम् अन्तर्-भावाद् उभय-सामञ्जस्याद् एवम् [वे।सू। ३.२.२०] इति न्यायेन यथा-कथञ्चित् प्रतिबिम्ब-सादृश्य-मात्राङ्गीकाराच् च । तद् एतत् तस्य परमात्मांश-रूपताया नित्यत्वं श्री-गीतोपनिषद्भिर् अपि दर्शितम्, ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता १५.६] इति । तद् एवम् अंशत्वं तावद् आह तत्र समष्टेः—

एष ह्य् अशेष-सत्त्वानाम्
आत्मांशः परमात्मनः ।
आद्योऽवतारो यत्रासौ
भूत-ग्रामो विभाव्यते ॥ [भा।पु। ३.६.८]

टीका च—अशेष-सत्त्वानाम् प्राणिनाम् आत्मा व्यष्टीनां तद्-अंशत्वात् अंशो जीवः । अवतारोक्तिस्83 तस्मिन् नारायणाविर्भावाभिप्रायेण इत्य् एषा ॥

॥ ३.६ ॥ श्री-शुकः ॥ ३७ ॥

सर्व-संवादिनी: अतो गुणातीतम् अपि कर्तृत्वम् उक्तम् इत्य् आह—**अथ परमात्मैक-**इति । किम् अपरं वक्तव्यं ? यतो ब्रह्मानन्दम् अतिक्रम्यापि तादृश-कर्तृत्व-सुखं दृश्यते, यथा—या निर्वृतिस् तनु-भृतां [भा।पु। ४.९.१०] इत्य्-आदौ । तद् एतत् प्रकृतिमती तस्यापि कर्तृत्वम् । तत्रैव क्लेश-हानि-पूर्वकं सुखं च तक्ष-दृष्टान्तेनैव सूचितम् । तक्षा हि वास्यादि-योगं विनापि स्वयं गृहे भोजन-पानादि-कर्तृत्वं भजते । क्लेश-हानि-पूर्विकां निर्वृतिं च भजत इति ।

तद् एवं भोक्तृत्वम् अपि सिद्धम् । तच् च प्रकृति-सन्निधानेनापि भगवत्-संवेदन-रूपत्वेन जडात्मक-प्रकृति-विरोधि-रूपत्वान् न तत्-प्राधान्यं भजते । किन्तु चिद्-आत्मक-पुरुष-प्राधान्यम् एव । तद् एतद् आह—अथेति । स्वरूप-संवेदन-सुखादौ तु प्राधान्यं सुतरां सिद्धम् एव—स्वस्मै स्वयं-प्रकाशमानत्वात् । तद् उक्तं—स्व-दृक् [भा।पु। ७.७.१९] इति । तद् एतद् व्याख्यातं ज्ञातृत्वादि-त्रयम्84 । श्रुतिश् च—अथ यो वेदेदं जिघ्राणीति स आत्मा [छा।उ। ८.१२.४], कतम आत्मा ? योऽयं विज्ञान-मयः प्राणेषु हृद्य् अन्तर्-ज्योतिः पुरुषः [बृ।आ।उ। ४.३.७], एष हि द्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः [प्र।उ। ४.९] इत्य् आदि ॥

अथ परात्मैक-शेषत्व-भावः इति । एतद् उक्तं भवति—न तावद् वास्तवोपाधि-परिच्छेद-पक्षे तत्-परिच्छिन्नो ब्रह्म-खण्डोऽणु-रूपो जीवः । अच्छेद्यत्वाद् अखण्डत्वाभ्युपगमाच् च ब्रह्मणः आदिमत्तापाताच् च जीवस्य । यत एकस्यैव वस्तुनो द्वैधी-करणं छेदनम् ।

अथाच्छिन्न एवाणु-रूपोपाधि-संयुक्तो ब्रह्म-प्रदेश-विशेष इति चेत् ? तर्हि उपाधौ गच्छत्य् उपाधिना स्व-संयुक्ता ब्रह्म-प्रदेशाकर्षणायोगाद् अनुक्षणम् उपाधि-संयुक्त-ब्रह्म-प्रदेश-भेदात् क्षणे क्षणे बन्ध-मोक्षौ स्याताम् ।

अथोपाधि-संयुक्तं ब्रह्म-स्वरूपम् एव जीवः ? तर्ह्य् अनुपहित-ब्रह्म-व्यपदेशासिद्धिः स्यात् । जीवस्यैकत्वं च—य आत्मनि तिष्ठन् [श।प।ब्रा। १४.५.३०] इत्य् आदि-श्रुति-विरोधः । शब्द-विशेषात् [वे।सू। १.२.५] इत्य् आदि-न्याय-विरोधश् च सर्वत्र ॥

अथ ब्रह्माधिष्थानम् उपाधिर् एव जीवः ? तद् एवं तर्हि मोक्षे जीव-नाशः स्यात् । तस्मान् नासौ पक्षः । तद् एवम् अविद्या-कल्पितोपाधि-परिच्छेदे तु न दोषाः कल्प्यन्ते, किन्तु जीव-भाव-कल्पना-हेतोस् तस्या मूलाविद्यायाः । न च जीव एवाश्रयः, स्वाश्रयादि-दोषात् । ऐश्वर्यं च तयैव कल्पितम् इति न चेश्वरः । ततः शुद्धं चैतन्यम् एवावशिष्टम् इति । तत्रैवाविद्यायाः कल्पनीयत्वम् । तच् चाघटमानं चिद्-एकस् तस्य कथं देवदत्तस्येवाज्ञानं सम्भवेत् ? यस्याज्ञानं स एवाज्ञानाश्रयस् तद्-उपरक्तश् च भवतीति शुद्धसाप्य् अज्ञाने चानिर्मोक्ष-प्रसङ्गः ।

किं च, ईश्वरावस्थायाम् एतद् अज्ञानं न विद्यते । तैर् एव—ईक्षतेर् नाशब्दं [वे।सू। १.१.५] इत्य् अत्र ज्ञान-प्रतिबन्धवान् जीवः, ईश्वरस् त्व् अप्रतिबन्ध-स्वरूप-भूत-ज्ञानः [शङ्कर] इति सिद्धान्तितम् । यः सर्वज्ञः इत्य् आदि-श्रुतिश् च । अत एवाज्ञान-कल्पितोपाधौ प्रतिबिम्बो जीव आभासो वेत्य् अपि पूर्ववत् । किं च, तेषां (केवलाद्वैत-वादिनां मत-त्रय-विवेचनम् इदम्)—तत्र (१) प्रथम-मते—तावद् अविद्या नाम जीवाश्रया, जीवस्य नानात्वान् नाना । ततश् चाविद्या-तदात्व-सम्बन्ध-जीव-तद्-विभागानाम् अनादित्वात् तद्-अज्ञान-विषयी-भूतं ब्रह्म शुक्ति-रजतवज् जगद्-रूपेण विवर्तते ।

तत्रापरावाहतुः—तथा चाज्ञान-विषयी-भूतं—ब्रह्मैवेश्वरः इत्य् अन्तर्यामि-श्रुति-विरोधात् यद् अज्ञान-कृतम् । तत् तेनैव गृहयत इति प्रतिजीवं जगत्-कल्पना-भयाच् चन सम्यग् अवगम्यते । न च मायावच् छिन्न-चैतन्यम् ईश्वरस् तद्-आश्रयो मायेति वाच्यम् । तस्यान्तर्यामित्वे द्विगुणीकृत्य वृत्ति-विरोधाव् इति ।

अत्र जीवत्वं चाविद्या-कृतम् एवेत्य् अविद्यादीनाम् अनादित्वेऽप्य् अविद्याया जीवाश्रयत्वायोग एव । रजत-शुक्त्य्-आदे रज्जु-सर्पादेर् वाज्ञानाश्रयत्वायोगात् । अन्यस्यैव तद्-योगाच् च । बीज-वृक्षादिवद् अज्ञान-परम्परया जीवत्व-परम्परा-जन्मनि च जीवस्याद्य्-अन्तवत्त्वं च प्रतिजन्मैव तत् पार्थक्यं च प्रसज्येत ।

अथ (२) द्वितीय-मते—चैतन्यस्याविद्या-प्रतिबिम्ब ईश्वरश् चैतन्याभासो जीवः । स च मिथ्येति रज्जुः सर्प इतिवद् बाधायां सामानाधिकरण्यम् । निषेध-प्रधाना एव श्रुतयः शुद्ध-समर्पिका इति तासाम् एव महा-वाक्यत्वम् । सुषुप्तौ सर्वम् एव विलीयते । उत्थितो जीवः पुनः सम्प्रतिपद्यत इत्य् अज्ञात-सत्त्वानङ्गीकारेण दृष्टिर् अप्य् एषा चेश्वर-प्रतिपादनेऽप्य् अविरुद्धा । ईश्वरेण ज्ञात-संस्कारानुवर्तनात् ।

अत्र चापरावाहतुः—जीव-नाशस्य मोक्षत्व-भिया न सम्यग् अपेक्ष्यते तद् इति । अत्र च नित्यत्वम् एव वेत्तृ-सम्बन्धिन्या अविद्याया आश्रय-निरूपणाशक्त्यत्वात् तद्-अवस्थम् एव । ईश्वर-कर्तृत्व-सार्वज्ञ्यादि-सङ्घ-वादस् तु वेदान्तेषु प्रलाप एव स्यात् । तद्-अग्रे विवेचनीयम्।

तथा (३) तृतीय-मते—सत्त्व-रजस्-तमस्-त्रिगुणात्मिकाविद्या ब्रह्माश्रया च । सैव लाघवाद् आवरण-विक्षेप-शक्तिभ्याम् अविद्या मायेति गीयते । आवरण-शक्त्यां चैतन्यस्य प्रतिबिम्बो जीवः । विक्षेप-शक्त्यां प्रतिबिम्ब ईश्वरः । उपाधि-निष्ठत्वेन बिम्बाभिन्नत्वेन च प्रतीयमानो बिम्ब एव प्रतिबिम्बः । प्रतिबिम्ब-पक्षपातित्वाद् उपाधेर् इतीश्वरोऽहं जगत् करोमीति जीवोऽयम् अहं न जानामीत्य् अध्यवस्यति । न च शुद्धे स्व-प्रकाशे ब्रह्मण्य् अविद्या-सम्बन्ध-विरोधः । अविरोधे वा सानन्याश्रयैव, नाशकान्तराभावाद् इति वाच्यम् । मध्यन्दिन-वर्तिनि सवितर्य् उलूक-कल्पितान्धकारवत् स्व-पर-निर्वाहकत्वेनाविरोधात् । तथा साक्षिणो घातकत्वाभावात्, प्रत्युत भासकत्वात् प्रमाण-वृत्तेश् च द्योतकत्वाद् ईश्वरस्य वशे वर्तमानाया अविद्याया अनादि-जीवादृष्ट-वशात् सत्त्व-रजस्-तमसां प्रत्येकाधिक्ये स्थिति-सर्ग-लय-कर्तृत्वम् इति ।

अत्रापर आहुः—इदम् अप्य् अयुक्तम् इति । अनादित एवानन्याश्रयत्वेन तयैव जीवादि-द्वैतं कल्पितम् इति कल्पकान्तराभावेन च तस्यास् तत्-स्वाभाविकत्वेन लब्धायाः कदाचिद् अप्य् अग्नेर् औष्ण्यवद् अत्याव्यतया सम्प्रतिपत्ति-भङ्गाद् ब्रह्मणः स्वतः-शक्तिमत्त्वाभावेन तद्-इतर-वस्त्व्-अन्तरस्याभावेन शक्तेः शक्तिमद् अविनाभावेन च, स्वाभाविकत्वारोपितत्व-तटस्थत्वानाम् एकतरस्याप्य् असम्भाविततया तस्याः षष्ठ-बुद्धीन्द्रियादिवद् अत्यन्ताभाव-प्रसङ्गात् । अद्वयस्य शुद्धस्यैव सतः प्रतिबिम्बत्वापत्ति-स्वीकारे तस्य च कल्पना-कर्तृत्वाद्य्-अभावे कल्पनापि तस्याव्यवहित-च्छटा-सम्बन्धस्याभावेन प्रतिबिम्बत्वायोगात् । अत एव सिद्ध एव ब्रह्मण् अविद्या-सम्बन्धे तत्-प्रतिबिम्बो जीवः सिद्ध्यति । सिद्ध एव जीवे च तत्-कल्पितो ब्रह्मण्य् अविद्या-सम्बन्धः सिध्यतीति परस्पराश्रय-प्रसङ्गात् । तथा ब्रह्मष् तत्-सम्बन्धं कल्पयतो ब्रह्म-स्वरूपस्यैव जीवस्यान्धकार-कल्पकोलूक-दृष्टिवद् अविद्यान्तरे लब्धे तेनैव जीवत्वेश्वरत्वादि-विवर्ते सिद्धे पुनर् अपि जीवादि-लक्षण-बिब्मत्वापाद-कोपोऽप्य् अन्तर-कल्पनाया वैयर्थ्यात् । ज्ञानवत्य् एवाज्ञानं दृष्टं सम्भावितं च । ज्ञान-मात्रे तु नेति—तद् अत्यन्त-विरोधात् । न च मरु-मरीचिकायां कल्पित-जलवत् कल्पना-मयोपाधि-सम्बन्धे प्रतिबिम्बादर्शनात् । अत्र हस्त-परिमित-मात्रं किष्कु-परिमितं (एक-हस्तात् प्रादेशाद् दूर-वर्तीति वा) नभ इति नभसोऽप्य् एक-देश-लक्षणावयव-स्वीकारेण सूर्यादि-रश्मि-तादात्म्यापन्नतया तद्-अव्यवहित-च्छटा-सम्बन्धे च तस्य प्रतिबिम्बता भानं नात्यसम्भवम् इति निरवयवस्य नीरूपस्य च ब्रह्मणस् तु प्रतिबिम्बासम्भवात् । उपाधेश् च नैरूप्येण तद्-अत्यन्तासम्भवात् । देह-तादात्म्यापन्नस्य चैतन्यस्य देह-प्रतिबिम्बत्वानुपलम्भाच् च ।

अन्यत्र सुखादेः प्रतिबिम्बस्य च दृश्यत्वे द्रस्टान्यो भवति । अत्र तु प्रतिबिम्बस्य जीवस्येश्वरस्य च प्रतिबिम्बतां प्राप्तस्य वा द्रष्टा कः स्यात् ? इत्य्-आद्य्-अनुपपत्तेः । प्रतिबिम्बे वस्तुनि निजोपाधेः कल्पनाय नाशनाय चालं-भावादर्शनेन जीव-कर्तृक-प्रामाण्य-ज्ञानेनापि तद्-उपाधि-लक्षणाविद्याया नाशनानुपपन्नत्वात् । तिष्ठतु तावत् तत्-पदार्थोपाधेर् नाशन-वार्ता । पृथग्-अधिष्ठानतया प्रत्यक्षत एव भेदोपलम्भनेन प्रतिबिम्ब-क्षोभे बिम्बाक्षोभ-दर्शनेन विपरीततयोदयेन तस्माद् आभास-ज्योतिर्-उदयास् तम् अदृश्यद्भिर् अपि दृश्यत इति । केवल-स्वच्छ-वस्तु-संयुक्त-दृष्टि-प्रतिगमनोपलब्ध-तद्-वस्तु-मात्रत्व-योगेन च प्रतिबिम्बस्य बिम्बत्वाभावे तन्-नाशस्यैवात्राप्य् अभासवन् मोक्षता-प्रसङ्गात्, तथेश्वरस्य नित्य-विद्या-मयत्वेन जीवस्यानादित एव न जानामीत्य् अभिमानवत्त्वेन ब्रह्मणि विक्षेप-रूपाविद्यांश-सम्बन्ध-कल्पनायाम् अप्य् अयुक्तेर् ईश्वराकार-प्रतिबिम्बानुपपन्नत्वात्, जीवेश्वरयोः पृथक् पृथक् निजोपाधाव् ईश्वरस्य सर्वान्तरत्व-श्रुति-विरोधात् । क्षीर-नीरवत् [महा-भाष्ये १.२.३२] परस्पर-मिश्री-भूते च तद्-उपाधि-द्वये प्रतिबिम्बैकत्वस्यैव सम्भवात् । ईश्वरस्य माया-प्रतिबिब्माकारत्वे शक्त्य्-अन्तराभावे च वशीकृत-मायात्वाभावेनैश्वर्यासिद्धत्वात्, प्रत्युत जल-चन्द्रादिवद् उपाधि-चेष्टानुगतत्वेन तद्-वश्यत्वापाताच् च । किं बहुना ? श्रुति-पुराणादि-प्रसिद्धस्य परमेश्वर-स्वरूपैश्वर्यस्यापि मायिक-मात्र-स्वीकारे तन्-निन्दा-जनित-दुर्वार-निर्वचनीय-महा-पातक-कोटि-प्रसङ्गाच् चेति ।

अत एव शङ्कर-शारीरकेऽपि, अम्बुवद् अग्रहणात् तु न तथात्वं [वे।सू। ३.२.१९] इत्य् अनेन न्यायेन प्रतिबिम्बत्वं विरुध्य, वृद्धि-ह्रास-भाक्त्वम् अन्तर्भावाद् उभय-सामञ्जस्याद् एवं [वे।सू। ३.२.२०] इति न्यायेन प्रतिबिम्ब-सादृश्यम् एव स्थाप्यते । तच् च प्रतिबिम्बत्वम् एवाभासीकरोति । अतः, आभास एव च [वे।सू। २.३.५०] इत्य् अत्रापि तद्वद् एव मन्तव्यम् । प्रतिबिम्बाभासस् तु तत्-तुल्यः, न तु वस्तुतः प्रतिबिम्ब एवेत्य् अर्थः । तस्मात् तत्-तद्-असद्-भावाद् ब्रह्मणो भिन्नान्य् एव जीव-चैतन्यानीत्य् आयातम् । अतो—नेतरोऽनुपपत्तेः [वे।सू। १.१.१६] इति, भेद-व्यपदेशाच् च [वे।सू। १.१.१६] इतीमे सूत्रे कल्पना-मय-भेद-व्याख्यया न सङ्गच्छते । वास्तव-भेदे तु, स तपोऽतप्यत, स तपस् तप्त्वा इदं सर्वम् असृजत यद् इदं किं च [तै।उ। २.६.२] इत्य्-आदेः । रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति [तै।उ। २.६.२] इत्य् आदेश् च विषय-वाक्यस्य पीडनं न स्यात् । तपोऽतप्यत इति तपः, बहु स्याम् इत्य्-आदि ज्ञानं प्राकाश्यद् इत्य् अर्थः । नान्योऽतोऽस्ति द्रष्टा [बृ।आ।उ। ३.७.२३] इत्य्-आदि-श्रुतिस् तु पूर्ववत् सम्भावितं तद्-ऊर्ध्वम् अन्यं द्रष्टारं निषेधति । स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः [श्वे।उ। ६.९] इतिवद् ईश्वराद् अन्यं प्रकृति-सृष्ट्य्-अर्थेक्षण-कर्तारं वा निषेधति । तद् उक्तंअं शङ्कर-शारीरकेऽपि । यत् त्व् ईक्षण-श्रवणम् अप्-तेजसोस् तत् परमेश्वरावेश-वशाद् एव द्रष्टव्यम् । नान्योऽतोऽस्ति द्रष्टा [बृ।आ।उ। ३.७.२३] इतीक्षित्र्-अन्तर-प्रतिषेधात्, प्रकृतत्वाच् च । स्वत ईक्षितुः, तद् ऐक्षत [छा।उ। ६.२.३] इत्य् अत्रेति । एवं विवक्षित-गुणोपपत्तेश् च [वे।सू। १.२.२] इति, अनुपपत्तेस् तु न शारीरः [वे।सू। १.२.३] इत्य् अनयोः पारमर्थिक एव जीवाद् अधिकः परमेश्वर विवक्षितो गुण-समुदाय उपपद्यते । जीवे तु नोपपद्यते ।

किं च, जीव एव स्वाज्ञानेन स्वात्मा जगत् कल्पयतीति तेषां सिद्धान्तः । जगत्-कल्पनान्यथानुपपत्त्या च सत्य-सङ्कल्पत्वादयो गुणाः स्वीकृताः । ततो जीव एव ते गुणा उपपद्यन्ते । नान्यस्मिंस् तत्-कल्पितैः । न वा निर्गुणे ब्रह्मणीति सूत्र-द्वयम् इदम् असङ्गतं स्यात् । सम्भोग-प्राप्तिर् इति चेन्, न, वैशेष्यात् [वे।सू। १.२.८] इत्य् अत्रापि पूर्ववत् । किं च, सम्भोग-शब्दस्य सहभोग एवार्थः । संवादादिवन् नान्यः । ततश् च सहार्थत्वेन जीवेश्वरयोर् भेदम् अङ्गीकृत्यैव सूत्रितम् । न त्व् ऐक्यम् । अत एव वैशेष्यात् इति प्रस्तुतयोर् जीव-परयोर् एव वैशेष्यम् अङ्गीकृतम् । न त्व् एकस्यैवात्मनोऽवस्था-भेदेन । एवं, गुहां प्रविष्टाव् आत्मानौ हि तद्-दर्शनात् [वे।सू। १.२.१२] इत्य् अनेन, तत् सृष्ट्वा तद् एवानुप्राविशत् [तै।उ। २.६.२] इत्य् अत्र । अनेन जीवेनात्मनानुप्रविश्येत्य् अत्र परमात्मन एवोपाधि-प्रविष्टस्य सतः शरीरत्वम् इति व्याख्या प्रत्याख्याता । उभय-रूपत्वेनैव प्रवेशाङ्गीकारात् । श्रुतिश् च—

ऋतं पिबन्तौ सुकृतस्य लोके
गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्म-विदो वदन्ति
पञ्चाग्नेयो ये च त्रिणाचिकेताः ॥ [क।उ। १.३.१] इति ॥
द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते ।
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्
अनश्नन्न् अन्योऽभिचाकशीति ॥ [ऋग्-वेद १.१६३.२०, मु।उ। ३.१.१] इति च ।

ननु पैङ्गी-रहस्य-ब्राह्मणे—तयोर् अन्यः पिप्पलं स्वाद्व् अत्ति [मु।उ। ३.१.१] इति सत्त्वम्, अनश्नन्न् अन्योऽभिचकशीति इति च, अनश्नन् योऽभिपश्यति ज्ञस् ताव् एतौ सत्त्व-क्षेत्रज्ञौ इति । ताभ्यां शब्दाभ्याम् अन्तः-करण-जीवाव् एव व्याख्यातौ । अत एव तत्रैव तद् एतत् सत्त्वं येन स्वप्नं पश्यत्य् अथ योऽयं शारीर उपद्रष्टा, स क्षेत्रज्ञस् ताव् एतौ सत्त्व-क्षेत्रज्ञौ इत्य् उक्तं ? मैवम् । तत्रापि सत्त्व-शब्देन जीव एव, क्षेत्रज्ञ-शब्देन परमात्मैव चेति व्याख्या सङ्गता । स्वाद्व् अत्तीति चेतन्त्वोक्ति-पीडापत्तेः । कर्म-फलानशनस्य क्षेत्रज्ञेष्व् असम्भवात् । सत्त्वादि-शब्दाभ्यां जीवाद्योः प्रसिद्धेश् च । जीवस्य च सत्त्व-शब्दाभिधेयत्वे कारणम् । तद् एतत् सत्त्वम् इत्य् आदि-सत्त्वम् आधिष्ठानत्वात्, सोऽपि सत्त्वम् उच्यत इत्य् अर्थः । तथा पृथिव्य्-आदि-लक्षण-शरीरान्तर्यामित्वात् परमात्मनि शारीर उच्यत इति । योऽयं शारीरः [बृ।आ।उ। ३.९.१०] इत्य् उक्तम् । परमात्मनि ह्य् एवोपद्रष्टृ-शब्द-प्रसिद्धेः, उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः [गीता १३.२२] इत्य् आदौ । व्याख्यान्तरे—स्थित्य्-अदनाभ्यां च [वे।सू। १.३.७] इति सूत्रं च जीव-परमात्म-गतम्—द्वा सुपर्णा [मु।उ। ३.१.१] इत्य्-आद्य्-उक्त-स्थित्यादि-द्वय-विवेचनं विरुध्यते । वक्ष्यति चोत्तर-ग्रन्थे— प्रकाशादिवन् नैवं परः [वे।सू। २.३.४६] इत्य्-अनन्तरं, स्मरन्ति च [वे।सू। २.३.४७] इत्य् अत्र, तयोर् अन्यः पिप्पलम् इत्य् अनयैव श्रुत्या जीवस्य कर्म-फल-प्रतिपादनं शङ्कर-शारीरकेऽपीति । तस्माद् अनेन जीवेनात्मनानुप्रविश्येति, सहार्थे एव तृतीया । आत्म-शब्द-प्रयोगश् च शारीरस्याप्य् आत्मत्व-प्रसिद्धेः । क्षरात्मानाव् ईशते देव एकः [श्वे।उ। १.१०] इत्य् आदौ । तत्रापि भेद-विवक्षयैवानेनेत्य् उक्तम् । अथवा अत्रात्म-शब्देनात्मांश एव वाच्यः ।

एवं च, शारीरश् चोभयेऽपि हि भेदेनैनम् अधीयते [वे।सू। १.२.२०] इत्य् अत्र च पूर्ववद् भेद एव । तत्र च, यो विज्ञाने तिष्ठन् [बृ।आ।उ। ३.७.२२] इति काण्वाः । य आत्मनि तिष्ठन् [श।ब्रा। १४.६.७.३०] इत्य् अत्र, माध्यन्दिनाश् चान्तर्यामिणो भेदेनैनं शारीरं पृथिव्य्-आदिवद् अधिष्ठानत्वेन नियम्यत्वेन चाधीयते इत्य् अधिकम् ।

एवं विशेषण-भेद-व्यपदेशाभ्यां च नेतरौ [वे।सू। १.२.२२] इत्य् आदिषु, जगद्-वाचित्वात् [वे।सू। १.४.१७] इत्य् आदिषु, पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्ध-विपर्ययौ [वे।सू। ३.२.५] इत्य् आदिषु च ज्ञेयम् । शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [वे।सू। १.४.१७] इत्य् अत्र त्व् एवं व्याख्येयम् । प्राणो वा ह्य् अहम् अस्मि पुरुषः इत्य् आदिकं यत् स्वस्य परमेश्वरत्वम् इवोपदिष्टम् इन्द्रेण, तत् तु, तत् त्वम् असि [छा।उ। ६.८.७] इत्य्-आद्य्-अभेद-प्रतिपादक-शास्त्र-दृष्ट्या सम्भवति, चिद्-आकार-साम्येनैक्यात्, क्वचिद् अधिष्ठानाधिष्ठात्रोर् एक-शब्द-प्रत्ययाभ्यां वा शरीर-शरीरिणोर् वा, यथैव वामदेव उवाच—अहं मनुर् अभवं सूर्यश् च [बृ।आ।उ। १.४.१०] इत्य् आदि ।

उत्तराच् चेद् आविर्भूत-स्वरूपस् तु [बृ।आ।उ। १.३.१९] इति ह्य् अत्रापीय व्याख्या—पूर्वं दहर-शब्देन परमेश्वर एव निर्णीतः । जीवस् तु प्रत्याख्यातः । अपहत-पाप्मत्वादि-धर्मैस् तत्रोत्तर-ग्रन्थे जीवेऽपि ते धर्माः श्रूयन्ते । तत इदम् उच्यते—आविर्भूत-स्वरूपस् तु जीवस् तत्रोच्यते । मुक्तौ परमेश्वर-प्रसादेन तत्-साधारण्य-प्रायाविर्भावात् तस्य । परमं साम्यम् उपैति [मु।उ। ३.१.३] इति श्रुतेः ।

ननु तथापि दहर-वाक्ये परमेश्वरो वा मुक्त-जीवो वाभिधीयत इति सन्देहः । उभयाभिधेयत्वे च वाक्य-भेद इत्य् आशङ्क्य सूत्रान्तरं—अन्यार्थश् च परामर्शः [वे।सू १.३.२०] इति । परमेश्वर-स्वरूप-दर्शनार्थम् एव तटस्थ-लक्षणेन जीव-स्वरूपं पुनः पुनः परामृश्यते । तत्र क्वचिद् ऐक्येनाभिधानं साधर्म्यांश-ज्ञानार्थम् एवेति भावः । अत एव, स तत्र पर्येति जक्षत् क्रीडन् रममाणः [छा।उ। ८.१२.३] इत्य् अपि मुक्तावस्थायाम् उक्तम् । जीव-परयोर् भेदस् तूक्त एव तत्र—एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तम-पुरुषः [छा।उ। ८.१२.३] इति ।

अत एवाविर्भूत-स्वरूप इति बहु-व्रीहिणा जीव एवाभिहितः । अत्र मूल-पूर्व-गत्य्-आश्रयणम् अपि कष्टम् एव । तथा मैत्रेयी-ब्राह्मणेऽपि यद् इदं—न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति, आत्मनस् तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः [बृ।आ।उ। २.४.५] इत्य् आदिना जीवस्यैव द्रष्टव्यत्वादिकं निर्दिशत् तस्यैव परमात्मत्वं दर्शयतीति प्रतीयते ? तन् न, परम-पुरुषाविर्भूति-भूतस्य प्राप्तुर् आत्मनः स्वरूप-याथार्थ्य-विज्ञानम् अपवर्ग-साधन-भूत-परम-पुरुष-वेदनोपयोगितयानूद्य पुनः, आत्मा वा [बृ।आ।उ। २.४.५] इत्य् आदिना परमात्मैवामृतत्वोपायाद् द्रष्टव्यतयोपदिश्यते । एवं वा अरेऽस्य महतो भूतस्य निःश्वसितम्, एतद् यद् ऋग्-वेदो यजुर्-वेदः [बृ।आ।उ। २.४.१०] इत्य् आदिकं हि तस्यैव लिङ्गम् इति ।

एतद् अभिप्रेत्यैव श्री-श्रुतुकेन स्वयं व्याख्यातम्—तस्मात् प्रियतमः स्वात्मा [भा।पु। १०.१४.५२] इत्य् उक्त्वा, कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनां [भा।पु। १०.१४.५५] इत्य् आदिना ततोऽपितस्य प्रियतमत्वम् इति । तस्मात् परमेश्वर-स्वरूपाद् भिन्न-स्वरूप एवात्मा ।

ननु भिन्नत्वे सति, यावद् विकारं तु विभागो लोकवत् [वे।सू। २.३.७] इति न्यायेन विकारत्व-प्राप्तिः स्याद् आत्मनः ? न, वैधर्म्यान्तरात् । तच् च वैधर्म्यं प्रमाणानपेक्ष-सिद्धत्वम् । आत्मा हि प्रमाणादि-विकार-व्यवहाराश्रयत्वात् प्राग् एव तद्-व्यवहारात् सिध्यति । अतो विभाग-युक्ति-लब्ध-न्यायस्य नात्रावतारः । नित्यत्व-श्रुतिश् चास्माकम् अत्रास्ति । यथा वैकुण्ठादि-वस्तूनाम् अपि सैव नित्यत्वं शास्तीति । नात्माश्रुतेर् नित्यत्वाच् च ताभ्यः [वे।सू। २.३.१७] इति न्यायान्तरं च तं न्यायम् अपसारयति ।

तद् एवम्-आदि-श्रुति-न्यायाभ्युपगमाद् भिन्न एव जीवः । तत्र को मोहः कः शोक एकत्वम् अपश्यतः [ई।उ। ७] इत्य्-आद्याः श्रुतयस् तु परमात्मैक्यापेक्षा एव । यथा, बहवः पुरुषा लोके साङ्ख्य-योग-विचारणे [म।भा। १२.३५०.२] इति परमतम् । स्व-मते पारम्परिक-जीव-भेदे साक्षितयोपन्यस्य पुनस् तद्-विलक्षणं परमात्म-विषयं स्व-मतातिशयम् आह—

बहूनां पुरुषाणां हि यथैका योनिर् उच्यते ।
तथा तं पुरुषं विश्वम् आख्यामि गुणतोऽधिकम् ॥ [म।भा। १२.३५०.३] इत्य् उपक्रम्य,
ममान्तर् आत्मा तव च ये चान्ये देह-संज्ञिताः ।
सर्वेषां साक्षि-भूतोऽसौ न ग्राह्यः केनचित् क्वचित् ॥
विश्व-मूर्धा विश्व-भुजो विश्व-पादाक्षि नासिकः ।
एकश् चरति क्षेत्रेषु स्वैरचारी यथा-सुखम् ॥ [म।भा। १२.३५०.४-५] इति ।

न च भेदे सर्व-ज्ञान-प्रतिज्ञा हीयते, सर्व-शक्तिमयत्वाद् ब्रह्मणः । तस्माद् अस्ति जीव-परयोर् भेदः ।

तद् एवं भेद-ज्ञानेनैव मुक्तिः श्रूयते—भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म मे तत् [श्वे।उ। १.१२] इति, पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति [श्वे।उ। १.६] इति, जुष्टं यदा पश्यत्य् अन्यम् ईशम् अस्य महिमानम् इति वीत-शोकः [मु।उ। ३.१.२] इत्य्-आदिषु मुक्ताव् अपि भेद एवोपलभ्यते । यथा व्याख्यातं, तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [वे।सू। २.१.१४] इत्य् अत्र माध्व-भाष्ये—

कर्माणि विज्ञानमयश् चात्मा परेऽव्यये सर्व एकीभवति [मु।उ। ३.२.७] इति, ब्रह्मविद् ब्रह्मैव भवति [मु।उ। ३.२.९] इति च मुक्त-जीवस्य परापत्तिर् उच्यतेऽतस् तयोर् अविभागः । अतः पूर्वम् अपि स एव, न ह्य् अन्यस्यान्यत्वं युज्यत इति चेत् ? न, स्याल् लोकवत् । यथा लोके उदकम् उदकान्तरेणैकीभूतम् इति व्यवह्रियमाणम् अपि भिन्न-वस्तुत्वात् तद्-अन्तर्भूतम् एव भवति, न तु तद् एव भवतीत्य् एवं स्याद् अत्रापि । तथा च श्रुतिः—

यथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति ।
एवं मुनेर् विजानत आत्मा भवति गौतम ॥ [क।उ। २.१.१५] इति ।

स्कान्दे च—

उदके तूदकं सिक्तं मिश्रम् एव यथा भवेत् ।
तद् वै तद् एव भवति यतो बुद्धिः प्रवर्तते ॥
एवम् एवं हि जीवोऽपि तादात्म्यं परमात्मना ।
प्राप्तोऽपि नासौ भवति स्वातन्त्र्यादि-विशेषणात् ॥
ब्रह्मेशानादिभिर् देवैर् यत् प्राप्तुं नैव शक्यते ।
तद् यत् स्वभाव-कैवल्यं स भवान् केवलो हरे ॥ इति ।

श्री-रामानुज-भाष्येऽपि—नापि साधनानुष्ठानेन निर्मुक्ताविद्यस्य परेण स्वरूपैक्य-सम्भवः । अविद्याश्रयत्व-योग्यस्य तद्-अर्हत्वासम्भवात् इति युक्तिश् च दर्शिता । मुक्तस्य तु तद्-धर्मापत्तिर् इति श्री-भगवद्-गीता-सूक्तम्—

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ [गीता १४.२] इति ।

श्री-विष्णु-पुराणे च—

तद्-भाव-भावम् आपन्नस् तदासौ परमात्मना ।
भवत्य् अभेदी भेदश् च तस्याज्ञान-वृतो भवेत् ॥ [वि।पु। ६.७.९३] इति ।

अत्र तद्-भावो ब्रह्म-स्वभावः, न तु ब्रह्मत्वम् । द्वितीय-भाव-शब्दानन्वयात् ॥

ततस् तस्यैव भावोऽपहत-पाप्मत्वादि-रूपः स्वभावो यस्येति बहु-व्रीहो तद्-भाव-भावं ब्रह्म-स्वभावकत्वम् इत्य् अर्थः । ततस् तेन स्वभावेनैव परमात्मना सहाभेदी तुल्यो भवतीति विवक्षितम् । यतस् तत्-स्वभाव-विरोधी देव-मनुष्यत्वादि-लक्षणो भेदस् तस्याज्ञान-कृत एवेति । अत एव आविर्भूत-स्वरूपस् तु [वे।सू। १.३.१९] इत्य् अत्रापि—एवम् एवैष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [बृ।आ।उ। ८.१२.३] इति दर्शितम् । तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति [मु।उ। ३.१.३] इत्य् आदि च श्रुत्य्-अन्तरम् । पुनश् च श्री-विष्णु-पुराणे—

आत्म-भावं नयत्येन तद् ब्रह्म-ध्यायिनं मुने ।
विकार्यम् आत्मनः शक्त्या लोहम् आकर्षको यथा ॥ [वि।पु। ६.७.३०]

इत्य् अत्र भेद एवाभिप्रेतः । यत आत्म-भावम् आत्मन्य् अस्तित्व-संयोगं नयति, ब्रह्म-ध्यायिनं प्रतीति शक्त्येति चाभिधीयते । इत्य् एवम् एवाकर्ष-दृष्टान्तो घटते, न त्व् ऐक्येन । तद् एवं भेद-वाक्येषु सत्सु स-युक्ति-वाक्याविरुद्धेषु भेद-वादेषु ब्रह्म-वादः । ब्रह्मविद् ब्रह्मैव भवति [मु।उ। ३.२.९] इत्य् अत्रापि ब्रह्म-तादात्म्यम् एव बोधयति—स्वाभाव्यापत्तिर् उपपत्तेर् इतिवत् । तत्रापि हि जीवानाम् आकाशत्वादि-प्राप्ति-शब्दा अनुपपत्तेर् आकाशादि-धर्मं तद्-अत्यन्ताश्लेषयोर् आपत्तिम् एव बोधयन्ति, मुक्तोपसृप्य-व्यपदेशात् [वे।सू। १.३.२] इत्य् अपि मुक्तानाम् एव सताम् उपसृप्यं ब्रह्म यदि स्यात् तदैवाक्लेशेन सङ्गच्छते—मुक्तानां परमा गतिः इत्य् आदि-वाक्यं च तथैव । अत एव तैत्तिरीयोपनिषदि च भेदे एव मुक्ताव् आम्नायते—रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति [तै।उ। २.७] इति ।

तस्मात् सर्वथा भेद एव जीव-परयोः । तथा च श्रुतिः—अस्मान् मायी सृजते विश्वमे एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः [श्वे।उ। ४.९] इति । ज्ञाज्ञौ द्वाव् अजाव् ईशानीशौ [श्वे।उ। १.९] इति, नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [श्वे।उ। ६.१३] इति, तयोर् अन्यः पिप्पलं स्वाद्व् अत्ति [मु।उ। ३.१.१] इति, अजो ह्य् एको जुषमाणोऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः [श्वे।उ। ४.५] इत्य्-आद्या । गीतोपनिषच् च—अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा । अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां [गीता ७.४-५] इति, मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहं [गीता १४.३] इति, ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति [गीता १८.६१] इति च ।

विशेषणाच् च [वे।सू। १.२.१२] इत्य् अत्र माध्व-भाष्ये श्रुति-स्मृती, यथा—सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा मैवारुण्यो मैवारुण्यः [पैङ्गी-श्रुतिः] इति, आत्मा हि परम-स्वतन्त्रोऽधिक-गुणो जीवोऽल्प-शक्तिर् अस्वतन्त्रोऽवरः [भाल्लवेय-श्रुतिः] इति ।

यथेश्वरस्य जीवस्य भेदो सत्यो विनिश्चयात् ।
एवम् एव हि मे वाचं कर्तुम् इहार्हसि ॥ इति च ।

तद् एवम् अभेद-वाक्यं द्वयोश् चिद्-रूपत्वादिनैवैकाकारत्वं बोधयत्य् उपासना-विशेषार्थं, न तु वस्त्व् ऐक्यम् ।

तद् इत्थं निर्देशेऽपि हेतुं वदन् प्रकरणम् आरभते—तद् एवं शक्तित्वे सिद्धे शक्ति-शक्तिमतोः इति सप्तत्रिंश-वाक्याभासादिनान्ये आहुः—यथा यमुना-निर्झरम् उद्दिश्य, त्वं कृष्ण-पत्न्य् असि, तत्-पत्नी सैषा, सूर्य-मण्डलम् उद्दिश्य च संज्ञा-पतिर् असि, तत्-पतिर् अयम् इत्य् अधिष्ठात्र्-अधिष्ठेययोर् अभिन्नाभिमानिनोर् लोक-वेदेष्व् एक-शब्द-प्रत्ययनाभ्यां प्रयोग-सहस्राणि दृश्यन्ते, तद्-अधिष्ठातारम् उद्देष्टुम्, तथा—तत् त्वम् असि [छा।उ। ६.८.७] इत्य्-आद्य् अपि पृथिवी-जीव-प्रभृतीनां तद्-अधिष्ठानतया प्रसिद्धिस् तु बृहती । यः पृथिव्यां तिष्ठन् [बृ।आ।उ। ३.७.३], य आत्मनि तिष्ठन् [श।ब्रा। १४.६.७.३०] इत्य् आदिदिषु । ततोऽपि न वस्त्व्-ऐक्यम् इति स्थितम् ।

श्री-रामानुजीयास् त्व् एवम् आचक्षते—तत् त्वम् अस्य् आदि-वाक्येषु सामानाधिकरण्यं न निर्विशेष-वस्त्व्-ऐक्य-परम्, तत्-त्वं-पदयोः स-विशेष-ब्रह्माभिधायित्वात् । सामानाधिकरण्यस्य प्रकार-द्वय-परित्यागे प्रवृत्ति-निमित्त-भेदासम्भवेन सामानाधिकरण्यम् एव त्यक्तं स्यात् । द्वयोः पदयोर् लक्षणा च । सोऽयं देवदत्तः इत्य् अत्रापि न लक्षणा । भूतं वर्तमान-काल-सम्बन्धतयैक्य-प्रतीत्य्-अविरोधात् । देश-भेद-विरोधश् च काल-भेदेन परिहृतः । तद् ऐक्षत बहु स्यां [तै।उ। ६.२.३] इत्य् उपक्रम-विरोधश् च । एक-विज्ञानेन सर्व-विज्ञान-परिज्ञानं च न घटते । ज्ञान-स्वरूपस्य निरस्त-निखिल-दोषस्य सर्वज्ञस्य समस्त-कल्याण-गुणात्मकस्याज्ञान-तत्-कार्यानन्तापुरुषार्थाश्रयत्वं च सम्भवति । बाधार्थत्वे च सामानाधिकरण्यस्य तत्-त्वं-पदयोर् अधिष्ठान-लक्षणा निवृत्ति-लक्षणा चेति लक्षणादयस् त एव दोषाः । [वे।सू। १.१.१ श्रीभाष्ये १११-तम-अनुच्छेदः]

इयांस् तु विशेषः । नेदं रजतम् इतिवद् अप्रतिपन्नस्यैव बाधस्यागत्या परिकल्पनम् । तत्-पदेनाधिष्ठानातिरेकि-धर्मानुपस्थापनेन बाधानुपपत्तिश् च । अधिष्ठानं तु प्राक्-तिरोहित-स्वरूपं तत्-पदेनोपस्थाप्यते इति चेत् ? न, प्राग्-अधिष्ठानाप्रकाशे तद्-आश्रय-भ्रम-बाधयोर् असम्भवात् । भ्रमाश्रयम् अधिष्ठानम् अतिरोहितम् इति चेत् ? तद् एवाधिष्ठान-स्वरूपं भ्रम-विरोधीति तत्-प्रकाशे सुतरां न तद्-आश्रय-भ्रम-बाधौ । अतोऽधिष्ठानातिरेक-पारमार्थिक-धर्म-तत्-तिरोधानान् अभ्युपगमे भ्रान्ति-बाधौ दुरुपपादौ । अधिष्ठाने हि पुरुष-मात्राकारे प्रतीयमाने तद्-अतिरेकिणि पारमार्थिके राजत्वे तिरोहिते सत्य् एव बाधत्व-भ्रमः । राजत्वोपदेशेन च तन्-निवृत्तिर् भवति, नाधिष्ठान-मात्रोपदेशेन तस्य प्रकाशमानत्वेनानुपदेश्यत्वात्, भ्रमानुपमर्दित्वाच् च। तस्मान् नाभेद-वादः सङ्गच्छते ॥

[औपचारिक]-भेदाभेद-वादे तु—ब्रह्मण्य् एवोपाधि-संसर्गात् तत्-प्रयुक्ता जीव-गत-दोषा ब्रह्मण्य् एव प्रादुःस्युर् इति निरस्त-निखिल-दोष-कल्याण-गुणात्मक-ब्रह्मात्म-भावोपदेशा हि विरोधाद् एव परित्यक्ताः स्युः ।

स्वाभाविक-भेदाभेद-वादेऽपि—ब्रह्मः स्वत एव जीव-भावाभ्युपगमाद् गुणवद् दोषाश् च स्वाभाविका भवेयुर् इति निर्दोष-ब्रह्म-तादात्म्योपदेशो विरुद्ध एव ।

केवल-भेद-वादिनां चात्यन्त-भिन्नयोः केनापि प्रकारेणैक्यासम्भवाद् एव ब्रह्मात्म-भावोपदेशा न सम्भवन्तीति सर्व-वेदान्त-परित्यागः स्यात् ।

निखिलोपनिषत्-प्रसिद्धं कृत्स्नस्य ब्रह्म-शरीर-भावम् आतिष्ठमानैः कृत्स्नस्य ब्रह्मात्म-भावोपदेशाः सर्वे सम्यग् उपपादिता भवन्ति । जाति-गुणयोर् इव द्रव्याणाम् अपि शरीर-भावेन विशेषणत्वेन, गौर् अश्वो मनुष्यो देवो जातः पुरुषः कर्मभिः इति सामानाधिकरण्यं लोक-वेदयोर् मुख्यम् एव दृष्ट-चरम् । जाति-गुणयोर् अपि द्रव्य-प्रकारत्वम् एव षण्डो गौः, शुक्लः पटः इति सामानाधिकरण्य-निबन्धनम् । मनुष्यत्वादि-विशिष्ट-पिण्डानाम् अप्य् आत्मनः प्रकारतयैव पदार्थत्वात्, मनुष्यः पुरुषः षण्डो योषिद् आत्मा जातः इति सामानाधिकरण्यं सर्वत्रानुगतम् इति प्रकारत्वम् एव सामानाधिकरण्य-निबन्धनम् । न परस्पर-व्यावृत्त्या जात्य्-आदयः । स्व-निष्ठानाम् एव हि द्रव्याणां कदाचित् क्वचिद् द्रव्य-विशेषणत्वे मत्व्-अर्थीय-प्रत्ययो दृष्टः । दण्डी कुण्डली इति । न पृथक्-प्रतिपत्ति-स्थित्य्-अनर्हाणां द्रव्याणाम् । तेषां विशेषणत्वं सामानाधिकरण्यावसेयम् एव ।

ननु नियमेन गोत्वादिवद् आत्माश्रयतथैवात्मना सह मनुष्यादि-शरीरं दृश्यत इत्य् अतो मनुष्य आत्मेति सामानाधिकरण्यं लाक्षणिकम् एव ? न, मनुष्यादि-शरीराणाम् अप्य् आत्मैकाश्रयत्वम् । तद्-एक-प्रयोजनत्वं, तत्-प्रकारत्वं च जात्य्-आदि-तुल्यम् । तत्रात्मैकाश्रयत्वम् आत्म-वियोगे शरीर-विनाशाद् अवगम्यते । आत्मैक-प्रयोजनत्वं च । तत्-कर्म-फल-भोगार्थतयैव सद्-भावात् । तत्-प्रकारत्वम् अपि—देवो मनुष्यः इत्य् आत्म-विशेषणतयैव प्रतीतेः ।

एतद् एव हि गव्-आदि-शब्दानां व्यक्ति-पर्यन्तत्वे हेतुः । एतत्-स्वभाव-विरहाद् एव दण्ड-कुण्डलादीनां विशेषणत्वे, दण्डी कुण्डली इति मत्व्-अर्थीय-प्रत्ययः । [वे।सू। १.१.१ श्री-भाष्ये ११२-११३-तम-अनुच्छेदः] इति ॥

न च शरीरं चाक्षुषम् इत्य् आत्म-प्रकारकत्वं जाति-व्यक्त्य्-आदिवत् तस्य न सम्भवतीति वाच्यम् । तद्-एकाश्रयत्वादि-भावाद् एव । यथा चक्षुषा पृथिव्यादेः स्वाभाविकम् अपि गन्धादिकं सामर्थ्याभावाद् एव न गृह्यते, तथात्मापि । नैतावता शरीरस्य तत्-प्रकारत्व-स्वभाव-विरहः ।

ननु च शाब्देऽपि व्यवहारे शरीर-शब्देन शरीर-मात्रं गृह्यत इति नात्म-पर्यन्तता शरीर-शब्दस्य ? मैवम् । आत्म-प्रकार-भूतस्यैव शरीरस्य पदार्थ-विवेक-प्रदर्शनाय निरूपणान् निष्कर्षक-शब्दोऽयम् । यथा, गोत्वं शुक्लत्वम् आकृतिर् गुणः इत्य् आदि-शब्दाः । अतो गवादि-शब्दवद् देव-मनुष्यादि-शब्दा आत्म-पर्यन्ताः । एवं देव-मनुष्यादि-पिण्ड-विशिष्टानां जीवानां परमात्म-शरीरतया तत्-प्रकारत्वाज् जीवात्म-वाचिनः शब्दाः परमात्म-पर्यन्ताः ।

चिद्-अचिद्-वस्तु-शरीरत्वं च ब्रह्मणो—यस्य पृथिवी शरीरं, यस्यात्मा शरीरं [बृ।आ।उ। ३.७.३-४] इत्य् आदिषु श्रुति-शतेषु प्रसिद्धम् । सत्य् अपि तच्-छरीरत्वे विद्या-शक्तिमयत्वात् परमात्मनस् तद्-धर्म-स्पृष्टत्वं तु न स्यात् । तद् एवं तत् त्वम् असि [छा।उ। ६.८.७] इत्य् अत्र, जीव-शरीरक-जगत्-कारण-ब्रह्म-परत्वे मुख्य-वृत्तं पद-द्वयम् । प्रकार-द्वय-विशिष्टैक-वस्तु-प्रतिपादनेन सामानाधिकरण्यं च सिद्धं [वे।सू। १.१.१ श्रीभाष्ये १११-तम-अनुच्छेदः] तत्-तद्-विशेषण-विशिष्टतयैव सामानाधिकरण्यं च [ज्योतिष्टोम-यज्ञ-मन्त्र-वर्णे] अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोपं क्रीणाति इत्य् आदौ अङ्गीकृतम् । लोके च नीलम् उत्पलम् आनय इत्य् आदौ दृश्यते । तद् एवं च—निरस्त-निखिल-दोषस्य समस्त-कल्याण-गुणात्मकस्य ब्रह्मणो जीवान्त्र्यामित्वम् अप्य् ऐश्वर्यम् अपरं प्रतिपादितं भवति । उपक्रमानुकूलता च । एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञोपपत्तिश् च । सूक्ष्म-चिद्-अचिद्-वस्तु-शरीर्रस्यैव ब्रह्मणः स्थूल-चिद्-अचिद्-वस्तु-शरीर्रत्वेन कार्यत्वात् ।

कार्य-कारणयोर् अनन्यत्वात् स्थूल-चिद् अप्य् अत्रात्मिकावस्थो जीवः । तथा—तम् ईश्वराणां परमं महेश्वरं [श्वे।उ। ६.८], परास्य शक्तिर् विविधैव श्रूयते [श्वे।उ। ६.८], अपहत-पाप्मा सत्य-कामः [छा।उ। ८.१.५] इत्य्-आद्य् अविरोधश् च ।

तत् त्वम् असि इत्य् अत्रोद्देश्योपादेय विभागः कथम् इति चेत् ? नात्र किञ्चिद् उद्दिश्य किम् अपि विधीयते—ऐतदात्म्यम् इदं सर्वं [छा।उ। ६.८.७] इत्य् अनेनैव प्राप्तत्वात् । अप्राप्ते हि शास्त्रम् अर्थवत् [पू।मी। ६.२.१८] इदं सर्वं जीव-जगन् निर्दिश्य ऐतदात्म्यम् इति, तस्यैव आत्मेति तत्र प्रतिपादम् । तत्र हेतुर् उक्तः—सन्-मूलाः सौम्येमाः सर्वा प्रजाः सदायतनाः सत् प्रतिष्ठाः इति । सर्वं खल्व् इदं ब्रह्म तज् जलान् [छा।उ। ३.१४.१] इति शान्तः इतिवत् । तथा श्रुत्य्-अन्तरापि च ब्रह्मणस् तद्-व्यतिरिक्तस्य चिद्-अचिद्-वस्तुनश् च शरीर्रात्म-भावम् एव तादात्म्यं वदन्ति—अन्तः-प्रविष्टः शास्ता जनानां सर्वात्मा [तै।आ। ३.११], यः पृथिव्यां तिष्ठन् [बृ।आ।उ। ३.७.४] इत्य् आदिकं, य आत्मनि तिष्ठन् [श।प।ब्रा। १४.६.७.३०] इत्य् आदिकं चारभ्य, यस्य मृत्युः शरीर्रं, यं मृत्युर् न वेद, एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल।उ। ७] इति । तत् सृष्ट्वा तद् एवानुप्राविशत्, तद् अनुप्रविश्य सच् च त्यच् चाभवत् [तै।उ। २.६.२] इत्य्-आदीनि ।

अत एव, आत्मेति तूपगच्छन्ति ग्राहयन्ति च [वे।सू। ४.१.३] इति सूत्रकारः । आत्मेत्य् एव गृह्णीयात् इति च वाक्य-कारः । अत्रापि, अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छा।उ। ६.३.२] इति ब्रह्मात्मक जीवानुप्रवेशेनैव सर्वेषां वस्तुत्वं शब्द-वाच्यत्वं च प्रतिपादितम् । तद् अनुप्रविश्य सच् च त्यच् चाभवत् [तै।उ। २.६.२] इत्य् अनेनैकार्थ्याज् जीवस्यापि ब्रह्मात्मकत्वं ब्रह्मानुप्रवेशाद् एवेत्य् अवगम्यते । तस्माद् ब्रह्म-व्यतिरिक्तस्य कृत्स्नस्य तच्-छरीरत्वेनैव वस्तुत्वात् तस्य प्रतिपादकः शब्दस् तत्-पर्यन्तम् एव स्वार्थम् अभिदधाति । अतः सर्व-शब्दानां लोक-व्युत्पत्त्य्-अवगत-तत्-पदार्थ-विशिष्ट-ब्रह्माभिधायित्वं सिद्धम् इति । ऐतदात्म्यम् इदं सर्वम् इति प्रतिज्ञातार्थस्य तत् त्वम् असि इति सामानाधिकरण्येनाविशेष उपसंहारः । मध्यम-पुरुषस् तु युष्मच्-छब्द-योगेन स्याद् एवेति ।

[३८]

अथ व्यष्टेः—

एकस्यैव ममांशस्य
जीवस्यैव महा-मते ।
बन्धोऽस्याविद्ययानादेर्
विद्यया च तथेतरः ॥ [भा।पु। ११.११.४]

इतरो मोक्षः । अत्र रश्मि-परमाणु-स्थानीयो व्यष्टिः । तत्र सर्वाभिमानी कश्चित् समष्टिर् इति ज्ञेयम् ।

॥ ११.११ ॥ श्री-भगवान् ॥३८॥

[३९]

तत्र शक्तित्वेनैवांशत्वं व्यञ्जयन्ति—

स्व-कृत-पुरेऽप्य् अमीष्व् अबहिर्-अन्तर्-असंवरणं
तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतोऽंश-कृतम् ।
[भा।पु। १०.८७.२०] इति ।

अबहिर्-अन्तर्-असंवरणं बहिर् बहिर्-अङ्गाणि कारणानि कार्याणि अन्तर् अन्तर्-अङ्गानि, तैर् असंवरणं कार्य-कारणैर् असंस्पृष्टम् । अंश-कृतम् अंशम् इत्य् अर्थः । अखिल-शक्ति-धृतः सर्व-शक्ति-धरस्येति विशेषणं जीव-शक्ति-विशिष्टस्यैव तव जीवोऽंशो न तु शुद्धस्येति गमयित्वा जीवस्य तच्-छक्ति-रूपत्वेनैवांशत्वम् इत्य् अनेनैवांशत्वम् इत्य् एतद् व्यञ्जयन्ति । अथ तटस्थत्वं च स यद् अजया त्यजाम् अनुशयीत [भा।पु। १०.८७.३८, §२३] इत्य्-आदौ व्यक्तम् अस्ति, उभय-कोटाव् अप्रविष्टत्वाद् एव ।

॥ १०.८७ ॥ श्रुतयः श्री-भगवन्तम् ॥३९॥

[४०]

अथ ज्ञानेच्छुं प्रति जीवेशयोर् अभेदम् आह—

अहं भवान् न चान्यस् त्वं
त्वम् एवाहं विचक्ष्व भोः ।
न नौ पश्यन्ति कवयश्
छिद्रं जातु मनाग् अपि ॥ [भा।पु। ४.२८.६२]

स्पष्टं ॥ ४.२८ ॥ श्री-परमात्मा पुरञ्जनम् ॥ ४० ॥

[४१]

तत्र पूर्वोक्त-रीत्या प्रथमं तावत् सर्वेषाम् एव तत्त्वानां परस्परानुप्रवेश-

विवक्षयैक्यं प्रतीयते इत्य् एवं शक्तिमति परमात्मनि जीवाख्य-शक्त्य्-अनुप्रवेश-विवक्षैव85 तयोर् ऐक्य-पक्षे हेतुर् इत्य् अभिप्रैति श्री-भगवान्—

परस्परानुप्रवेशात्
तत्त्वानां पुरुषर्षभम् ।
पौर्वापर्य-प्रसङ्ख्यानं
यथा वक्तुर् विवक्षितम् ॥ [भा।पु। ११.२२.७]

टीका च—अन्योन्यस्मिन्न् अनुप्रवेशाद् वक्तुर् यथा विवक्षितं, तथा पूर्वा अल्प-सङ्ख्या अपरा अधिक-सङ्ख्या, तयोर् भावः पौर्वापर्यं, तेन प्रसङ्ख्यानं गणनम् इत्य् एषा ॥

॥ ११.२२ ॥ श्री-भगवान् ॥ ४१ ॥

[४२]

अथाव्यतिरेकेण86 चिद्-रूपत्वाविशेषेणापि87 तयोर् ऐक्यम् उपदिशति—

पुरुषेश्वरयोर् अत्र न वैलक्षण्यम् अण्व् अपि ।
तद्-अन्य-कल्पनापार्था ज्ञानं च प्रकृतेर् गुणः ॥ [भा।पु। ११.२२.११] इति ।

टीका च—कथं तर्हि पञ्चविंशति-पक्षः ? तत्राह—पुरुष- इति । वैलक्षण्यं विसदृशत्वं नास्ति, द्वयोर् अपि चिद्-रूपत्वात् । अतस् तयोर् अत्यन्तम् अन्यत्व**-कल्पनापार्था** इत्य् एषा । अत्र सदृशत्वानन्यत्वाभ्यां तयोः शक्ति-शक्तिमत्त्वं दर्शितम् । तेनाव्यतिरेकोऽपि88

॥ ११.२२ ॥ श्री-भगवान् ॥४२॥

[४३]

अथ भक्तीच्छुं प्रति तयोर् भेदम् उपदिशति—

यदा रहितम् आत्मानं
भूतेन्द्रिय-गुणाशयैः ।
स्वरूपेण मयोपेतं
पश्यन् स्वाराज्यम् ऋच्छति ॥ [भा।पु। ३.९.३३]

आत्मानं जीवं स्वरूपेण तस्या जीव-शक्तेर् आश्रय-भूतेन शक्तिमता मया उपेतं युक्तम् । स्वाराज्यं सार्ष्ट्य्-आदिकम् ॥

॥ ३.९ ॥ गर्भोदशायी ब्रह्माणम् ॥४३॥

[४४]

तत्र भेदे हेतुम् आह—

अनाद्य्-अविद्या-युक्तस्य
पुरुषस्यात्म-वेदनम् ।
स्वतो न सम्भवाद् अन्यस्
तत्त्वज्ञो ज्ञानदो भवेत् ॥ [भा।पु। ११.२२.१०]

टीका च—स्वतो न सम्भवति, अन्यतस् तु सम्भवात् । स्वतः सर्वज्ञः परमेश्वरोऽन्यो भवेद् इति षड्-विंशति-तत्त्व-पक्षाभिप्रायः इत्य् एषा ।

ज्ञानदत्वम् अत्र ज्ञानाज् ज्ञातुश् च वैलक्षण्यम् ईश्वरस्य बोधयत्य् एवेति भावः । एवं, त्वत्तो ज्ञानं हि जीवानां प्रमोषस् तेऽत्र शक्तितः [भा।पु। ११.२२.२८] इत्य् उद्धव-वाक्यं चाग्रे ।

अत्र यदि जीवाज्ञान-कल्पितम् एव तस्य परमेश्वरत्वं स्यात्, तर्हि स्थाणु-पुरुषवत् तस्य ज्ञान-दत्वम् अपि न स्याद् इत्य् अतः सत्य एव जीवेश्वर-भेद इत्य् एवं श्रीमद्-ईश्वरेणैव स्वयं स्वस्य पारमर्थिकेश्वराभिमानित्वेनैवास्तित्वं मूढान् प्रति बोधितम् इति स्पष्टम्। भेद-वादिनश् चात्रैव प्रकरणे, यथा विविक्तं यद् वक्त्रं गृह्णीमो युक्ति-सम्भवात् [भा।पु। ११.२२.९] इत्य् अत्र परम-विवेकजस् तु भेद एवेति । तथा, मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटम् [भा।पु। ११.२२.४] इति च मन्यते ।

ननु,

श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् ।
प्रमाणेष्व् अनवस्थानाद् विकल्पात् स विरज्यते ॥ [भा।पु। ११.१९.१७]

इत्य् अत्र भेद-मात्रं निषिध्यते, विकल्प-शब्दस्य संशयार्थत्वात् । संशयं परित्यज्य वस्तुन्य् एव निष्ठाम् करोतीत्य् अर्थः । अत एव,

कर्मणां परिणामित्वाद् आ विरिञ्च्याद् अमङ्गलम् ।
विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्टवत् ॥ [भा।पु। ११.१९.१८]

इत्य् अत्रास्योत्तर-श्लोकेऽपि विरिञ्चम् एवावधिं कृत्वा नश्वरत्व-दृष्टिर् उक्ता,89 न तु वैकुण्ठादिकम् अपीति ॥

॥ ११.२२ ॥ श्री-भगवान् ॥४४॥

[४५]

अन्यत्रापि श्री-जामातृ-मुनिभिर् उपदिष्टस्य जीव-लक्षणस्यैवोपजीव्यत्वेन तं लक्षयति त्रिभिः—

अहं ममाभिमानोत्थैः
काम-लोभादिभिर् मलैः ।
वीतं यदा मनः शुद्धम्
अदुःखम् असुखं समम् ॥ [भा।पु। ३.२५.१६]
तदा पुरुष आत्मानं
केवलं प्रकृतेः परम् ।
निरन्तरं स्वयं-ज्योतिर्
अणिमानम् अखण्डितम् ॥ [भा।पु। ३.२५.१७]
ज्ञान-वैराग्य-युक्तेन
भक्ति-युक्तेन चात्मना ।
परिपश्यत्य् उदासीनं
प्रकृतिं च हतौजसम्**90 ॥** [भा।पु। ३.२५.१८]

स्पष्टैव योजना । तत्र अहम् इति पद्येन स आत्मा नित्य-निर्मल इति । आत्मानम् इत्य् अनेनैव अहम्-अर्थ इति, अन्यथा ह्य् आत्मत्व-प्रतीत्य्-अभावः स्यात् । केवलम् इत्य् अनेन एक-रूप-स्वरूप-भाक् इति । प्रकृतेः परम् इत्य् अनेन विकार-रहितः [न विकारि] । भक्ति-युक्तेन इत्य् अनेन परमात्म-प्रसादाधीन-तत्-प्रकाशत्वात् । निरन्तरम् इत्य् अनेन नित्यत्वात् परमात्मैक-शेषत्वम् इति । स्वयं-ज्योतिर् इत्य् अनेन स्वस्मै स्वयं-प्रकाश इति ज्ञान-मात्रात्मको न च इति च । अणिमानम् इत्य् अनेनाणुर् एवेति प्रति-क्षेत्रं भिन्न इति च । अखण्डितम् इत्य् अनेन विच्छिन्न-ज्ञानादि-शक्तित्वात् ज्ञातृत्व-कर्तृत्व-भोक्तृत्व-निज-धर्मक इति व्यञ्जितम् ॥

॥ ३.२५ ॥ श्री-कपिलदेवः ॥४५॥

[४६]

तथेदम् अपि प्राक्तन-लक्षणाविरुद्धम्—

आत्मा नित्योऽव्ययः शुद्ध
एकः क्षेत्र-ज्ञ आश्रयः ।
अविक्रियः स्व-दृग् हेतुर्
व्यापकोऽसङ्ग्य् अनावृतः ॥ [भा।पु। ७.७.१९]
एतैर् द्वादशभिर् विद्वान्
आत्मनो लक्षणैः परैः ।
अहं ममेत्य् असद्-भावं
देहादौ मोहजं त्यजेत् ॥ [भा।पु। ७.७.२०]

अव्ययः अपक्षय-शून्यः । एकः, न तु देहेन्द्रियादि-सङ्घात-रूपः । क्षेत्रज्ञो ज्ञातृत्वादि-धर्मकः । इन्द्रियादीनाम् आश्रयः । स्वाभाविक-ज्ञातृत्वाद् एव्आविक्रियःस्व-दृक् स्वस्मै स्वयं-प्रकाशः । हेतुः सर्गादि-निमित्तम्, यद् उक्तं श्री-सूतेन—हेतुर् जीवोऽस्य सर्गादेर् अविद्या-कर्म-कारकः [भा।पु। १२.७.१८] इति ।

व्यापको व्याप्ति-शीलः । असङ्गी अनावृतश् च स्वतः-प्रकाश-रूपत्वात् । अहं-ममेत्य् असद्-भावं देहादौ मोहजं त्यजेद् इति देहाद्य्-अधिकरणकस्य मोहजस्यैव त्यागो, न तु स्वरूप-भूतस्येत्य् अहम्-अर्थ इति व्यज्यते ।

तद् एवं जीवस् तद्-अंशत्वात् सूक्ष्म-ज्योती-रूप इत्य् एके । तथैव हि कौस्तुभांशत्वेन व्यञ्जितम् । तथा च स्कान्द-प्रभास-खण्डे जीव-निरूपणे—

न तस्य रूपं वर्णा वा प्रमाणं दृश्यते क्वचित् ।
न शक्यं कथितुं वापि सूक्ष्मश् चानन्त-विग्रहः ॥
बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
तस्मात् सूक्ष्मतरो देवः स चानन्त्याय कल्प्यते ॥
आदित्य-वर्णं सूक्ष्माभम् अब्-बिन्दुम् इव पुष्करे ।
नक्षत्रम् इव पश्यन्ति योगिनो ज्ञान-चक्षुषा ॥ इति ॥

॥ ७.९ ॥ श्री-प्रह्लादोऽसुर-बालकान् ॥४६॥

[४७]

तद् एवम् अनन्ता एव जीवाख्यास् तटस्थाः शक्तयः । तत्र तासां वर्ग-द्वयम् । एको वर्गोऽनादित एव भगवद्-उन्मुखः, अन्यस् त्व् अनादित एव भगवत्-पराङ्मुखः, स्वभावतस् तदीय-ज्ञान-भावात्, तदीय-ज्ञानाभावाच् च । अत्र प्रथमोऽन्तरङ्गा-शक्ति-विलासानुगृहीतो नित्य-भगवत्-परिकर-रूपो गरुडादिकः । यथोक्तं पाद्मोत्तर-खण्डे त्रिपाद्-विभूतेर् लोकास् त्व् इत्य्-आदौ भगवत्-सन्दर्भोदाहृते (§६७)91 । अस्य च तटस्थत्वं जीवत्व-प्रसिद्धेर् ईश्वरत्व-कोटाव् अप्रवेशात् ।

अपरस्य तत्-पराङ्मुखत्व-दोषेण लब्ध-च्छिद्रया मायया परिभूतः संसारी । यथोक्तं हंस-गुह्य-स्तवे—सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्वज्ञम् अनन्तम् ईडे [भा।पु। ६.४.२५] इति । एकादशे च—भयं द्वितीयाभिनिवेशतः स्यात् [भा।पु। ११.२.३७] इति । यथोक्तं च वैष्णवे—

तया तिरोहितत्वाच् च शक्तिः क्षेत्र-ज्ञ-संज्ञिता ।
सर्व-भूतेषु भूपाल तारतम्येन वर्तते ॥ [वि।पु। ६.७.६३] इति ।

तद्-वर्ग-द्वयम् एवोक्तं श्री-विदुरेणापि—

तत्त्वानां भगवंस् तेषां कतिधा प्रति-सङ्क्रमः ।
तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते ॥ [भा।पु। ३.७.३७] इत्य् अनेन ।

तत्र परमेश्वर-पराङ्मुखानां शुद्धानाम् अपि तच्-छक्ति-विशिष्टात् परमेश्वरात् सोपाधिकं जन्म भवति । तच् च जन्म निजोपाधि-जन्मना निज-ज्नमाभिमान-हेतुकाध्यात्मिकावस्थात्व-प्राप्तिर्92 एव । तद् एतद् आहुः—

न घटत उद्भवः प्रकृति-पुरुषयोर् अजयोर्
उभय-युजा भवन्त्य् असुभृतो जल-बुद्बुदवत् ।
त्वयि न इमे ततो विविध-नाम-गुणैः परमे

सरित इवार्णवे मधुनि लिख्युर् अशेष-रसाः ॥ [भा।पु। १०.८७.३१]

प्रकृतेस् त्रैगुण्यं, पुरुषः शुद्धो जीवः, तयोर् द्वयोर् अप्य् अजत्वाद् उद्भवो न घटते । ये च असु-भृत आध्यात्मिक-रूपाः सोपाधयो जीवा जायन्ते, तत्-तद्-उभय-शक्ति-युजा परमात्मनैव कारणेन जायन्ते । प्रकृति-विकार-प्रलयेण सुप्त-वासनत्वात् शुद्धास् ताः परमात्मनि लीना जीवाख्याः शक्तयः सृष्टि-काले विकारिणीं प्रकृतिम् आसृज्य क्षुभित-वासनाः सत्यः सोपाधिकावस्थां प्राप्नुवन्त्य एव व्युच्चरन्तीत्य् अर्थः ।

एतद् अभिप्रेत्यैव भगवान् एक आसेदम् [भा।पु। ३.५.२३] इत्य्-आदि तृतीय-स्कन्ध-प्रकरणे—

काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः ।
पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥ [भा।पु। ३.५.२६]

इत्य् अनेन वीर्य-शब्दोक्तस्य जीवस्य93 प्रकृताव् आधानम् उक्तम् । एवं श्री-गीतोपनिषत्स्व् अपि मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् [गीता १४.३] इत्य् अत्रोक्तम् । टीका-कारैश्94 च ब्रह्म-शब्देन प्रकृतिर् व्याख्याता, गर्भ-शब्देन जीव इति। पुनर् एष एव तृतीये—

दैवात् क्षुभित-धर्मिण्यां स्वस्यां योनौ परः पुमान् ।
आधत्त वीर्यं सासूत महत् तत्त्वं हिरण्मयम् ॥ [भा।पु। ३.२६.१९]

इत्य् अत्र वीर्यं चिच्-छक्तिम् इति टीकायां व्याख्यातम्, अतः शक्तित्वम् अस्य टीका-सम्मतम् ।

ततोऽकस्माद् उद्भव-मात्रांशे दृष्टान्तः—जल-बुद्बुदवद् इति । अतः पुनर् अपि प्रलय-समये इमे सोपाधिका जीवास् त्वयि बिम्ब-स्थानीय-मूल-चिद्-रूपे रश्मि-स्थानीय-चिद्-एक-लक्षण-शुद्ध-जीव-शक्तिमये । तत एव स्वम् अपीतो भवति [छा।उ। ६.८.१]95 इत्य्-आदि श्रुतौ स्व-शब्दाभिधेये परमे परमात्मनि विविध-नाम-गुणैर् विविधाभिर् देवादि-संज्ञाभिर् विविधैः शुभाशुभ-गुणैश् च सह लिल्युर् लीयन्ते ।

पूर्ववत् प्रलयेऽपि दृष्टान्तः—सरित इवार्णव इति अशेष-रसा इव मधुनि इति च । अत्र देव-मनुष्यादि-नाम-रूप-परित्यागेन तस्मिन् लीनेऽपि स्वरूप-भेदोऽस्त्य् एव, तत्-तद्-अंश-सद्-भावाद् इत्य् अभिप्रायः । अत्र श्रुतयः, हन्तेमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणीति [छा।उ। ६.३.२] इति, अजाम् एकाम् [श्वे।उ। ४.५] इत्य्-आदि ।

यथा नद्यः स्यन्दमानाः समुद्रे
ऽस्तं गच्छन्ति नाम-रूपे विहाय ।
तथा विद्वान् नाम-रूपाद् विमुक्तः
परात् परं पुरुषम् उपैति दिव्यम् ॥ [मु।उ। ३.२.८] इति ।

यथा सौम्येमा मधु मधु-कृतो निस्तिष्ठन्ति, नाना-रूपाणां96 वृक्षाणां रसान् समवहारम् एकतां रसं गमयन्ति, ते यथा विवेकं न लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्य् अमुष्याहं वृक्षस्य रसोऽस्मीति, एवम् एव खलु सौम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः, सति सम्पद्यामहे [छा।उ। ६.९.१-२] इति ॥३१॥

॥ १०.८७ ॥ श्रुतयः श्री-भगवन्तम् ॥४७॥

[४८]

तद् एवं परमात्मनस् तटस्थाख्या शक्तिर् विवृता । अन्तराङ्गाख्या तु पूर्ववद् एव ज्ञेया । अथ बहिरङ्गाख्या विव्रियते

एषा माया भगवतः
सृष्टि-स्थित्य्-अन्त-कारिणी
त्रि-वर्णा वर्णितास्माभिः
किं भूयः श्रोतुम् इच्छसि ॥ [भा।पु। ११.३.१६]

भगवतः स्वरूप-भूतैश्वर्यादेः । परमात्मन एषा तटस्थ-लक्षणेन पूर्वोक्ता जगत्-सृष्ट्य्-आदि-कारिणी मायाख्या शक्तिः । त्रयो वर्णा यस्याः सा । तथा चाथर्वणिकाः पठन्ति—सितासिता च रक्ता97 च सर्व-काम-दुघा विभोः [चुल्लिकोपनिषत्] इति । उक्तं च, दैवी ह्य् एषा गुणमयी मम माया दुरत्यया [गीता ७.१४] इत्य् अत्र गुण-मयि इति ॥

॥ ११.३ ॥ अन्तरीक्षो विदेहम् ॥४८॥

[४९]

तस्या मायायाश् चांश-द्वयम् । तत्र गुण-रूपस्य मायाख्यस्य निमित्तांशस्य द्रव-रूपस्य प्रधानाख्यस्योपादानांशस्य च परस्परं भेदम् आह चतुर्भिः—

अथ ते सम्प्रवक्ष्यामि
साङ्ख्यं पूर्व-विनिश्चितम् ।
यद् विज्ञाय पुमान् सद्यो
जह्याद् वैकल्पिकं भ्रमम् ॥ [भा।पु। ११.२४.१]

टीका च—अद्वितीयात् परमात्मनो मायया प्रकृति-पुरुष-द्वारा सर्वं द्वैतम् उदेति, पुनस् तत्रैव लीयते इत्य् अनुसन्दधानस्य पुरुषस्य द्वन्द्व-भ्रमो निवर्तते इति वक्तुं साङ्ख्यं प्रस्तौति—अथेति । इत्य् एषा । अत्र प्रधान-पर्यायः प्रकृति-शब्धः ॥४९॥

[५०]

आसीज् ज्ञानम् अथो अर्थ
एकम् एवाविकल्पितम् ।
यदा विवेक-निपुणा
आदौ कृत-युगे युगे ॥ [भा।पु। ११.२४.२]

टीका च—**अथो-**शब्दः कार्त्स्न्ये । ज्ञानं द्रष्टृ, तेन दृश्य-रूपः कृत्स्नोऽप्य् अर्थश् च विकल्प-शून्यम् एकम् एव, ब्रह्मण्य् एव लीनम् आसीद् इत्य् अर्थः । इत्य् एषा ।

तृतीय-स्कन्धे च—भगवान् एक आसेदम् अग्र आत्मात्मनां विभुः [भा।पु। ३.५.२३, §४७] इत्य्-आदौ यद् भगवत्त्वेन शब्द्यते, तद् एवात्र ब्रह्मत्वेन शब्द्यते इति वदन्ति [भा।पु। १.२.११] इत्य्-आदिवद् उभयत्रैकम् एव वस्तु प्रतिपाद्यम् । अन्ते तु, एष साङ्ख्य-विधिः प्रोक्तः इत्य्-आदौ परावर-दृशा मया [भा।पु। ११.२४.२९]98 इत्य्-अन्तेन भगवद्-रूपेणाप्य् अवस्थितिः स्पष्टैव ।

कदा ? इत्य् अपेक्षायाम् आह—यदा आदौ कृत-युगे विवेक-निपुणा जना भवन्ति, तस्मिन्न् अयुगे तत्-पूर्वस्मिन् प्रलय-समय इत्य् अर्थः ॥५०॥

[५१]

तन्-माया-फल-रूपेण
केवलं निर्विकल्पितम् ।
वाङ्-मनो-गोचरं सत्यं
द्विधा समभवद् बृहत् ॥ [भा।पु। ११.२४.३]

टीका च—तद् बृहद् ब्रह्म वाङ्-मनोऽगोचरं यथा भवति, तथा माया दृश्यं, फलं तत्-प्रकाशस् तद्-रूपेण माया-रूपेण विलास-रूपेण वा द्विधाभूत् ॥ इत्य् एषा ।

अत्र माया दृश्यम् इति, फलं तत्-प्रकाश इति छेदः । तेन ब्रह्मणा यद् दृश्यं वस्तु, तन् माया । तस्य ब्रह्मणो यः प्रकाश-विशेषः, स फलम् इत्य् अर्थः ॥५१॥

[५२]

तयोर् एकतरो ह्य् अर्थः
प्रकृतिः सोभयात्मिका ।
ज्ञानं त्व् अन्यतमो भावः
पुरुषः सोऽभिधीयते ॥ [भा।पु। ११.२४.४]

टीका च—तयोर् द्विधा-भूतयोर् अंशयोर् मध्ये उभयात्मिका कार्य-कारण-रूपिणी । इत्य् एषा ।

एवं श्री-विष्णु-पुराणे—विष्णोः स्वरूपात् परतो हि तेऽन्ये रूपे प्रधानं पुरुषश् च विप्र [वि।पु। १.२.२४] इत्य् अत्र तेषाम् एव टीका च—परतो निरुपाधेर् विष्णोः स्वरूपात् ते प्राग्-उक्ते प्रधानं पुरुषश् च इति द्वे रूपे अन्ये माया-कृते इति ॥

॥ ११.२४ ॥ श्री-भगवान् ॥५२॥

[५३]

अन्यत्र तयोर् उपादान-निमित्त-रूपयोर् अंशयोर् वृत्ति-भेदेन भेदान् अप्य् आह—

कालो दैवं कर्म जीवः स्वभावो
द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
तत्-सङ्घातो बीजरोह-प्रवाहस्
तन्-मायैषा तन् निषेधं प्रपद्ये ॥ [भा।पु। १०.६३.२६]

टीका च—कालः क्षोभकः । कर्म निमित्तम् । तद् एव फलाभिमुखम् अभिव्यक्तं दैवम्स्वभावस् तत्-संस्कारः । जीवस् तद्वान् । द्रव्यं भूत-सूक्ष्माणि । क्षेत्रं प्रकृतिः । प्राणः सूत्रम् । आत्मा अहङ्कारः । विकार एकादशेन्द्रियाणि महा-भूतानि चेति षोडशकः । तत्-सङ्घातो देहः । तस्य च बीज-रोहवत् प्रवाहः, रोहोऽङ्कुरः, देहाद् बीज-रूपं कर्म, ततोऽङ्कुर-रूपो देहः, ततः पुनर् एवम् इति प्रवाहः । तत् त्वां निषेधावधि-भूतं प्रपद्ये भजे इति । इत्य् एषा ।

अत्र काल-दैव-कर्म-स्वभावा निमित्तांशाः, अन्ये उपादानांशाः । तद्वान् जीवस् तूभयात्मकः, तथोपादान-वर्गे निमित्त-शक्त्य्-अंशोऽप्य् अनुवर्तते । यथा जीवोपाधि-लक्षणेऽहम्-आख्ये तत्त्वे तदीयाहम्-भावः स ह्य् अविद्या-परिणाम इत्य्-आदि । यथोक्तं तृतीयस्य षष्ठे—

आत्मानं चास्य निर्भिन्नम्
अभिमानोऽविशत् पदम् ।
कर्मणांशेन येनासौ
कर्तव्यं प्रतिपद्यते ॥ [भा।पु। ३.६.२५] इति ।

अत्र आत्मानम् अहङ्कारम्, अभिमानो रुद्रः, कर्मणा अहं-वृत्त्या इति टीका च । अत्र च यन् निर्भिन्नं, तद् अधिष्ठानं वाग्-आदीन्द्रियं तृतीयान्तम् अध्यात्मम् इति प्रकरण-निर्णयष् टीकायाम् एव कृतोऽस्ति ।

कर्मणो बीज-रूपत्वं कारणता-मात्र-विवक्षया । तद् एवम् अत्रापि मूल-मायायाः सर्वोपादानांश-मूल-भूतं क्षेत्र-शब्दोक्तं प्रधानम् अप्य् अंश-रूपम् इत्य् अधिगतम् । जीवस् तद्वान् इत्य् अनेन शुद्ध-जीवस्य मायातीतत्वं बोधयति ॥

॥ १०.६२ ॥ ज्वरः श्री-भगवन्तम् ॥५३॥

[५४]

अथ निमित्त-रूपांशस्य प्रथमे द्वे वृत्ती आह—

विद्याविद्ये मम तनू
विद्ध्य् उद्धव शरीरिणाम् ।
बन्ध-मोक्ष-करी आद्ये
मायया मे विनिर्मिते ॥ [भा।पु। ११.११.३]

टीका च—तन्येते बन्ध-मोक्षाव् आवाभ्याम् इति तनू शक्ती मे मायया विनिर्मिते । माया-वृत्ति-रूपत्वाद् बन्ध-मोक्ष-करी इत्य् एक-वचनं द्वि-वचनार्थे । ननु तत्-कार्यत्वे बन्ध-मोक्षयोर् अनादित्व-नित्यत्वे न स्याताम् ? तत्राह—आद्ये अनादी । ततो यावद् अविद्यां प्रेरयामि, तावद् बन्धः । यदा विद्यां ददामि तदा मोक्षः स्फुरतीत्य् अर्थः । इत्य् एषा ।

अत्र माया-वृत्तित्वाद् इति वस्तुतो माया-वृत्ती एव ते । विनिर्मितत्वं त्व् अपरानन्त-वृत्तिकया तया प्रकाशमानत्वाद् एवोच्यते । यतोऽनादी इत्य् अर्थः । तथा स्फुरतीत्य् अस्य मोक्ष इत्य् अनेनैवान्वयः । जीवस्य स्वतो मुक्तत्वम् एव । बन्धस् त्व् अविद्या-मात्रेण प्रतीतः । विद्योदये तु तत् प्रकाशते मात्रम् । ततो नित्य एव मोक्ष इति भावः ।

न च वाच्यम्, एषा माया [भा।पु। ११.३.१६] इत्य्-आदौ सामान्य-लक्षणे मोक्ष-प्रदत्वं तस्या नोक्तम् इत्य् असम्यक्त्वम् इति, अन्त-कारित्वेनात्यन्तिक-प्रलय-रूपस्य99 मोक्षस्याप्य् उपलक्षितत्वात् । अत्र विद्याख्या वृत्तिर् इयं स्वरूप-शक्ति-वृत्ति-विशेष-विद्या-प्रकाशे द्वारम् एव, न तु स्वयम् एव सेति ज्ञेयम् ।

अथाविद्याख्यस्य भागस्य द्वे वृत्ती—आवरणात्मिका विक्षेपात्मिका च । तत्र पूर्वा जीव एव तिष्ठन्ती तदीयं स्वाभाविकं ज्ञानम् आवृण्वाना, उत्तरा च तं तद्-अन्यथा-ज्ञानेन सञ्जयन्ती वर्तत इति ॥

॥ ११.११ ॥ श्री-भगवान् ॥५४॥

[५५]

अत्र निमित्तांशस् त्व् एवं विवेचनीयः । यथा निमित्तांश-रूपया मायाख्ययैव प्रसिद्धा शक्तिस् त्रिधा दृश्यते, ज्ञानेच्छा-क्रिया-रूपत्वेन । तत्र तस्याः परमेश्वर-ज्ञान-रूपत्वं यथा तृतीये—

सा वा एतस्य संद्रष्टुः शक्तिः सद्-असद्-आत्मिका ।
माया नाम महा-भाग ययेदं निर्ममे विभुः ॥ [भा।पु। ३.५.२५] इति ।

अस्य टीकायाम्—सा वै दृअष्टृ-दृश्यानुसन्धान-रूपा, सद् दृश्यम्, असद् अदृश्यम् आत्मा स्वरूपम् । सद्-असतोर् आत्मा यस्यास् तद्-उभयानुसन्धान-रूपत्वाद् इति ।

तद्-इच्छा-रूपत्वं यथा तत्रैव । आत्मेच्छानुगताव् आत्मा [भा।पु। ३.५.२३] इत्य् अस्य टीकायाम् आत्मेच्छा माया तस्यानुगतौ लये सति इति ।

तत्-क्रिया-रूपत्वं चैकादशे, एषा माया भगवत [भा।पु। ११.३.१६]100 इत्य् उदाहृत-वचने [§४८] एव द्रष्टव्यम् । यदि परमेश्वरस्य साक्षाज् ज्ञानादिकं न माया किन्तु स्वरूप-शक्तिर् एव, तथापि तज् ज्ञानादिकं प्राकृते कार्ये न तद्-अर्थं प्रवर्तते, किन्तु भक्तार्थम् एव प्रवर्तमानम् अनुषङ्गेनैव प्रवर्तत इत्य् अग्रे [§xx] विवेचनीयत्वात्, तत् प्रवृत्त्य्-आभास-संवलितं यन् माया-वृत्ति-रूपं ज्ञानादिकम् अन्यत्, तद् एव तज्-ज्ञानादि-शब्देनोच्यते ।

तथा-भूतं च तज्-ज्ञानादिकं द्विविधम्—स्वभाव-सिद्धत्वात् केवल-परमेश्वर-निष्ठं, तद्-दत्तत्वात् जीव-निष्ठं च । तत्र प्रथमं द्रष्टृ-दृश्यानुसन्धान-सिसृक्षा-कालादि-रूपं, द्वितीयं विद्याविद्या-भोगेच्छा-कर्मादि-रूपम् इति ।

अथोपादानांशस्य प्रधानस्य लक्षणम्—

यत् तत् त्रि-गुणम् अव्यक्तं
नित्यं सद्-असद्-आत्मकम् ।
प्रधानं प्रकृतिं प्राहुर्
अविशेषं विशेषवत् ॥ [भा।पु। ३.२६.१०]

यत् खलु त्रि-गुणं सत्त्वादि-गुण-त्रय-समाहारः, तद् एव अव्यक्तं प्रधानं प्रकृतिं च प्राहुः । तत्राव्यक्त-संज्ञत्वे हेतुः—अविशेषं, गुण-त्रय-साम्य-रूपत्वाद् अनभिव्यक्त-विशेषम्, अत एवाव्याकृत-संज्ञं चेति गमितम् । प्रधान-संज्ञत्वे हेतुः—विशेषवत्, स्वांश-कार्य-रूपाणां101 महद्-आदि-विशेषाणाम् आश्रय-रूपतया तेभ्यः श्रेष्ठम् । प्रकृति-संज्ञत्वे हेतुः—सद्-असद्-आत्मकं, सद्-असत्सु कार्य-कारण-रूपेषु महद्-आदिषु कारणत्वाद् अनुगत आत्मा स्वरूपं यस्य तत् । तथा नित्यं, प्रलये कारण-मात्रात्मनावस्थित-सर्वांशत्वेन सृष्टि-स्थित्योश् चापञ्चीकृतांशत्वेनाविकृतं102 स्वरूपं यस्य तादृशम् इति ब्रह्मत्वं महद्-आदि-रूपत्वं च व्यावृत्तम्, ब्रह्मणो निर्गुणत्वात् महद्-आदीनां चाव्यक्तापेक्षया कार्य-रूपत्वात् ।

एवं च श्री-विष्णु-पुराणे—

अव्यक्तं कारणं यत् तत् प्रधानम् ऋषि-सत्तमैः ।
प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सद्-असद्-आत्मकम् ॥
अक्षय्यं नान्यद् आधारम् अमेयम् अजरं ध्रुवम् ।
शब्द-स्पर्श-विहीनं तद् रूपादिभिर् असंहितम् ॥
त्रिगुणं तज् जगद्-योनिर् अनादि-प्रभवाप्ययम् ।
तेनाग्रे सर्वम् एवासीद् व्याप्तं वै प्रलयाद् अनु ॥ [वि।पु। १.२.१९-२१] इत्य्-आदि ।

इदम् एव प्रधानम् अनादेर् जगतः सूक्ष्मावस्था-रूपम् अव्याकृताव्यक्ताद्य्-अभिधं वेदान्तिभिर् अपि परमेश्वराधीनतया मन्यते, तद्-अधीनत्वाद् अर्थवद् [वे।सू। १.४.३] इत्य्-आदि-न्यायेषु । निषिध्यते तु साङ्ख्यवत् स्वतन्त्रतया आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च [वे।सू। १.४.१] इत्य्-आदि-न्यायेषु श्वेताश्वतरोपनिषदि प्रधान-शब्दश् च श्रूयते, प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः संसार-बन्ध-स्थिति-मोक्ष-हेतुः [श्वे।उ। ६.१६] इत्य्-आदौ ।

॥३.२६॥ श्री-कपिलदेवः ॥५५॥

[५६]

तद् एवं सन्दर्भ-द्वये शक्ति-त्रय-विवृतिः कृता । तत्र नामाभिन्नता-जनित-भ्रान्ति-हानाय सङ्ग्रह-श्लोकाः—

माया स्याद् अन्तरङ्गा या**103 बहिरङ्गा च सा स्मृता ।**
प्रधानेऽपि क्वचिद् दृष्टा तद्-वृत्तिर् मोहिनी च सा ॥
आद्ये त्रये स्यात् प्रकृतिश् चिच्-छक्तिस् त्व् अन्तरङ्गिका ।
शुद्ध-जीवेऽपि ते दृष्टे तथेश-ज्ञान-वीर्ययोः ॥
चिन्-माया-शक्ति-वृत्त्योस् तु विद्या-शक्तिर् उदीर्यते ।
चिच्-छक्ति-वृत्तौ मायायां योग-माया समा स्मृता ॥
प्रधानाव्याकृताव्यक्तं त्रैगुण्ये प्रकृतौ परम् ।
न मायायां न चिच्-छक्ताव् इत्य्-आद्य् ऊह्यं विवेकिभिः ॥ इति ।

अथ माया-कार्यं जगल् लक्ष्यते—

ततस् तेनानुविद्धेभ्यो
युक्तेभ्योऽण्डम् अचेतनम् ।
उत्थितं पुरुषो यस्माद्
उदतिष्ठद् असौ विराट् ॥ [भा।पु। ३.२६.५१]
एतद् अण्डं विशेषाख्यं
क्रम-वृद्धैर् दशोत्तरैः ।
तोयादिभिः परिवृतं
प्रधानेनावृतैर् बहिः
यत्र लोक-वितानोऽयं
रूपं भगवतो हरेः ॥ [भा।पु। ३.२६.५२]

तेन ईश्वरेण अनुविद्धेभ्यः क्षुभितेभ्यो महद्-आदिभ्योऽण्डम् अचेतनम् उत्थितम्यस्माद् अण्डाद् असौ विराट् पुरुषस् तूदतिष्ठत्भगवतः पुरुषस्य ॥

॥ ३.२६ ॥ श्री-कपिलदेवः ॥५६॥

[५७]

तद् एवं भगवतो रूपम् इत्य् उक्तेस् तस्यापि प्राग्वद् अप्राकृतत्वम् आपतति, तन्-निषेधायाह—

अमुनी भगवद्-रूपे
मया ते ह्य् अनुवर्णिते ।
उभे अपि न गृह्णन्ति
माया-सृष्टे विपश्चितः ॥ [भा।पु। २.१०.३५]

अमुनी अमू उपासनार्थं भगवत्य् आरोपिते जगद्-आत्मके स्थूल-सूक्ष्माख्ये विराट्-हिरण्य-गर्भापर-पर्याये समष्टि-शरीरे ये मया तुभ्यम् अनुवर्णिते ते उभे अपि विपश्चितो न गृह्णन्ति, वस्तुतया नोपासते, किं तर्हि तदीय-बहिरङ्गाधिष्ठानतयैव ? इत्य् अर्थः104 । तद् उक्तं वैष्णवे—

यद् एतद् दृश्यते मूर्तम् एतज् ज्ञानात्मनस् तव ।
भ्रान्ति-ज्ञानेन पश्यन्ति जगद्-रूपम् अयोगिनः ॥ [वि।पु। १.४.३९] इति ।

एतन् मूर्तं जगद् भ्रान्ति-ज्ञानेन एव तव रूपं जानन्तीत्य् अर्थः । श्रुतिश् च—नेदं यद् इदम् उपासते [केन।उ। १.४] इति, यद् इदं जगद् उपासते प्राणिनः, नेदं ब्रह्म इति श्री-रामानुज-भाष्यम् । अत एव न गृह्णन्तीत्य् अत्र हेतुः—माया-सृष्टे, न तु स्वरूप-शक्ति-प्रादुर्भाविते । अनेन चतुर्भुजादि-लक्षणस्य साक्षाद्-रूपस्य मायातीतत्वम् अपि व्यक्तम् । अत्रास्य जगतो मायामयस्य पुरुष-रूपत्वे पुरुष-गुणावताराणां विष्ण्व्-आदीनां सत्त्वादि-मयास् तद्-अंशा रूपाणीति ज्ञेयम् । तान्य् अपेक्ष्य चोक्तं मार्कण्डेये—

विष्णुः शरीर-ग्रहणम् अहम् ईशान एव च ।
कारितास् ते यतोऽतस् त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ इति ।

शरीर-शब्दस्य तत्-तन्-निज-शरीर-वाचित्वे तु तद्-ग्रहणात् पूर्वं विष्ण्व्-आदि-भेदासम्भवात् तन्-निर्देशानुपपत्तेः ॥

॥ २.१० ॥ श्री-शुकः ॥ ५७ ॥

[५८.१]

पूर्वं माया-सृष्टे [भा।पु। २.१०.३५, §५७] इत्य् उक्तम् । तत्र माया-शब्दस्य नाज्ञानार्थत्वम् । तद्-वादे हि सर्वम् एव जीवादि-द्वैतम् अज्ञानेनैव स्व-स्वरूपे ब्रह्मणि कल्प्यते इति मतम् । निरहङ्कारस्य केनचिद् धर्मान्तरेणापि रहितस्य सर्व-विलक्षणस्य चिन्-मात्रस्य ब्रह्मणस् तु नाज्ञानाश्रयत्वं, न चाज्ञान-विषयत्वं, न च ब्रह्म-हेतुत्वं सम्भवतीति । परमालौकिक-वस्तुत्वाद् अचिन्त्य-शक्तित्वं तु सम्भवेत् । यत् खलु चिन्तामण्य्-आदाव् अपि दृश्यते, यया शक्त्या त्रिदोषघ्नौषधिवत् परस्पर-विरोधिनाम् अपि गुणानां धारिण्या तस्य निरवयवत्वादिके सत्य् अपि सावयवत्वादिकम् अङ्गीकृतम् ।

तत्र शब्दश् चास्ति प्रमाणम्—विचित्र-शक्तिः पुरुषः पुराणः, न चान्येषां शक्तयस् तादृश्यः स्युः इत्य्-आदिकाः श्वेताश्वतरोपनिषद्-आदौ,105 आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिः [भा।पु। ३.३३.३, भगवत्-सन्दर्भ §१२] इत्य्-आदिकः श्री-भागवतादिषु । तथा च ब्रह्म-सूत्रम्—आत्मनि चैवं विचित्राश् च हि [वे।सू। २.१.२८] इति ।

तत्र द्वैतान्यथानुपपत्त्यापि ब्रह्मण्य् अज्ञानादिकं कल्पयितुं न शक्यते, असम्भवाद् एव । ब्रह्मण्य् अचिन्त्य-शक्ति-सद्-भावस्य युक्ति-लब्धत्वात् श्रुतत्वाच् च द्वैतान्यथानुपपत्तिश् च दूरे गता । ततश् चाचिन्त्य-शक्तिर् एव द्वैतोपपत्तीकारणं पर्यवसीयते । तस्मान् निर्विकारादि-स्वभावेन सतोऽपि परमात्मनोऽचिन्त्य-शक्त्या विश्वाकारत्वादिना परिणामादिकं भवति, चिन्तामण्य्-अयस्कान्तादीनां सर्वार्थ-प्रसव-लोह-चालवादिवत् । तद् एतद् अङ्गीकृतं श्री-बादरायणेन—श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] इति ।

ततस् तस्य तादृश-शक्तित्वात् प्राकृतवन् माया-शब्दस्येन्द्र-जाल-विद्या-वाचित्वम् अपि न युक्तम्, किन्तु मीयते विचित्रं निर्मीयतेऽनयेति विचित्रार्थ-कर-शक्ति-वाचित्वम् एव । तस्मात् परमात्म-परिणाम एव शास्त्र-सिद्धान्तः । तद् एतच् च भगवत्-सन्दर्भे विवृतम्+++([ ])+++[§]अस्ति ।

सर्व-संवादिनी: तस्मात् परमात्म-परिणाम एव शास्त्र-सिद्धान्तः इति । तद् एतत् सङ्क्षेपेण दर्शितं तत्रेत्य् आदिना । अत्र परिणाम-वादे सोपपत्तिका च श्रुतिर् अवलोक्यते—वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यं [छा।उ। ६.१.४] इति । अयम् अर्थः—वाचया वाचारम्भणम् आरम्भो यस्य तत् । वाचयारभ्यते यत् तद् इति वा । यत् किञ्चिद् वाचारम्भणं वाच्यं, तत् सर्वम् एव दण्डादीनाम् अप्य् अन्यत्र सिद्धत्वात् । विकारो नाम-धेयं, विकार एव नाम-धेयं, नामैव, स्वार्थे धेयट् । स च घटादिर् विकारो मृत्तिकैव । मृत्तिकादिकम् एव दण्डादिना निमित्तेनाविर्भूताकार-विशेषं घटादि-व्यवहारम् आपद्यत इति । ततो न पृथग् इत्य् अर्थः । इत्य् एव सत्यम् इति, न तु शुक्ति-रजतादिवद् विवर्तः । न तु वा शुक्तेः सकाशात् स्वतोऽन्यत्र सिद्धं रजतम् इव भिन्नम् इत्य् अर्थः, वाक्यान्तोपदिष्टेति-शब्दस्य समुदायान्वयित्वात् । कथम् असतः सज् जायेत [छा।उ। ६.२.२] इत्य् आदिवत् । अत्रापि श्रुत्यैवेतर-मताक्षेपः । तद् एवम् एवेति शब्दस्यापि सार्थकता । न तु मृत्तिकैव तु सत्यम् इति व्याख्यानम् । न ह्य् अत्र विकारत्वे कारणाभिन्नत्वे च विधेये वाक्य-भेदः । प्रथमस्यानुवादेन द्वितीयस्य विधानात् । ततश् चानुवादेनापि सिद्ध-विधेयत्वावधारणाद् उभयत्र मुख्यैव प्रतिपत्तिर् इति । अत्र मृत्तिका-शब्देनेदं लभ्यते—यथा सर्वोऽपि कार्य-कारण- आतोऽर्वाक्-चेतनत्वेन सर्वोपलभ्यमानस्य मृन्मयस्य तद्-विकारत्वम् एव प्रत्यक्षीक्रियते, न तु तद्-विवर्तत्वं, तथा तत्-प्राक्-सृष्टानां मृद्-आदि-वस्तूनाम् अप्य् अनुमेयम् । इत्थम् एवोक्तम्—एतत् प्रकारकम् एव सत्यम् इति ।

अत्र विकारादि-शब्दस्य साक्षाद् एवावस्थितत्वाद् विवर्ते तात्पर्य-व्याख्यानं कष्टम् एवेत्य् अप्य् अनुसन्धेयम् । तद् एव सूक्ष्म-चिद्-अचिद्-वस्तु-रूप-शुद्ध-जीवाव्यक्त-शक्तेर् एव तस्य कारणत्वाद् इत्य् एतद् अयुक्तम् । यतः, सद् एव सोम्येदम् अग्र आसीत् [छा।उ। ६.२.१] इत्य् अत्रापीदमां (इदम् इति पदात्) तत्-तच्-छक्तिमत्त्वं स्पष्टम् । प्राग् अप्य् अस्तित्वेन निर्दिष्टं कारणत्वं साधयितुम् । अतो भगवद्-उपादानत्वेऽपि सङ्घातस्योपादानत्वेन चिद्-अचितोर् भगवदश् च स्वभावासङ्करः, यथा लोके शुक्लत्वादि-तन्तु-सङ्घातोपादानत्वेऽपि चित्र-पटस्य तत्-तन्तु-प्रदेश एव शौक्लादि-सम्बन्ध इति कार्यावस्थायाम् अपि न वर्ण-सङ्करः, तथा चिद्-अचिद्-भगवत्-सङ्घातोपादानत्वेन कार्यावस्थायाम् अपि भोक्तृत्व-भोग्यत्व-नियन्तृत्व-नियम्यत्वाद्य्-असङ्करः । अतः, सर्वं खल्व् इदं ब्रह्म, तज्-जलात् [छा।उ। ३.१४.१] इत्य् आदिकम् अविरुद्धम् । तद् एतद् एवोक्तं सूत्र-कारेण—भोक्त्र्-आपत्तेर् अविभागश् चेत् स्याल् लोकवत् [वे।सू। २.१.१३] इति ।

अतः कार्यावस्थः कारणावस्थश् च स्थूल-सूक्ष्म-चिद्-अचिद्-वस्तु-शक्तिः परम-पुरुष एव । कारणात् कार्यस्यानन्यत्वात् । अनन्यत्वं च वाचारम्भणं [छा।उ। ६.१.४] इत्य् आदिभिः सिद्धम् । तथा हि—एक-विज्ञानेन सर्व-विज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायाम् उच्यते । यथा, यथा सोम्यैकेन मृत्-पिण्डेन सर्वं मृन्-मयं विज्ञातं स्यात्, वाचारम्भणं [छा।उ। ६.१.४] इत्य् आदि । एकस्यैव सङ्कोचावस्थायां कारणत्वं, विकाशावस्थायां कार्यत्वम् इति । विकारोऽपि मृत्तिकैव । ततः कारण-विज्ञानेन कार्य-विज्ञानम् अन्तर्भाव्यत इत्य् एवं परम-कारणे परमात्मन्य् अपि ज्ञेयम् । तद् एतद् आरम्भण-शब्द-लब्धम् अनन्यत्वम् एव ऐतदात्म्यम् इदं सर्वं [छा।उ। ६.८.७] इत्य् आदि-शब्दा अपि वदन्ति । मृत्योः स मृत्युम् आप्नोति [बृ।आ।उ। ४.४.१९] इत्य् आदिदिकं च सङ्गतम् एव ।

तद् एवं कारणस्यैव धर्म-विशेषः कार्यत्वं, न तु पृथक् वदन्ति । तस्य कारण-नैरपेक्ष्येणानवस्थानाद् इति पुनर् दर्शयति—अपागाद् अग्नेर् अग्नित्वं वाचारम्भणं विकारो नाम-धेयं त्रीणि रूपाणीत्य् एव सत्यं [छा।उ। ६.४.१] इति । अत्र रूप-त्रयं सूक्ष्म-रूप-तेजोवन् न लक्षणाव्यक्तत्वात् स्वतन्त्रम् अग्नेर् अग्नित्वं न निरूपणीयम् अस्तीत्य् अर्थः । न त्व् असत्यम् एवेति वक्तव्यम्, सत्-कार्यता-सम्प्रतिपत्तेः । सर्व-कारणस्य परमात्मनः सर्वदैव व्यतिरेकासम्भवात् । तस्मात् तस्मिन् विश्वस्य स्थूलतया सूक्ष्मतया वा नित्यं भगवद्-रूपत्वम् अस्त्य् एव । तथा च श्रुतिः—यद् भूतं च भवच् च भविष्यच् च [बृ।आ।उ। ३.८.३] इति । तथा—सत्त्वाच् चावरस्य [वे।सू। २.१.१६] इत्य् अनन्यत्व-न्यायस्योपसूत्रं च । अतो यदा कारणम् अस्ति, तदा कार्यम् अप्य् अस्ति ।

इत्थम् एव—भावे चोपलब्धेः [वे।सू। २.१.१५] इति सूत्रान्तरं च व्याख्येयम् । अस्य सूत्रस्य कारण-भाव एव कार्य-भावोपलब्धिर् इति विवर्त-वादिनां व्याख्याने तु मृत्तिकाभाव एव घटोपलब्धिवच् छुक्ति-भाव एव रजतोपलब्धेर् आवश्यकत्वं चिन्त्यम् । वणिग्-वीथ्य्-आदौ तद्-अभावेऽपि रजत-दर्शनात् ।

ननु कारणं विना कार्यं निरूपयितुं न शक्यम्, तन्तून् विना पटो नाम वस्त्व् इव ? सत्यम् । तथाप्य् आतान-वितान-वैशिष्ट्यस्योपलभ्यमानत्वात्, उपलब्धे च वैशिष्ट्ये स्वाविर्भूतेन तेनैव केवलेभ्यः स्वेभ्यो विलक्षणाः पटतयाविर्भवन्तीति कारणात् कार्यस्यानन्यत्वम् । न च कारणावस्था-मात्रम् इति प्रत्यक्षीक्रियत एव । इत्थं प्रत्यक्षम् एवानन्यत्वस्योपलभ्यमानत्वात् । भावे चोपलब्धेः [वे।सू। २.१.१५] इत्य् अत्र “भावाच् चोपलब्धेः” इति केचित् पठन्ति । उपलम्भनस्य विद्यमानत्वाद् इत्य् अर्थः । तस्मात् कार्यस्यापि सत्यत्वम्, न तु मिथ्यात्वम् । यत् तु मिथ्यात्वं, तद् अप्य् आत्म-परमात्मनोर् अध्यस्तत्वम् एव । लोकेऽपि शुक्ताव् अध्यस्तत्वम् एव रजतस्य मिथ्यात्वम् उच्यते, स्वतः सत्यत्वात्, ख-पुष्पादेर् अनध्यास्यत्वाच् च ।

ननु तत् सत्यं स आत्मेति कारणस्य सत्यत्वावधारणाद् विकार-जातस्यासत्यत्वम् उक्तं ? न, अवधारक-पदाभावात् । प्रत्युत तस्यैकस्य सत्यत्वम् उक्त्वा तद्-उत्थस्य सर्वस्यैव सत्यत्वम् उपदिश्यते । रजतं न शुक्त्य्-उत्थम्, किन्तु तस्मिन्न् अध्यस्तम् एव । विवर्त-वादश् च पूर्वम् एव परिहृतः ।

तस्माद् वस्तुनः कारणत्वावस्था कार्यत्वावस्था च सत्यैव । तत्र चावस्था-युगलात्मकम् अपि वस्त्व् एवेति कारणानन्यत्वं कार्यस्य । तद् एतद् अप्य् उक्तं सूत्र-कारेण—तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [वे।सू। २.१.१४] इति । अत्र च तद्-अनन्यत्वम् इत्य् एवोक्तम्, न तु तन्-मात्र-सत्यत्वम् इति कार्यस्यासत्यत्वं न तन्-मतम् ॥


अथ सप्त-पञ्चाशत्तम-वाक्य-व्याख्यान्ते—पूर्वं माया-सृष्टे इत्य् उक्तम् । इत्य् अत्र सृष्टि-प्रकरणे एवं विवेचनीयम्—तत्र विवर्त-वादिनो वदन्ति—स्थूल-सूक्ष्माख्यम् इदं जगद् अविद्या-कल्पितम् एव । यतोऽनादि-सिद्धेनाविद्यादि-पर्यायेणाज्ञानेन जीवस्य विषयीभूतं ब्रह्म जगद्-रूपेण विवर्तते । शुक्तिर् इव रजत-रूपेण विवर्तश् चाविकृतस्यैव सतोऽविद्यया रूपान्तरापत्तिः । अविद्या-पर्यायम् अज्ञानं च मिथ्या-ज्ञानम् इति ।

अत्रान्ये मन्यन्ते—न तावद्-रूपान्तरापत्तिः । स्वतस् तद्-अभावात् । किन्तु तद् एवेदम् इति स्मरणम् एव । तद् उक्तं—कोऽयम् अध्यासो नाम ? उच्यते—स्मृति-रूपः परत्र पूर्व-दृष्टावभासः [वे।सू। १.१.१ शङ्कर-भाष्य] इति । ततः स्मर्यमाणस्य दृश्यमानाभिन्नत्वेन जगतो ब्रह्मोपादानत्वं तद्-अनन्यत्वं वा घटमानं स्यात् । किम् अन्यद् वा ? ब्रह्मण्य् अज्ञानं न सम्भवतीति पूर्वम् एवोक्तम् । तथा च सति ततः पृथग् द्वैतं केन कल्प्यते ? यदि च जीवत्वादि-कल्पना निमित्तम् अज्ञानं ब्रह्माश्रयं स्यात् तदा देवदत्तवद् अज्ञान-तत्-कार्य-दुःखादिभिर् ब्रह्मैव पीड्येतैवेति नापहत-पाप्मत्वं तस्य स्यात् ।

किं चाज्ञानं नामान्यथा-ज्ञानम् । तच् च स-विशेषाद् एव ज्ञानान्तराद् अनन्तरं स्वयम् अपि स-विशेषं ज्ञायते—शुक्लत्वादि-विशेषे हि बुद्धाबध्यारूढे रजत-भानात् । स-विशेषं च ज्ञानं न कदापि शुद्धं ब्रह्म विषयीकरोतीति सम्प्रतिपन्नम् । तर्हि कथम् अज्ञानेन तद्-विवर्ततां ? सर्प-गन्ध इव केतकी-गन्ध इत्य् आदाव् अपि केनचिद् औत्र्य-शैत्यादि-वैशिष्ट्येनैव साम्यं मन्तव्यम् । किं च, तद्-अन्यथा-ज्ञानम् अन्यस्य सद्-भावेऽसद्-भावे वा ? सद्-भावे, स्वतः सिद्धम् एव द्वैतम् । किं कल्पनान्तरेण ? असद्-भावे, दध्नि ख-पुष्प-भ्रमापत्तिः स्यात् ।

अथाज्ञानं जगच् च परम्परयानादि-सिद्धं तेन पूर्व-पूर्व-जगद्-उतंरोत्तराज्ञानस्य कारणं भविष्यति । संस्कार-जन्यो भ्रमः पूर्व-प्रतीति-मात्रम् अपेक्षते । प्रतीतौ सत्यां भ्रम-व्यतिरेकादर्शनात् तद् असत् । अज्ञानेन जगत्, जगताज्ञानम् इति परस्पराश्रयादि-प्रसङ्गात् ? मैवम् । अनादित्वाद् युज्यते दोष इति चेत् ? न, वक्ष्यमाणान्ध- आ-दोषा । यथा चाद्वैत-शारीरक-कृतैव केवलाधिष्ठात्रीश्वर-मतं दूषयतोक्तम्—वर्तमान-कालवद्-अतीतेष्व् अपि कालेष्व् इतरेतराश्रय-दोषाविशेषाद् अन्ध-परम्परा-न्यायापत्तेः इति ।

ननु वा क्वचित् तथा दृश्यते—स्वतः-सिद्दस्यैव रजतस्यान्यत्र भान-प्रसिद्धेः ? तथा चान्यथानुमीयते, विमता जगत्- न भ्रम-सिद्धा । अनादित एव पूर्व-पूर्व-भ्रमावभासित-तन्-मात्रारोपेणैव तथाङ्गीकर्तुं शक्यते ? न, प्रसिद्ध-भ्रम-सिद्ध-शुक्ति-रजत-वैलक्षण्यात् । यन् नैवं तन् नैवम् । यथा रज्जु-सर्पादयः । ततो विपक्षानुमिताव् उपाधिर् एव पर्यवसितः ।

किं च, जगद् इदं कुत्रापि स्वतः-सिद्धस्यैव जगद्-अन्तरस्यारोपेण ब्रह्मणि स्फुरितम्, भ्रम-जन्यत्वात् । यद् एवं, तद् एव यथा शुक्तौ रजतम् इति, भवतु, दुष्यतु दुर्जनः इति न्यायेन तथाङ्गीकाएऽपि जगद्-अन्तरे सत्यत्वेन साधिते तत्-सम्प्रतिपत्ति-भङ्गाद् इदम् एव सत्यत्वेन साधितं भवति ।

किं च, स्वप्नानुभववद् रजतानुभवत्याप्य् उत्तर-कालेऽप्य् अनुवर्तमानत्वेनाव्यभिचारित्वाद् अद्वैत-प्रतिपत्तिस् तु कदाचिद् अपि न स्याद् एव । पीत-शङ्खादौ तु काच-कामलादि-दोषा न भ्रम-कल्पिता इति तेषाम् अपि सम्मतम् ।

तद् एवं जाग्रत्-सृष्टिर् यथेश्वर-कृतत्वेन न जीवाज्ञान-मात्र-कल्पिता, तद्वत् स्वप्न-सृष्टीर् अपि भवेद् इतीश्वर-वादिनाम् अनुमानम् । सन्ध्ये सृष्टिर् आह हि [वे।सू। ३.२.१], निर्मातारं चैके पुत्रादयश् च [वे।सू। ३.२.२] इति न्यायाभ्यां जागरवत् पारमेश्वर-सृष्टित्वात् । तत्र देश-काल-निमित्तादीनां क्वचिद् असम्भवेऽपि, माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात् [वे।सू। ३.२.३] इति न्यायेन दुर्घट-घटनाकर-माया-नाम-परमात्म-शक्ति-विलासत्वात् । सूचकश् च हि श्रुतेर् आचक्षते च तद्-विदः [वे।सू। ३.२.४] इति न्यायेन भावि-सत्यार्थ-सूचकत्वे क्वचिद् ओषधि-मन्त्रादि-प्राप्ति-दर्शनेन सूचक-सत्यत्वे च सिद्धे सत्यता-प्रत्ययनात् । पुरुषं कृष्ण-दन्तं पश्यति, स चैनं हन्ति इति साक्षात् स्व-प्रदृष्ट-कर्तृक-हनन-श्रवणाच् च । पराभिध्यानात् तु तिरोहितं, ततो ह्य् अस्य बन्ध-विपर्ययौ [वे।सू। ३.२.५] इति न्यायेन तत्र जीवस्यासामर्थ्यात्, अत एव कर्तृक-श्रुतेर् भाक्तत्वात् स्वप्न-सृष्टिर् अपि जागरवत् पारमेश्वरी सत्या चेति च तेषां श्रौत-मतम् ।

श्री-रामानुज-चरणाच् चैवम् आहुः—स्वप्ने च प्राणिनां पुण्य-पापानुगुणं भगवतैव तत्-तत्-पुरुष-मात्रानुभाव्या तत्-तत्-कालावसानास् तथा-भूताश् चार्थाः सृज्यन्ते । तथा च स्वप्न-विषया श्रुतिः—न तत्र रथा न रथ-योगा न पन्थानो भवन्त्य् अथ रथान् रथ-योगान् पथः सृजते [बृ।आ।उ। ४.३.१०] इत्य् आरभ्य, स हि कर्ता इत्य् अन्ता । यद्यपि सकलेतर-पुरुषानुभाव्यतया तदानीं न भवन्ति, तथापि तत्-तत्-पुरुष-मात्रानुभाव्यतया तथा-विधान् अर्थान् ईश्वरः सृजति । “स हि कर्ता” तस्य सत्य-सङ्कल्पस्याश्चर्य-शक्तेस् तादृशं कर्तृत्वं सम्भवतीत्य् अर्थः ।

य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।
तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते ।
तस्मिंल् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ॥ [क।उ। २.२.८] इति च ।

सूत्रकारोऽपि माया-मात्रं तु कार्त्स्न्येन [वे।सू। ३.२.३] इत्य् आदिना जीवस्य कार्त्स्न्येनानाभिव्यक्त-स्वरूपत्वाद् ईश्वरस्यैव सत्य-सङ्कल्प-शक्ति-विलास-मात्रम् इदं स्वाप्निक-वस्तु-जातम् इति व्याचष्टे—तस्मिंल् लोकाः [क।उ। २.२.८] इत्य् आदि-श्रुतेः । अपवरकादिषु [अन्तर्-गृह-गर्भ-गृहादिषु] शयानस्य स्वप्न-दृशः स्व-देहेनैव देशान्तर-गमन-राज्याभिषेकशिर-च्छेदादयश् च पुण्य-पाप-फल-भूताः शयान-देह-स्वरूप-संस्थानं देहान्तर-सृष्ट्योपपद्यन्त इति ।

युक्ता च परमात्मन एव स्वप्न-सृष्टिः । जाग्रत्-स्वप्नादि-भेदस्याखिलस्यैव प्रपञ्चस्य जन्मादि-कर्तृत्वेनौत्सर्गिक-सिद्धेः । येषां वा मते स्व-सङ्कल्प-मात्र-मूर्तयः स्वप्न-पदार्थास् तन्-मताभ्युपगम-वादेनापि सूत्र-कृता—वैधर्म्याच् च न स्वप्नादिवत् [वे।सू। २.२.२९] इत्य् अनेन जाग्रत्-पदार्था न तद्-दृष्टान्त-साध्यान्यथा-भावा इति व्याख्यातम् । एवं, नैकस्मिन्न् असम्भवात् [वे।सू। २.२.३३] इत्य् अनेन जगतोऽपि युगपत् सत्त्वासत्त्वाभ्याम् अनिर्वचनीयत्वं च निषिद्धम् ।

किं च, यदि सर्वम् एव द्वैत-जातं जीवाज्ञान-कल्पितं स्यात्, जीव-स्वरूपं च न ब्रह्मणोऽन्यत्, ततो वस्तुतः सर्वज्ञाद्य्-अभिमानी कश्चिद् ईश्वरो नामान्यो नास्ति, किन्तु स्थाणौ पुरुषवत् स्व-स्वरूप एवेश्वरः कल्प्यते । स्वाप्निक-राजवद् वा, तर्हि स्थाणु-पुरुषादिवद् ईश्वराभिमानिनस् तदानीम् अप्य् अभावात् तदा तस्य जीवागोचरत्वेन पुरुषाज्ञान-कल्प्यमानत्वस्याप्य् अदर्शनाद् अनुमान-सिद्धत्वात् सम्प्रतिपत्तेः शास्त्रैक-गम्यत्वाभ्युपगमाच् च, यानि जन्माद्य् अस्य यतः [वे।सू। १.१.२] इत्य्-आदीनि सूत्राणि, यानि च तद्-विषय-वाक्यानि, तानि प्रलाप-रूपान्य् एव स्युः । तत्र तत्र सर्वज्ञत्व-सर्व-शक्तिमत्त्वे विना जीव-प्रधानयोर् विचित्र-स्रष्टृत्वादिकं न सम्भवतीति दर्शिता युक्तयश् चोपहस्येरन् ।

तथा यदि जीवाज्ञानेनैव भेदोत्पत्तिः स्यात्, तदा इतर-व्यपदेशाद् धिताकरणादि-दोष-प्रसक्तिः [वे।सू। २.१.२१] इति जीव-कर्तृक-सृष्टौ दोषारोपोऽपि न घटते । तत्र अधिकं तु भेद-निर्देशात् [वे।सू। २.१.२२] इति भेद-सिद्धान्त-सूत्रम् अप्य् अपार्थम् एव स्यात् । संज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात् [वे।सू। २.४.२१] इत्य् एष न्यायस् तु जीव-कर्तृकत्वं निषिध्येश्वरत्वं स्थापयति । तथा तन्-मत एव—जगद्-वाचित्वात् [वे।सू। १.४.१७] इत्य्-आदयश् च । एष सर्वेश्वरः… एष सेतुर् विधरण एषां लोकानाम् असंभेदाय [बृ।आ।उ। ४.४.२२] इत्य् आदौ, ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति [गीता १८.६१] इत्य् आदिषु तु जीवाज्ञान-प्रवर्तकत्वेन प्रसिद्धो यज्ञेश्वरस् तस्य जीवाज्ञान-कल्पितत्वम् अयुक्तम् एव ।

किं च, भेद-मात्रस्य स्वाज्ञान-कल्पितत्वेन शास्त्रस्यापि तथात्वे सति स्वप्न-जन्य-प्रलापादिवत् तस्माद् यथार्थ-ज्ञानोत्पत्तेर् असम्भावनया न तत्र कश्चित् प्रवर्तते, ततः स्वप्न-प्रलाप-विश्वासात् स्वोत्प्रेक्षित-तर्क-विश्वास एव वरम् इति वेदोच्छेद-प्रसङ्गः—तर्काप्रतिष्ठानात्, अनिर्मोक्ष-प्रसङ्गः [वे।सू। २.१.११] चेत्य् अलम् अतिविस्तरेण ।

तद् एवं न विवर्तावकाश इति परिणाम एव शिष्यते । तस्य च लक्षणं—“तत्त्वतोऽन्यथा-भावः परिणामः” इति । उपसंहार-दर्शनान् नेति चेन्, न, क्षीरवद् धि [वे।सू। २.१.२४] इति, देवादिवद् अपि लोके [वे।सू। २.१.२५] इत्य् आदिषु सूत्रेषु तन्-मत-व्याख्यानेऽपि स एव हि दृश्यते । पुनश् च तद्-अनन्तरम् एव—कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-व्याकोपो वा [वे।सू। २.१.२६] इत्य् अनेन स्थूणावत् तम् एव परिणामं चालयित्वा, श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] इत्य् अनेन स्थापयति भगवान् इति च दृश्यते ।

तत्र पूर्वस्यार्थः—निष्कलं निष्क्रियं शान्तं [श्वे।उ। ६.१९] इत्य् आदिषु ब्रह्मणो निरवयवत्वेन प्रसिद्धत्वाद् एक-देश-सम्भवे सति कृत्स्नस्यैव परिणामे प्रसक्ते मूलोच्छेदः प्रसज्येत । द्रष्टव्यतोपदेशानर्थक्यं च । अजत्वादि-शब्द-व्याकोपश् च । सावयवत्वे च मन्यमाने निरवयत्व-शब्दा व्यकुप्येयुर् अनित्यत्व-प्रसङ्गश् चेति ।

अथोत्तरस्यार्थः—तु-शब्देन पूर्व-पक्षं परिहरति । न खल्व् अस्मत्-पक्षे कश्चिद् दोषः । श्रुति-सिद्धान्तिनो हि वयम् । श्रुतिश् च स्व-शब्दैर् एव यद् उच्यते, तद् एव मूलत्वेन वहति, न तु तर्केण यत् सेत्स्यति, अपौरुषेयत्वेन स्वतः प्रामाण्यात्, परमालौकिक-वस्तु-प्रतिपादन-परत्वाच् च । तथा च पौराणिकाः पठन्ति—

अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् ।
प्रकृतिभ्यः परं यच् च तद् अचिन्त्यस्य लक्षणम् ॥ [म।भा। ६.५.१२] इति ।

श्रुतिश् च—

पराञ्चि खानि व्यतृणत् स्वयम्भूस्
तस्मात् परान् पश्यति नान्तरात्मन् । [क।उ। २.१.१] इति ।

न चक्षुर् न श्रोत्रं न तर्को न स्मृतिर् न वेदो ह्य् एवैनं वेदयति [२.१.३-सूत्रे माध्व-भाष्य-धृत भाल्लवेय-श्रुतिः] इति, औपनिषदं पुरुषं [बृ।आ।उ। ३.९.२६] इति च । इदं श्री-तत्त्व-सन्दर्भे [१], श्री-भगवत्-सन्दर्भे च [१११] च विस्तारितम् अस्ति ।

तस्मान् निरवयवत्वेऽपि न कृत्स्न-प्रसक्तिः । यथैव हि ब्रह्मणो जगद्-उत्पत्तिः श्रूयते । तथा विकार-व्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयते । अजायमानो बहुधा विजायते इत्य् आदौ दृश्यते च । मन्त्रार्थ-वादेतिहास-पुराणेषु देवादिभ्योऽप्य् अविकृतेभ्य एवैश्वर्य-योग-विशेषाद् बहूनि नाना-संस्थानानि शरीराणि प्रासादादीनि रथादीनि च जायन्त इति, न चान्यद् उपादानानि तानि मन्तव्यानि । दृष्टं सन्निहितं परित्यज्यादृष्टासन्निहित-कल्पना-गौरवापत्तेः । अत एवोक्तं—देवादिवद् अपि लोके [वे।सू। २.१.२५] इति । तत्र शरीरम् एव ह्य् अचेतनं देवादीनां शरीरादि-विभूत्य्-आदेर् उपादानम् इति शङ्कर-शारीरक-भाष्ये लिखितम् । अत एव तानि मायिकानीति च न सन्तव्यानि । तैः स्वस्यैव विहाराय क्रियमाणत्वाच् च । मायिनां हि स्व-माया-रचितानि मिथ्यैव स्फुरन्तीति तस्मै तत्-सृष्टिर् अयुक्ता स्यात् । शङ्कर-शारीरकेऽपि आत्मनि चैवम् इत्य् अत्र सूत्रे देवादिषु मायाव्य्-आदिष्व् इति मायाव्य्-आदिभ्यो देवादयः पृथक् पठिताः, तस्माद् देवादिवद् अचिन्त्य-शक्त्या विकार-रहितस्यैव परिणामः । प्रसिद्धिश् च लोक-शास्त्रयोः—चिन्तामणिः स्वयम् अविकृत एव नाना-द्रव्याणि प्रसूत इति ।

नन्व् इत्थं केनचिद् रूपेण परिणमेत्, केनचिद् अवतिष्ठेतेति-रूप-भेद-कल्पनात् सावयवम् एव प्रसज्येत ? तत्राप्य् आह—भवत्व् अपीदं नाम, यतः इति । श्रुतेस् तु शब्द-मूलत्वात् इति निरवयवत्व-सावयवत्वयोर् विरुद्धयोर् अपि धर्मयोः श्रूयमाणत्वात् तथैवम् अप्य् अचिन्त्यः स्वभावस् तस्मिन् वर्तत एवेति । यथा—निष्कलं निष्क्रियं शान्तं [श्वे।उ। ६.१९] इत्य् आदि च । इत्थम् एव चाग्रे—विकरणत्वान् नेति चेत् तद् उक्तं [वे।सू। २.१.३१] इत्य् अत्र सूत्र-कारः । तद् उक्तम् इत्य् अनेन, न तस्य कार्यं करणं च विद्यते [श्वे।उ। ६.८] इत्य्-आदि-प्रमाणकं करण-राहित्यं स्वाभाविक-ज्ञानादिकं च व्यक्तवान् । एवम् एव पैङ्गी-श्रुतिर् अप्य् उदाहृता—योऽसौ विरुद्धोऽविरुद्धः इत्य् आदिका । पुराणं च—यस्मिन् ब्रह्मणि सर्व-शक्ति-निलये मानानि नो मानिनां [वि।पु। ६.८.५७। इति ।

न चेत्थं सावयवत्वेनानित्यत्वं मन्तव्यः—तादृश-वैलक्षण्यात्, सर्व-कारणत्वात्, श्रुति-शब्द-मूलाद् एव नित्यत्वाच् च । तद् उक्तं माध्व-भाष्ये [वे।सू। २.२.४१]—अन्तवत् त्वम् असर्वज्ञता वा इत्य् अत्र विष्णोस् तु श्रुत्यैव सर्वे विरोधाः परिहृताः [वे।सू। २.२.४१] यद्-आत्मको भगवांस् तद्-आत्मिका व्यक्तिः इत्य् आदिकया, बुद्धिर् मनोऽङ्ग-प्रत्यङ्गवत्तां भगवतो लक्षयामहे इत्य् आदिकया, सद्-देहः सुख-गन्धश् च इत्य् आदिकया च ।

तस्माद् अचिन्त्यया शक्त्या निरवयवं सावयवत्वं च ब्रह्म तयैव परिणाम-मानम् ऐ निर्विकारम् एव तिष्ठतीति श्रौत-सिद्धान्तः । तस्मात् तत्त्वतोऽन्यथा-भावः परिणामः इत्य् एव लक्षणम्, न तु तत्त्वस्येति । दृश्यते चापि मणि-मन्त्र-महौषधि-प्रभृतीनां तर्कालभ्यं शास्त्रैक-गम्यम् अचिन्त्य-शक्तित्वम् । तस्मान् नासम्भावनीयम् अपि । तथा च सर्वेषाम् एवाचिन्त्य-शक्तिक-जगद्-वस्तूनां मूल-कारणस्य तस्याचिन्त्य-शक्तित्वे सुतराम् एव लब्धे श्रुति-दृष्ट-युगपद्-विकारादीनां साधनाय तादृश-शक्ति-हीनानां शुक्त्य्-आदीनाम् इव विवर्तः समाश्रयितुम् अयुक्त एव । तथोक्तं शङ्कर-शारीरकेऽपि—पत्युर् असामञ्जस्यात् इत्य् अधिकरणे आगम-बलेन ब्रह्म-वादी कारणादि-स्वरूपं निरूपयति, नावश्यं तस्य यथा-दृष्टं सर्वम् अभ्युपगन्तव्यं [२.१.२७] इति ।

सर्वतोऽप्य् आश्चर्य-शक्तित्वं तस्य तद्-अनन्तर-सूत्रे, आत्मनि चेव विचित्राश् च हि [वे।सू। २.१.२८] इत्य् अत्र श्री-मध्वाचार्यैर् उदाहृतम्—

विचित्र-शक्तिः पुरुषः पुराणो,
न चान्येषां शक्तयस् तादृशाः स्युः ।
एको वशी सर्व-भूतान्तरात्मा,
सर्वान् देवान् एक एवानुविष्टः ॥ इति श्वेताश्वतरोपनिषदि इति ।

ततश् च सूत्र-कारेणापि शास्त्रैक-गम्यत्वम् एवाङ्गीकुर्वता शुक्ति-रजतवत् पुरुष-दृष्ट्य्-अवगम्यत्वं निराकृत्य प्रकरण-सिद्धः परिणाम एव दृढीकृतः । दृश्यते च—यथोर्ण-नाभिः सृजते इत्य् आदिषु बहुष्व् एव परिणाम-प्रक्रियैव । इन्द्रो मायाभिः पुरु-रूप ईयते [बृ।आ।उ। २.५.१९] इत्य् अत्रापि माया-शब्दस्य शक्ति-मात्र-वाच्यत्वान् न दोषः । न च परिणाम-प्रतिपादेन फलं नास्तीति वाच्यम् । परमात्मस् तादृश-महिम-ज्ञानोत्थ-भक्त्या एव परम-पुरुषार्थता-सम्प्रतिपत्तेः । यं वै देवा आनमन्ति मुमुक्षवो ब्रह्म-वादिनश् च [नृ।पू।ता। २.४] इत्य् आदौ ।


[५८.२]

तत्र चापरिणतस्यैव मतोऽचिन्तया शक्त्या परिणाम इत्य् आसौ सन्-मात्रतावभासमान-स्वरूप-व्यूह-रूप-द्रव्याख्य-शक्ति-रूपेणैव परिणमते, न तु स्वरूपेणेति गम्यते । यथैव चिन्तामणिः । अतस् तन्-मूलत्वान् न परमात्मोपादानता-सम्प्रतिपत्ति-भङ्गः । तद् उक्तम् एकादशे श्री-भगवता—

प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो ब्रह्म तत्-त्रितयस् त्व् अहम् ॥ [भा।पु। ११.२४.१९] इति ।

अत एव क्वचिद् अस्य ब्रह्मोपादानत्वं, क्वचित् प्रधानोपादानत्वं श्रूयते । तत्र सा मायाख्या परिणाम-शक्तिश् च द्विविधा वर्ण्यते—निमित्तांशो माया, उपादानांशः प्रधानम् इति । तत्र केवला शक्तिर् निमित्तं, तद् व्यूह-मयी तूपादानम् इति विवेकः । अत एव श्रुताव् अपि, विज्ञानं चाविज्ञानं च [तै।उ। २.६.१] इति कस्यचिद् भागस्याचेतनता श्रूयते।

अथ मूल-प्रमाणे श्री-भागवतेऽपि तृतीयादौ मुख्य एव सृष्टि-प्रस्तावे च ज्ञान-वैराग्याङ्गत्वेन च पुर्णान्तर-गति-सामान्य-सेवितः प्रधान-परिणाम एव स्फुटम् उपलभ्यते । क्व च106 स्तुत्य्-आदौ ज्ञान-वैराग्याङ्गतयैव विवर्तोऽपि यः श्रूयते, सोऽपि जगतो नान्यथा-सिद्धता-परः, किन्तु परमात्म-व्यूह-प्रधान-परिणामेन सिद्धस्यैव तस्य समष्टि-व्यष्टि-रूपस्य यथा-यथं शुद्धे परमात्मनि तद्-अंश-रूपात्मनि वात्मात्मीयताध्यारोपिता-परः ।

तत्र परमात्मनि विराड्-उपासना-वाक्यादि-श्रवणं हेतुर् आत्मनि तु तत्-तद्-आवेशो हेतुर् इति विवेचनीयम् ।

[५८.३]

अन्यत्र सिद्धस्य वस्तुन एवान्यत्रारोपो यथा शुक्तौ रजतस्य, एतद् एव मिथ्या-खपुष्पादेर् आरोपासम्भवात् पूर्व-पूर्व-विवर्त-मात्र-सिद्धानादि-परम्परात्वे दृष्टान्ताभावाच् च ।

किं च, पूर्वं वारि-दर्शनाद् वार्य्-आकारा मनो-वृत्तिर् जातापि107 तद्-अप्रसङ्ग-समये सुप्ता तिष्ठति तत्-तुल्य-वस्तु-दर्शनेन तु जागर्ति, तद्-विशेषानुसन्धानं विना तद्-अभेदेन स्वतन्त्रताम् आरोपयति, तस्मान् न वारि108 मिथ्या, न वा स्मरण-मयी तद्-आकारा वृत्तिर्, न वा तत्-तुल्यं मरीचिकादि वस्तु, किन्तु तद्-अभेदेनारोप एवायथार्थत्वान् मिथ्या ।

स्वप्ने च,109 माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात् [वे।सू। ३.२.३] इति न्यायेन जाग्रद्-दृष्ट-वस्त्व्-आकारायां मनो-वृत्तौ परमात्म-माया तद्-वस्त्व्-अभेदम् आरोपयतीति पूर्ववत् । तस्माद् वस्तुतस् तु न क्वचिद् अपि मिथ्यात्वम् । ततः शुद्ध आत्मनि परमात्मनि वा तादृश-तद्-आरोप एव मिथ्या, न तु विश्वं मिथ्येति । ततो जगतः परमात्म-जातत्वेन साक्षात्-तद्-आत्मत्वाभावाद् बहिरङ्ग-शक्तिमयत्वेन च वैकुण्ठादिवत् साक्षात्-तद्-आत्मीयत्वाभावाद् अबुधानाम् एव तत्र शुद्धे तत्-तद्-बुद्धिः ।

यद्यपि शुद्धाश्रयम् एव जगत्, तथापि जगता तत्-संसर्गो नास्ति । तद् उक्तम् असक्तं सर्व-भृच् चैव [गीता १३.१४] इति गीतासु । तथा देह-गेहादाव् आत्मात्मीयता-ज्ञानं तेषाम् एव स्याद् इत्य् उभयत्रैवारोपः शास्त्रे श्रूयते । यथा यद् एतद् दृश्यते मूर्तम् [वि।पु। १.४.३९, §५७] इत्य्-आदिकं विष्णु-पुराणे । यथा वा,

त्वाम् आत्मानं परं मत्वा परम् आत्मानम् एव च ।
आत्मा पुनर् बहिर् मृग्य अहो अज्ञ-जनाज्ञता ॥ [भा।पु। १०.१४.२७] इति ।

त्वाम् आत्मानं सर्वेषां मूल-रूपं परम् इतरं तद्-विपरीतं मत्वा, तथा परम् इतरं जीवम् एव च मूल-रूप्आत्मानं मत्वा, साङ्ख्य-विद इव तस्य तथा मन्यमानस्य पुनः स जीव्आत्मा****110 बहिर् मृग्यो भवति । तस्य तेनैव हेतुना लब्ध-च्छिद्रया मायया देहात्म-बुद्धिः कार्यत इत्य् अर्थः । अहो अज्ञ-जनताया अज्ञता क्रमाज् ज्ञान-भ्रंश इत्य् अर्थः ॥

तद् उक्तं हंस-गुह्य-स्तवे—

देहोऽसवोऽक्षा मनवो भूत-मात्राम्
आत्मानम् अन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो
न वेद सर्वज्ञम् अनन्तम् ईडे ॥ [भा।पु। ६.४.२५] इति ।

तथा श्री-भगवद्-उद्धव-संवादे—

आत्मा परिज्ञान-मयो विवादो
ह्य् अस्तीति नास्तीति भिदात्म-निष्ठः ।
व्यर्थोऽपि नैवोपरमेत पुंसां
मत्तः परावृत्त-धियां स्व-लोकात् ॥ [भा।पु। ११.२२.३४] इति ।

[५८.४]

किं च, विवर्तस्य ज्ञानादि-प्रकरण-पठित्वेन गौणत्वात्, परिणामस्य तु स्व-प्रकरण-पठितत्वेन मुख्यत्वात्, ज्ञानाद्य्-उभय-प्रकरण-पठितत्वेन सन्दंश-न्याय-सिद्ध-प्राबल्याच् च परिणाम एव श्री-भागवत-तात्पर्यम् इति गम्यते ।

तच् च भगवद्-अचिन्त्यैश्वर्य-ज्ञानार्थं मिथ्यात्वाभिधानं तु नश्वरत्वाभिधानवत् विश्वस्य परमात्म-बहिर्मुखत्वापादकत्वाद् धेयता-ज्ञान-मात्रार्थं, न तु वस्त्व् एव तन् न भवतीति जीवेश-स्वरूपैक्य-ज्ञान-मात्रार्थं, वैधर्म्याच् च न स्वप्नादिवत् [वे।सू। २.२.२९] इति न्यायेन । तथा च नारदीये—

जगद् विलापयामासुर् इत्य् उच्येताथ तत्-स्मृतेः ।
न च तत्-स्मृति-मात्रेण लयो भवति निश्चितम् ॥ इति ।

तत्र मुख्य एव सृष्टि-प्रस्तावे प्रधान-परिणामम् आह—

काल-वृत्त्या तु मायायां
गुण-मय्याम् अधोक्षजः ।
पुरुषेणात्म-भूतेन
वीर्यम् आधत्त वीर्यवान् ॥ [भा।पु। ३.५.२६]
ततोऽभवन् महत्-तत्त्वम्
अव्यक्तात् काल-चोदितात् ।
विज्ञानात्मात्म-देह-स्थं
विश्वं व्यञ्जंस् तमो-नुदः ॥ [भा।पु। ३.५.२७]

भगवान् एक आसेदम् [भा।पु। ३.५.२३] इति प्राक्तनानन्तर-ग्रन्थाद् अधोक्षजो भगवान् पुरुषेण प्रकृति-द्रष्ट्र्-आत्म-भूतेन स्वांशेन द्वार-भूतेन कालो वृत्तिर् यस्यास् तया मायया निमित्त-भूतया गुण-मय्यां मायायाम् अव्यक्ते वीर्यं जीवाख्यम् आधत्त, हन्तेमास् तिस्रो देवता [छा।उ। ६.३.२] इत्य्-आदि-श्रुतेः । विज्ञानात्मैव महत्-तत्त्वम् । तमो-नुदः प्रलय-गताज्ञान-ध्वंस-कर्ता ॥

॥ ३.५ ॥ श्री-मैत्रेयः ॥ ५८ ॥

[५९]

ज्ञानाद्य्-अङ्गत्वेऽप्य् आह—

एको नारायणो देवः पूर्व-सृष्टं स्व-मायया ।
संहृत्य काल-कलया कल्पान्त इदम् ईश्वरः ।
एक एवाद्वितीयोऽभूद् आत्माधारोऽखिलाश्रयः ॥111
कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।
सत्त्वादिष्व् आदि-पुरुषः प्रधान-पुरुषेश्वरः ॥
परावराणां परम आस्ते कैवल्य-संज्ञितः ।
केवलानुभवानन्द-सन्दोहो निरुपाधिकः ॥****112
केवलात्मानुभावेन स्व-मायां त्रिगुणात्मिकाम् ।
सङ्क्षोभयन् सृजत्य् आदौ तया सूत्रम् अरिन्दम ॥****113
ताम् आहुस् त्रिगुण-व्यक्तिं सृजन्तीं विश्वतो-मुखम् ।
यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥****114
यथोर्ण-नाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः ।
तया विहृत्य भूयस्तां ग्रसत्य् एवं महेश्वरः ॥****115 [भा।पु। ११.९.१६-२१]

कालः कला यस्यास् तया स्वाधीनतया मायया । श्रुतिश् च—

यथोर्ण-नाभिः सृजते गृह्णते च
यथा पृथिव्याम् ओषधयः सम्भवन्ति ।
यथा सतः पुरुषात् केश-लोमानि
तथाऽक्षरात् संभवतीह विश्वम् ॥ [मु।उ। १.१.७] ॥ इति ।

॥ ११.९ ॥ श्री-दत्तात्रेयो यदुम् ॥ ५९ ॥

[६०]

तद् एवं सूक्ष्म-चिद्-अचिद्-वस्तु रूप-शुद्ध-जीवाव्यक्त-शक्तेः परमात्मनः स्थूल-चेतनाचेतन-वस्तु-रूपाण्य् आध्यात्मिक-जीवादि-पृथिव्य्-अन्तानि जायन्त इत्य् उक्तम् । ततः केवलस्य परमात्मनो निमित्तत्वं शक्ति-विशिष्टस्योपादानत्वम् इत्य् उभय-रूपताम् एव मन्यन्ते । प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुरोधात् [वे।सू। १.४.२३] इत्य्-आदौ । तद् एवं तस्य सदा शुद्धत्वम् एव । तत्र शक्तेः शक्तिमद्-अव्यतिरेकाद् अननयत्वम् उक्तम् । तथा सत्-कार्य-वादाङ्गीकारे स्वान्तः स्थित-स्वधर्म-विशेषाभिव्यक्ति-लब्ध-विकाशेन कारणस्यैवांशेन कार्यत्वम् इत्य् एवं वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम् [छा।उ। ६.१.४] इत्य्-आदि-श्रुति-सिद्धं कार्यस्य कारणाद् अन्यत्वं, कारणस्य तु कार्याद् अन्यत्वम् इत्य् आयाति ।

तद् एवं जगत्-कारण-शक्ति-विशिष्टात् परमात्मनोऽनन्यद् एवेदं जगतस् त्व् असाव् अन्य एवेत्य् आह—116

इदं हि विश्वं भगवान् इवेतरो
यतो जगत्-स्थान-निरोध-सम्भवाः ।
तद् धि स्वयं वेद भवांस् तथापि वै
प्रादेश-मात्रं भवतः प्रदर्शितम् ॥ [भा।पु। १.५.२०]

इदं विश्वं भगवान् इव भगवतोऽनन्यद् इत्य् अर्थः । तस्माद् इतरस् तटस्थाख्यो जीवश् च स इवेति पूर्ववत् । अत एव ऐतदात्म्यम् इदं सर्वम् [छा।उ। ६.८.७] इति, सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इति श्रुतिः । यतो भगवतः । भवतो भवन्तं प्रति प्रादेश-मात्रं किञ्चिन्-मात्रं दर्शितम् इत्य् अर्थः ॥117

॥ १.५ ॥ श्री-नारदः श्री-व्यासम् ॥ ६० ॥

सर्व-संवादिनी: तद् एतत् सर्व-संवादेन तद्-अनन्य-प्रकरणम् आरभ्यते—तत्र शक्तेः शक्तिमद्-अव्यतिरेकात् इत्य् आदिना षष्टितम-वाक्याभासेन ।

[६१]

स्पष्टम् एवाह—

सोऽयं तेऽभिहितस् तात भगवान् विश्व-भावनः ।
समासेन हरेर् नान्यद् अन्यस्मात् सद्-असच् च यत् ॥ [भा।पु। २.७.५०]

सोऽयं ते समासेन संक्षेपेण अभिहितः । कथम् ? तटस्थ-लक्षणेनैवेत्य् आह—सत् कार्यं स्थूलम् अशुद्ध-जीव-जगद्-आख्यं चेतनाचेतनं वस्तु । असत् कारणं सूक्ष्मं शुद्ध-जीव-प्रधानाख्यं चिद्-अचिद्-वस्तु च यत्, तत् सर्वं हरेर् अन्यन् न भवति—सूक्ष्मस्य तच्-छक्ति-रूपत्वात्, स्थूलस्य तत्-कार्य-रूपत्वाद् इति भावः । इदम् एव श्री-हंस-देवेनोक्तं—अहम् एव न मत्तोऽन्यद् इति बुध्यध्वम् अञ्जसा [भा।पु। ११.१३.२४] इति । जगतस् तद्-अनन्यत्वेऽपि शुद्धस्य तस्य तद्-दोष-साङ्कर्यं नास्तीत्य् आह—अन्यस्माद् इति ॥

॥ २.७ ॥ श्री-ब्रह्मा श्री-नारदम् ॥६१॥

[६२]

तत्रानन्यत्वे युक्तिं विवृणोति पञ्चभिः—

आदाव् अन्ते जनानां सद्
बहिर् अन्तः परावरम् ।
ज्ञानं ज्ञेयं वचो वाच्यं
तमो ज्योतिस् त्व् अयं स्वयम् ॥ [भा।पु। ७.१५.५७]

जनानां देहादीनाम् आदौ कारणत्वेन अन्ते चावधित्वेन यत् परमात्म-लक्षणं सर्व-कारणं वस्तु सद् वर्तमानं, तद् एव स्वयं बहिर् भोग्यं अन्तर् भोक्तृ परावरं चोच्च-नीचं तमोऽप्रकाशः ज्योतिः प्रकाशश् च स्फुरति नान्यत् । अन्यस्य तद् विना स्वतः स्फुरणानिरूप्यत्वाद् इति भावः ।

सर्व-संवादिनी: अथ टीका-दर्शितं खण्डनानुगत-विवर्त-वादत्वम् अनन्यत्व-वाद-व्याख्यया खण्डयितुं द्विषष्टितम-वाक्यादिकम् आभासयन्न् आह—तत्रानन्यत्वे युक्तिं विवृणोति इति ।


[६३]

ननु कथं तर्हि तस्माद् अत्यन्त-पृथग् इवाथजातं प्रतीयते ? तत्राह—

आबाधितोऽपि ह्य् आभासो
यथा वस्तुतया स्मृतः ।
दुर्घटत्वाद् ऐन्द्रियकं
तद्वद् अर्थ-विकल्पितम् ॥ [भा।पु। ७.१५.५८]

आबाधितस् तर्क-विरोधेन आ सर्वतो बाधितः स्वातन्त्र्य-सत्तायाः सकाशान् निरस्तोऽपि यथा आभासः सूर्यादि-प्रति-रश्मिर् बालादिभिः पृथक् प्रकाशमानता-दर्शनाद् वस्तुतया स्वतन्त्र-पदार्थतया स्मृतः कल्पितः, तद्वद् ऐन्द्रियकं सर्वं मूढैः स्वतन्त्रार्थत्वेन विविधं कल्पितं, तत् तु न तत्त्व-दृष्ट्या, स्वातन्त्र्य-निरूपणस्य दुर्घटत्वाद् इत्य् अर्थः ।

[६४]

तद् एवाह द्वाभ्याम्—

क्षित्य्-आदीनाम् इहार्थानां
छाया न कतमापि हि ।
न सङ्घातो विकारोऽपि
**न पृथङ् नान्वितो मृषा ॥ [**भा।पु। ७.१५.५९]

क्षित्य्-आदीनां पञ्च-भूतानां छाया ऐक्य-बुद्ध्य्-आलम्बन-रूपं देहादि-सङ्घातारम्भ-परिणामानां मध्ये कतमाप्य् अन्यतमापि भवति । तावत् तेषां सङ्घातो वृक्षाणाम् इव वनं, एक-देशाकर्षणे सर्वाकर्षणानुपपत्तेः । न ह्य् एकस्मिन् वृक्ष आकृष्टे सर्वं वनम् आकृष्यते । न च विकार आरब्धोऽवयवी । अपि-शब्दात् परिणामोऽपि ।

कुतः ? स किम् अवयवेभ्यः पृथग् आरभ्यते परिणमते च तद्-अन्वितो वा ? तावद् अत्यन्तं पृथक् तथा अप्रतीतेः । अन्वितः

स किं प्रत्यवयवं सर्वोऽप्य् अन्वेति, अंशेन वा ? आद्ये अङ्गुलि-मात्रेऽपि देह-बुद्धिः स्यात्, द्वितीये तस्याप्य् अंशाङ्गीकारे सत्य् अनवस्थापातः स्यात् । अतो देहादेः स्वातन्त्र्येणावस्थितिर् मृषा एवेति ॥118

[६५]

एवं देहादेः स्वातन्त्र्येणानिरूप्यत्वम् उक्त्वा तद्-धेतूनां क्षित्य्-आदीनाम् अपि तथैवानिरूप्यत्वम् आह—

धातवोऽवयवित्वाच् च
तन्-मात्रावयवैर् विना ।
न स्युर् ह्य् असत्य् अवयविन्य्
असन्न् अवयवोऽन्ततः ॥ [भा।पु। ७.१५.६०]

धारयन्तीति धातवो महा-भूतानि तन्-मात्रैः सूक्ष्मैर् अवयवैर् विना न स्युः, अवयवित्वात् । तेषाम् अपि तर्ह्य् अवयव एव स्वतन्त्र इति चेत् ? तत्राह उक्त-प्रकारेण अवयविनि निरूपयितुम् असति अवयवोऽप्य् अन्ततो निरूपयितुम् असन्न् इव स्यात् । अवयवि-प्रतीत्य्-अन्यथानुपपत्तिं विना परमाणु-लक्षणावयव-सद्-भावे प्रमाणाभावाद् इत्य् अर्थः । तद् उक्तं पञ्चमे—एवं निरुक्तं क्षिति-शब्द-वृत्तम् [भा।पु। ५.१२.९] इत्य्-आदि ।

तस्माद् ऐक्य-बुद्ध्य्-आलम्बन-रूपं यत् प्रतीयते, तत् सर्वत्र परमात्म-लक्षणं सर्व-कारणं वस्त्व् एवेति119 साधूक्तम् आदाव् अन्ते जनानां सत् [भा।पु। ७.१५.५७] इत्य्-आदिना ।

एवम् एव तृतीयेऽप्य् उक्तम्—

इति तासां स्व-शक्तीनां सतीनाम् असमेत्य सः ।
प्रसुप्त-लोक-तन्त्राणां निशाम्य गतिम् ईश्वरः ॥
काल-संज्ञा ततो देवीं विभ्रच् छक्तिम् उरुक्रमः ।
त्रयोविंशतित्-तत्त्वानां गणं युगपद् आविशत् ॥
सोऽनुप्रविष्टो भगवांश् चेष्टा-रूपेण तं गणम् ।
भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन् ॥ [भा।पु। ३.६.१-३] इति ।

अत एव यस्य पृथिवी शरीरम् [बृ।आ।उ। ३.७.३] इत्य्-आदि-श्रुतौ सर्वस्य परमात्म-शरीरत्वेन प्रसिद्धिः, परमात्मनस् तु शरीरत्वेन । तद् एवम् अवयव-रूपेण प्रधान-परिणामः सर्वत्रावयवी तु परमात्म-वस्त्व् एवेति120 सिद्धम् । ततोऽप्य् अमिथ्यात्वम् एव जगत उपपद्येत ॥

[६६]

ननु यदि परमात्म-वस्त्व् एव121 सर्वत्रावयवी देहः स्यात्, ततश् च तत्रैव ब्राह्मणत्वादि-संज्ञा-प्राप्तेर् गुण-दोष-हेतू विधि-निषेधाव् अपि स्यातां, तौ च न सम्भवतः । तस्माद् अन्य एवावयवी युज्यते इत्य् आशङ्क्याह—

स्यात् सादृश्य-भ्रमस् तावद्
विकल्पे सति वस्तुनः ।
जाग्रत्-स्वापौ यथा स्वप्ने
तथा विधि-निषेधता ॥ [भा।पु। ७.१५.६१]

वस्तुनः परमात्मनो122 विकल्पे संशये सति इति, तस्य तादृशत्वेन निर्णयो यावन् न स्यात् इत्य् अर्थः, तावद् एव तस्मात् सर्वैक्य-बुद्धि-निदानात् पृथग् देहैक्य-बुद्धिः सादृश्य-भ्रमः स्यात् । पूर्वापरावयवानुसन्धाने सति परस्परम् आसज्यैकत्र स्थितत्वेनावयवत्व-साधारण्येन चैक्य-सादृश्यात् प्रत्यवयवम् एकतया प्रतीतेः, सोऽयं देह इति भ्रम एव भवतीत्य् अर्थः, प्रतिवृक्षं तद् इदं वनम् इतिवत् । यथोक्तं स्वयं भगवता—

सोऽयं दीपोऽर्चिषां यद्वत् स्रोतसां तद् इदं जलम् ।
सोऽयं पुमान् इति नॄणां मृषा धीर् गीर् मृषायुषाम् ॥ [भा।पु। ११.२२.४५] इति ।

ततश् च तत्रैव ब्राह्मणत्वाद्य्-अभिमाने सति स्वप्न-विषयकौ जाग्रत्-स्वप्नाव् इव तद्-विषयकौ विधि-निषेधौ स्याताम् इत्य् आह—जाग्रद् इति । तथा तेन प्रकारेण विधेर् विधिता निषेधस्य निषेधता इत्य् अर्थः । एवं,

पर-स्वभाव-कर्मणि न प्रशंसेन् न गर्हयेत् ।
विश्वम् एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ [भा।पु। ११.२८.१]

इत्य्-आदिर् एकादशाष्टविंशतितमाध्यायेऽपि ज्ञेयः । तत्र च, किं भद्रं किम् अभद्रं वा द्वैतस्यावस्तुनः कियत् [भा।पु। ११.२८.४] इत्य्-आदिकं स्यात् सादृश्य-भ्रमस् तावद् इत्य्-आद्य्-अनुसारेणैव व्याख्येयम् । अवस्तु यद् द्वैतं तस्येत्य् अर्थः । तस्मात् स्वातन्त्र्येण निरूपणाशक्त्या परमात्मनोऽनन्यद् एव सर्वम् इति प्रकरणार्थः ॥

॥ ७.१५ ॥ श्री-नारदः श्री-युधिष्ठिरम् ॥ ६६॥

[६७]

अत आह—

त्वं वायुर् अग्निर् अवनिर् वियद् अम्बु मात्राः
प्राणेन्द्रियाणि हृदयं चिद् अनुग्रहश् च ।
सर्वं त्वम् एव सगुणो विगुणश् च भूमन्
नान्यत् त्वद् अस्त्य् अपि मनो-वचसा निरुक्तम् ॥ [भा।पु। ७.९.४८]

हृदयम् अन्तर्-इन्द्रियं मनो-बुद्ध्य्-अहङ्कार-चित्तात्मकं । चित् शुद्धो जीवः । अनुग्रहः स्व-सम्मुखी-करण-शक्तिः । किं बहुना, स-गुणो मायिकः विगुणश् चामायिकः सर्वार्थस् त्वम् एवेति ॥

॥ ७.९ ॥ श्री-प्रह्लादः श्री-नृसिंहम् ॥६७॥

[६८]

अथ तस्य माया-शक्ति-कार्य-माया-जीवेभ्योऽन्यत्वं च स्पष्टयति—

यथोल्मुकाद् विस्फुलिङ्गाद्
धूमाद् वापि स्व-सम्भवात् ।
अप्य् आत्मत्वेनाभिमताद्
यथाग्निः पृथग् उल्मुकात् ॥ [भा।पु। ३.२८.४०]
भूतेन्द्रियान्तः-करणात्
प्रधानाज् जीव-संज्ञितात् ।
आत्मा तथा पृथग् द्रष्टा
भगवान् ब्रह्म-संज्ञितः ॥ [भा।पु। ३.२८.४१]

अयम् अर्थः—स्व-सम्भवात् स्वोपादान-कारणाद् उल्मुकात् काष्ठ-मुष्ट्य्-उपाधिकाद् अग्नेर् हेतोर् यो विस्फुलिङ्गो, यश् च धूमः, तस्मात् तस्माद् यथा तत्-तद्-उपादानम् अग्निः पृथक्, यथा च तस्माद् अप्य् उल्मुकात् तद्-उपादानम् असाव् अग्निः पृथक् । कीदृशाद् अपि तत्-त्रयात् ? अप्य् आत्मत्वेनाभिमतात् तापकतया धूमेऽप्य् अग्न्य्-अंश-सद्-भावेनाग्नि-स्वरूपतया प्रतीताद् अपि।

तथा विस्फुलिङ्ग-स्थानीयाज् जीव-संज्ञिताज् जीवात्, उल्मुक-स्थानीयात् प्रधानात्, प्रधानोपाधिक-भगवत्-तेजसो धूम-स्थानीयाद् भूतादेः सर्वोपादान-रूपो भगवान् पृथक् । य एव आत्मा स्वांशेन तत्-तद्-अन्तर्यामितया परमात्मा, क्वचिद् अधिकारिणि निर्विशेष-चिन्मात्रतया स्फुरन् ब्रह्म-संज्ञितश् च, यत एव द्रष्टा तेषाम् आदि-मध्यान्तावस्था-साक्षीति ।

यथोल्मुकाद् इदानीं ज्वलतः काष्ठात् स्व-सम्भवाद् अग्नेः सम्भूताद् आत्मत्वेनाग्नेः स्वरूपत्वेनाभिमताद् अप्य् अत्यन्ताविवेकिनो हि धूमेऽप्य् अग्न्य्-अभिमानोऽस्तीति धूमाद् इत्य् अप्य् उक्तम् । उल्मूकात् पूर्व-सिद्धाद् अपि तद्-दाहकः प्रकाशकश् चाग्निः पृथग् एव, तथा भूतेन्द्रियान्तःकरणादिभ्यः परमात्मत्वेन भगवत्त्वेन ब्रह्म-संज्ञितत्वेन च शब्दितो द्रष्टा तद्-अशेषज्ञः पृथग् एव, तेषां बहिरङ्ग-तटस्थ-शक्तिमयत्वाद् इत्य् अर्थः ॥123

॥ ३.२८ ॥ श्री-कपिलदेवः ॥६८॥

[६९]

तत्र येषां मनः परमात्मनि नास्ति, ते परमात्मात्मके जगत्य् असद्-अंशम् एव गृह्णन्ति । ये तु परमात्म-विदः, ते सद्-अंशम् एव गृह्णन्तीत्य् आहुः—124

सद् इव मनस् त्रिवृत् त्वयि विभात्य् असद् आ-मनुजात्
सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्म-विदः ।
न हि विकृतिं त्यजन्ति कनकस्य तद्-आत्मतया
स्व-कृतम् अनुप्रविष्टम् इदम् आत्मतयावसितम् ॥ [भा।पु। १०.८७.२६]

त्वय्य् असद् अवर्तमानं यन् मनः, तत् खलु त्रिवृत् त्रि-गुण-कार्ये जगति वर्तमानं सत् त्वयि सद् इव वर्तमानम् इव विभाति । दर्वी-सूप-रस-न्यायेन स्वावगाढे जगति सतोऽपि परमात्मनो ग्रहणाभावात्, न तु वर्तमानम् एव विभातीत्य् अर्थः । अत एवासद्-अंशस्य त्रिगुण-माया-मयत्वं मनो-मयत्वं चोक्तम्—

यद् इदं मनसा वाचा
चक्षुर्भ्यां श्रवणादिभिः ।
नश्वरं गृह्यमाणं च
विद्धि माया-मनो-मयम् ॥ [भा।पु। ११.७.७] इति ।

ये त्व् आत्म-विदस् त्वद्-धेतोर् आस्ते आ-मनुजात् सोपाधिक-जीव-स्वरूपम् अभिव्याप्य इदम् अशेषं जगद् एव आत्मतया त्वद्-रूपतया सद् अभिमृशन्ति, तेषां सद्-अंश एव दृष्टिर् नान्यत्रेत्य् अर्थः ।

तत्र दृष्टान्तः—न हि विकृतम् इति । तेषां कनक-मात्रं मृगयमानानां कनक-वणिजां हि कनक-विकारे सुन्दर-कुरूपाकारतायां125 दृष्टिर् नास्ति, शुद्ध-कनक-मात्र-गृआहित्वात् । तथात्म-विदाम् अपीति भावः ।

दार्ष्टान्तिकेऽपि तद्-आत्मत्वे हेतु-त्रयम् आहुः—इदं जगत् स्वेन सच्-छक्ति-विशिष्टेन उपादान-रूपेण त्वया कृतं, पश्चात् सिद्धेऽपि कार्ये कारणांश-व्यभिचारितयान्तर्यामितया च स्वेन त्वया प्रविष्टं पुनः प्रलयेऽप्य् आत्मतया सच्-छक्ति-विशिष्ट-सद्-रूपतयैव्आवसितं चेति । एवं दृष्टान्तेऽपि विवेचनीयम् । तद् एतत् सर्वम् अभिप्रेत्योक्तं वैष्णवे—

ज्ञान-स्वरूपम् अखिलं जगद् एतद् अबुद्धयः ।
अर्थ-स्वरूपं पश्यन्तो भ्राम्यन्ते मोह-सम्प्लवे ॥
ये तु ज्ञान-विदः शुद्ध-चेतसस् तेऽखिलं जगत् ।
ज्ञानात्मकं प्रपश्यन्ति त्वद्-रूपं परमेश्वर ॥ [वि।पु। १.४.४०-४१] इति ॥

॥१०.८७॥ श्रुतयः ॥६९॥

[७०.१]

तद् एवं परिणामादिकं साधितं, विवर्तश् च परिहृतः । ततो विवर्त-वादिनाम् इव रज्जु-सर्पवन् न मिथ्यात्वं, किन्तु घटवन् नश्वरत्वम् एव तस्य । ततो मिथ्यात्वाभावेऽपि त्रिकालाव्यभिचाराभावाज् जगतो न सत्त्वम् । विवर्त-परिणामासिद्धत्वेन तद्-दोष-द्वयाभाववत्य् एव हि वस्तूनि सत्त्वं विधीयते, यथा परमात्मनि तच्-छक्तौ वा । सद् एव सौम्येदम् अग्र आसीद् [छा।उ। ६.२.१] इत्य्-आदौ इदं-शब्दोक्तं जगत् । सूक्ष्मावस्था-लक्षण-तच्-छक्ति-ब्रह्मणोर् मिथस् तादात्म्यापन्नयोः सच्-छब्द-वचनात् । अतः सत्-कार्य-वादश् च सूक्ष्मावस्थाम् अवलम्ब्यैव प्रवर्तते ।

[७०.२]

तद् एवं स्थितेऽपि पुनर् आशङ्कते—

ननु सद्-उपादानं जगत् कथं तद्वन् नश्वरताम् अपि भजन् न खलु सत् स्यात् ? यदि च नश्वरं स्यात्, तर्हि कथं शुक्ति-रजतवत् व्यभिचारित्वेन केवल-विवर्तान्तः-पाति न स्यात्? तद् एतत् प्रश्नम् उट्टङ्क्य परिहरन्ति—

सत इदम् उत्थितं सद् इति चेन् ननु तर्क-हतं
व्यभिचरति क्व च क्व च मृषा न तथोभय-युक् ।
व्यवहृतये विकल्प इषितोऽन्ध-परम्परया
भ्रमयति भारती त उरु-वृत्तिभिर् उक्थ-जडान् ॥ [भा।पु। १०.८७.३६]

इदं विश्वं धर्मि सद् इति, साध्यो धर्मः सत उत्पन्नत्वात् यद् यत उत्पन्नं, तत् खलु तद्-आत्मकम् एव दृष्टं, यथा कनकाद् उत्पन्नं कुण्डलादिकं तद्-आत्मकं, तद्वत् । तत्र उत्थितम् एव न तु शुक्तौ रजतम् इव तत्रारोपितम् इति सिद्धान्तिनः स्व-मतम् अनूदितं नैवेत्य् आहुः—ननु तर्क-हतम् इति, अपादान-निर्देशेन भेद-प्रतीतेर् विरुद्ध-हेतुत्वात् ।

ननु नाभेदं साधयामः । किन्तु तत उत्पन्नत्वेन कुण्डलादिवद् भेदम् अनूद्य प्रतिषेधामः । तत्राभेद एव स्याद् इत्य् आशङ्क्यानैकान्तिकत्वेन हेतुं दूषयन्ति—व्यभिचरति क्व इति । क्व च कुत्रापि कारण-धर्मानुगतिर् व्यभिचरति । कार्य-कारण-धर्मस्य सर्वांशेनानुगतं भवतीति नियमो न विद्यत इत्य् अर्थः । दहनाद्य्-उद्भवे प्रभादौ दाहकत्वादि-धर्मादर्शनाद् इति भावः ।

द्वे रूपे ब्रह्मणस् तस्य मूर्तं चामूर्तम् एव च ।
क्षराक्षर-स्वरूपे ते सर्व-भूतेष्व् अवस्थिते ॥
अक्षरं तत्-परं ब्रह्म क्षरं सर्वम् इदं जगत् ॥ [वि।पु। १.२२.५३-५४]

इत्य् आद्य्-अनन्तरम्—

एक-देश-स्थितस्याग्नेर्
ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणः शक्तिस्
तथेदम् अखिलं जगत् ॥ [वि।पु। १.२२.५५] इत्य् एतद् ।

एवं व्याख्यातं श्री-स्वामिभिर् एव श्री-विष्णु-पुराणे—नन्व् अक्षरस्य पर-ब्रह्मणस् तद्-विलक्षणं क्षर-रूपं कथं स्यात् ? इत्य् आशङ्क्य दृष्टान्तेनोपपादयति—एकदेशेति । प्रादेशिकस्य अग्नेर् दीपादेर् दाहकस्यापि तद्-विलक्षणा ज्योत्स्ना प्रभा यथा तत्-प्रकाश-विस्तारः, तथा ब्रह्मणः शक्ति-कृत-विस्तार इदम् अखिलं जगत् इति ।

[७०.३]

प्रकृतम् अनुसरामः । ननु तर्हि व्यभिचारित्वे शुक्ति-रजतवद् एवास्तु । तत्राहुः—क्व च मृषा इति । क्व च शुक्तादाव् एव प्रातीतिक-मात्र-सत्ताकं रजतादिकं मृषा । अन्यत्र यत्र उभयं प्रतीतिम् अर्थ-क्रिया-कारित्वं च युनक्ति भजते, तत्र न तथा मृषेति ।

[७०.४]

ननु कूट-ताम्रिकादिष्व् अर्थ-क्रिया-कारितापि दृश्यते इत्य् आशङ्क्याहुः—व्यवहृतय इति । क्रय-विक्रयादि-लक्षण-व्यवहारायैव विकल्पो भ्रम इष्टः, न तु तत्-तत्-प्रसिद्ध-सम्यग्-अर्थ-क्रिया-कारितायै । तद्-दानादौ यथावत् पुण्य-फलादिकं न भवतीति । तथा शुण्ठीतया प्रख्यापितं विष-ग्रन्थ्यादिकं क्रीत्वा शुण्ठी-ज्ञानेन भक्षितम् अपि नारोग्य-जनकं, प्रत्युत मारकम् एवेति । तस्मात् तत्-तत्-प्रसिद्ध-सम्यग्-अर्थ-क्रिया-कारितयैव जगतः सत्यत्वम् अङ्गीक्रियते । एकाङ्गेन सा कूट-सर्पादौ भयादि-रूपा त्व् अस्त्य् एवेति, न तद्-धेतुः ।

[७०.५]

किं च, अन्ध-परम्परया इति । स च क्रय-विक्रयादि-लक्षण-व्यवहारोऽपि, न तु यथार्थ-ताम्रिकस्येव तद्-व्यवहार-कुशलेष्व् अपि किन्त्व् अन्ध-परम्परयैव । अतस् तत्र तदीय-कुशलेष्व् असिद्धत्वेन व्यवहारस्याभास-मात्रत्वात् तस्माद् अन्यथा नानुमेयम् । धूमाभासे हि वह्नि-व्यभिचारस्यौचित्यम् एवेति भावः ।

[७०.६]

तद् एवम् अर्थ-क्रिया-कारित्वेनास्त्य् एवेतरस्य भ्रम-वस्तु-वैलक्षण्यात् सत्यत्वम् इति विवर्त-वादिनि निरस्ते पुनर् अनश्वर-वादी प्रत्युत्तिष्ठते । नन्व् अपाम सोमम् अमृता अभूम अक्षय्यं ह वै चातुर्मास-याजिनः सुकृतं भवति [ऋक् ८.४८.३] इति श्रुत्यैव कर्म-फलस्य नित्यत्व-प्रतिपादनान् नश्वरत्वं न घटते ? इत्य् आशङ्क्याहुः—भ्रमयति इति । हे भगवन् ! ते तव भारती उरु-वृत्तिभिः बह्वीभिर् गौण-लक्षणादिभिर् वृत्तिभिः उक्थ-जडान् उक्थानि यज्ञे शस्यन्ते, तत्र जडाः कर्म-श्रद्धा-भाराक्रान्त-मन्द-मतय इत्य् अर्थः, तान् भ्रमयति

अयं भावः—न हि वेदः कर्म-फलं नित्यम् अभिप्रैति, किन्तु लक्षणया प्राशस्त्य-मात्रम् । अन्येषां वाक्यानां विध्य्-एक-वक्यत्वेन विधाव् एव तात्पर्यात् । अन्यथा वाक्य-भेद-प्रसङ्गः, तद् यथेह कर्म-जितो लोकः क्षीयते एवम् एवामुत्र पुण्य-जितो लोकः क्षीयत [छा।उ। ८.१.६] इति न्यायोपबृंहित-श्रुत्य्-अन्तर-विरोधश् च । अतः कर्म-जडानाम् इदं भ्रम-मात्रं, जगत् तु सत्यम् अपि परिणाम-धर्मत्वेन नश्वरम् एवेति । तद् उक्तं भट्टेनैव—अथवेतिहास-पुराण-प्रामाण्यात् सृष्टि-प्रलयाव् अपीष्येते इति ।

[७०.७]

अथवा नाभेदं साधयाम इत्य्-आदिकम् आशङ्क्य प्रसिद्धस्य सत्ता-त्रयस्य मिथो वैलक्षण्यात् परिहरन्ति—क्व च घटादौ अर्थ-क्रिया-कारिण्य् अपि व्यभिचरति सत्तेति शेषः । वस्त्व्-अन्तरस्यार्थ-क्रिया-कारितायाम् असामर्थ्यात् देशान्तरे स्वयम् अविद्यमानत्वात्, कालान्तरे तिरोभावित्वाच् च । क्व च शुक्ति-रजतादौ तत्रापि तदानीम् अपि मृषा अर्थ-क्रिया-कारित्वाभावात् । या तु उभय-युक् उभयत्र घटादि-सत्तायां शुक्ति-रजतादि-सत्तायां च युग् योगो यस्याः, यया सा सत्ता लब्ध-पदा भवतीत्य् अर्थः । सा परम-कारण-सत्ता न तथा, किन्तु सर्वत्रापि सर्वदापि तत्-तद्-उपाध्य्-अनुरूप-सर्वार्थ-क्रियाद्य्-अधिष्ठान-रूपेत्य् अर्थः । तस्माद् अर्थ-क्रिया-कारित्वेन सत्यम् अपि परिणतत्वेन घटवन् नश्वरम् एव जगत्, न प्रतीत-मात्र-सत्ताकं, न चानश्वर-सत्ताकम् इति परस्पर-वैलक्षण्य-दर्शनात् कथम् एकम् अन्यद् भवितुम् अर्हतीति भावः ।

[७०.८]

कूट-ताम्रिकत्वम्126 आशङ्क्याहुः—व्यवहृतय इति । विकल्प्यते अन्यत्रारोप्यते इति विकल्पः स्वतः-सिद्धस् ताम्रिकादिर् अर्थः, स एव व्यवहृतये इषितः

अयम् अर्थः—अत्र कूट-ताम्रिकेण यं व्यवहारं मन्यसे, सोऽपि न तेन सिध्यति । किं तर्हि सत्य-ताम्रिकेणैव ? अर्थान्तरं व्यवहर्तुर् हृदि तस्यैव प्रत्यक्षत्वात् । कूट-ताम्रिकम् अत्रोपलक्षणम् एव । क्वचित् तं विनापि तव गृहे ताम्रिको दत्त इति पश्चाद् दातव्य इति वा छल-प्रयोगे स्मार्यमाणेनापि तेन तथा व्यवहार-सिद्धेः । तस्माद् व्यवहार-रूपाप्य् अर्थ-क्रिया-कारिता तस्यैव भवतीति स सत्य एव । अन्यथा सत्यस्य ताम्रिकस्याभावे शतम् अप्य् अन्धानां न पश्यतीति न्यायेन कूट-ताम्रिक-परम्परयापि व्यवहारोऽपि न सिध्येद् इत्य् आहुः—अन्ध-परम्परया इति । अन्ध-परम्परा-दोषात् स एव व्यवहृतय इषित इत्य् अन्वयः । यथान्ध-परम्परया व्यवहारो न सिध्येत्, तथा कूट-ताम्रिक-परम्परयापीत्य् अर्थः ।

[७०.९]

इत्थम् एव विज्ञान-वादोऽपि निराकृतः । शङ्कर-शारीरिकेऽपि, अनादित्वेऽप्य् अन्ध-परम्परा-न्यायेनाप्रतिष्ठैवानवस्था-व्यवहार-विलोपिनी स्यात्, नाभिप्राय-सिद्धिः [२.२.३०] इत्य् उक्तम् ।

एतद् उक्तं भवति—यथेदं सुवर्णं केन क्रीतम् इति प्रश्ने कश्चिद् आह—अनेनान्धेनेति । अनेन कथं परिचितम् ? इति पुनर् आह—तेनान्धेन परिचायितम् । तेन च कथम् ? इत्य् आह—केनाप्य् अपरेणान्धेनेत्य् अन्ध-परम्परयापि न सिध्येद् व्यवहारः । किन्तु तत्रान्ध-परम्परायां यद्य् एकोऽपि चक्षुष्मान् सर्वादि-प्रवर्तको भवति, तदैव सिध्यति । यथा च तत्र सर्वेष्व् अपि चक्षुष्मत एव व्यवहार-साधकत्वं, तथा कस्मिंश्चित् ताम्रिके प्रथमं सत्ये सत्य् एव व्यवहारः सिध्यति । तत्र च सत्यसैव व्यवहार-साधकत्वं, तद्-अनुसन्धानेनैव तत्र प्रवृत्तेश् चक्षुष्मत इव प्रवर्तकत्वात्127 ततश् च कश्चन ताम्रिकः सत्य इति स्थिते, यत्र तद्-व्यवहार-कुशलैः परीक्षया सत्यतावगम्यते, स एव कूट-ताम्रिकेऽप्य् आरोप्यमाणः सत्यो भवेत् । तद् एवम् अर्थ-क्रिया-कारित्वेन तस्य सत्यत्वे तद्-उपलक्षितं विश्वम् एव भ्रम-वस्तु-विलक्षणं सत्यम् इति सिद्धम् ।

परमात्मन128 एवावयवित्व-व्यवहार-साधितत्वाद् युक्तम् एव तत् । तथा च भ्रमादिभिः स्तुतम्—सत्यस्य योनिम् [भा।पु। १०.२.२६] इति । तत् सत्यम् इत्य् आचक्षते [तै।उ। २.६] इति श्रुतिश् च । शिष्टम् अन्यत् समानम् ॥

एवं जगतः सत्यत्वम् अङ्गीकृतं, तच् च नश्वरम् इति । तत्र नश्वरत्वं नात्यन्तिकं, किन्त्व् अव्यक्ततया स्थितेर् अदृश्यता-मात्रम् एव, सत्-कार्यता-सम्प्रत्तिपत्तेः, यद् भूतं भवच् च भविष्यच् च [बृ।आ।उ। ३.८.३] इत्य्-आदि श्रुतेः ।

[७१.१]

अत एव शुक्तित्वे रजत्वम् इव तस्याव्यक्त-रूपत्वे जगत्त्वम् असन् न भवति । पटवच् च [वे।सू। २.१.२०] इति न्यायेन जगद् एव हि सूक्ष्मतापन्नम् अव्यक्तम् इति दृश्यत्वेन भ्रान्ति-रजत-कक्षम् अपि जगत् तद्-विलक्षण-सत्ताकं तथात्मवद् अपरिणतत्वाभावेन नैकावस्थ-सत्ताकम् इत्य् एवम् अर्थ-सिद्धये तद्-अनन्तरम् एवाहुः—

न यद् इदम् अग्र आस न भविष्यद् अतो निधनाद्
अनुमितम् अन्तरा त्वयि विभाति मृषैक-रसे ।
अत उपमीयते द्रविण-जाति-विकल्प-पथैर्
वितथ-मनो-विलासम् ऋतम् इत्य् अवयन्त्य् अबुधाः ॥ [भा।पु। १०.८७.३७]

यद् यदि इदं विश्वम् अग्रे सृष्टेः पूर्वं नास नासीत्, तदा न भविष्यन् नाभविष्यद् एव, अड्-आगमाभाव आर्षः, आकाश-कुसुमम् इवेति भावः । श्रुतयश् चासीद् एवेति वदन्ति— सद् एव सौम्येदम् अग्र आसीत् [छा।उ। ६.२.१], आत्मा वा यद् इदम् अग्र आसीत् [बृ।आ।उ। १.४.१] इत्य्-आद्याः । तद् एवं सूक्ष्मतया त्वत्-तादात्म्येन स्थितं कारणावस्थम् इदं जगत् विस्तृततय कार्यावस्थं भवति । अतो यन् निधनान् नाश-मात्राद् धेतोः शुक्तौ रजतम् इव त्वयि तद् इदम् अन्तरा सृष्टि-मध्य एव, न त्व् अग्रे चान्ते च विभाति इत्य् अनुमितं, तन् मृषा इति, प्रमाण-सिद्धं न भवतीत्य् अर्थः ।

तत्र हेतुम् आहुः—एक-रसे इति । अनुभवान्तरा-विषयानन्द-स्वाद इति, यस्मिन्न् अनुभूते सति विषयान्तर-स्फूर्तिर् न सम्भवति, तस्मिंस् त्वयि शुक्त्य्-आदि-निकृष्ट-वस्तुनीव विषयारोपः कथं स्यात् ? इत्य् अर्थः ।

दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे
न पुनर् उपासते पुरुष-सार-हरावस्थान् ॥ [भा।पु। १०.८७.३५] इत्य् अस्माकम् एवोक्तेः॥

अतोऽचिन्त्य-शक्त्या स्वरूपाद् अच्युतस्यैव तव परिणाम-स्वीकारेण द्रविण-जातीनां द्रव्य-मात्राणां मृल्-लोहादीनां विकल्पा भेदा घट-कुण्डलादयस् तेषां पन्थानो मार्गाः प्रकारास् तैर् एवास्माभिर् उपमीयते, न तु कुत्रापि भ्रमरजतादिभिः । यस्माद् एवं, तस्माद् वितथा मनो-विलासा यत्र तादृशम् एव ऋतं तद्-रूपं ब्रह्मैवेदं जगद् इत्य् अबुधा एव अवयन्ति मन्यन्ते, तस्य तद्-अधिष्ठानत्वासम्भवाद् इति भावः । ऋत-शब्द-प्रयोगस् त्व् अत्र मिथ्या-सम्बन्ध-राहित्य-व्यञ्जनार्थम् एव कृत इति ज्ञेयम् ।

[७१.२]

अत्र सत्कार्य-वादिनाम् अयम् अभिप्रायः—मृत्-पिण्डादि-कारकैर् यो घट उत्पद्यते स सन्न् असन् वा । आद्ये पिष्ट-पेषणम्, द्वितीये क्रियायाः कारकैश् तत्-सम्बन्धस्य ख-पुष्प-धारणवद् असम्भवात् तेन च तेषाम् अन्यथात्वात् कथं तत्-सिद्धिः ? इति दिक् । तस्मान् न प्रकटम् एव सन् न चात्यन्तम् असत्, किन्त्व् अव्यक्ततया129 मृत्-पिण्डे एव स्थितोऽसौ । यथा कारक-तन्-निष्पन्न-क्रिया-योगेन व्यज्यते, तथा परम-कारणे त्वयि स्थितं विश्वं त्वत्-स्वाभाविक-शक्ति-तन्-निष्पन्न-क्रिया-योगेनेति ।

अत्र स्व-वेदान्तित्व-प्रख्यापकानाम् अप्य् अन्यथा-मननं130 वेदान्त-विरुद्धम् एव । मन एव भूत-कार्यम् इति हि तत्र प्रसिद्धं, युक्ति-विरुद्धं च, मनोऽहङ्कारादीनां मनः-कल्पितत्वासम्भवात् । तथा हि सति वेद-विरुद्धोऽनीश्वर-वादश् च प्रसज्येत । स च निन्दितः पाद्मे—

श्रुतयः स्मृतयश् चैव युक्तयश् चेश्वरं परम् ।
वदन्ति तद्-विरुद्धं यो वदेत् तस्मान् न चाधमः ॥ इति ।
[७१.३]
असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् ।
अपरस्पर-सम्भूतं किम् अन्यत् काम-हैतुकम् ॥ [गीता १६.८]

इति श्री-गीतोपनिषद्-आदि-दृष्ट्यैवानीश्वर-वादिन एवं131 व्याचक्षते—असत्यं मिथ्या-भूतं सत्यासत्याभ्याम् अनिर्वचनीयत्वेन अप्रतिष्ठं निर्देश-शून्यं, स्थाणौ पुरुषत्ववत् ब्रह्मणीश्वरत्वस्याज्ञान-मात्र-कल्पितत्वाद् ईश्वराभिमानी तत्र कश्चिन् नास्तीत्य् अनीश्वरम् एव, जगत् अपरस्पर-सम्भूतम् अनाद्य्-अज्ञान-परम्परा-सम्भूतम्, अपरस्पराः क्रिया-सातत्ये । अतः काम-हैतुकं मनः सङ्कल्प-मात्र-जातं स्वप्नवद् इत्य् अर्थः । अत्र प्रवृत्तिं च [गीता १६.७] इत्य्-आदिना तेषां संस्कार-दोष उक्तः । एतां दृष्टिम् [गीता १६.९] इत्य्-आदिना तु गतिश् च निन्दिष्यते इति ज्ञेयम् । एभिर् एव ब्रह्मण ऐश्वर्योपाधिर् मायापि जीवाज्ञान-कल्पिता तयैव जगत्-सृष्टिर् इति मतम् ।

यद् उक्तं तदीय-भाष्ये तद्-अनन्यत्वम् [वे।सू। २.१.१५] इत्य्-आदि-सूत्रे—सर्व-ज्ञेश्वरस्यात्म-भूते इवाविद्या-कल्पिते नाम-रूपे तत्त्वातत्त्वाभ्याम् अनिर्वचनीये संसार-प्रपञ्च-बीज-भूते सर्वज्ञेश्वरस्य माया-शक्तिः प्रकृतिर् इति श्रुति-स्मृत्योर् अभिलप्येते इति, किन्त्व् अत्र विद्याविद्ये मम तनू [भा।पु। ११.११.३, §५४] इत्य्-आदि-श्री-भगवद्-वाक्येन तु विरुद्धम् इति । अतो माया-वादतया चायं वादः ख्यायते ।

[७१.४]

तद् एवं च पाद्मोत्तर-खण्डे देवीं प्रति पाषण्ड-शास्त्रं गणयता श्री-महादेवेनोक्तम्—

मायावादम् असच् छास्त्रं प्रच्छन्नं बौद्धम् उच्यते ।
मयैवं कथितं देवि कलौ ब्राह्मण-रूपिणा ॥
वेदान्ते तु महा-शास्त्रे मायावादम् अवैदिकम् ।
मयैव वक्ष्यते देवि जगतां नाश-कारणात् ॥ [प।पु। ६.९३.६६, ६९] इति ।

तच् चासुराणां मोहनार्थं भगवत एवाज्ञयेति तत्रैवोक्तम् अस्ति । तया च पाद्म एवान्यत्र शैवे च—

द्वापरादौ युगे भूत्वा कलया मानुषादिषु ।
स्वागमैः कल्पतैस् त्वं च जनान् मद्-विमुखान् कुरु ॥

इति श्री-भगवद्-वाक्यम् इति दिक् । अत एवोक्तं श्री-नृसिंह-पुराणे यम-वाक्ये—

विषधर-कणभक्ष-शङ्करोक्तीर्
दशबल-पञ्चशिखाक्षपाद-वादान् ।
महद् अपि सुविचार्य लोक-तन्त्रं
भगवद्-उपास्तिम्132 ऋते न सिद्धिर् अस्ति ॥ इति ।

सर्वेऽत्र वाद-ग्रन्था एव निर्दिष्टाः, न तु मन्त्र-ग्रन्था इति नामाक्षरम् एव साक्षान् निर्दिष्टम् इति च नान्यथा मननीयम्,133 आनन्द-मयोऽभ्यासात् [वे।सू। १.१.१२] इत्य्-आदिषु वेदान्त-सूत्र-कार-मतं तत्र दूष्यत इति । अतो यत् क्वचित् तत्-तत्-प्रशंसा वा स्यात्, तद् अपि नितान्त-नास्तिक-वादं निर्जित्यांशेनाप्य् आस्तिक्य-वादः ख्यापित इत्य् अपेक्षया ज्ञेयम् ।

तस्मात् स्वतन्त्र ईश्वर एव सर्व-स्रष्टा, न तु जीवः स्वाज्ञानेन स्व-शक्त्यैवेत्य् आयातम् । तद् उक्तं श्री-बादरायणेनापि बहुत्र, संज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात् [वे।सू। २.४.२०] इत्य्-आदिषु ।

अतस् तन्-मनोऽसृजत मनः प्रजापतिम् इत्य्-आदौ मनः-शब्देन समष्टि-मनोऽधिष्ठाता श्रीमान् अनिरुद्ध एव, बहु स्यां प्रजायेय [छा।उ। ६.२.३] इति तत्-सङ्कल्प एव वा वाच्यः । सत्य-स्वाभाविकाचिन्त्य-शक्तिः परमेश्वरस् तुच्छ-मायिकम् अपि न कुर्यात्, चिन्तामणीनाम् अधिपतिः स्वयं चिन्तामणिर् एव वा कूट-कनकादिवत् । तथा च माध्व-भाष्य-प्रमाणिता श्रुतिः—अथैनम् आहुः सत्य-कर्मेति सत्यं ह्य् एवेदं विश्वम् असृजत इति । एवं च—

सत्य-व्रतं सत्य-परं त्रि-सत्यं
सत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्यम् ऋत-सत्य-नेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नः ॥ [भा।पु। १०.२.२६]

इत्य् अत्र सत्य-सङ्कल्पत्वं सत्य-परायणत्वं सृष्ट्य्-आदि-लीला-त्रयेषु सत्यत्वं, सत्यस्य विश्वस्य कारणत्वं सत्य एव, विश्वस्मिन्न् अन्तर्यामितया स्थितत्वं सत्यस्य तस्य सत्यता-हेतुत्वं, सत्य-वचनस्याव्यभिचारि-दृष्टेश् च प्रवर्तकत्वं, सत्य-रूपत्वम् इत्य् एतेषाम् अर्थानाम् आकृतं134 परिपाटी च सङ्गच्छते । अन्यथा सत्यस्य योनिम् इत्य् आदौ त्रये तत्रापि निहितं च सत्य इत्य् अत्राकस्माद् अर्ध-जरतीय-न्यायेन कष्ट-कल्पना-मयार्थान्तरे तु भगवता स्व-प्रतिश्रुतं सत्य-कृतं यत् तत् तद् युक्तम् एवेत्य् अतो ब्रह्मादिभिस् तस्य तथा स्तवे स्वारस्य-भङ्गः स्यात् प्रक्रम-भङ्गश् च । तस्मात् सत्यम् एव विश्वम् इति स्थितम् ॥

॥ १०.८७ ॥ श्रुतयः श्री-भगवन्तम् ॥७१॥

[७२]

तद् एवं न यद् इदम् अग्र आस [भा।पु। १०.८७.३७, §७१] इत्य् अनेन प्राकृत-लयोऽपि सत्-कार्य-वादेऽनुगमितः । आत्यन्तिके तु मोक्ष-लक्षण-लये न पृथिव्य्-आदीनां नाशः । जीव-कृतेन तथा भावना-मात्रेण स्वाभाविक-परमात्म-शक्ति-मयानां तेषां नाशायुक्तेः । लब्ध-मोक्षेषु श्री-परीक्षितादिषु तद्-देह-स्थानाम् अपि पृथिव्य्-आद्य्-अंशानां स्थितेः श्रवणात्, तथा हिरण्यगर्भांशानां बुद्ध्य्-आदीनाम् अपि भविष्यति । अतस् तेष्व् अध्यास-परित्याग एवात्यन्तिक-लय इत्य् उच्यते । अत एव,

घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा ।
एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ [भा।पु। १२.५.५] इत्य् अत्र ।

तथा—

एवं समीक्ष्य चात्मानम् आत्मन्य् आधाय निष्कले ।
दशन्तं तक्षकं पादे लेलिहानं विषानलम् ॥
न द्रक्ष्यसि शरीरं त्वं विश्वं च पृथग् आत्मनः ॥ [भा।पु। १२.५.११-१२]

इत्य् अत्राप्य् उपाधेः संयोग एव परित्यज्यते, न तु तस्य मिथ्यात्वं प्रतिपाद्यते ।

तथा हि बुद्धीन्द्रियेत्य्-आदि-प्रकरणम्

तत्र तद्-आश्रयत्व-तत्-प्रकाश्यत्व-तद्-व्यतिरिक्तत्वेभ्यो हेतुभ्यो बुद्धीन्द्रियादीनां परमात्म-स्वभाव-शक्ति-मयत्वम् आह—

बुद्धीन्द्रियार्थ-रूपेण
ज्ञानं भाति तद्-आश्रयम् ।
दृश्यत्वाव्यतिरेकाभ्याम्
आद्य्-अन्तवद् अवस्तु यत् ॥ [भा।पु। १२.४.२३]

अन्तःकरण-बहिः-करण-विषय-रूपेण परमात्म-लक्षणं ज्ञानम् एव भाति, तस्माद् अन्यद् एव बुद्ध्य्-आदि-वस्त्व् इत्य् अर्थः, यतस् तद्-आश्रयं तेषाम् आश्रय-रूपं तज् ज्ञानम् । क्लीबत्वम् आर्षम् । तथापि राज-भृत्ययोर् इवात्यन्त-भेदः स्यात् ।

तत्र हेत्व्-अन्तरेऽप्य् आह—दृश्यत्वं तत्-प्रकाश्यत्वम् अव्यतिरेकस् तद्-व्यतिरेके व्यतिरेकः, ताभ्याम् । तस्मात् एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा [वि।पु। १.२२.५६, §७०] इत्य्-आदिवद् बुद्ध्य्-आदीनां तत्-स्वाभाविक-शक्तिमयत्वम् एव सेत्स्यतीति भावः ।

यत् खल्व् आद्य्-अन्तवत् शुक्त्य्-आदौ कदाचिद् एवारोपितं रजतं, तत् पुनर् अवस्तु, तद्-आश्रयकत्व-तत्-प्रकाशकत्व-तद्-अव्यतिरेकाभावात् शुक्त्य्-आदि-वस्तु न भवति, शुक्त्य्-आदिभ्योऽनन्यन् न भवतीत्य् अर्थः । ततश् चैक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञा विरुध्येतेति भावः । एवम् असत्-कार्य-वादान्तरेऽपि ज्ञेयम् ॥७२॥

[७३]

एकस्यापि वस्तुनोऽंश-भेदेनाश्रयाश्रयित्वं स्वयम् एव दृष्टान्तेन स्पष्टयति—

दीपश् चक्षुषश् च रूपं च
ज्योतिषो न पृथग् भवेत् ।
एवं धीः खानि मात्राश् च
न स्युर् अन्यतमाद् ऋतात् ॥ [भा।पु। १२.४.२४]

दीपश् चक्षू-रूपाणां महा-भूत-ज्योतिर्-अंश-रूपत्वात् दीपादिकं ततः पृथक् । एवं धी-प्रभृतीनि ऋतात् परमात्मनो पृथक् स्युः । तथापि, यथा महा-भूत-ज्योतिर् दीपादि-दोषेण न लिप्यते, तथा बुद्ध्य्-आदि-दोषेण परमात्मापि । तद्वद् अस्याप्य् अन्यतमत्वाद् इत्य् आह—अन्यतमाद् इति ।

[७४]

तद् एवं धी-प्रभृतीनां परमात्म-स्वाभाविक-शक्तिमयत्वम् उक्त्वा, तथापि तेभ्यो बहिरङ्ग-शक्तिमयेभ्योऽन्तरङ्ग-शक्ति-तटस्थ-शक्ति-विशिष्ट-परमात्मनो ऽन्यतमत्वेन तेषाम् अशुद्धत्व-व्यञ्जनया स-दोषत्वम् उक्त्वा, तेषु धी-प्रभृतिषु अध्यासं परित्याजयितुं तिसृषु धी-वृत्तिषु तावच् छुद्धस्यैव जीवस्य स-कारणम् अध्यासम् आह—

बुद्धेर् जागरणं स्वप्नः
सुषुप्तिर् इति चोच्यते ।
माया-मात्रम् इदं राजन्
नानात्वं प्रत्यग्-आत्मनि ॥ [भा।पु। १२.४.२५]

बुद्धि-वृत्ति-रूपं जागरणं स्वप्नः सुषुप्तिर् इति इदं प्रत्यग्-आत्मनि शुद्ध-जीवे विश्व-तैजस-प्राज्ञत्वाख्यं नानात्वं माया-मात्रं माया-कृताध्यास-मात्रेण जातम् इत्य् अर्थः ।

[७५]

ततः परमात्मनि बुद्ध्य्-आदि-मयस्य जगतः सतोऽपि सम्पर्कः सुतरां नास्तीत्य् अर्थं चाह—

यथा जलधरा व्योम्नि
भवन्ति न भवन्ति च ।
ब्रह्मणीदं तथा विश्वम्
अवयव्य् उदयाप्ययात् ॥ [भा।पु। १२.४.२६]

यथा व्योम्नि व्योम-कार्य-वायु-ज्योतिः-सलिल-पार्थिवांश-धूम-परिणता जलधराः स्वेषाम् एवावयविनाम् उदयाद् भवन्ति दृश्यन्ते, अप्ययान् न भवन्ति न दृश्यन्ते च, ते च तन् न स्पृशन्तीति ज्ञेयम् । तथा ब्रह्मणीदं विश्वम् इति योज्यम् । अवयवि स्थूल-रूपं विश्वं, उदयः पुरुषोत्तम-दृष्टि-जातः स्पष्टीभावः, अप्ययस् तद्-दृष्टि-निमीलन-जातस् तद्-विपर्ययः ।135 ततः सूक्ष्म-रूपेण तस्य स्थितिर् अस्त्य् एव, जगच्-छक्ति-विशिष्ट-कारणास्तित्वात् । इत्थम् एवोक्तम्, सतोऽभिव्यञ्जकः कालः [भा।पु। ११.२४.१९, §५८] इति ॥७५॥

[७६]

तद् एवं वक्तुं कारणास्तित्वं दृष्टान्तेन प्रतिपादयति—

सत्यं ह्य् अवयवः प्रोक्तः
सर्वावयविनाम् इह ।
विनार्थेन प्रतीयेरन्
पटस्येवाङ्ग तन्तवः ॥ [भा।पु। १२.४.२७]

सर्वेषाम् अवयविनां स्थूल-वस्तूनाम् अवयवः कारणं सत्यं, सत्यो व्यभिचार-रहितः प्रोक्तः । लोके यथा दर्शनाद् इत्य् आह—विनेति । अर्थेन स्थूल-रूपेण पटेन्आपि विना ॥७६॥

[७७]

तस्मिन् कार्यास्तित्वम् अपि व्यतिरेकेण प्रतिपादयति—

यत् सामान्य-विशेषाभ्याम्
उपलभ्येत स भ्रमः । [भा।पु। १२.४.२८]

अयम् अर्थः—यद्य् एवम् उच्यते, पूर्वं सूक्ष्माकारेणापि जगन् नासीत्, किन्तु सामान्यं केवलं शुद्धं ब्रह्मैवासीत्, तद् एव शक्त्या निमित्त-भूतया विशेषाकारेण जगद्-रूपेण परिणतम् इति तद् असत् । यतः यद् एव सामान्य-विशेषाभ्याम् उपलभ्येत स भ्रमो विवर्त-वाद एव । तत्र हि शुद्धं ब्रह्मैवाज्ञान-रूपया शक्त्या जगत्तया विवृतम् इति मतं न चास्माकं तद्-अभ्युपपत्तिः, परिणाम-वादस्य सत्-कार्यता-पूर्वकत्वाद् इत्य् अर्थः ॥७७॥

[७८]

नन्व् अपूर्वम् एव कार्यम् आरम्भ-विवर्त-वादिनाम् इव युष्माकम् अपि ज्ञायतां ? तत्राह—

अन्योन्यापाश्रयात् सर्वम्
आद्य्-अन्तवद् अवस्तु यत् ॥ [भा।पु। १२.४.२८]

यद् आद्य्-अन्तवद् अपूर्वं कार्यं, तत् पुनर् अवस्तु निरूपणासहम् इत्य् अर्थः । तत्र हेतुः—अन्योन्योपश्रयात् । यावत् कार्यं न जायते, तावत् कारणत्वं मृच्-छुक्त्य्-आदेर् न सिध्यति, कारणत्वासिद्धौ च कार्यं न जायत एवेति परस्पर-सापेक्षत्व-दोषात् । ततः कारणत्व-सिद्धये कार्य-शक्तिस् तत्रावश्यम् अभ्युपगन्तव्या । सा च कार्य-सूक्ष्मावस्थैवेति कार्यास्तित्वं सिध्यति । तथापि स्थूल-रूपतापादकत्वान् मृद्-आदेः कारणत्वम् अपि सिध्यतीति भावः ।

[७९]

तद् एवं स्वाभावैक-शक्तिमयम् एव परमात्मनो जगद् इत्य् उपसंहरति—

विकारः ख्यायमानोऽपि
प्रत्यग्-आत्मानम् अन्तरा ।
न निरूप्योऽस्त्य् अणुर् अपि
स्याच् चेच् चित्-सम आत्मवत् ॥ [भा।पु। १२.४.२९]

यद्यपि ख्यायमामनः प्रकाशमान एव, तथापि स्वल्पोऽपि विकारः प्रत्यग्-आत्मानं परमात्मानं विना तद्-व्यतिरेकेण स्वतन्त्रतया न निरूप्योऽस्ति । तद् उक्तं तद्-अनन्यत्व-विवरण [§xx] एव । यदि च तं विनापि स्यात्, तदा चित्-समः स्याच् चिद्-रूपेण समः स्व-प्रकाश एवाभविष्यत् । आत्मवत् परमात्मवन् नित्यैकावस्थश् चाभविष्यत् ।

[८०]

ननु यदि परमात्मानं विना विकारो नास्ति, तर्हि परमात्मनः सोपाधित्वे निरुपाधित्वं न सिध्यति । तस्मात् सोपाधेर् निरुपाधिर् अन्य एव किम् ? इत्य् अत्राह—

न हि सत्यस्य नानात्वम्
अविद्वान् यदि मन्यते ।
नानात्वं छिद्रयोर् यद्वज्
ज्योतिषोर् वातयोर् इव ॥ [भा।पु। १२.४.३०]

सत्यस्य परमात्मनो नानात्वं न हि विद्यते । यदि तस्य नानात्वं मन्यते तर्ह्य् अविद्वान्, यतस् तस्य निरुपाधित्व-सोपाधित्व-लक्षणं नानात्वं महाकाश-घटाकाशयोर् यद्वत्, तद्वद् गृहाङ्गन-गत-सर्व-व्यापि-तेजसोर् इव, बाह्य-शरीर-वाय्वोर् इव चेति ।

[८१]

यस्माद् विकारः ख्यायमानोऽपि प्रत्यग्-आत्मानम् अन्तरा । न निरूप्योऽस्त्य् अणुर् अपि_ _[भा।पु। १२.४.२९, §७८] तस्मात् सर्व-शब्द-वाच्योऽपि स एवेति स-दृष्टान्तम् आह—

यथा हिरण्यं बहुधा प्रतीयते**136**
नृभिः क्रियाभिर् व्यवहार-वर्त्मसु ।
एवं वचोभिर् भगवान् अधोक्षजो
व्याख्यायते लौकिक-वैदिकैर् जनैः ॥ [भा।पु। १२.४.३१]

क्रियाभिस् तत्-तद्-वचन-भेदैर् बहुधा कटक-कुण्डादि-रूपेण यथा सुवर्णम् एव वचोभिस् तत्-तन्-नामभिः प्रतीयते, तथा लौकिक-वैदिकैः सर्वैर् एव वचोभिर् भगवान् एव व्याख्यायते । तद् उक्तम्—सर्व-नामाभिधेयश् च सर्व-वेदेडितश् च सः इति स्कान्दे ।

[८२]

तद् एवं जगतः परमात्म-स्वाभाविक-शक्तिमयत्वम् उक्त्वा तेन च जीव-कर्तृकेण ज्ञानेन तन्-नाशन-सामर्थ्यं व्यज्य मोक्षार्थं तद्-अध्यास-परित्यागम् उपदेष्टुं परमात्म-शक्तिमयस्यापि तस्योपाध्य्-अध्यासात्मकस्याहङ्कारस्य जीव-स्वरूप-प्रकाशावरकत्व-रूपं दोषं सदृष्टान्तम् उपपादयति—

यथा घनोऽर्क-प्रभवोऽर्क-दर्शितो
ह्य् अर्कांश-भूतस्य च चक्षुषस् तमः ।
एवं त्व् अहं ब्रह्म-गुणस् तद्-ईक्षितो
ब्रह्मांशकस्यात्मन आत्म-बन्धनः ॥ [भा।पु। १२.४.३२]

अर्क-रश्मय एव मेघ-रूपेण परिणता वर्षन्ति ।

अग्नौ प्राप्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायत वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः । इति वचनात् ।

अयम् अर्थः—यथार्क-प्रभवोर्केणैव दर्शितः प्रकाशितश् च घनो निविडो मेघोऽर्कांश-भूतस्य चक्षुषस् तमो दिवि भूमौ च महान्धकार-रूपो भवति । एवम् अहं प्राकृताहङ्कारो ब्रह्म-गुणः परमात्म-शक्ति-कार्य-भूतस् तद्-ईक्षितस् तेनैव परमात्मना प्रकाशितश् च ब्रह्मांशकस्य तटस्थ-शक्ति-रूपत्वात् परमात्मनो यो हीनांशस् तस्यात्मनो जीवस्य आत्म-बन्धनः स्वरूप-प्रकाशावरको भवति ।

[८३]

स चाध्यास-परित्यागः स्वतो न भवति, किन्तु परमात्म-जिज्ञासया तत्-प्रभावेनैवेति वक्तुं पूर्ववद् एव दृष्टान्त-परिपाटीम् आह—

घनो यदार्क-प्रभवो विदीयर्यते
चक्षुः स्वरूपं रविम् ईक्षते तदा ।
यदा ह्य् अहङ्कार उपाधिर् आत्मनो
जिज्ञासया नश्यति तर्ह्य् अनुस्मरेत् ॥ [भा।पु। १२.४.३३]

घनो यदार्क-प्रभवो विदीर्यते इति दृष्टान्तांशे तद्-विदारणस्य न चक्षुः-शक्ति-साध्यत्वम्, किन्तु सूर्य-प्रभाव-साध्यत्वम् इति व्यक्तम् । अनेन दार्ष्टान्तिकेऽपि आत्मनः परमात्मनो जिज्ञासया जातेन तत्-प्रसादेन अहङ्कारो नश्यति पलायते इत्य् अत्रांशे पुरुष-ज्ञान-साध्यत्वम् अहङ्कार-नाशस्य खण्डितम् । अतो विवर्त-वादो नाभ्युपगतः । अत्र च उपाधिर् इति विशेषणेन स्वरूप-भूताहङ्कारस् त्व् अन्य एवेति स्पष्टीभूतम् ।

एवं यथा दृष्टान्ते घन-मय-महान्धकारावरणाभावात् तत्-प्रभावेण योग्यता-लाभाच् च चक्षुः कर्तृ-भूतं स्वरूपं कर्म-भूतम् ईक्षते, स्व-स्वरूप-प्रकाशम् अस्तित्वेन जानाति, स्व-शक्ति-प्राकट्यं लभत इत्य् अर्थः । कदाचित् तद्-ईक्षणोन्मुखः सन् रविं चेक्षते, तथा दार्ष्टान्तिकेऽप्य् अनुस्मरेत्, स्मर्तुम्137 अनुसन्धातुं योग्यो भवति, आत्मानं चेति शेषः ।

[८४]

निगमयति—

यदैवम् एतेन विवेक-हेतिना
माया-मयाहङ्कारणात्म-बन्धनम् ।
च्छित्वाच्युतात्मानुभवोऽवतिष्ठते
तम् आहुर् आयन्तिकम् अङ्ग सम्प्लवम् ॥ [भा।पु। १२.४.३४]

एतेन पूर्वोक्त-विवेक-शस्त्रेण मायामय- इति विशेषणं स्वरूप-भूताहङ्कारस्य व्यवच्छेदार्थम् । अवतिष्ठते स्व-स्वरूपेणावस्थितो भवति । न केवलम् एतावद् एव, अच्युतात्मानुभवः, अच्युतेऽच्युत-नाम्न्य् आत्मनि परमात्मन्य् अनुभवो यस्य तथाभूत एव सन्न् अवतिष्ठते ॥

॥ १२.४ ॥ श्री-शुकः ॥७२-८४॥

[८५.१]

अत्रायम् अप्य् एकेषां पक्षः—परमेश्वरस्य शक्ति-द्वयम् अस्ति, स्वरूपाख्या मायाख्या चेति । पूर्वया स्वरूप-वैभव-प्रकाशनं, अपरया त्व् इन्द्र-जाल-वत्तयैव मोहितेभ्यो जीवेभ्यो विश्व-सृष्ट्य्-आदि-दर्शनम् । दृश्यते चैकस्य नानाविद्यावतः कस्यापि तथा व्यवहारः । न चैवम् अद्वैत-वादिनाम् इव वेदनम् आपतितम् । सत्येनैव कर्त्रा सत्यम् एव द्रष्टारं प्रति सत्ययैव तया शक्त्या वस्तुनः स्फोरणात् लोकेऽपि तथैव दृश्यत इति भवत्व् अपीदं नाम ।

यतः सत्यं न सत्यं नः कृष्ण-पादाब्जामोदम् अन्तरा ।

जगत् सत्यम् असत्यं वा कोऽयं तस्मिन् दुराग्रहः ॥

[८५.२]

तद् एतन्-मते सत इदम् उत्थितम् [भा।पु। १०.८७.३६, §७०] इत्य्-आदि-वाक्यानि प्रायो यथा-टीका-व्याख्यानम् एव ज्ञेयानि । क्वचित् तत्-कृतानुमानादौ भेद-मात्रस्यासत्त्वे प्रसक्ते वैकुण्ठादीनाम् अपि तथात्व-प्रसक्तिस् तन्-मते स्याद् इत्य् अत्र तु तेषाम् अयम् अभिप्रायः । वयं हि यल् लोक-प्रत्यक्षादि-सिद्धं वस्तु, तद् एव तत्-सिद्ध-वस्त्व्-अन्तर-दृष्टान्तेन तद्-धर्मकं साधयामः । यत् तु तद्-असिद्धं शास्त्र-विद्-अनुभवैक-गम्य-तादृशत्वं तत् पुनस् तद्-दृष्टान्त-परार्धादिनाप्य् अन्यथा कर्तुं न शक्यत138 एवेति । जीवेश्वराभेद-स्थापना च चिद्-रूपता-मात्र139 एवेति ।

[८५.३]

अथ स्वाभाविक-माया-शक्त्या परमेश्वरो विश्व-सृष्ट्य्-आदिकं करोति, जीव एव तत्र मुह्यतीत्य् उक्तम् । तत्र सन्देहं प्रश्नोत्तराभ्यां परिहरत्य् अष्टभिः । श्री-विदुर उवाच—

ब्रह्मन् कथं भगवतश्
चिन्-मात्रस्याविकारिणः ।
लीलया चापि युज्येरन्
निर्गुणस्य गुणाः क्रियाः ॥ [भा।पु। ३.७.२]

हे ब्रह्मन् ! चिन्-मात्रस्य चिन्मात्र-स्वरूपस्य स्वतः स्वरूप-शक्त्या भगवतः श्री-वैकुण्ठादि-गत-तादृशैश्वर्यादि-युक्तस्य, अत एव निर्गुणस्य प्राकृत-गुणास्पृष्टस्य तत एव अविकारिणस् तादृक्-स्वरूप-शक्ति-विलास-भूतानां क्रियाणाम् अनन्तानाम् अपि सदोदित-वरानन्त-विध-प्रकाशे तस्मिन् नित्य-सिद्धत्वात् तत्-तत्-क्रियाविर्भाव-कर्तुस् तस्यावस्थाअन्तर-प्राप्तत्वाभावात् प्राकृत-कर्तुर् इव न विकारापत्तिर् इति ।

निर्विकारस्य च कथं सत्त्वादयः प्राकृत-गुणाः, कथं वा तद्-आसङ्ग-हेतुकाः स्थित्य्-आदयः क्रियाश् च युज्येरन् ? ततश् च चिन्-मात्र-वस्तु-विरोधाद् एव ते च ताश् च न युज्यन्ते । भगवत्त्वे तु स्वैर-चेष्टयापि न युज्येरन् इत्य् आह—लीलया वापि इति । अत्राविकारित्व-निर्गुणत्वाभ्यां सह चिन्-मात्र-भगवत्त्वं चेत्य् उभयम् अपि स्वीकृत्यैव पूर्व-पक्षिणा पृष्टम् । ततश् च तस्य चिन्-मात्र-स्वरूपस्य भवतु, भगवत्त्वं तत्रास्माकं न सन्देहः। किन्तु तस्य कथम् इतर-गुणादि-स्वीकारो युज्यते ? इत्य् एव पृच्छत इति वाक्यार्थः ॥

[८६]

ततश् चिन्मात्रत्वे भगवत्त्वे च तस्य तुच्छा गुणाः क्रियाश् च न सम्भवन्त्य् एवेति द्विगुणीभूयैव प्रश्नः । लीलया वापि कथं युज्येरन् ? इति विशदयति—

क्रीडायाम् उद्यमोऽर्भस्य
कामश् चिक्रीडिषान्यतः ।
स्वतस्-तृप्तस्य च कथं
निवृत्तस्य सदान्यतः ॥ [भा।पु। ३.७.३]

उद्यमयति प्रवर्तयति इत्य् उद्यमःअर्भकस्य क्रीडायां प्रवृत्ति-हेतुः कामोऽस्ति । अन्यतस् तु वस्त्व्-अन्तरेण बालान्तर-प्रवर्तनेन वा तस्य क्रीडेच्छा भवति । भगवतस् तु स्वतः स्वेनात्मना स्वरूप-वैभवेन च तृप्तस्य अत एव अन्यतः सदा निवृत्तस्यकथम् अन्यतो जीवाज् जगच् च निमित्तात् चिक्रीडिषा इति ॥

[८७]

न च तस्य ते गुणास् ताः क्रियाश् च न विद्यन्ते इत्य् अपलपनीयम्, तत्रैव प्रसिद्धेर् इत्य् आह—

अस्राक्षीद् भगवान् विश्वं
गुण-मय्यात्म-मायया ।
तया संस्थापयत्य् एतद्
भूयः प्रत्यपिधास्यति ॥ [भा।पु। ३.७.४]

गुण-मय्या त्रैगुण्य-व्यञ्जिन्या आत्माश्रितया मायया संस्थापयति पालयति प्रत्यपिधास्यति प्रातिलोम्येन तिरोहितं करिष्यति ॥

[८८]

जीवस्य च कथं माया-मोहितत्वं घटेत ? इत्य् आक्षेपान्तरम् आह—

देशतः कालतो योऽसाव्
अवस्थातः स्वतोऽन्यतः ।
अविलुप्तावबोधात्मा
स युज्येताजया कथम् ॥ [भा।पु। ३.७.५]

योऽसौ देशादिभिर् अविलुप्तावबोध आत्मा जीवः स कथम् अजया अविद्यया युज्येत ? तत्र देश-व्यवधानतो देश-गत-दोषतो वा चक्षुः प्रकाश इव, कालतो विद्युद् इव, अवस्थातः स्मृतिर् इव, स्वतः शुक्ति-रजतम् इव, अन्यतो घटादि-वस्त्व् इव, न तस्यावबोधो लुप्यते अव्याहत-स्वरूप-भूत-ज्ञानाश्रयत्वाद् एवेत्य् अर्थः ॥

[८९]

तत्रैव विरोधान्तरम् आह—

भगवान् एक एवैष
सर्व-क्षेत्रेष्व् अवस्थितः ।
अमुष्य दुर्भगत्वं वा
क्लेशो वा कर्मभिः कुतः ॥ [भा।पु। ३.७.६]

एष एक एव भगवान् परमात्मापि सर्व-क्षेत्रेषु सर्वस्य जीवस्य क्षेत्रेषु देहेष्व् अवस्थितः । तत्र सति कथम् अमुष्य जीवस्य दुर्भगत्वं स्वरूप-भूत-ज्ञानादि-लोपः, कर्मभिः क्लेशश् च तस्य वा कुतो नास्ति ? न ह्य् एकस्मिन् जलादौ स्थितयोर् वस्तुनोः कस्यचित् तत्-संसर्गः, कस्यचिन् नेति युज्यत इत्य् अर्थः ॥

[९०]

तत्र केवलं चिन्-मात्रत्वं न सम्भवतीति भगवत्त्वम् एवाङ्गीकृत्य श्री-मैत्रेय उवाच—

सेयं भगवतो माया
यन् न येन विरुध्यते ।
ईश्वरस्य विमुक्तस्य
कार्पण्यम् उत बन्धनम् ॥ [भा।पु। ३.७.९]

यया विश्व-सृष्ट्य्-आदिकं भवति, सेयं भगवतोऽचिन्त्य-स्वरूप-शक्तेर् मायाख्या शक्तिः । यद् या च नयेन तर्केण विरुध्यते, तर्कातीततया सेयम् अप्य् अचिन्त्येत्य् अर्थः । यद्यप्य् एवं द्वयोर् अप्य् अचिन्त्यत्वं, तथापि भगवतो मायेत्य् अनेन व्यक्तत्वात् स्वरूप-शक्तेर् अन्तरङ्गत्वाद् बहिरङ्गाया मायाया गुणैः सत्त्वादिभिस् तत्-कार्यैः स्थापनादि-लीलाभिश् च नासौ स्पृश्यत इत्य् अर्थः । तत्र केवलं चिन्मात्रत्वं न,140

तन्त्रेण चायम् अर्थः—सत्यं परमेश्वरे न ते गुणा न च ताः क्रियाः, किन्तु यस्यास्ते गुणास् तद्-अशृअय-बलया, यया च क्रियमाणं कर्म तस्मिन्न् आरोप्यते, सेयं तस्य मायाख्या बहिरङ्गा शक्तिः । तद् उक्तं—ऋतेऽर्थं यत् प्रतीयेत [भा।पु। २.९.३३] इत्य्-आदि ।

तद् एव विवृणोति—यन् नयेन इति । यद् इत्य् अवययम् । यद् यया मायया तद्-आश्रितयापि येन भगवता सह विरुध्यते नासौ विरोध-विषयीक्रियत इत्य् अर्थः । न ह्य् आभास-गतेन कर्बुरत्वादिना चलनादिना वा सूर्य-मण्डलस्य तत्-तद्-योगो विरोद्धुं शक्यते इति भावः । एतेन वैषम्यापातश् च परिहृतः । तद् एतत् सर्वम् अभिप्रेत्य सेयं भगवतो माया इत्य् अनेन इत्थं-भूत-गुणो हरिः [भा।पु। १.७.११] इतिवत् तत्-तत्-स्वभावैवेयम् इति ध्वनितम् ।

तद् एतद्-अर्थस्यानुकूलोऽयम् अपि शब्द-ध्वनि-लम्भितोऽर्थ-विशेषः स्फुरति—यथा नयेन तर्केण विरुध्यत इति । यत् सेयं भगवतो माया इति । यद् यया मायया येन भगवता सह न विरुध्यते, नासौ विरोध-विषयी-क्रियत इति ।

यद् वा, येन भगवता न विरुध्यते, न सर्वथा निर्विषयीक्रियत141 इति च ।

एवम् एव षष्ठे नवमाध्याये—दुरवबोध इव तवायम् [भा।पु। ६.९.३४]142 इत्य्-आदिना गद्येन तस्य स-गुण-कर्तृत्वं विरुध्य पुनर् अथ तत्र भवान् [भा।पु। ६.९.३५]143 इति गद्येनान्तर्यामितया गुण-विसर्ग-पतितत्वेन जीववद् भोक्तृत्व-योगं सम्भाव्य, न हि विरोध उभयम् [भा।पु। ६.९.३६]144 इत्य्-आदि-गद्येन तत्र तत्रावितर्क्य-शक्तित्वम् एव च सिद्धान्ते योजितम् ।

तत्र स्वरूप-शक्तेर् अवितर्क्यत्वं भगवति [भा।पु। ६.९.३६] इत्य्-आदिभिर् विशेषणैर् मायायाश् च आत्म-मायाम् [भा।पु। ६.९.३६] इत्य् अन्तेन145 दर्शितम् । तत्र स्वरूप-द्वयाभावात् [भा।पु। ६.९.३५] इत्य् अस्य तथाप्य् अचिन्त्य-शक्त्या तत्-कर्तृत्वं तद्-अन्तः-पातित्वं च विद्यते इत्य् अर्थः । सम-विषम-मतीनाम् [भा।पु। ६.९.३७]146 इति तु गद्यं तथाप्य् उच्चावच-बुद्धीनां तथा स्फुरसीति प्रतिपत्त्य्-अर्थं ज्ञेयम् ।

दुरवबोध इव [भा।पु। ६.९.३४] इति प्राक्तन-गद्ये त्व् अशरीर इति शरीर-चेष्टां विना, अशरण इति भूम्य्-आद्य्-आश्रयं विना इत्य् अर्थः । अथ तत्र इत्य्-आदौ स्वकृतेऽपि तस्यापि हेतु-कर्तृत्वाद् योजनीयम् । तस्माद् अत्रापि स्वरूप-शक्तेर् एव प्राधान्यं147 दर्शितम् ।

अत एव ऋतेऽर्थं यत् प्रतीयेत [भा।पु। २.९.३४]148 इत्य्-आदौ मायाया आभास-स्थानीयत्वं प्रदर्श्य तद्-अस्पृश्यत्वम् एव भगवतो दर्शितम् । त्वम् आद्यः पुरुषः साक्षाद् इत्य्-आदौ मायां व्युदस्य चिच्-छक्त्या [भा।पु। १.७.२३]149 इत्य् अनेन च तथा ज्ञापितम् । माया परैत्य् अभिमुखे च विलज्जमाना [भा।पु। २.७.४७]150 इत्य् अनेन च ।

तद् एवं भगवति तद्-विरोधं परिहृत्य जीवेऽप्य् अविद्या-सम्बन्धत्वम् अतर्क्यत्वेन दर्शितया तन्-माययैव समादधति । ईश्वरस्य इति यद् इत्य् अनेनैव सम्बध्यते । अर्थ-वशाद् अत्र च तृतीयया परिणम्यते । यद् यया ईश्वरस्य स्वरूप-ज्ञानादिभिः समर्थस्य, अत एव विमुक्तस्य जीवस्य151 कार्पण्यं तत्-तत्-प्रकाश-तिरोभावस् तथा बन्धनं तद्-दर्शित-गुण-मय-जाल-प्रवेशश् च भवतीति । तद् उक्तम्—तत्-सङ्ग-भ्रंशितैश्वर्यम् [भा।पु। ६.५.१५] इति ।

तद् एतत् सर्वम् अभिप्रेत्य श्रुतयोऽप्य् आहुः—स यद् अजया त्व् अजाम् इत्य्-आदाव् अपेत-भग [भा।पु। १०.८७.३८, §२३] इति च ।

अत्र मूल-पद्ये भगवतो माया इत्य् अनेन भगवत्त्वं त्व् अमायिकम्152 इत्य् आयातम् । इन्द्रस्य मायेत्य् अत्र यथेन्द्रत्वम् । एवं पूर्वत्रापि ज्ञेयम् ।

[९१]

पुनर् अपि जीवस्य वस्तुतः स्वीय-तत्-तद्-अवस्थत्वाभावेऽपि भगवन्-माययैव तत्-तत्-प्रतीतिर् इति स-दृष्टान्तम् उपपादयति—

यद्-अर्थेन विनामुष्य
पुंस आत्म-विपर्ययः ।
प्रतीयत उपद्रष्टुः
स्व-शिरश्-छेदनादिकः ॥ [भा।पु। ३.७.१०]

यद् यस्याः153 । मायया हेतोर् अर्थेन विना अपि । यद्यपि तस्य त्रिकालम् एव सोऽर्थो नास्ति, तथाप्य् आत्म-विपर्यय आत्म-विस्मृति-पूर्वक-पराभिमानेनाहम् एव तद्-धर्मीत्य् एवं-रूपः सोऽर्थः स्यात् । उपद्रष्टुर् जीवस्य । तृतीयार्थे षष्ठी । स्वप्नावस्थायां जीवेन स्व-शिरश्-छेदनादिकोऽतीवासम्भवोऽर्थः प्रतीयते । न हि तस्य शिरश् छिन्नं, न तु वा स्व-शिरश् छेदं कोऽपि पश्येत् । किन्तु भगवन्-मायैवान्यत्र-सिद्धं तद्-रूपम् अर्थं तस्मिन्न् आरोपयतीति, माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात् [वे।सू। ३.२.३] इति न्यायेन ॥

[९२]

अत एव शुद्धस्यापि सतो जीवस्यौपाधिकेनैव रूपेणोपाधि-धर्मापत्तिर् इति दृष्टान्तान्तरेणोपपादयतीति—

यथा जले चन्द्रमसः
कम्पादिस् तत्-कृतो गुणः ।
दृश्यतेऽसन्न् अपि द्रष्टुर्
आत्मनोऽनात्मनो गुणः ॥ [भा।पु। ३.७.११]

यथा जले प्रतिबिम्बितस्यैव चन्द्रमसो जलोपाधि-कृतः कम्पादि-गुणो धर्मो दृश्यते न त्व् आकाश-स्थितस्य, तद्वद् अनात्मनः प्रकृत-रूपोपाधेर् धर्मः आत्मन शुद्धस्य असन्न् अपि “अहम् एव सोऽयम्” इत्य् आवेशान् माययोपाधि-तादात्म्यापन्नाहङ्काराभासस्य प्रतिबिम्ब-स्थानीयस्य तस्य द्रष्टुर् आध्यात्मिकावस्थस्यैव यद्यपि स्यात्, तथापि शुद्धोऽसौ तद्-अभेदाभिमानेन तं पश्यतीत्य् अर्थः । तद् उक्तम् एकादशे श्री-भगवता—

नृत्यतो गायतः पश्यन् यथैवानुकरोति ताम् ।
एवं बुद्धि-गुणान् पश्यन्न् अनीहोऽप्य् अनुकार्यते ॥**** [भा।पु। ११.२२.५३] इति ।

तथैवोक्तम्—शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः [भा।पु। ५.११.१२] इति । वि-शब्दस्य चात्र तद्-आवेश एव तात्पर्यं, तस्माद् भगवतोऽचिन्त्य-स्वरूपान्तरङ्ग-महा-प्रबल-शक्तित्वाद् बहिरङ्गया प्रबलयाप्य् अचिन्त्ययापि माययापि न स्पृष्टिः । जीवस्य तु तया स्पृष्टिर् इति सिद्धान्तितम् ॥

॥ ३.७ ॥ श्री-शुकः ॥ ८५-९२ ॥

[९३.१]

एवं सृष्ट्य्-आदि-लीला-त्रये सामान्ये योजितेऽपि पुनर् विशेषतः संशय्य सिद्धान्तः क्रियते स्थूणा-निखनन-न्यायेन ।

ननु पालन-लीलायां ये येऽवतारास् तथा तत्रैव स्व-प्रसाद-व्यञ्जक-स्मिताभय-मुद्रादि-चेष्टया सुर-पक्ष-पातो युद्धादि-चेष्टया दैत्य-संहार इत्य्-आदिका या या वा लीलाः श्रूयन्ते, ते च ताश् च स्वयं परमेश्वरेण क्रियन्ते न वा ?

आद्ये पूर्व-पक्षस् तद्-अवस्थ एव, प्रत्युत पक्ष-पातादिना वैषम्यं च । अन्ते तेषाम् अवताराणां तासां लीलानां च न स्वरूप-भूतता सिध्यतीति सम्प्रतिपत्ति-भङ्गः ।

[९३.२]

अत्रोच्यते—सत्यं विश्व-पालनार्थं परमेश्वरो न किञ्चित् करोति, किन्तु स्वेन सहैवावतीर्णान् वैकुण्ठ-पार्षदान् तथाधिकारिक-देवाद्य्-अन्तर्गतान् तथा तटस्थान् अन्यांश् च भक्तान् आनन्दयितुं स्वरूप-शक्त्याविष्कारेणैव नानावतारान् लीलाश् चासौ प्रकाशयति । तद् उक्तं पाद्मे—154

मुहूर्तेनापि संहर्तुं शक्तो यद्यपि दानवान् ।
मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः ॥
दर्शन-ध्यान-संस्पर्शैर् मत्स्य-कूर्म-विहङ्गमाः ।
स्वान्य् अपत्यानि पुष्णन्ति तथाहम् अपि पद्मज ॥ इति ।

हरि-भक्ति-सुधोदये—

नित्यं च पूर्ण-कामस्य जन्मानि विविधानि मे ।
भक्त-सर्वेष्ट-दानाय तस्मात् किं ते प्रियं वद ॥ [ह।भ।सु। १४.३१] इति ।

तथा श्री-कुन्ती-देवी-वचनं च—भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः [भा।पु। १.८.२०] इति । अत्र भक्ति-योग-विधानार्थं तद्-अर्थम् अवतीर्णं त्वाम् इति टीकानुमतं च। श्री-ब्रह्म-वचनं च—

प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले ।
प्रपन्न-जनतानन्द-सन्दोहं प्रथितुं प्रभो ॥ [भा।पु। १०.१४.३७]

स्वरूप-शक्त्यैवाविष्कारश् च श्री-ब्रह्मणैव दर्शितः—एष प्रपन्न-वरदो रमयात्म-शक्त्या यद् यत् करिष्यति गृहीत-गुणावतारः [भा।पु। ३.९.२३] इत्य्-आदिना । गृहीता गुणाः कारुण्यादयो यत्र तथाभूतोऽ_वतारो_ यस्येत्य् अर्थः ।

तद् एवं भक्तानन्दार्थम् एव तान् प्रकटयतस् तस्याननुसंहितम् अपि सुर-पक्ष-पातादि-विश्व-पालन-रूपं तन्-माया-कार्यं स्वत एव भवति । लोके यथा केचिद् भक्ताः परस्परं भगवत्-प्रेम-सुखोल्लासाय मिलिताः, तद्-अनभिज्ञान् अपि कांश्चिन् मार्दङ्गिकादीन् सङ्गृह्य तद्-गुण-गानानन्देनोन्मत्तवन् नृत्यन्तो विश्वेषाम् एवामङ्गलं घ्नन्ति, मङ्गलम् अपि वर्धयन्तीति । तद् उक्तं, वाग् गद्-गदा इत्य्-आदौ, मद्-भक्ति-युक्तो भुवनं पुनाति [भा।पु। ११.१४.२४]155 इति।

एवम् एवोक्तम्—

सृष्ट्य्-आदिकं हरेर् नैव प्रयोजनम् अपेक्ष्य तु ।
कुरुते केवलानन्दाद् यथा मर्त्यस्य नर्तनम् ॥ [नारायण-संहिता] इति ।

[९३.३]

न च वक्तव्यं स्वेन तेषां तैर् अपि स्वस्यानन्दने स्वतस् तृप्तता-हानिः स्यात्, तथान्यान् परित्यज्य च तेषाम् एवानन्दने वैषम्यान्तरम् अपि स्याद् इति । तत्राद्ये विशुद्धोर्जित-सत्त्व-तनुम् आश्रितेऽपि मुनि-जने स्वतस् तृप्ति-पराकाष्ठां प्राप्तो भक्त-वात्सल्य-दर्शनात् तद्-अनुचर एवासौ गुणो न तु तत्-प्रतिघातीति लभ्यते । यथा सर्वान् मुनीन् प्रति श्री-परीक्षिद्-वाक्यम्—

नेहाथ नामुत्र च कश्चनार्थ
ऋते परानुग्रहम् आत्म-शीलम् । [भा।पु। १.१९.२३]

तथा जड-भरत-चरितादौ—सिन्धु-पतय आत्म-सतत्त्वं विगणयतः परानुभावः परम-कारुणिकतयोपदिश्य [भा।पु। ५.१३.२४] इत्य्-आदि,

श्री-नारद-पूर्व-जन्मनि—चक्रुः कृपां यद्यपि तुल्य-दर्शनाः; शुश्रूषमाणे मुनयोऽल्प-भाषिणि [भा।पु। १.५.२४] इति च,

तथा श्री-कुन्ती-स्तवे—

नमोऽकिञ्चन-वित्ताय निवृत्त-गुण-वृत्तये ।
आत्मारामाय शान्ताय कैवल्य-पतये नमः ॥ [भा।पु। १.८.२७]

अकिञ्चना भक्ता एव वित्तं सर्वस्वं यस्य इति टीका च । ततोऽन्यथा156 चाकृतज्ञता-दोषश् च निर्दोषे भगवत्य् आपतति ।

[९३.४]

ततः सिद्धे तथा-विधस्यापि भक्त-वात्सल्ये भक्तानां दुःख-हान्या सुख-प्राप्त्या वा स्वानन्दो भवतीत्य् आयातम् एव ।

किं च, परम-सार-भूताया अपि स्वरूप-शक्तेः सार-भूता ह्लादिनी नाम या वृत्तिः, तस्या एव सार-भूतो वृत्ति-विशेषो भक्तिः, सा च रत्य्-अपर-पर्याया भक्तिर् भगवति भक्ते च निक्षिप्त-निजोभय-कोटिः सर्वदा तिष्ठति । अत एवोक्तं भगवान् भक्त-भक्तिमान् [भा।पु। १०.८६.५९] इति । तस्माद् भक्तस्थया तया भगवतस् तृप्तौ, न स्वतस् तृप्तिता-हानिः । प्रत्युत शक्तित्वेन स्वरूपतो भिन्नाभिन्नाया अपि तस्याः, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इति न्यायेन भक्त-चित्त-स्फुरिताया भेद-वृत्तेर् इव स्फुरणात्, भगवतो मां ह्लादयत्य् अस्य भक्तिर् इति, आनन्द-चमत्कारातिशयश् च भवति । शक्ति-तद्वतोर् भेद-मतेऽपि विशिष्टस्यैव स्वरूपत्वं सम्प्रतिपन्नम् ।

तद् एतत् सर्वम् अभिप्रेत्य भणितं दुर्वाससं प्रति श्री-विष्णुना—

अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज ।
साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः ॥
नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना ।
श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिर् अहं परा ॥
ये दारागार-पुत्राप्त- प्राणान् वित्तम् इमं परम् ।
हित्वा मां शरणं याताः कथं तांस् त्यक्तुम् उत्सहे ॥
मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः ।
वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा ॥
मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥
साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् ।
मद् अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ [भा।पु। ९.४.६३-६८] इति ।

अत्र ये दारागार- इति त्रयम् अकृतज्ञता-निवारणे साधवो हृदयं मह्यम् इति स्वतस् तृप्ति-परिहारे । भक्तेः स्वरूप-शक्ति-सार-ह्लादिनी-सारत्वे च अहं भक्त-पराधीन इति द्वयम् । तत्रैव भक्तेष्व् अपि भक्ति-रूपेण तत्-प्रवेशे सति विशेषतो मत्-सेवया प्रतीतम् इत्य् अपि ज्ञेयम् । ततो न प्राक्तनो दोषः ।

[९३.५]

द्वितीयेऽप्य् एवम् आचक्ष्महे । परानन्दने प्रवृत्तिर् द्विधा जायते—परतो निजाभीष्ट-सम्पत्त्यै, क्वचित् तद्-अभीष्ट-मात्र-सम्पत्त्यै च । तत्र प्रथमो नात्राप्य् अयुक्तः स्वात्मार्थ-मात्रतया कुत्रापि पक्ष-पाताभावात् । अत्रोत्तर-पक्षे पर-सुखस्य पर-दुःखस्य चानुभवेनैव परानुकूल्येनैव प्रवृत्तीच्छा जायते, न तु यत्-किञ्चिज्-ज्ञान-मात्रेण, चित्तस्य पर-दुःखास्पर्शे कृपा-रूप-विकारासम्भवात् ।

यथा कण्टक-विद्धाङ्गो जन्तोर् नेच्छति तां व्यथाम् ।
जीव-साम्यं गतो लिङ्गैर् न तथाविद्ध-कण्टकः ॥ [भा।पु। १०.१०.१४] इति न्यायात् ।

ततश् च सदा परमानन्दैक-रूपेऽपहत-कल्मषे भगवति प्राकृतस्य सुखाभिध-दुःखस्य प्रसिद्ध-दुःखस्य च सूर्ये पेचक-चक्षुर् ज्योतिष इव तमस इव चात्यन्ताभावात् तत्-तद्-अनुभवो नास्त्य् एव ।

यत् तु भगवति दुःख-सम्बन्धं परिजिहीर्षन्तोऽपि केचिद् एवं वदन्ति—तस्मिन् दुःखानुभव-ज्ञानम् अस्त्य् एव । तच् च परकीयत्वेनैव भासते, न तु स्वीयत्वेनेति । तद् अपि घट्ट-कुड्यां प्रभातम् । दुःखानुभवो नाम ह्य् अन्तः-करणे दुःख-स्पर्शः, स च स्वस्माद् भवतु, परस्माद् वेति, दुःख-सम्बन्धाविशेषात् । असर्वज्ञता-दोषश् च सूर्य-दृष्टान्तेनैव परिहृतः, प्रत्युत गुणत्वेनैव दर्शितश् च । तस्मात् तस्मिन् यत् किञ्चिद् दुःख-ज्ञानम् अस्तु, दुःखानुभवस् तु नास्त्य् एव । यत एव कर्तुम् अकर्तुम् अन्यथा-कर्तुं समर्थे परम-करुणा-मय-निचय-शिरोमणौ तस्मिन् विराजमानेऽप्य् अद्यापि जीवाः संसार-दुःखम् अनुभवन्तीत्य् अत्र नैर्घृण्य-परिहारश् च भवति । यत् तु भक्तानां सुखं तत् तस्य भक्ति-रूपम् एव, तथा तेषां दुःखं भगवत्-प्राप्त्य्-अन्तरायेणैव भवति, तत्र चाधिका भगवत्य् एव चित्तार्द्रता जायते, सा च भक्तिर् एवेति ।

क्वचिद् गजेन्द्रादीनाम् अपि प्राकृत एव दुःखे “स एव मम शरणम्” इत्य्-आदिना तथैव भक्तिर् उद्भूतैवेति । क्वचिद् यमलार्जुनादिषु श्री-नारदादि-भक्तानां भक्तिः स्फुटैवेति च सर्वथा दैन्यात्मक-भक्त-भक्त्य्-अनुभव एव तं करुणयति, न तु प्राकृतं दुःखं, योग्ये कारणे सत्य् अयोग्यस्य कल्पनानौचित्यात्, दुःख-सद्-भावस्यैव कारणत्वे सर्व-संसारोच्छित्तेः ।

अथ तस्य परम्परा-कारणत्वम् अस्त्य् एव चेत्—अस्तु, न कापि हानिर् इति । तस्माद् उभयथा भक्तानन्दने तद्-भक्त्य्-अनुभव एव भगवन्तं प्रवर्तयतीति सिद्धम् ।

तत एतद् उक्तं भवति—यद्य् अन्यस्य सुख-दुःखम् अनुभूयापि तत्-तत्-परित्यागेनेतरस्य सुखं दुःख-हानिं वा सम्पादयति, तदैव वैषम्यम् आपतति । श्री-भगवति तु प्राकृत-सुख-दुःखानुभवाभावान् न तद् आपतति, यथा कल्प-तरौ । तद् उक्तं श्रीमद्-अक्रूरेण—

न तस्य कश्चिद् दयितः सुहृत्तमो
न चाप्रियो द्वेष्य उपेक्ष्य एव वा ।
तथापि भक्तान् भजते यथा तथा
सुर-द्रुमो यद्वद् उपाश्रितोऽर्थदः ॥ [भा।पु। १०.३८.२२] इति ।

अत्र भक्ताद् अन्य एव कश्चिद् इति ज्ञेयम् । कः पण्डितस् त्वद्-अपरं शरणं समीयाद् भक्त-प्रियाद् ऋत-गिरः सुहृदः कृतज्ञात् [भा।पु। १०.४८.२६] इत्य् एतत् तद्-वाक्येनैव तत्-प्रियत्व-प्रोक्तेः । श्री-महादेवेनाप्य् उक्तम्—

न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परोऽपि वा ।
आत्मत्वात् सर्व-भूतानां सर्व-भूत-प्रियो हरिः ॥
तस्य चायं महा-भागश् चित्रकेतुः प्रियोऽनुगः ।
सर्वत्र सम-दृक् शान्तो ह्य् अहं चैवाच्युत-प्रियः ॥ [भा।पु। ६.१७.३३-३४]

तथोक्तं श्री-प्रह्लादेनापि—

चित्रं तवेहितम् अहोऽमित-योगमाया-
लीला-विसृष्ट-भुवनस्य विशारदस्य ।
सर्वात्मनः समदृशोऽविषमः स्वभावो
भक्त-प्रियो यद् असि कल्पतरु-स्वभावः ॥ [भा।पु। ८.२३.८] इति ।

अर्थश् च—यत् त्वं भक्त-प्रियोऽसि सोऽपि समदृशस् तव स्वभावोऽविषमः विषमो न भवति । तत्र हेतु-गर्भ-विशेषणं—कल्पतरु-स्वभाव इति । तस्माद् विषम-स्वभावतया प्रतीतेऽपि त्वय्य् अवैषम्यम् इत्य् अतीव चित्रम् इति ।

अथवा, परत्रापि कल्प-वृक्षादि-लक्षणे समान एवाश्रयणीये वस्तुनि भक्त-पक्ष-पात-रूप-वैषम्य-दर्शनात् तद् वैषम्यम् अपि समस्यैव स्वभाव इत्य् लब्धे तद्-अपरिहार्यम् एवेति सिद्धान्तयितव्यम् । ततश् च विषम-स्वभाव इत्य् एवं व्याख्येयम् । तथा पूर्वत्रापि भक्तान् भजते [भा।पु। १०.३८.२२] इति वैषम्य एव योजनीयम् इति । वस्तुतस् तु श्री-भगवत्य् अचिन्त्यम् ऐश्वर्यम् एव मुख्यस् तद्-अविरोधे हेतुः । यद् उक्तम्—नमो नमस् तेऽस्त्व् ऋषभाय सात्वताम् [भा।पु। २.४.१४] इत्य्-आदौ द्वितीयस्य चतुर्थे । टीकायाम्—तद् एवं वैषम्य-प्रतीताव् अप्य् अदोषत्वायाचिन्त्यम् ऐश्वर्यम् आह इति । तद् उक्तं श्री-भीष्मेण—

सर्वात्मनः सम-दृशो ह्य् अद्वयस्यानहङ्कृतेः ।
तत्-कृतं मति-वैषम्यं निरवद्यस्य न क्वचित् ॥
तथाप्य् एकान्त-भक्तेषु पश्य भूपानुकम्पितम् ।
यन् मेऽसूंस् त्यजतः साक्षात् कृष्णो दर्शनम् आगतः ॥ [भा।पु। १.९.२१-२२] इति ।

तथा श्री-भगवता—

समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता ९.२९] इति ।

तद् एवं तत्-तद्-अदोषे157 भक्त-पक्ष-पातस्य स्वरूप-शक्ति-सार-भूतत्वे भक्त-विनोदार्थम् एव स्वरूप-शक्त्यैव स्वयम् एव च तत्-तद्-अवतार-लीलाः करोति भगवान्, ततो विश्व-पालनं तु स्वयम् एव सिध्यतीति स्थिते, न वैदुर-प्रश्नस् तद्-अवस्थः । अत्र देवादीनां प्राकृततया तैः सह लीलायां158 स्वतस् तृप्तता-हानिस् तेषु तद्-अंशावेशादि-स्वीकारेणाग्रे [§] परिहर्तव्या ।

[९३.६]

तथा न चावतारादीनां स्वरूप-शक्त्य्-आत्मता-हानिः । तथा भक्त-विनोदैक-प्रयोजनक-स्वैर-लीला-कैवल्येन159 चान्यत्र राग-द्वेषाभावान् न वैषम्यम् अपि, प्रत्युत पित्त-दूषित-जिह्वानां खण्डाद् वैरस्य इव तस्मान् निग्रहेऽप्य् अनुभूयमाने तेषां दुष्टतादि-क्षपण-लक्षणं हितम् एव भवति । अत्र,

न ह्य् अस्य जन्मनो हेतुः कर्मणो वा महीपते ।
आत्म-मायां विनेशस्य परस्य द्रष्टुर् आत्मनः ।
यन् मया चेष्टितं पुंसः स्थित्य्-उत्पत्त्य्-अप्ययाय हि ।
अनुग्रहस् तन्-निवृत्तेर् आत्म-लाभाय चेष्यते ॥ [भा।पु। ९.२४.५७-५८]

इति नवमान्तस्थ-श्री-शुक-वाक्यानुसारेण प्रलये लीनोपाधेर् जीवस्य धर्माद्य्-असम्भवाद् उपाधि-सृष्ट्य्-आदिना, धर्मादि-सम्पादनेनानुग्रह इति तदीय-टीकानुसारेण च । तथा,

लोके भवान् जगति नः कलयावतीर्णः
सद्-रक्षणाय खल-निग्रहणाय चान्यः ।
कश्चित् तदीयम् अभियाति निदेशम् ईश
किं वा जनः स्व-कृतम् ऋच्छति तन् न विद्मः ॥ [भा।पु। १०.७०.२७]

इति जरासन्ध-बद्ध-राज-वृन्द-निवेदनेऽपि ईश्वरे, त्वयि सद्-रक्षणार्थम् अवतीर्णेऽपि चेद् अस्माकं दुःखं स्यात्, तर्हि किम् अन्यः कश्चिज् जरासन्धादिस् त्वद्-आज्ञाम् अपि लङ्घयति, किं च त्वया वक्ष्यमाणोऽपि जनः स्व-कर्म-दुःखं प्राप्नोतीत्य् एवेति न विद्मः । न चैतद् उभयम् अपि युक्तम् इति भावः । इति तदीय-टीकानुसारेण च लीलायाः स्वैरत्वेऽपि दुर्घटनी मायैव तदा तदा देवानुसरादीनां तत्-तत्-कर्मोद्बोध-सन्धानम् अपि घटयति । यया160 स्व-स्व-कर्मणा पृथग् एव चेष्टमानानां जीवानां चेष्टा-विशेषाः परस्पर-शुभाशुभ-शकुनतया घटिता भवतीत्य् आदिकं लोकेऽपि दृश्यते । यत्र तु क्वचिद् एषा तल्-लीला-जवम् अनुगन्तुं न शक्नोति, तत्रैव परमेशितुः स्वैरता व्यक्तीभवति । यथा—

गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् ।
आनयस्व महाराज मच्-छासन-पुरस्कृतः ॥ [भा।पु। १०.४५.४५]

इति यम-विषयक-श्री-भगवद्-आदेशादौ । ततश् च तस्यातिविरल-प्रचारत्वान् न सर्वत्र कृत-हान्य्-अकृताभ्यागम-प्रसङ्गश् च ।

अथ यदि केचिद् भक्तानाम् एव द्विषन्ति, तदा तदा भक्त-पक्ष-पातान्तःपातित्वाद् भगवता स्वयं तद्-द्वेषेऽपि न दोषः, प्रत्युत भक्त-विषयक-तद्-रतेः पोषकत्वेन ह्लादिनी-वृत्ति-भूतानन्दोल्लास-विशेष एवासौ । येन हि द्वेषेण प्रतिपद-प्रोन्मीलत्-सान्द्रानन्द-वैचित्री-समतिरिक्त-भक्ति-रस-मरुस्थल-ब्रह्म-कैवल्यापादान-रूपत्वेन तदीय-भक्ति-रस-महा-प्रतियोगितया ततोऽन्यथा दुश्चिकित्सतया च तत्रोचितम् । तद्-उत्थ-भगवत्-तेजसा तत्-स्वरूप-शक्तेर् अपि तिरस्कारेण ध्वंसाभाव-तुल्यम्,161 स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः [भा।पु। ६.१७.२८] इति न्यायेनान्येषाम् अतीव दुःसहं, तेषाम् अपि कामुकानां निकामम् अनभीष्टम् उद्दण्ड-दण्ड-विशेषं कुर्वत्य् एव भगवति तस्य सर्व-हित-पर्यवसायि-चारित्र-स्वभावत्वाद् एव तत्-तद्-दुर्वार-दुर्वासना-मयाशेष-संसार-क्लेश-नाशोऽपि भवति ।

यः खल्व् अभेदोपासकानाम् अतिकृच्छ्र-साध्यः पुरुषार्थः क्वचिच् च परमार्थ-वस्त्व्-अभिज्ञानां नरक-निर्विशेषं तेषां कामिनां तु निकामम् अभीष्टं विट्-कीटानाम् इवामेध्यं स्वर्ग-विशेषं तेभ्यो ददाति, स परमेश्वरः ।

अत एवोक्तं नागपत्नीभिः—रिपोः सुतानाम् अपि तुल्य-दृष्टेर् धत्से दमं फलम् एवानुशंसन् [भा।पु। १०.१६.३३] इत्य् अर्थः । दमम् इति यतो दम अपीत्य् अर्थः । यत् तु पूतनादाव् उत्तम-भक्त-गतिः श्रूयते, तद्-भक्तानुकरण-माहात्म्येनैवेति तत्र तत्र स्पष्टम् एव, यथा सद्-वेषाद् अपि पूतनापि सकुला [भा।पु। १०.१४.३५] इत्य्-आदि ।

अथ यदि केचिद् भक्ता एव सन्तो भक्तान्तरेषु कथञ्चिद् अपराध्यन्ति, तदा तेनैवापराधेन भक्तेषु भगवति च विवर्तमानं द्वेष-बाडवानल-ज्वाला-कलापम् अनुभूय चिरात् कथञ्चित् पुनः सद्-वेषेणापि भगवत्-संस्पर्शादिना स-परिकरे तद्-अपराध-दोषे विनष्टे स्व-पदम् एव प्राप्नुवन्ति, न तु ब्रह्म-कैवल्यम्, भक्ति-लक्षण-बीजस्यानश्वर-स्वभावत्वात् । तेषु भगवतः क्रोधश् च बालेषु मातुर् इवेति । तस्मात् सर्वं समञ्जसम् ।

तथा हि श्री-राजोवाच—

समः प्रियः सुहृद् ब्रह्मन्
भूतानां भगवान् स्वयम् ।
इन्द्रस्यार्थे कथं दैत्यान्
अवधीद् विषमो यथा ॥ [भा।पु। ७.१.१]

परमात्मत्वेन समः सुहृत् हित-कारी, प्रियः प्रीति-विषयो भगवान् । एवं सति साम्येनैवोपकर्तव्यत्वेन प्रीति-विषयत्वेन, न च सर्वेष्व् एव प्राप्तेषु कथं विषम इव दैत्यान् अवधीत् ? विषमत्वम् उपलक्षणम् । असुहृदि वा प्रिय इव चेति ॥

[९४]

किं च, यस्य यैः प्रयोजनं सिध्यति, स तत्-पक्षपाती भवति । येभ्यो बिभेति, तान् द्वेषेण हन्ति, न तु तद् अत्रास्तीत्य् आह—

न ह्य् अस्यार्थः सुर-गणैः
साक्षान् निःश्रेयसात्मनः ।
नैवासुरेभ्यो विद्वेषो
नोद्वेगश् चागुणस्य हि ॥ [भा।पु। ७.१.२]

निःश्रेयसं परमानन्दः ॥

[९५]

अतः—

इति नः सुमहा-भाग
नारायण-गुणान् प्रति ।
संशयः सुमहान् जातस्
तद् भवांश् छेत्तुम् अर्हति ॥ [भा।पु। ७.१.३]

गुणान् अनुग्रह-निग्रहादीन् प्रति तत्-तत्-संशयम्

[९६]

अत्र श्री-ऋषिर् उवाच—

साधु पृष्टं महाराज
हरेश् चरितम् अद्भुतम् ।
यद् भागवत-माहात्म्यं
भगवद्-भक्ति-वर्धनम् ॥ [भा।पु। ७.१.४]

हे महाराज ! इदं यत् पृष्टं तत् साधु सुविचारितम् एव । किन्तु हरेश् चरितम् अद्भुतम् अपूर्वम्, अवैषम्येऽपि विषमतया प्रतीयमानत्वेन विचारातीतत्वात् । यद् यत्र हरेश् चरित्रे भगवद्-भक्ति-वर्धनं भागवत-माहात्म्यं भागवतानां प्रह्लादोपलक्षित-भक्त-वृन्दानां माहात्म्यं वर्तते । अनेन भागवतार्थम् एव सर्वं करोति भगवान्, न त्व् अन्यार्थम् इत्य् अस्यैवार्थस्य पर्यवसानं भविष्यतीति व्यञ्जितम् । टीका च—

स्व-भक्त-पक्ष-पातेन तद्-विपक्ष-विदारणम् ।
नृसिंहम् अद्भुतं वन्दे परमानन्द-विग्रहम् ॥ इत्य् एषा ।

[९७]

अतो—

गीयते परमं पुण्यम्
ऋषिभिर् नारदादिभिः ।
नत्वा कृष्णाय मुनये
कथयिष्ये हरेः कथाम् ॥ [भा।पु। ७.१.५]

परमं पुण्यं यथा स्यात् तथा या गीयते तां कथाम् इति यत्-तदोर् अध्याहारेणान्वयः । अत्र च तैर् गीयमानत्वेन भक्तैक-सुख-प्रयोजनत्वम् एव व्यञ्जितम् ॥

[९८]

तत्र तत्र तावद् व्यञ्जितार्थानुरूपम् एव प्रश्नस्योत्तरम् आह—

निर्गुणोऽपि ह्य् अजोऽव्यक्तो
भगवान् प्रकृतेः परः ।
स्व-माया-गुणम् आविश्य
बाध्य-बाधकतां गतः ॥ [भा।पु। ७.१.६]

यस्मात् प्रकृतेः परः, तस्मान् निर्गुणः प्राकृत-गुण-रहितः । तत एव अजो नित्य-सिद्धः। तत एव च अव्यक्तः, प्राकृत-देहेन्द्रियादि-रहितत्वान् नान्येन व्यज्यते इति स्वयं-प्रकाश-देहादिर् इत्य् अर्थः । ततश् च प्रकृति-गुणोत्थ-राग-द्वेषादि-रहितश् चेति भावः । एवम् एवम्-भूतोऽपि स्वेषु भक्तेषु या माया कृपा तत्रोचितो यो गुणो लीला-कौतुक-मय-विशुद्धोर्जित-सत्त्वाख्यः, तम् आविश्य आलम्ब्य भगवान् नित्यम् एव प्रकाशित-षड्-गुणैश्वर्यः सन्, एतद् अप्य् उपलक्षणं कदाचिद् इत्य् आदौ जातः सन्, लोकेन्द्रियेषु व्यक्तोऽपि सन्, बाध्य-बाधकतां गतः, निज-दृष्टि-पथेऽपि स्थातुम् असमर्थेषु अतिक्षुद्रेषु देवासुरादिषु स्व-साहाय्य-प्रतियोद्धृत्व-सम्पादनाय स्वयं सञ्चारितं किञ्चित् तद्-अंश-लक्षणम् एव तेजः समाश्रित्य बाध्यतां बाधकतां च गतः । युद्ध-लीला-वैचित्र्याय प्रतियोद्धृषु तदानीं स्वस्मिन् प्रकाश्यमानाद् अपि तेजसोऽधिकं तेजोऽंशं सञ्चार्य बाध्यतां पराजयं, कदाचित् तु तस्मान् नूनं सञ्चार्य बाधकतां जयं प्राप्त इत्य् अर्थः । स्यात् कृपा-दम्भयोर् माया इति विश्व-प्रकाशः ।

अत्र सत्य् अप्य् अर्थान्तरे भागवतानुग्रह-प्रयोजनत्वेनैवोपक्रान्तत्वाद् उपसंहरिष्यमाणत्वाच् च गति-सामान्याच् च छल-मय-मायया तत्-तत्-कर्तृत्वेऽप्य् अधिक-दोषापाताच् च तन् नापेक्षते । तस्माद् भक्त-विनोदैक-प्रयोजनक-स्वैर-लीला-कैवल्येनान्यत्र राग-द्वेषाभावान् नात्र वैषम्यम् इति भावः । अत एव बाध्यताम् अपि यातीति बाधकतया सहैवोक्तम् । तथा निज-स्वरूप-शक्ति-विलास-लक्षण-लीलाविष्कारेण सर्वेषाम् एव हितं पर्यवस्यतीति सुहृत्त्वादिकं च नापयातीति ध्वनितम् ॥

[९९]

अथ कथं सोऽपि विशुद्ध-सत्त्वाख्यो गुणः प्राकृतो न भवति ? कदा वा कुत्र तं वीर्यातिशयं सञ्चारयति ? कथां वा कृत-हान्य-कृताभ्याभ्यागम-प्रसङ्गो न भवति ? इत्य् आदिकम् आशङ्क्याह द्वाभ्याम्—162

सत्त्वं रजस् तम इति प्रकृतेर् नात्मनो गुणाः ।
न तेषां युगपद् राजन् ह्रास उल्लास एव वा ॥ [भा।पु। ७.१.७]

सत्त्वादयो गुणाः प्रकृतेर् एव नात्मनः । आत्मनः परमेश्वरस्य तस्य तु ये सर्वेऽपि नित्यम् एवोल्लासिनो गुणाः, ते तु ते न भवन्तीत्य् अर्थः । तद् उक्तम्—

सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥ [वि।पु। १.९.४४] इति ।
ह्लादिनी सन्धिनी सम्वित् त्वय्य् एका सर्व-संस्थितौ ।
ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि।पु। १.१२.६९] इति च163

यस्मान् नात्मनस् ते, तस्माद् एव युगपत् ह्रास एव वा उल्लास एव वा नास्ति, किन्तु विकारित्वेन परस्परम् अभ्युपमर्दित्वात्164 कस्यचित् कदाचित् ह्रासः, कस्यचित् कदाचिद् उल्लासो भवतीत्य् अर्थः ॥

[१००]

ततश् च देवादीनां तत्-साहाय्ये सुरादीनां च तद्-युद्धे योग्यतां दर्शयति । तथा सत्त्वाद्य्-उल्लास-काले तल्-लीलायास् तद्-अधीनत्वम् इव यत् प्रतीयते, तद् अनुवदन् परिहरति—

जय-काले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् ।
तमसो यक्ष-रक्षांसि तत्-कालानुगुणोऽभजत् ॥ [भा।पु। ७.१.८]

सत्त्वस्य जय-काले देवान् ऋषींश्अभजत् भजति भगवान् तत्-प्रकृति-तत्-तद्-देहेषु165 सत्त्वोपाधिकं निज-तेजः सञ्चारयति, येन च तान् सहायमानान् करोतीत्य् अर्थः । एवं रजसो जय-काले असुरेषु रज-उपाधिकं, तमसो जय-काले यक्ष-रक्षःसु तम-उपाधिकम् इति योजनीयम्, ततश् च येन तान् यक्षादीन्166 प्रतियोद्धॄन् कुर्वन् देवादीन् पराजितान् करोति, स्वम् अपि तथा दर्शयतीत्य् अर्थः । तद् एवं भक्त-रस-पोष-लीला-वैचित्र्याय बाध्य-बाधकतां यातीति दर्शितम् । यच् च क्षीरोद-मथने श्रूयते—

तथा सुराण् आविशद् आसुरेण
रूपेण तेषां बल-वीर्यम् ईरयन् ।
उद्दीपयन् देव-गणांश् च विष्णुर्
देवेन नागेन्द्रम् अबोध-रूपः ॥ [भा।पु। ८.७.११] इति ।

अत्रापि तद्-वैचित्र्यार्थम् एव तथा तत्-तद्-आवेशस् तस्येति लभ्यते ।

नन्व् आयाता तस्य तत्-तद्-गुणोद्बोधक-काल-पारवश्येन स्वैर-लीला-हानिः । ततश् च गुण-सम्बन्धातिशये वैषम्यादिकं च स्पष्टम् एवेत्य् आशङ्क्याह—तत्-कालानुगुण इति । तेषां सत्त्वादीनां काल एवानुगुणो यस्य सः, भगवच्-छरण इतिवत् समासः । स्वैरम् एव क्रीडति तस्मिन् नित्यम् एव तद्-अनुगतिकया मायया यया तद्-अनुसारेणैवानादि-सिद्ध-प्रवाहं तं तं जगत्-कर्म-समुदायं प्रेर्य, स्व-वृत्ति-विशेष-रूपत्वेन प्रवर्त्यमानः सत्त्वादि-गुणानां काल एव तद्-अधीनो भवतीत्य् अर्थः ।

कालस्य माया-वृत्तित्वम् उदाहृतं कालो दैवम् [भा।पु। १०.६३.२६, §५३] इत्य्-आदौ, त्वन्-मायैषा इति । यद् वा, तेषां कालोऽपि सदानुगतो भक्तानुग्रह-मात्रार्थ-स्वैर-चेष्टात्मक-प्रभाव-लक्षणो गुणो यस्य स इत्य् अर्थः । ततोऽपि तच्-चेष्टानुसारेणैव मायया तत्-तत्-प्रवर्तनम् इति भावः । यद् उक्तम्—

योऽयं कालस् तस्य तेऽव्यक्त-बन्धो
चेष्टाम् आहुश् चेष्टते येन विश्वम् ॥ [भा।पु। १०.३.२६, भ।सं। §२७] इति ।

तथा चोभयथापि न पारवश्यम् इत्य् आयातम् । इत्थम् एव श्री-कपिल-देवोऽपि—यः कालः पञ्च-विंशकः [भा।पु। ३.२६.१५] इति, प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम् [भा।पु। ३.२६.१६] इति च । तत्र माया-व्यङ्ग्यत्व-पुरुष-गुणत्व-लक्षण-मत-द्वयम् उपन्यस्तवान् । अत्र तस्य चेष्टा प्रभावस्य भक्त-विनोदायैव मुख्या प्रवृत्तिः । गुणोद्बोधादि-कार्यं तु तत्र स्वत एव भवतीति तत्र प्रवृत्त्य्-आभास एव । ततश् च पूर्वोऽंशः स्वयम् एवेति स्वरूप-शक्तेर् एव विलासः परस् तद्-आभास-रूप एवेत्य् आभास-शक्तेर् मायाया एवान्तर्गतः । योऽयं काल [भा।पु। १०.३.२६] इत्य्-आदौ, निमेषादिर् इत्य्-उक्तिस् तु द्वयोर् अभेद-विवक्षयैवेति ज्ञेयम् ।

अत एवं167 व्याख्येयं—यथा भृत्यस्यानुगतो भृत्योऽनुभृत्यः, तथात्र प्रभाव-लक्षणस्य गुणस्यानुगत आभास-रूपो गुणोऽनुगुणः । तथा च तेषां कालोऽप्य् अनुगुणो न तु साक्षाद् गुणो यस्येति ॥

[१०१]

ननु तेषु तेषु तेनावेश्यमानं तेजः कथं न लक्ष्यते ? तत्राह—

ज्योतिर्-आदिर् इवाभाति सङ्घातान् न विविच्यते ।
विदन्त्य् आत्मानम् आत्म-स्थं मथित्वा कवयोऽन्ततः ॥ [भा।पु। ७.१.९]

यद्यपि तेषु तेषु निज-तेजोऽंशेनाविष्टोऽसौ सङ्घातात् सम्मिश्रत्वात् न विविच्यते लोकैर् विवेक्तुं न शक्यते, तथापि कवयो विवेक-निपुणा अन्ततो मथित्वा तस्यापि साहाय्यं तेनापि युद्धम् इत्य् आदिकासम्भवार्थ-निषेधेन विविच्य, तद्-अंशेन आत्मस्थं तत्-तद्-आत्मनि प्रविष्टम् आत्मानम् ईश्वरं विदन्ति जानन्ति । तत्र हेतु-गर्भो दृष्टान्तः—यस्मात् तत्-तेजः ज्योतिर्-आदि-पदार्थ इवाभाति द्रष्टृष्व् इति विशेषः168

अयम् अर्थः—यथा नेदं मणेस् तेजः पूर्वम् अदर्शनात्, किन्तु तदातप-संयोगेन सौरं तेज एवात्र प्रविष्टम् इति सूर्य-कान्तादौ तृणादि-दाहेन169 तद्-अनुभविषु तदा भाति । यथा च पूर्ववद् एव वायोर् अयं गन्धः पार्थिव एव प्रविष्ट इति तेष्व् आभाति, तथात्रापीति ।

अथवा, नन्व् एवं तत्र तत्रावेशितैः स्व-तेजोभिर् एव क्रीडतीत्य् आयातम् ? कथं तर्हि तैर् अपि क्रीडतीति दृश्यते ? तत्राह—ज्योतिर् इति । यथा चक्षुर्-आदि-ज्योतिर्भिः स्वांशे रूप-मात्रेऽपि प्रकाश्यमाने गन्धादि-गुण-पञ्चका मृद् एवासौ प्रकाशत इति प्रतीयते, यथा च कर्णादि-नभसा स्वांशे शब्द-मात्रेऽपि गृह्यमाने दुन्दुभिर् एवासाव् इति प्रतीयते, तच् च तत्-तद्-गुणानां संमिश्रत्वाद् एव भवति, न वस्तुतः । तथा कवय आत्मानम् ईश्वरं तत्-तत्-सङ्घात-स्थत्वेनान्यैर् अविविक्तम्170 अपि आत्म-स्थं स्वांश-तेजोभिर् एव क्रीडन्तं जानन्तीत्य् अर्थः ॥

[१०२]

तद् एवं युद्धादि-निज-लीलाभिर् भक्त-विनोदनम् एव प्रयोजनं, विश्व-पालनं तु ततः स्वत एव सिद्ध्यतीत्य् उक्त्वा,171 सृष्टि-प्रलययोः प्रकृतीक्षणादाव् अपि सर्वाशङ्क-निरासार्थम् अतिदिशन् त्रिष्व् अप्य् अविशेषम् आह—

यदा सिसृक्षुः पुर आत्मनः परो
रजः सृजत्य् एष पृथक् स्व-मायया ।
सत्त्वं विचित्रासु रिरंसुर् ईश्वरः
शयिष्यमाणस् तम ईरयत्य् असौ ॥ [भा।पु। ७.१.१०]

यदा यत्र स्व-चेष्टा-लक्षणे काले एष परः परमेश्वरः स्व-मायया भक्त-कृपया आत्मनः पुरः प्राचीन-सृष्टि-गत-साधक-भक्त-रूपाणि स्वस्याधिष्ठानानि सिसृक्षुर् भवति, प्रकृत्या सह तेषु लीनेषु आविर्भावनार्थाम् ईक्षां करोति, तदा पृथक् स्वरूप-शक्तेर् इतरासौ जीव-मायाख्या शक्तिः पूर्ववत् तच्-चेष्टात्मक-प्रभावाभासोद्दीप्ता रजः सृजति, स्वांश-भूताद् गुण-त्रय-साम्याद् अव्यक्तात् तद् विक्षिपति, उद्बोधयतीति वा । यद् वा, पृथङ्-मायानुगत एष काल एव सृजति तथा असौ-पदेन च काल एवोच्यते ।

अथ विचित्रासु नाना-गुण-वैचित्री-मतीषु तल्-लक्षणासु पूर्षु यदा [रिरंसुः] रन्तुम् इच्छुर् भवति, तदासौ सत्त्वं सृजति, यदा पुनस् ताभिर् एव मिलित्वा शयिष्यमाणः, शयितुम् इच्छुर् भवतीत्य् अर्थः, तदासौ तमः सृजतीति । ततो भक्त-निमित्तम् एव सर्वा एव सृष्ट्य्-आदि-क्रियाः प्रवर्तन्ते इति भावः । यथाङ्गीकृतम् एकादशस्य तृतीये, ससर्जोच्चावचान्य् आद्यः स्व-मात्रात्म-प्रसिद्धये [भा।पु। ११.३.३] इत्य् अत्र टीका-कृद्भिर् अपि—

किम्-अर्थं ससर्ज ? स्व-मात्रात्म-प्रसिद्धये । स्वं मिमीते प्रमिमीते य उपास्ते स स्व-माता । तस्यात्मनो जीवस्य प्रकृष्टायै सिद्धये ॥ इति ।

शयनम् अत्र पुरुषावतारस्य कदाचित् प्रलयोदधौ योग-निद्रा, कदाचिद् भगवत्-प्रवेशो वा । यद्यपि सर्वेष्व् अपि जीवेषु अन्तर्यामितया परमेश्वरस् तिष्ठति, तथापि तत्रासंसक्तत्वाद् अस्थित एव भवति, तद्-भक्तेषु तु समासक्तत्वान् न तथेति । न च तत्-सङ्गादौ तस्येच्छेति यथोक्त-व्याख्यानम् एव बलवत् । तथा च श्री-भगवद्-उपनिषदः—

मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ।
न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ [गीता ९.४-५] इति
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता ९.२९] इति च ।

उक्तं च हरि-भक्ति-सुधोदये—

भक्तानां हृदयं शान्तं सश्रियो मे प्रियं गृहम् ।
वसामि तत्र शोभैव वैकुण्ठाख्यादि-वर्णना ॥172 [ह।भ।सु। १४.५७] इति ।

[१०३]

एवं प्रसङ्गेन सृष्टि-प्रलयाव् अपि व्याख्याय पुनः पालनम् एव व्याचक्षाणः प्रकरणम् उपसंहरति सार्धेन—

कालं चरन्तं सृजतीश आश्रयं
प्रधान-पुम्भ्यां नर-देव सत्य-कृत् ।
य एष राजन्न् अपि काल ईशिता
सत्त्वं सुरानीकम् इवैधयत्य् अतः ।
तत्-प्रत्यनीकान् असुरान् सुर-प्रियो
रजस्-तमस्कान् प्रमिणोत्य् उरुश्रवाः ॥ [भा।पु। ७.१.११]

सत्य-कृत् स्वरूप-शक्ति-विलासेनैव स्वयं परमार्थ-सत्य-क्रियाविर्भावक एव सन्, स्व-चेष्टा-रूपं कालं सृजति व्यञ्जयति । किं कुर्वन्तं ? प्रधान-पुंभ्यां चरन्तं,173 तत्-तत्-सम्बन्धानां साधक-भक्तानां देवादि-प्रविष्टं निज-तेजोऽंशानां च साहाय्य-हेतोर् एव सृज्यमानतया उत्पत्त्यैवाव्यक्त-जीव-सङ्घाताभ्यां चरन्तम्, अत एव सन्निधानेनैव तयोस् तत्-तद्-अवस्थानाम् आश्रयम् उद्भव-हेतुं च । नर-देव इति सम्बोधनेन यथा निजेहया मुख्यम् एव कार्यं कुर्वतस् तव तयैवान्यद् अपि क्षुद्रतरं स्वयम् एव सिध्यति, तद्वद् इहापीति बोधितम् ।

ततो य एष चेष्टा-रूपः कालःसत्त्वं सत्त्व-प्रधानं सुरानीकम् एधयतीव, तत एव तत्-प्रत्यनीकान् रजस्-तमः-प्रधानान् असुरान् प्रमिणोति इव हिनस्तीव, ये तु देवेषु भक्ता असुरेषु भक्त-द्वेषिणस् तान् स्वयं पालयति हिनस्ति चैवेति पूर्वम् एवोक्तम् । यस्मात् तच्-चेष्टा-लक्षणस्य कालस्यैवं वार्ता, तस्माद् ईशितापि एधयतीव प्रमिणोतीव चेति । हे राजन्न् इति पूर्वाभिप्रायम् एव ।

ननु यदि चेशितुः प्रयोजनं न भवति, तर्हि कथं कदाप्य् असुरान् अपि स्व-पक्षान् विधाय देवैर् न युध्येत ? तत्राह—सुर-प्रियः, सुरेषु वर्तमानाः प्रिया भक्ता यस्य सः । सत्त्व-प्रधानेषु सुरेषु प्रायशस् तेषां सर्वेषाम् अनुगमनेनैव तस्यानुगमनम् । कदाचिद् बृहस्पत्य्-आदिषु महत्स्व् अपराधे तु येषां मालिन्येन सुरत्वाच्छादनात्, तेषां तस्य चैतेष्व् अननुगमनं स्याद् इति, जय-काले तु सत्त्वस्य [भा।पु। ७.१.८] इत्य्-आद्य् उक्तम् इति भावः ।

ननु कथं तेऽपि तान् नानुगच्छन्ति ? तत्राह—रजस्-तमस्कान् इति । अत्यन्त-भगवद्-बहिर्मुखता-करयोस् तयोर् गुणयोर् अरोचकत्वाद् एवेति भावः । तर्ह्य् असौ सदैवासुराणां निग्रहम् एव करोतीत्य् अथाप्य् असामञ्जस्यम् इत्य् आशङ्क्याह—उरुश्रवाः, वैरेण यं नृपतयः [भा।पु। ११.५.४८] इति, अहो बकी यं स्तन-काल-कूटं [भा।पु। ३.२.२३] इत्य्-आदिभिर् उरु सर्वतो विस्तृतं महत्तमं वा श्रवः कीर्तिर् यस्य, स तेषाम् अप्य् अनुग्रहं करोतीति भावः ॥

[१०४]

तद् एवं सिद्धान्तं प्रदर्श्य, तत्र स्व-भक्तानुग्रह-मात्र-प्रयोजनस् तत् तत् करोति परेश इति प्रतिज्ञातार्थोदाहरणाय प्रह्लाद-जय-विजयादि-कृपायाः सूचकम् इतिहास-विशेषम् आह—

अत्रैवोदाहृतः पूर्वम्
इतिहासं सुरर्षिणा ।
प्रीत्या महाक्रतौ राजन्
पृच्छतेऽजात-शत्रवे ॥ [भा।पु। ७.१.१२] इत्य्-आदि । टीकैव दृश्या174

॥ ७.१ ॥ श्री-शुकः ॥९३-१०४॥

[१०५.१]

तद् एवं सर्वेऽपि वैषम्य-नैर्घृण्ये परिहृते ।

ईश्वरस् तु पर्जन्यवद् द्रष्टव्य इत्य् अस्य ब्रह्म-सूत्र-निर्गतार्थ-न्यायस्याप्य् अत्रैवान्तर्भाव-सिद्धेः । इति ब्रह्म-भगवत्-परमात्मानो विवृताः । तद् एवं त्रिव्यूहत्वम् एव व्याख्यातम् । क्वचिद् वासुदेवादि-चतुर्व्यूहादित्वं च दृश्यते । स च भेदः कस्यचित् केनचिद् अभेद-विवक्षया भेद-विवक्षया च नायुक्तः । तद् उक्तं मोक्ष-धर्मे नारायणीये—

एक-व्यूह-विभागो वा क्वचिद् द्वि-व्यूह-संज्ञितः ।
त्रि-व्यूहश् चापि सङ्ख्यातश् चतुर्-व्यूहश् च दृश्यते ॥ [म।भा। १२.३३६.५३] इति ।

श्रुतिश् च—स एकधा भवति द्विधा भवति [छा।उ। ७.२६.२] इत्य्-आद्या ।

अथ पूर्व-रीत्या चतुर्-व्यूहत्वाद्य्-अविसंवादितया यद् अत्र त्रि-व्यूहत्वं, तत्र प्रथम-व्यूहस्य श्री-भगवत एव मुख्यत्वं यत् प्रतिपादकत्वेनैवास्य श्री-भागवतम् इत्य् आख्या। यथोक्तम्—इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् [भा।पु। १.३.४०] इति। तस्य हि प्राधान्ये षड्-विधेन लिङ्गेन तात्पर्यम् अपि पर्यालोच्यते ।

उपक्रमोपसंहाराव् अभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्य-निर्णये ॥ इत्य् उक्त-प्रकारेण ।

तथा हि तावद् उपक्रमोपसंहारयोर् ऐक्येन—

जन्माद्य् अस्य यतोऽन्वयाद् इतरतश् चार्थेष्व् अभिज्ञः स्वराट्
तेने ब्रह्म हृदा य आदि-कवये मुह्यन्ति यत् सूरयः ।
तेजो-वारि-मृदां यथा विनिमयो यत्र त्रि-सर्गोऽमृषा
धाम्ना स्वेन सदा निरस्त-कुहकं सत्यं परं धीमहि ॥
[भा।पु। १.१.१]

कस्मै येन विभासितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा
तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा ।
योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस्
तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि ॥

[भा।पु। १२.१३.१९]

तत्र पुर्वस्यार्थः । अर्थोऽयं ब्रह्म-सूत्राणाम् इति गारुडोक्तेर् अस्य महा-पुराणस्य ब्रह्म-सूत्राकृत्रिम-भाष्यात्मकत्वात् प्रथमं तद् उपादायैवावतारः । तत्र पूर्वम्, अथातो ब्रह्म जिज्ञासा [वे।सू। १.१.१] इति व्याचष्टे—तेजो-वारि-मृदाम् इत्य्-आद्य्-अर्धेन । योजनायां प्राथमिकत्वाद् अस्य पूर्वत्वम् ।

तत्र ब्रह्म-जिज्ञासा इति व्याचष्टे—परं धीमहि इति । परं श्री-भगवन्तं धीमहि ध्यायेम । तद् एवं मुक्त-प्रग्रहया योग-वृत्त्या बृहत्त्वाद् ब्रह्म यत् सर्वात्मकं, तद् बहिश् च भवति । तत् तु निज-रश्म्य्-आदिभ्यः सूर्य इव सर्वेभ्यः परम् एव स्वतो भवतीति मूल-रूपत्व-प्रदर्शनाय175 पर-पदेन ब्रह्म-पदं व्याख्यायते । तच् चात्र भगवान् एवेत्य् अभिमतं, पुरुषस्य तद्-अंशत्वात्, निर्विशेष-ब्रह्मणो176 गुणादि-हीनत्वात् ।

उक्तं च श्री-रामानुज-चरणैः—सर्वत्र बृहत्त्व-गुण-योगेन हि ब्रह्म-शब्दः । बृहत्त्वं च स्वरूपेण गुणैश् च यत्रानवधिकातिशयः सोऽस्य मुखोऽर्थः । स च सर्वेश्वर एव [श्री-भाष्य १.१.१] इति ।

उक्तं प्रचेतोभिः, न ह्य् अन्तस् त्वद्-विभूतीनां सोऽनन्त इति गीयसे [भा।पु। ४.३०.३१] । अत एव विविध-मनोहरानन्ताकारत्वेऽपि तत्-तद्-आकाराश्रय-परमाद्भुत-मुख्याकारत्वम् अपि तस्य व्यञ्जितम् । तद् एवं मूर्तत्वे सिद्धे तेनैव परत्वेन न तस्य विष्ण्व्-आदि-रूपक-भगवत्त्वम् एव सिद्धम्, तस्यैव ब्रह्म-शिवादि-परत्वेन दर्शितत्वात् ।

[१०५.२]

अत्र जिज्ञासा इत्य् अस्य व्याख्या—धीमहीति । यतस् तज्-जिज्ञासायास् तात्पर्यं तद्-ध्यान एव । तद् उक्तम् एकादशे स्वयं भगवता—

शब्द-ब्रह्मणि निष्णातो न निष्णायात् परे यदि ।
श्रुतस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षतः ॥ [भा।पु। ११.११.१८] इति ।

ततो धीमहीत्य् अनेन श्री-रामानुज-मतं जिज्ञासा-पदं निदिध्यासन-परम् एवेति । स्वीयत्वेनाङ्गीकरोति श्री-भागवत-नामा सर्व-वेदादि-सार-रूपोऽयं ग्रन्थ इत्य् आयातम् । धीमहीति बहु-वचनं काल-देश-परम्परा-स्थितस्य सर्वस्यापि तत्-कर्तव्यताभिप्रायेण अनन्त-कोटि-ब्रह्माण्डान्तर्यामिनां पुरुषाणाम् अंशि-भूते भगवत्य् एव ध्यानस्याभिधानात् । अनेनैक-जीव-वाद-जीवन-भूतो विवर्त-वादोऽपि निरस्तः ।

ध्यायतिर् अपि भगवतो मूर्तत्वम् अपि बोधयति, ध्यानस्य मूर्त एवाकष्टार्थत्वात् । सति च सुसाध्ये पुम्-अर्थोपाये दुःसाध्यस्य पुरुषाप्रवृत्त्या स्वत एवापकर्षात्, तद्-उपासकस्यैव युक्ततमत्व-निर्णयाच् च । तथा च गीतोपनिषदः—

मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते ।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥
ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते ।
ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥
क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् ।
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ [गीता १२.२,३,५]

इदम् एव च विवृतं ब्रह्मणा—

श्रेयः-सृतिं भक्तिम् उदस्य ते विभो
क्लिश्यन्ति ये केवल-बोध-लब्धये ।
तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ [भा।पु। १०.१४.४] इति ।

[१०५.३]

अत एवास्य ध्येयस्य स्वयं भगवत्त्वम् एव साधितम्, शिवादयश् च व्यावृत्ताः । तथा धीमहीति लिङा द्योतिता पृथग्-अनुसन्धान-रहिता प्रार्थना ध्यानोपलक्षित-भगवद्-भजनम् एव परम-पुरुषार्थत्वेन व्यनक्ति । ततो भगवतस् तु तथात्वं स्वयम् एव व्यक्तम् ।

ततश् च यथोक्त-परम-मनोहर-मूर्तित्वम् एव लक्ष्यते । तथा च, वेदानां साम-वेदोऽस्मि [गीता १०.२२] इति, तत्र च बृहत्-साम तथा साम्नाम् [गीता १०.३५] इत्य्-उक्त-महिम्नि बृहत्-साम्नि, बृहद् धामं बृहत् पार्थिवं बृहद् अन्तरीक्षं बृहद् दिवं बृहद् वामं बृहद्भ्यो वामं वामेभ्यो वामम् इति । तद् एवं ब्रह्म-जिज्ञासा इति व्याख्यातम् ।

अथात इत्य् अस्य व्याख्याम् आह—सत्यम् इति । यतस् तत्र अथ-शब्द आनन्तर्ये, अतः-शब्दो वृत्तस्य हेतु-भावे वर्तते, तस्माद् अथेति स्वाध्याय-क्रमतः प्राक्-प्राप्त-कर्म-काण्डे पूर्व-मीमांसया सम्यक्-कर्म-ज्ञानाद् अनन्तरम् इत्य् अर्थः । अत इति तत्-क्रमतः समनन्तरं प्राप्त-ब्रह्म-काण्डे तूत्तर-मीमांसया निर्णेय-सम्यग्-अर्थेऽधीत-चराद् यत्-किञ्चिद्-अनुसंहितार्थात् कुतश्चिद् वाक्याद् धेतोर् इत्य् अर्थः । पूर्व-मीमांसायाः पूर्व-पक्षत्वेनोत्तर-मीमांसा-निर्णयोत्तर-पक्षेऽस्मिन्न् अवश्यापेक्ष्यत्वात्, अविरुद्धांशे सहायत्वात्, कर्मणः शान्त्य्-आदि-लक्षण-सत्त्व-शुद्धि-हेतुत्वाच् च । तद्-अनन्तरम् इत्य् एव लभ्यम् । वाक्यानि चैतानि—

तद् यथेह कर्म-जितो लोकः क्षीयते, एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते, तद् य इहात्मानम् अनु विद्य व्रजन्ति, एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेष्व् अकाम-चारो भवति [छा।उ। ८.१.६] इति, न च पुनर् आवर्तते [छा।उ। ८.१५.१] इति, स चानन्त्याय कल्पते [श्वे।उ। ५.९] इति, निरञ्जनः परमं साम्यम् उपैति [मु।उ। ३.१.३] इति ।
इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ [गीता १४.२] इति ।

तद् एतद् उभयं विवृतं रामानुज-शारीरके—

मीमांसा-पूर्व-भाग-ज्ञातस्य कर्मणोऽल्पास्थिर-फलत्वं तद्-उपरितन-भागावसेयस्य ब्रह्म-ज्ञानस्य त्व् अनन्ताक्षय-फलत्वं श्रूयते, अतः पूर्व-वृत्तात् कर्म-ज्ञानाद् अनन्तरं ब्रह्म ज्ञातव्यम् इत्य् उक्तं भवति । तद् आह सर्वादि-वृत्ति-कारो भगवान् बौधायनः—वृत्तात् कर्माधिगमाद् अनन्तरं ब्रह्म-विविदिषेति इति ।

एतद् एव पुरञ्जनोपाख्याने च दक्षिण-वाम-कर्णयोः पितृहू-देवहू-शब्द-निरुक्तौ व्यक्तम् अस्ति । तद् एवं सम्यक् कर्म-काण्ड-ज्ञानानन्तरं ब्रह्म-काण्ड-गतेषु केषुचिद् वाक्येषु स्वर्गाद्य्-आनन्दस्य वस्तु-विचारेण दुःख-रूपत्व-व्यभिचारि-सत्ताकत्व-ज्ञान-पूर्वकं ब्रह्मणस् त्व् अव्यभिचारि-परतमानन्दत्वेन सत्यत्व-ज्ञानम् एव ब्रह्म-जिज्ञासायां हेतुर् इति । अथात इत्य् अस्यार्थे लब्धे तन्-निर्गलितार्थम् एवाह—सत्यम् इति । सर्व-सत्तादाव् अव्यभिचारि-सत्ताकम् इत्य् अर्थः, परम् इत्य् अनेन अन्वयात्, सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.३] इत्य् अत्र श्रुतौ च ब्रह्मेत्य् अनेन ।

तद् एवम् अन्यस्य तद्-इच्छाधीन-सत्ताकत्वेन व्यभिचारि-सत्ताकत्वम् आयाति । तद् एवम् अत्र तद् एतद्-अवधि व्यभिचारि-सत्ताकम् एव ध्यातवन्तो वयम् इदानीं त्व् अव्यभिचारि-सत्ताकं ध्यायेमेति भावः ।

[१०५.४]

अथ परत्वम् एव व्यनक्ति—धाम्ना इति । अत्र धाम-शब्देन प्रभाव उच्यते, प्रकाशो वा । गृह-देह-त्विट्-प्रभावा धामनि इत्य् अमरादि-नानार्थ-वर्गात् । न तु स्वरूपम् । तथा कुहक-शब्देनात्र प्रतारण-कृद् उच्यते । तच् च जीव-स्वरूपावरण-विक्षेप-कारित्वादिना माया-वैभवम् एव । ततश् च स्वेन धाम्ना स्व-प्रभाव-रूपया स्व-प्रकाश-रूपया वा शक्त्या सदा नित्यम् एव निरस्तं कुहकं माया-वैभवं यस्मात् तम् । तद् उक्तं, मायां व्युदस्य चिच्-छक्त्या [भा।पु। १.७.२३] इति ।

तस्या अपि शक्तेर् आगन्तुकत्वेन स्वेन इत्य् अस्य वैयार्थ्यं स्यात् । स्व-स्वरूपेणेत्य् एवं व्याख्याने तु स्वेन इत्य् अनेनैव चरितार्थता स्यात् । यथा कथञ्चित् तथा व्याख्यानेऽपि कुहक-निरसन-लक्षणा शक्तिर् एवापद्यते । सा च साधकतम-रूपया तृतीयया व्यक्तेति । एतेन माया-तत्-कार्य-विलक्षणं यद् वस्तु, तत् तस्य स्वरूपम् इति स्व-स्वरूप-लक्षणम् अपि गम्यम् । तच् च सत्यं ज्ञानम् आनन्दं ब्रह्म [तै।उ। २.१.३] इति, विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.२८] इति श्रुति-प्रसिद्धम् एव । एतच्-छ्रुति-लक्षकम् एव च सत्यम् इति विन्यस्तम् । तद् एवं स्वरूप-शक्तिश् च साक्षाद् एवोपक्रान्ता, ततः सुतराम् एवास्य भगवत्त्वं स्पष्टम् ।

अथ मुख्ये सत्यत्वे युक्तिं दर्शयति—यत्र इति । ब्रह्मत्वात् सर्वत्र स्थिते वासुदेवे भगवति यस्मिन् स्थितस् त्रयाणां गुणानां भूतेन्द्रिय-देवतात्मको यस्यैवेशितुः सर्गोऽप्य् अयम् अमृषा शुक्त्य्-आदौ रजतादिकम् इवारोपितो न भवति, किन्तु यतो वा इमानि जायन्ते [तै।उ। ३.१.१] इति श्रुति-प्रसिद्धे ब्रह्मणि यत्र सर्वदा स्थितत्वात् संज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात् [वे।सू। २.४.२०] इति यद् एक-कर्तृकत्वाच् च सत्य एव ।

तत्र दृष्टान्तेनाप्य् अमृषात्वं साधयति—तेज-आदीनां विनिमयः परस्परांश-व्यत्ययः परस्परस्मिन्न् अंशेनावस्थितिर् इत्य् अर्थः । स यथा मृषा न भवति, किन्तु यथैवेश्वर-निर्माणं तथेत्य् अर्थः । इमास् तिस्रो देवतास् त्रिवृद् एकैका भवति [छा।उ। ६.३.४], तद् अग्ने रोहितं रूपं तेजसस् तद्-रूपं यत् शुक्लं तद् अपां यत् कृष्णं तत् पृथिव्याः तद् अन्नस्य [छा।उ। ६.४.१] इति श्रुतेः ।+++

तद् एवम् अर्थस्यास्य श्रुति-मूलत्वात् कल्पना-मूलस् त्व् अन्योऽर्थः स्वत एव परास्तः । तत्र च सामान्यतया निर्दिष्टानां तेज-आदीनां विशेषत्वे सङ्क्रमणं न शाब्दिकानां हृदयम् अध्यारोहति । यदि च तद् एवामंस्यत, तदा वारादीनि मरीचिकादिषु यथेत्य् एवावक्ष्यते । किं च तन्-मते ब्रह्मतस् त्रिसर्गस्य मुख्यं जन्म नास्ति किन्त्यारोप एव जन्मेत्य् उच्यते । स पुनर् भ्रमाद् एव भवति । भ्रमश् च सादृश्यावलम्बी । सादृश्यं तु काल-भेदेनोभयम् एवाधिष्ठानं करोति । रजतेऽपि शुक्ति-भ्रम-सम्भवात् । न चैकात्मकं भ्रमाधिष्ठानं बह्व्-आत्मकं तु भ्रम-कल्पितम् इत्य् अस्ति नियमो मिथो मिलितेषु विदूर-वर्ति-धूम-पर्वत-वृक्षेष्व् अखण्ड-मेघ-भ्रम-सम्भवात् ।

तद् एवं प्रकृतेऽप्य् अनादित एव त्रि-सर्गः प्रत्यक्षं प्रतीयते । ब्रह्म च चिन्-मात्रतया स्वत एव स्फुरद् अस्ति । तस्माद् अनाद्य-ज्ञानाक्रान्तस्य जीवस्य यथा सद्-रूपता-सादृश्येन ब्रह्मणि त्रि-सर्ग-भ्रमः स्यात् तथा त्रि-सर्गेऽपि ब्रह्म-भ्रमः कथं न कदाचित् स्यात् । ततश् च ब्रह्मण एवाधिष्ठानत्वम् इत्य् अनिर्णये सर्व-नाश-प्रसङ्गः । आरोपकत्वं तु जडस्यैव चिन्मात्रस्यापि न सम्भवति । ब्रह्म च चिन्मात्रम् एव तन्-मतम् इति । ततश् च श्रुति-मूल एव व्याख्याने सिद्धे सोऽयम् अभिप्रायः । यत्र हि यन् नास्ति किन्त्व् अन्यत्रैव दृश्यते तत्रैव तद्-आरोपः सिद्धः । ततश् च वस्तुतस् तद्-अयोगात् तत्र तत्-सत्तया तत्-सत्ता कर्तुं न शक्यत एव । त्रि-सर्गस्य तु तच्-छक्ति-विशिष्टाद् भगवतो मुख्य-वृत्त्यैव जातत्वेन श्रुतत्वात् तद्-व्यतिरेकात् तत्रैव सर्वात्मके सोऽस्ति । ततस् तस्मिन् न चारोपितं च । आरोपस् तु तथापि धाम्नेत्य् आदि-रीत्यैवाचिन्त्य-शक्तित्वात् तेन लिप्तत्वाभावेऽपि तच्-छाङ्कर-रूप एव । तथा च एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा [वि।पु। १.२२.५६] इत्य् अनुसारेण तत्-सत्तया तत्-सत्ता भवति ।

ततो भगवतो मुख्यं सत्यत्वं त्रि-सर्गस्य च न मृषात्वम् इति । तथा च श्रुतिः—सत्यस्य सत्यम् इति तथा प्राणा वै सत्यं तेषाम् एव सत्यम् [बृ।आ।उ। २.३.६] इति प्राण-शब्दोदितानां स्थूल-सूक्ष्म-भूतानां व्यवहारतः सत्यत्वेनाधिगतानां मूल-कारण-भूतं परम-सत्यं भगवन्तं दर्शयतीति ।

[१०५.५]

अथ तम् एव तटस्थ-लक्षणेन च तथा व्यञ्जयन् प्रथमं विशदार्थतया ब्रह्म-सूत्राणाम् एव विवृतिर् इयं संहितेति बिबोदयिषया च तद्-अन्तरं सूत्रम् एव प्रथमम् अनुवदति—जन्माद्य् अस्य यत इति । जन्मादीनि सृष्टि-स्थिति-प्रलयम् । तद्-गुण-संविज्ञान-बहुव्रीहि । अस्य विश्वस्य ब्रह्मादि-स्तम्ब-पर्यन्तानेक-कर्तृ-भोक्तृ-संयुक्तस्य प्रतिनियत-देश-काल-निमित्त-क्रिया-फलाश्रयस्य मनसाप्य् अचिन्त्य-विविध-चित्र-रचना-रूपस्य यतो यस्माद् अचिन्त्य-शक्त्या स्वयम् उपादान-रूपात् कर्त्र्-आदि-रूपाच् च जन्मादि, तं परं धीमहि इत्य् अन्वयः । अत्र विषय-वाक्यं च—भृगुर् वै वारुणिर् वरुणं पितरम् उपससार, अधीहि भो भगवो ब्रह्म इत्य् आरभ्य, यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञासस्व, तद् ब्रह्म [तै।उ। ३.१.१] इति, तत् तेजोऽसृजत [छा।उ। ६.२.३] इत्य्-आदि च ।

जन्मादिकम् इहोपलक्षणं, न तु विशेषणम् । ततस् तद्-ध्याने तन् न प्रविशन्ति, किन्तु शुद्धम् एव तं ध्यायेद् इति । किं च, अत्र प्राग्-उक्त-विशेषण-विशिष्ट-विश्व-जन्मादेस् तादृश-हेतुत्वेन सर्व-शक्तित्वं सत्य-सङ्कल्पत्वं सर्व-ज्ञत्वं सर्वेश्वरत्वं च तस्य सूचितम्, यः सर्वज्ञः सर्व-विद् यस्य ज्ञान-मयं तपः [मु।उ। १.१.९], सर्वस्य वशी [बृ।आ।उ। ४.४.२२] इत्य्-आदि-श्रुतेः ।

तथा परत्वेन निरस्ताखिल-हेय-प्रत्यनीक-स्वरूपत्वं ज्ञानाद्य्-अनन्त-कल्याण-गुणत्वं सूचितम्—न तस्य कार्यं कारणं च विद्यते [श्वे।उ। ३.१९] इत्य्-आदि-श्रुतेः ।

ये तु निर्विशेष-वस्तु जिज्ञास्यम् इति वदन्ति, तन्-मते ब्रह्म-जिज्ञासायां जन्माद्य् अस्य यत इत्य् असङ्गतं स्यात्, निरतिशय-बृहद्-बृंहणं चेति निर्वचनात्, तच् च ब्रह्म जगज्-जन्मादि-कारणम् [अग्नि।पु। २१६.८] इति वचनाच् च । एवम् उत्तरेष्व् अपि सूत्रेषु सूत्रोदाहृत-श्रुतयश् च न तत्र प्रमाणम् । तर्कश् च साध्य-धर्माव्यभिचारि-साधन-धर्मान्वित-वस्तु-विषयत्वान् न निर्विशेष-वस्तुनि प्रमाणम् । जगज्-जन्मादि-भ्रमो यतः, तद् ब्रह्मेति स्वोत्प्रेक्ष-पक्षे च न निर्विशेष-वस्तु-सिद्धिः । भ्रम-मूलम् अज्ञानम्, अज्ञान-साक्षि ब्रह्मेति उपगमात् । साक्षित्वं हि प्रकाशैक-रसतयोच्यते । प्रकाशत्वं तु जडाद् व्यावर्तकं स्वस्य परस्य च व्यवहार-योग्यतापादन-स्वभावेन भवति । तथा सति सविशेषत्वं, तद्-अभावे प्रकाशतैव न स्यात् । तुच्छतैव स्यात् ।

किं च, तेजो-वारि-मृदाम् इत्य् अनेनैव तेषां विवक्षितं सेत्स्यतीति, जन्माद्य् अस्य यत इत्य् अप्रयोजकं स्यात् । अतस् तद्-विशेषत्वे लब्धे, स च विशेषः शक्ति-रूप एव । शक्तिश् चान्तराङ्गा बहिरङ्गा तटस्था चेति त्रिधा दर्शिता । तत्र विकारात्मकेषु जगज्-जन्मादिषु साक्षाद्-धेतुना बहिरङ्गाया एव स्याद् इति सा मायाख्या चोपक्रान्ता । तटस्था च वयं धीमहि इत्य् अनेन ।

अथ यद्यपि भगवतोऽंशात् तद्-उपादान-भूत-प्रकृत्य्-आख्य-शक्ति-विशिष्टात् पुरुषाद् एवास्य जन्मादि, तथापि भगवत्य् एव तद्-धेतुता पर्यवसति । समुद्रैक-देशे यस्य जन्मादि, तस्य समुद्र एव जन्मादीनि । यथोक्तम्—

प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ [भा।पु। ११.२४.१९]

तस्य च भगवतो जन्माद्य् अस्य यत इत्य् अनेनापि मूर्तत्वम् एव लक्ष्यते177 । यतो मूर्तस्य जगतो मूर्ति-शक्तेर् निधान-रूप-तादृशानन्त-पर-शक्तीनां निधान-रूपोऽसाव् इत्य् आक्षिप्यते, तस्य परम-कारणत्वाङ्गीकारात् । न च तस्य मूर्तत्वे सत्य् अन्यतो जन्मापतेत्, अनवस्थापत्तेर् एकस्यैवादित्वेनाङ्गीकारात्, साङ्ख्यानाम् अव्यक्तस्येव

स कारणं करणाधिपाधिपो
न चास्य कश्चिज् जनिता न चाधिपः [श्वे।उ। ६.९]

इति श्रुति-निषेधात्, अनादि-सिद्धाप्राकृत-स्वाभाविक-मूर्तित्वेन तस्य तत्-प्रसिद्धेश् च ।

तद् एवं मूर्तत्वे सिद्धे स च मूर्तो विष्णु-नारायादि-साक्षाद्-रूपकः श्री-भगवान् एव नान्यः । तथा च दान-धर्मे—

यतः सर्वाणि भूतानि भवन्त्य् आदि-युगागमे ।
यस्मिंश् च प्रलयं यान्ति पुनर् एव युग-क्षये ॥ [सहस्र-नाम ११] इत्य्-आदि ।

तत्-प्रतिपादक-सहस्र-नामादौ तत्रैव तु यथोक्तम्, अनिर्देश्य-वपुः श्रीमान् [सहस्र-नाम ३२] इति । एवं च स्कान्दे—

स्रष्टा पाता च संहर्ता स एको हरिर् ईश्वरः ।
स्रष्टृत्वादिकम् अन्येषां दारु-योषावद् उच्यते ॥
एक-देश-क्रियावत्त्वान् न तु सर्वात्मनेरितम् ।
सृष्ट्य्-आदिकं समस्तं तु विष्णोर् एव परं भवेत् ॥ इति ।

महोपनिषदि च—स ब्रह्मणा सृजति स रुद्रेण विलापयति इत्य्-आदिकम् । अत एव विवृतं—

निमित्त-मात्रम्178 ईशस्य विश्व-सर्ग-निरोधयोः ।
हिरण्यगर्भः सर्वश् च कालस्यारूपिणस् तव ॥ [भा।पु। १०.७१.८] इति ।

तव यो रूप-रहितः कालः काल-शक्तिः, तस्य निमित्त-मात्रम् इति व्यधिकरण एव षष्ठी । तथा आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४२] इत्य्-आदि । यद्-अंशतोऽस्य स्थिति-जन्म-नाशा [भा।पु। ६.३.१२] इत्य्-आदि च । तद् एवम् अत्रापि तथा-विध-मूर्तिर् भगवान् एवोपक्रान्तः ।

[१०५.६]

तद् एवं तटस्थ-लक्षणेन परं निर्धार्य, तद् एव लक्षणं ब्रह्म-सूत्रे शास्त्र-योनित्वात्, तत् तु समन्वयात् [वे।सू। १.१.३-४] इत्य् एतत्-सूत्र-द्वयेन स्थापितम् अस्ति । तत्र पूर्व-सूत्रस्यार्थः—कुतो ब्रह्मणो जगज्-जन्मादि-हेतुत्वं ? तत्राह—शास्त्रं योनिर् ज्ञान-कारणं यस्य तत्त्वात्, यतो वा इमानि भूतानि [तै।उ। ३.१.१] इत्य्-आदि-शास्त्र-प्रमाणकत्वाद् इति । नात्र दर्शनान्तरवत् तर्क-प्रमाणकत्वम्, तर्काप्रतिष्ठानात् [वे।सू। २.१.२२] अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादि-प्रमाणाविषयत्वाद् ब्रह्मणश् चेति भावः । वैनाशिकास् त्व् अविरोधाध्याये तर्केणैव निराकरिष्यन्ते ।

अत्र तर्काप्रतिष्ठानं चैवम्—ईश्वरः कर्ता न भवति, प्रयोजन-शून्यत्वान् मुक्तात्मवत् । ननु भुवनादिकं जीव-कर्तृकं कार्यत्वात् घटवत् । विमति-विषयः कालो न लोक-शून्यः, कालत्वात् वर्तमान-कालवद् इत्य्-आदि । तद् एवं दर्शनानुगुण्येनेश्वरानुमानं दर्शनान्तर-प्रातिकूल्य-पराहतम् इति शास्त्रैक-प्रामाणकः179 पर-ब्रह्म-भूतः सर्वेश्वरः पुरुषोत्तमः । शास्त्रं तु सकलेतर-प्रमाण-परिदृष्ट-समस्त-वस्तु-विजातीय-सार्वज्ञ्य-सत्य-सङ्कल्पत्वादि-मिश्रानवधिकातिशयापरिमितोदार-विचित्र-गुण-सागरं निखिल-हेय-प्रत्यनीक-स्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसित-वस्तु-साधर्म्य-प्रयुक्त-दोष-गन्धः । अत एव स्वाभाविकानन्त-नित्य-मूर्तिमत्त्वम् अपि तस्य सिध्यति ।

[१०५.७]

अथोत्तर-सूत्रस्यार्थः । ब्रह्मणः कथं शास्त्र-प्रमाणकत्वं ? तत्राह—तत् त्व् इति । तु-शब्दः प्रसक्ताशङ्का-निवृत्त्य्-अर्थः । तच्-छास्त्र-प्रमाणकत्वं ब्रह्मणः सम्भवत्य् एव । कुतः समन्वयात् ? अन्वय-व्यतिरेकाभ्याम् उपपादनं समन्वयः, तस्मात् ।

तत्र अन्वयः—सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.३] इति, आनन्दो ब्रह्म [तै।उ। ३.६.१] इति, एकम् एवाद्वितीयं ब्रह्म [छा।उ। ६.२.१] इति, तत् सत्यं स आत्मा [छा।उ। ६.८.७] इति, सद् एव सोम्येदम् अग्र आसीत् [छा।उ। ६.२.१] इति, आत्मा वा इदम् एक एवाग्र आसीत् पुरुष-विध [बृ।आ।उ। १.४.१] इति, पुरुषो ह वै नारायणः [ना।उ। १] इति, एको ह वै नारायण आसीत् [म।उ। १.१] इति, तद् ऐक्षत बहु स्यां प्रजायेय [छा।उ। ६.२.३] इति, तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।उ। २.१.३] इति, तत् तेजोऽसृजत [छा।उ। ६.२.३] इति, यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१.१] इति, पुरुषो ह वै नारायणोऽकामयत अथ नारायणाद् अजोऽजायत यतः प्रजाः सर्वाणि भूतानि [म।ना।उ।],

नारायणं परं ब्रह्म तत्त्वं नारायणः परम् ।
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण-पिङ्गलम् ॥ [म।ना।उ। ११.४] इत्य्-आदिषु च ।

अथ व्यतिरेकः—कथम् असतः सज् जायेत [छा।उ। ६.२.२] इति, को ह्य् एवान्यात् कः प्राण्याद् यद् एष आकाश आनन्दो न स्यात् [तै।उ। २.७.१] इति, एको ह वै नारायण आसीन् न ब्रह्मा न च शङ्करः [म।ना।उ। १.१] इत्य्-आदिषु ।

अन्येषां च वाक्यानां समन्वयस् तत्रैव वक्ष्यते—आनन्द-मयोऽभ्यासात् [वे।सू। १.१.१२] इत्य्-आदिना । स चैवं परमानन्द-रूपत्वेनैव समन्वितो भवतीति तद्-उपलब्ध्यैव परम-पुरुषार्थत्व-सिद्धेर् न प्रयोजन-शून्यत्वम् अपि ।

तद् एवं सूत्र-द्वयार्थे स्थिते तद् एतद् व्याचष्टे—अन्वयाद् इतरतश् चार्थेष्व् इति । अर्थेषु नाना-विधेषु वेद-वाक्यार्थेषु सत्स्व् अन्वयात् अन्वय-मुखेन यतो यस्मात् एकस्माद् अस्य जन्मादि प्रतीयते, तथा इतरतो व्यतिरेक-मुखेन च यस्माद् एवास्य ततः प्रतीयत इत्य् अर्थः । अत एव तस्य श्रुत्य्-अन्वय-व्यतिरेक-दर्शितेन परम-सुख-रूपत्वेन परम-पुरुषार्थत्वं च ध्वनितम् । एको ह वै नारायण आसीत् [म।ना।उ। १.१] इत्य्-आदि-शास्त्र-प्रमाणत्वेन प्राक्-स्थापित-रूपं चेति ।

[१०५.८]

अथ ईक्षतेर् नाशब्दम् [वे।सू। १.१.५] इति व्याचष्टे—अभिज्ञ इति । अत्र सूत्रार्थः—इदम् आम्नायते छान्दोग्ये—सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं ब्रह्म [छा।उ। ६.२.१] इति, तद् ऐक्षत बहु स्यां प्रजायय इति॥। तत्-तेजोऽसृजत [छा।उ। ६.२.३] इत्य्-आदि । अत्र परोक्तं प्रधानम् अपि जगत्-कारणत्वेनायाति । तच् च नेत्य् आह—ईक्षतेर् इति । यस्मिन् शब्द एव प्रमाणं न भवति तद् अशब्दम्, आनुमानिकं प्रधानम् इत्य् अर्थः । तद् इह प्रतिपाद्यम् ।

कुतोऽशब्दत्वं तस्य ? इत्य् आशङ्क्याह—ईक्षतेः, सच्-छब्द-वाच्य-सम्बन्धि-व्यापार-विशेषाभिधायिन ईक्षतेर् धातोः श्रवणात् तद् ऐक्षत इतीक्षणं चाचेतने प्रधाने न सम्भवेत् । अन्यत्र चेक्षा-पूर्विकैव सृष्टिः—स ऐक्षत लोकान् नु सृजा इति, स इमान् लोकान् असृजत [ऐ।उ। १.१.१-२] इत्य्-आदौ । ईक्षणं चात्र तद्-अशेष-सृज्य-विचारात्मकत्वात् सर्वज्ञत्वम् एव क्रोडीकरोति । तद् एतद् आह—अभिज्ञ इति ।

ननु तदानीम् एकम् एवाद्वितीयम् इत्य् उक्तेस् तस्येक्षण-साधनं न सम्भवति ? तत्राह—स्वराड् इति, स्व-स्वरूपेणैव तथा तथा राजत इति, न तस्य कार्यं करणं च विद्यते [श्वे।उ। ३.१९] इत्य् आदौ, स्वाभाविकी ज्ञान-बल-क्रिया च इत्य्-आदि-श्रुतेः । एतेनेक्षणवन्-मूर्तिमत्त्वम् अपि तस्य स्वाभाविकम् इत्य् आयातम्, निःश्वसितस्याप्य् अग्रे दर्शयिष्यमाणत्वात् । तच् च यथोक्तम् एवेति च ।

[१०५.९]

अथ शास्त्र-योनित्वात् [वे।सू। १.१.३] इत्य् अस्यार्थान्तरं व्याचष्टे—तेन इति । तच् चार्थान्तरं यथा—कथं तस्य जगज्-जन्मादि-कर्तृत्वं ? कथं वा नान्य-तन्त्रोक्तस्य प्रधानस्य न चान्यस्य? इति तत्राह—शास्त्रस्य वेद-लक्षणस्य योनिः कारणं, तद्-रूपत्वात् । एवं वा अरे अस्य महतो भूतस्य निश्वसितम् एतद् यदृग्-वेदो यजुर्-वेदः सामवेदोऽथ वाङ्गिरस इतिहास-पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् उपसूत्राणि व्याख्यानानि [बृ।आ।उ। २.४.१०] इति श्रुतेः । शास्त्रं हि सर्व-प्रमाणागोचर-विविधानन्त-ज्ञान-मयं, तस्य च कारणं ब्रह्मैव श्रूयत इति ।

तद् एवं मुख्यं सर्वज्ञं तादृशं सर्वज्ञत्वं विना च सर्व-शृष्ट्य्-आदिकम् अन्यस्य नोपपद्यत इति प्रोक्त-लक्षणं ब्रह्मैव जगत्-कारणं, न प्रधानं, न च जीवान्तरम् इति । तद् एव विवृत्याह—तेने ब्रह्म हृदा य आदिकवय इति । ब्रह्म वेदम् आदि-कवये ब्रह्मणे ब्रह्माणं हृदा अन्तः-करण-द्वारैव, न तु वाक्य-द्वारा । तेने आविर्भावितवान् । अत्र बृहद्-वाचकेन ब्रह्म-पदेन सर्व-ज्ञान-मयत्वं तस्य ज्ञापितम् । हृदेत्य् अनेनान्तर्यामित्वं सर्व-शक्तिमयत्वं च ज्ञापितम् । आदि-कवय इत्य् अनेन तस्यापि शिक्षा-निदानत्वाच् छास्त्र-योनित्वं चेति । श्रुतिश् चात्र,

यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश् च प्रहिणोति तस्मै ।
तं ह देवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥ [श्वे।उ। ६.१८] ।

मुक्त-जीवा अपि तत्-कारणं नेत्य् आह—मुह्यन्ति इति । यद् यत्र ब्रह्मणि वेदाख्ये सूरयः शेषादयोऽपि । अनेन च शयन-लीला-व्यञ्जित-निश्वसितमय-वेदो ब्रह्मादि-विविधानन-लोचनश् च यः पद्मनाभस् तद्-आदि-मूर्तिकः श्री-भगवान् एवाभिहितः । विवृतं चैतत् प्रचोदिता येन पुरा सरस्वती [भा।पु। २.४.२२] इत्य्-आदिना ।

अथ तत् तु समन्वयाद् [वे।सू। १.१.४] इत्य् अस्यार्थान्तरं, यथा शास्त्र-योनित्वे हेतुश् च दृश्यते इत्य् आह—तत् त्व् इति । _समन्वयो_ऽत्र सम्यक् सर्वतो-मुखोऽन्वयो व्युत्पत्तिर् वेदार्थ-परिज्ञातं यस्मात् तु शास्त्र-निदानत्वं निश्चीयत इति । जीवे सम्यग् ज्ञानम् एव नास्ति, प्रधानं त्व् अचेतनम् एवेति भावः, स वेत्ति विश्वं न हि तस्य वेत्ता [श्वे।उ। ३.१९] इति श्रुतेः । तद् एतद् अस्य तदीय-सम्यग्-ज्ञानं व्यतिरेक-मुखेन बोधयितुं जीवानां सर्वेषाम् अपि तदीय-सम्यग्-ज्ञानाभावम् आह—मुह्यन्ति इति । सूरयः शेषादयोऽपि यद् यत्र शब्द-ब्रह्मणि मुह्यन्ति । तद् एतद् विवृतं स्वयं भगवता—

किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इत्य् अस्या हृदयं लोके नान्या मद् वेद कश्चन ॥ [भा।पु। ११.२१.४२] इति ।

अनेन च साक्षाद्-भगवान् एवाभिहितः ।

अथ ईक्षतेर् नाशब्दम् [वे।सू। १.१.५] इत्य् अस्यार्थान्तरम्—अभिज्ञ इत्य् अत्रैव व्यञ्जितम् अस्ति । अत्र सूत्रार्थः—नन्व् अशब्दम् अस्पर्शम् अरूपम् अव्ययम् [क।उ। १.३.१५] इत्य्-आदि-श्रुतेः । कथं तस्य शब्द-योनित्वं ? तत्र हि प्रकृत-ब्रह्म शब्द-हीनं न भवति । कुतः ? ईक्षतेः । तद् ऐक्षत बहु स्यां प्रज्यायेय [छा।उ। ६.२.३] इत्य् अत्र बहु स्याम् इति शब्दात्मकेक्ष-धातोः श्रवणात् । तद् एतद् आह, अभिज्ञः । बहु स्याम् इत्य् आदि-शब्दात्मक-विचार-विदग्धः । स च शब्दादि-शक्ति-समुदायस् तस्य न प्राकृतः प्रकृति-क्षोभात्, पूर्वत्रापि सद्-भावात् । ततः स्वरूप-भूत एवेत्य् आह—स्वराट् इति ।

अत्र पूर्ववत् तादृशं सधर्मकत्वं मूर्तिमत्त्वम् अपि सिद्धम् । यथाहुः सूत्रकाराः—अन्तस् तद्-धर्मोपदेशात् [वे।सू। १.१.१०] इति । अतोऽशब्दत्वादिकं प्राकृत-शब्द-हीनत्वादिम् एवेति ज्ञेयम् ।

अत्रोत्तर-मीमांसाध्याय-चतुष्टयस्याप्य् अर्थो दर्शितः । तत्र अन्वयाद् इतरतश् च इति समन्वयाध्यायस्य, मुह्यन्ति यत् सूरयः इत्य् अविरोधाध्यायस्य धीमहि साधनाध्यायस्य, सत्यं परम् इति फलाध्यायस्येति ।

[१०५.१०]

तथा गायत्र्य्-अर्थोऽपि स्पष्टः । तत्र जन्माद्य् अस्य यतः इति प्रणवार्थः, सृष्ट्य्-आदि-शक्तिमत्त्व-वाचित्वात् । तद् एवम् एवाग्नि-पुराणे गायत्री-व्याख्याने प्रोक्तम्—तज्-ज्योतिर् भगवान् विष्णुर् जगज्-जन्मादि-कारणम् इति । यत्र त्रि-सर्गोऽमृषा इति व्याहृति-त्रयार्थः, उभयत्रापि लोक-त्रयस्य तद्-अनन्यत्वेन विवक्षितत्वात् । स्वराड् इति सवितृ-प्रकाशक-परम-तेजो-वाचि । तेने ब्रह्म हृदा इति बुद्धि-प्रवृत्ति-प्रेरणा प्रार्थना सूचिता । तद् एव कृपया स्व-ध्यानायास्माकं बुद्धि-वृत्तीः प्रेरयताद् इति भावः ।

एवम् एवोक्तं गायत्र्या च समारम्भः180 इति । तच् च तेजस् तत्र अन्तस् तद्-धर्मोपदेशात् [वे।सू। १.१.१०] इत्य्-आदिना सम्प्रतिपन्नं यन्-मूर्तं तद्-आद्य्-अनन्त-मूर्तिमद् एव ध्येयम् इति । तत्र चाग्नि-पुराण-क्रमस्थ-वचनानि—181

एवं सन्ध्या-विधिं कृत्वा गायत्रीं च जपेत् स्मरेत् ।
गायत्र्य्-उक्थानि शास्त्राणि भर्गं प्राणांस् तथैव च ॥
ततः स्मृतेयं गायत्री सावित्री यत एव च ।
प्रकाशिनी सा सवितुर् वाग्-रूपत्वात् सरस्वती ॥
तज् ज्योतिः परमं ब्रह्म भर्गस् तेजो यतः स्मृतः ।
भर्गः स्यात् भ्राजत इति बहुलं छन्दसीरितम् ॥
वरेण्यं सर्व-तेजोभ्यः श्रेष्ठं वै परमं परम् ।
स्वर्गापवर्ग-कामैर् वा वरणीयं सदैव हि ॥
वृणोतेर् वरणार्थत्वात् जाग्रत्-स्वप्नादि-वर्जितम् ।
नित्यं शुद्धं बुद्धम् एकं नित्यं भर्गम् अधीश्वरम् ॥
अहं ब्रह्म परं ज्योतिर् ध्यायेम हि विमुक्तये ।
तज् ज्योतिर् भगवान् विष्णुर् जगज्-जन्मादि-कारणम् ॥
शिवं केचित् पठन्ति स्म शक्ति-रूपं पठन्ति च ।
केचित् सूर्यं केचिद् अग्निं दैवतान्य् अग्नि-होत्रिणः ॥
अग्न्य्-आदि-रूपी विष्णुर् हि वेदादौ ब्रह्म गीयते ।
तत् पदं परमं विष्णोर् देवस्य सवितुः स्मृतम् ॥
दधातेर् वा धीमहीति मनसा धारयेमहि ।
नोऽस्माकं यच् च भर्गस् तत् सर्वेषां प्राणिनां धियः ॥
चोदयात् प्रेरयाद् बुद्धिं भोक्तॄणां सर्व-कर्मसु ।
दृष्टादृष्ट-विपाकेषु विष्णुः सूर्याग्नि-रूप-भाक् ॥
ईश्वर-प्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा ।
ईशावास्यम् इदं सर्वं महद्-आदि-जगद् धरिः ॥
स्वर्गाद्यैः क्रीडते देवो यो हंसः पुरुषः प्रभुः ।
ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्य-मण्डले ॥
सत्यं सदा-शिवं ब्रह्म विष्णोर् यत् परमं पदम् ।
देवस्य सवितुर् देवो वरेण्यं हि तुरीयकम् ॥
योऽसाव् आदित्य-पुरुषः सोऽसाव् अहम् अनुत्तमम् ।
जनानां शुभ-कर्मादीन् प्रवर्तयति यः सदा ॥ इत्य् आदि ।
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः ।
वृत्रासुर-वधोत्सिक्तं तद् भागवतम् उच्यते ॥ इत्य् आदीनि च ।

तस्माद् भर्ग-ब्रह्म-परा-विष्णु-भगवच्-छब्दाभिन्न-वर्णतया तत्र तत्र निर्दिष्टा अपि भगवत्-प्रतिपादका एव ज्ञेयाः । मध्ये मध्ये त्व् अहंग्रहोपासना-निर्देशस् तत्-साम्य इव लब्धे हि तद्-उपासना-योग्यता भवतीति ।

[१०५.११]

तथा दश-लक्षणर्थोऽप्य् अत्रैव दृश्यः—तत्र सर्ग-विसर्ग-स्थान-निरोधा जन्माद्य् अस्य यतः इत्य् अत्र, मन्वन्तरेशानुकथने च स्थानान्तर्गते पोषणं तेने इत्य्-आदौ । ऊतिर् मुह्यन्ति इत्य्-आदौ । मुक्तिर् जीवानाम् अपि तत्-सान्निध्ये सति कुहक-निरसन-व्यञ्जके धाम्ना इत्य्-आदौ । आश्रयः सत्यं परम् इत्य् आदौ182

स च स्वयं-भगवत्त्वेन निर्णीयत्वात् श्री-कृष्ण एवेति पूर्वोक्त-प्रकार एव व्यक्त इति । तद् एवम् अस्मिन्न् उपक्रम-वाक्ये सर्वेषु पद-वाक्य-तात्पर्येषु तस्य ध्येयस्य सविशेषत्वं मूर्तित्वं भगवद्-आकारं च व्यक्तम् । तच् च युक्तम्, स्वरूप-वाक्यान्तर-व्यक्तत्वात् ।

योऽस्योत्प्रेक्षक आदि-मध्य-निधने योऽव्यक्त-जीवेश्वरो
यः सृष्ट्वेदम् अनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ।
यं सम्पद्य जहात्य् अजाम् अनुशयी सुप्तः कुलायं यथा
तं कैवल्य-निरस्त-योनिम् अभयं ध्यायेद् अजस्रं हरिम् ॥ [१०.८७.५०] इति ।

अतो धर्मः प्रोज्झित- [भा।पु। १.१.२] इत्य्-आदाव् अनन्तर-वाक्येऽपि, किं वा परैर् इत्य्-आदिना तत्रैव तात्पर्यं दर्शितम् [भ।सं। §१०१] ।

इति श्री-भागवत-सन्दर्भे श्री-सर्व-संवादिन्यां

श्री-परमात्म-सन्दर्भानुव्याख्या ॥

॥ १.१ ॥ श्री-व्यासः ॥ १०५ ॥

सर्व-संवादिनी: अथ चतुर्-उत्तर-शततम-वाक्यानन्तरं चतुर्व्यूह-विचारे चैवं विवेचनीयं—भगवद्-वासुदेवयोर् एकत्वम् । पुरुषस्यैव वा निरुपाधिर् अवस्था वासुदेवः । स एव हि परमात्मेति पाञ्चरात्रिकादयः । अयं रक्तः श्यामो गौरश् च । क्वचित् चित्ताधिष्ठातृत्वेनोपासना-विशेषे निर्दिष्टश् च ।

पुरुषस्य च सङ्कर्षणादयो भेदाः । तत्र सङ्कर्षणो महा-समष्टि-जीवस्य प्रकृतेश् च नियमनं सृष्ट्य्-आद्य्-अर्थं करोति । रुद्राधर्म-यम-दैत्यादीनां चांशेन संहार-मात्रार्थम् । अयं शुक्लोऽहङ्काराधिष्ठातृत्वेनोपासना-विशेषे निर्दिष्टः । अस्यैवांशः शेष आविष्टः ।

अथ प्रद्युम्नः सूक्ष्म-ब्रह्माण्ड-नियमनं स्थूल-कार्योत्पत्त्य्-अर्थं करोति । ब्रह्म-प्रजापति-स्मर-रागिणां चांशेन विसर्ग-मात्रार्थम् । अयं गौरः श्यामो वा । पूर्ववद् बुद्ध्य्-अधिष्ठातृत्वेनोपास्यः । अस्यैवांशः काम आविष्टः ।

अथानिरुद्धः स्थूल-ब्रह्माण्ड-नियमनं ब्रह्माद्य्-आविर्भावन-मुख्य-सृष्ट्य्-आद्य्-अर्थं करोति । धर्मम् अनुदेव-भूभुजां विष्णु-रूपेण स्थिति-मात्रार्थम् । अयं श्यामः । पूर्ववन् मनस्य् उपास्यः । मोक्ष-धर्मे183 तु—मनसि प्रद्युम्नः, अहङ्कारेऽनिरुद्धः इति । पाञ्चरात्रिक-मतं चैतत् । एते परम-वैकुण्ठावरणस्था अपि पाद्मादौ-मताः184 । प्रपञ्चे एवैते जलावृतिस्थ-वेदवती-पुरे सत्योर्ध्व-द्वारकादिषु विराजन्ते ।

यत् तु पञ्चरात्रादौ साङ्कर्षणादयो जीव-मनोऽहङ्कारतया श्रूयन्ते, तत् तु न ते जीवादय इत्य् एवाभिप्रायम्, किन्तु तत्-तद्-अधिष्ठातृत्वेनोपास्यत्वाभिप्रायम् एव । सर्वत्र तेषां वासुदेव-तुल्यत्वाम्नानात् । तुल्यत्वे चोत्पत्तिर् दीप-परम्परावत् ।

अथ चोत्पत्तिस् तत्राविर्भावार्थैव । तथाप्य् आधिक्यं वासुदेवे स्याद् इति चेत् ? अस्तु, साम्योक्तिस् त्व् अंशांशिनोर् एकतापत्तित एव स्यात् । यथोक्तं—

सोऽच्युतोऽच्युत-तेजाश् च स्वरूपं वितनोति वै ।
आश्रित्य वासुदेवं च स्वस्थो मेघो जलं यथा ॥ इति185

अनन्त-व्यूहे चतुष्टयता-मात्र-सङ्ख्या मुख्यत्वापेक्षयेत्य् अपि मन्तव्यम् । तस्माच् छुद्धैवैषा पाञ्चरात्रिकी प्रक्रिया ।

ननु पञ्चरात्रे बहुविधो विप्रतिषेध उपलभ्यते गुण-गुण्य्-आदीनाम् एक-वस्तुत्वादि-लक्षणः—ज्ञानैश्वर्य-बल-तेजांसि गुणा आत्मन एव ते भगवन्तो वासुदेवाः इत्य् आदि-दर्शनाद् वेद-विप्रतिषेधश् च भवति । चतुर्षु वेदेषु परं श्रेयो न लब्ध्वा शाण्डिल्य इदं शास्त्रम् अधीतवान् इत्य्-आदि-वेद-निन्दा-दर्शनाद् इति चेत् ? न, तत्राद्यः पक्षः शक्ति-शक्तिमतोर् अभिन्न-वस्तुता-स्वीकारेण पूर्वम् एव निरस्तः । भेद-मतेऽपि विशिष्टस्यैव भगवत्-स्वरूपत्वान् न दोषः । अन्तेऽपीदं ब्रूमः—न तत्र वेद-निन्दनम् आयाति । किं तर्हि ? वेदस्य, किं विधत्ते किम् आचष्टे [भा।पु। ११.२१.४२] इत्य् आदि-न्यायेन दुर्बोधत्वं, पञ्चरात्रस्य समास-सङ्गृहीत-स्फुट-तद्-अर्थ-सारत्वात् सुबोधत्वम् इत्य् एवायाति । स्मृति-पुराणानाम् अप्य् एवं-गुणता पठ्यते, यथा स्कान्दे प्रभास-खण्डे, मात्स्ये च—

यन् दृष्टं हि वेदेषु तद् दृष्टं स्मृतिषु द्विजाः ।
उभयोर् यन् न दृष्टं तु तत् पुराणे प्रगीयते ॥
यो वेद चतुरो वेदान् साङ्गोपनिषदो द्विजाः ।
पुराणं नैव जानाति न च स स्याद् विचक्षणः ॥ इति ।

नारदीये च—वेदार्थाद् अधिकं मन्ये पुराणार्थं वरानने इति ।

ननु ब्रह्म-सूत्रेष्व् एव ते पाञ्चरात्रा दोषाः सूच्यन्ते, उत्पत्त्य्-असम्भवात् [वे।सू। २.२.४२] इत्य् आदिषु ? मैवम् । तानि हि सूत्राणि श्री-मध्वाचार्यादिभिः शाक्त-मत-दूषणायैव विवृतानीति । किं च, ताः पाञ्चरात्रिक-प्रक्रिया भगवता श्री-बादरायणेनैव स्वयं पुराणादिषु दर्शिताः । वासुदेवादि-व्यूहानां शतशस् तथैवाभ्युपपत्तेः । श्रुतिष्व् अपि ताः प्रक्रियाः शतशो दृश्यन्ते । तथैकस्य गुण-गुणि-रूपत्वम् अपि श्री-विष्णु-पुराणादौ तद्वद् एवाङ्गीक्रियते—

ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ [वि।पु। ६.५.७९] इत्य् आदिना ।

तस्माद् अपि न निन्द्या पाञ्चरात्रिकी प्रक्रिया । उक्तं च महाभारते—

सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा ।
ज्ञानान्य् एतानि राजर्षे विद्धि नाना मतानि वै+++([ ])+++॥186 इति ।

यत् तु कौर्मे श्री-भगवद्-वाक्यं—

तस्माद् वै वेद-बाह्यानां वञ्चनार्थाय पापिनाम् ।
विमोहनाय शास्त्राणि करिष्यसि वृषध्वज ॥
एवं सञ्चोदितो रुद्रो माधवेनासुरारिणा ।
चकार मोह-शास्त्राणि केशवोऽपि शिवे स्थितः ॥
कापालं नाकुलं वामं भैरवं पूर्व-पश्चिमम् ।
पाञ्चरात्रं पाशुपतं तथ यानि सहस्रशः ॥ [१.१६.११५-११७] इति ?

तत्रोच्यते—साङ्ख्यादि-शास्त्राणि यदि श्री-भगवत्य् एव पर्यवसाय्यन्ते, तदैव प्रमाणम्, न तु स्वतः । पञ्चरात्रस्य स्वत एव तद्-अभिधायकता । तद् एव स्वतः प्रमाणं, न त्व् अन्यत् पशुपत्य्-आद्य्-अभिधायकम् इति । यतो मोक्ष-धर्मे नारायणीये साङ्ख्यादीन्य् अन्यार्थान्य् अपि तत्रैव पर्यवसायितानि ।

पञ्चरात्र-विदां तु साक्षाद्-भगवत्-प्राप्तिम् उक्त्वा तस्यशास्त्रस्य साक्षाद् एव भगवद्-अभिधायकत्वम् आह । अतो येन येन देवतान्तरम् अभिधीयते, तत् तत् पञ्चरात्रं न गृहीतव्यम् इति निन्दा-श्रवणम् अपि तस्यैव भवेत् । तथा हि—

सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा ।
ज्ञानान्य् एतानि राजर्षे विद्धि नाना मतानि वै+++([ ])+++॥187 इति ।

साङ्ख्यस्य वक्ता कपिलः [१२.३३७.६०] इत्य् उपक्रम्य पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयं [१२.३३७.६३] इति, स्वयं-पदेन तस्याधिक्यं प्रतिपाद्य,

सर्वेषु च नृपश्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते ।
यथागमं यथा ज्ञानं निष्ठा नारायणः प्रभुः ॥ [१२.३३७.६४]

इत्य् आदिना पञ्चरात्राभिधेये नारायण एव सर्व-शास्त्र-समन्वयं दर्शयित्वा,

पञ्चरात्र-विदो ये तु यथा-क्रम-परा नृप ।
एकान्त-भावोपगतास् ते हरिं प्रविशन्ति वै ॥ [१२.३३७.६७]

इति तत्-प्रतिपाद्यस्य परम-फलत्वम् आह । भाल्लवेय-श्रुतिश् चात्र भवति—

उपास्य एकः परतः परो वै
वेदैश् च सर्वैः सह चेतिहासैः ।
स-पञ्चरात्रैः स-पुराणैश् च देवः
सर्वैर् गुणैस् तत्र तत्र प्रतीतेः ॥ [वे।सू। ३.३.६ मध्व] इति ।

भविष्य-पुराणे—

ऋक्-यजुः-सामाथर्वाख्या भारतं पञ्चरात्रकम् ।
मूल-रामायणं चैव वेद इत्य् एव शब्दिताः ॥
पुराणानि च यानीह वैष्णवानि विदो विदुः ।
स्वतः-प्रामाण्यम् एतेषां नात्र किञ्चिद् विचार्यते ॥ इति ।

स्वयं श्री-भागवतेनापि वैष्णव-पञ्चरात्रं स्तूयते—

तृतीयम् ऋषि-सर्गं वै देवर्षित्वम् उपेत्य सः ।
तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः ॥ [भा।पु। १.३.८] इत्य् आदौ ।

तद् एवं पाञ्चरात्रिकं मतम् अनुत्तमम् एवेति सिद्धम् ।

इति श्री-भागवत-सन्दर्भे श्री-सर्व-संवादिन्यां

श्री-परमात्म-सन्दर्भानुव्याख्या ॥


[१०६]

तथोपसंहार-वाक्याधीनार्थत्वाद्188 उपक्रम-वाक्यस्य नातिक्रमणीयम् एव ।

कस्मै येन विभासितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा
तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा ।
योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस्
तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि ॥

कस्मै येन विभासितोऽयम् इत्य्-आदि-दर्शितम् तस्य तादृश-विशेषवत्त्वादिकम् । यथैव आत्म-गृहीतिर् इतरवद् उत्तरात् [वे।सू। ३.३.१६] इत्य् अत्र शङ्कर-शारीरकस्यापरस्यां योजनायाम् उपक्रमोक्तस्य सच्-छब्द-वाच्यस्यात्मत्वम् उपसंहार-स्थाद् आत्म-शब्दाल् लभ्यते । तद्वद् इहापि चतुःश्लोकी-वक्तुर् भगवत्त्वं, दर्शितं च श्री-व्यास-समाधाव् अपि तस्यैव ध्येयत्वम् । तद् एव च स्व-सुख-निभृत- [भा।पु। १२.१२.६९]189 इत्य्-आदि श्री-शुक-हृदयानुगतम् इति ।

अथोपसंहार-वाक्यस्याप्य् अयम् अर्थः—कस्मै गर्भोदक-शायि-पुरुष-नाभि-कमलस्थाय ब्रह्मणे, तत्रैव येन महा-वैकुण्ठं दर्शयता द्वितीय-स्कन्ध-वर्णित-तादृश-श्री-मूर्त्य्-आदिना भगवता विभासितः प्रकाशितः, न तु तदापि रचितः । अयं श्री-भागवत-रूपः पुरा पूर्व-परार्धादौ तद्-रूपेण ब्रह्म-रूपेण तद्-रूपिणा श्री-नारद-रूपिणा योगीन्द्राय श्री-शुकाय तद्-आत्मना श्री-कृष्ण-द्वैपायन-रूपेण । तद्-आत्मनेत्य् अस्योत्तरेणान्वयः । तत्र तद्-आत्मना श्री-शुक-रूपेणेति ज्ञेयम् । तद्-रूपेणेत्य्-आदिभिस् त्रिभिः पदैर् न केवलं चतुःश्लोक्य् एव तेन प्रकाशिता किं तर्हि तत्र तत्राविष्टेनाखण्डम् एव पुराणम् इति द्योतितम् । अत्र मद्-रूपेण च युष्मभ्यम् इति सङ्कोचेनानुक्तोऽपि श्री-सूत-वाक्य-शेषो गम्यः । एवं सर्वस्यापि श्री-भागवत-गुरोर् महिमा दर्शितः । सङ्कर्षण-सम्प्रदाय-प्रवृत्तिस् तु कृष्ण-द्वैपायन-कर्तृक-प्रकाशनान्तर्-गतैवेति पृथङ् नोच्यते ।

तत् परं सत्यं श्री-भगवद्-आख्यं तत्त्वं धीमहि । यत् तत् परम् अनुत्तमम् इति सहस्र-नाम-स्तोत्रात् पर-शब्देन च श्री-भगवान् एवोच्यते । आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४२] इति द्वितीयात् । ब्रह्मादीनां बुद्धि-वृद्धि-प्रेरकत्वेनाभिधानाद् गायत्र्या अप्य् अर्थोऽयं ग्रन्थ इति दर्शयति । तद् उक्तं—गायत्री-भाष्य-रूपोऽसौ भारतार्थ-विनिर्णयः [गरुड-पुराण]190 इति ॥

॥ १२.१३ ॥ श्री-सूतः ॥ १०६ ॥

[१०७]

अथाभ्यासेन—

कलि-मल-संहति-कालनोऽखिलेशो
हरिर् इतरत्र न गीयते ह्य् अभीक्ष्णम् ।
इह तु पुनर् भगवान् अशेष-मूर्तिः
परिवृतोऽनुपदं कथा-प्रसङ्गैः ॥ [भा।पु। १२.१२.६६]

कालनो नाशनः । इतरत्र कर्म-ब्रह्मादि-प्रतिपादक-शास्त्रान्तरे । अखिलेशो विराड्-अन्तर्यामी नारायणोऽपि तत्-पालको विष्णुर् वापि न गीयते क्वचिद् गीयते वा, तत्र त्व् अभीक्ष्णं नैव गीयते। तु-शब्दोऽवधारणे । साक्षात् श्री-भगवान् पुनर् इह श्री-भागवत एवाभीक्ष्णं गीयते। नारायणादयो वा येऽत्र वर्णिताः, तेऽप्य् अशेषा एव मूर्तयोऽवतारा यस्य सः । तथा-भूत एव गीयते, न त्व् इतरत्रैव तद्-अविवेकेनेत्य् अर्थः । अत एव तत्-तत्-कथा-प्रसङ्गैर् अनुपदं पदं पदम् अपि लक्ष्यीकृत्य भगवान् एव परि सर्वतो-भावेन पठितो व्यक्तम् एवोक्त इति । अनेनापूर्वतापि व्याख्याता अन्यत्रानधिगतत्वात् ।

॥ १२.१२ ॥ श्री-सूतः ॥१०७॥

[१०८]

अथ फलेनापि—

पिबन्ति ये भगवत आत्मनः सतां
कथामृतं श्रवण-पुटेषु सम्भृतम् ।
पुनन्ति ते विषय-विदूषिताशयं
व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥ [भा।पु। २.२.३७]

सताम् आत्मनः प्राणेश्वरस्य । यद् वा, व्यधिकरणे षष्ठी सताम् आत्मनः स्वस्य यो भगवांस् तस्येत्य् अर्थः । तेषां भगवति स्वामित्वेन ममतास्पदत्वात् अत्र कथामृतं प्रक्रम्यमाणं श्री-भागवताख्यम् एव मुख्यम्, यस्यां वै श्रूयमाणायाम् [भा।पु। १.७.७] इत्य्-आदिकं च तथैवोक्तम् इति ।

॥ २.२ ॥ श्री-शुकः ॥१०८॥

[१०९]

अथार्थ-वादेन—

यं ब्रह्म वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर्
वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं सामागाः ।
ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥ [१२.१३.१]

स्तवैर् वेदैश्स्तुन्वन्ति स्तुवन्ति । ध्यानेनावस्थितं निश्चलं तद्-गतं यन्-मनः, तेन ॥

॥ १२.१३ ॥ श्री-सूतः ॥ १०९ ॥

[११०]

अथोपपत्त्या—

भगवान् सर्व-भूतेषु
लक्षितः स्वात्मना हरिः ।
दृश्यैर् बुद्ध्य्-आदिभिर् द्रष्टा
लक्षणैर् अनुमापकैः ॥ [भा।पु। २.२.३५]

प्रथमं द्रष्टा जीवो लक्षितः । कैः ? दृश्यैर् बुद्ध्य्-आदिभिः । तद् एव द्वेधा दर्शयति—दृश्यानां जडानां बुद्ध्य्-आदीनां दर्शनं स्व-प्रकाशं द्रष्टारं विना न घटत इत्य् अनुपपत्ति-द्वारा लक्षणैः स्व-प्रकाश-द्रष्टृ-लक्षकैः, तथा बुद्ध्य्-आदीनि कर्तृ-प्रयोज्यानि करणत्वाद् वास्यादिवद् इति व्याप्ति-द्वारा अनुमापकैर् इति ।

अथ भगवान् अपि लक्षितः । केन ? सर्व-भूतेषु सर्वेषु तेषु द्रष्टृषु प्रविष्टेन स्वात्मना स्वांश-रूपेणान्तर्यामिणा । आदौ सर्वैर् द्रष्टृभिर् अन्तर्यामी लक्षितः, ततस् तेन भगवान् अपि लक्षित इत्य् अर्थः । स च स च पूर्ववत् द्विधैव लक्ष्यते । तथा हि—कर्तृत्व-भोक्तृत्वयोर् अस्वातन्त्र्य-दर्शनात् कर्मणो जडत्वात् सर्वेषाम् अपि जीवानां तत्र तत्र प्रवृत्तिर् अन्तः-प्रयोजक-विशेषं विना न घटत इत्य् अनुपपत्ति-द्वारान्तर्यामी लक्ष्यते—एष ह्य् अनेनात्मना चक्षुषा दर्शयति, श्रोत्रेण श्रावयति, मनसा मानयति, बुद्ध्या बोधयति, तस्माद् एताव् आहुः—सृतिर् असृतिः इति भाल्लवेय-श्रुतिश् च ।

अथ तस्मै चान्तर्यामित्वैश्वर्याय तेषु यदि सर्वांशेनैव प्रविशति कोऽपि परस् तदा स्वतः पूर्णत्वाभावाद् अनीश्वरत्वम् एव स्याद् इत्य् अनुपपत्ति-द्वारान्तर्यामि-रूपेण तस्यांशेन भगवान् अपि लक्षितः । अत एव गीतोपनिषत्सु—

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥ [गीता १०.४२] इति ।

विष्णु-पुराणे च—स्व-शक्ति-लेशावृत-भूत-सर्गः [वि।पु। ६.५.८४] इति । तथा जीवाः प्रयोजक-कर्तृ-प्रेरित-व्यापाराः, अस्वातन्त्र्यात् । तक्षादि-कर्म-कर-जनवद् इत्य् एवम् अन्तर्यामिणि तत्त्वे व्याप्ति-द्वारा सिद्धे, पुनस् तेनैव भगवान् अपि साध्यते । तुच्छ-वैभव-जीवान्तर्यामि-स्वरूपम् ईश्वर-तत्त्वं निजांशि-तत्त्वाश्रयं तथैव पर्याप्तेः । राज-प्रभुत्वाश्रित-तक्षकादि-कर्म-कर प्रयोजक-प्रभुत्वादिवद् इति ।

अथवात्र,

यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः ।
एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः ॥ [भा।पु। ३.३२.३३]

इत्य् एवोदाहरणीयम् । अनेनैव गति-सामान्यं च सिध्यतीति ॥

॥ २.२ ॥ श्री-शुकः ॥ ११० ॥

प्रत्यवस्थापितं वदन्तीत्य्-आदि-पद्यम् ।

इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री-भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन-भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे परमात्म-सन्दर्भो नाम तृतीयः सन्दर्भः ॥

श्री-भागवत-सन्दर्भे सर्व-सन्दर्भ-गर्भ-गे ।

परमात्माभिधेयोऽसौ सन्दर्भोऽभूत् तृतीयकः ॥

समाप्तोऽयं तृतीयः सन्दर्भः ॥

सर्व-संवादिनी श्री-परमात्म-सन्दर्भानुव्याख्या ।

—ओ)०(ओ—

[७७-७८] सर्व-संवादिनी: अथ षष्ठ-सप्ततिम-वाक्य-व्याख्यानन्तरम् एवं विवेचनीयं । तद् एवं परिणामाङ्गीकारेण विश्वस्य सत्यत्वं साधितम् । तत्र कार्य-कारणयोर् अनन्यत्वं दर्शितम् । विवर्त-वाद-निषेधेनाभेदश् च परिहृतः ।

अतः केचिद् वदन्ति—अत एकस्यैव वस्तुनोऽवस्था-भेदेन कारणत्वं कार्यत्वं चेत्य् अवस्थाभ्यां भेदाद् वस्तुना त्व् अभेदात् तयोर् भेदाभेदौ । एवं सर्वेषाम् एव वस्तूनां भेदाभेदाव् एव । सर्वत्र हि कारणात्मना जात्य्-आत्मना चाभेदः । कार्यात्मना व्यक्त्य्-आत्मना च भेदः प्रतीयते, यथा “मृद् अयं घटः”, “षण्डो गौः” इति । अत्र युक्ति-विशेषाश् च भास्कर-मतादौ द्रष्टव्याः ।

अन्ये वदन्ति—न तावत् कार्य-कारणयोर् भेदाभेदौ, यत आकार-विशेष-रूपाया एवावस्थायाः कार्यत्वं, न मृदः, तस्या पूर्व-सिद्धत्वात् । अत एव नाकार-विशेष-विशिष्टाया अपि तस्या कार्यत्वम् । घटत्वं तु तद्-विशिष्टाया एव । तत्-कार्य-कारणत्व-तत्-प्रतीति-तच्-छब्द-प्रयोगाणां तस्याम् एव दर्शनात् । अतो घटस्य कार्यत्वं कार्यस्य घटत्वं प्राचूर्याद् इव व्यपदिश्यते । तद् एवं तद्-अवस्थाया एव कार्यत्वे सिद्धे कारणत्वम् अपि परस्यास् तद्-अवस्थाया एव भविष्यति । ततश् च कार्य-कारणयोस् तद्-रूपावस्था-द्वयाश्रयस्य वस्तुनश् च भिन्नत्वम् एव ।

तयोर् अनन्यत्वं तु घटादि-लक्षण-विशिष्ट-वस्त्व्-अपेक्षयैव, न तु प्रत्येक-वस्त्व्-अपेक्षया । तथा परस्परं कार्याणाम् अपि न भिन्नाभिन्नत्वं प्रतीयते, प्रत्येकं वैलक्षण्यात् । तथा व्यक्ति-गत-भेदो जाति-गतश् चाभेद इति नैकस्य द्व्य्-आत्मकता । तद्-आकार-द्वयाश्रयं वस्त्व्-अन्तरम् अस्तीति त्रितयाभ्युपगमेऽपि स एव दोषः । अनवस्थापातश् च, तस्माद् भेद एव । तत् त्वम् अस्य् आदाव् अभेद-निर्देशस् तु व्याख्यात एव ।

अत्र भेद-सिद्धान्ते युक्ति-बाहुल्यं च स-न्याय-न्यायामृत-दर्शनादौ द्रष्टव्यम् । अतो भेदाभेद-वादो विशिष्ट-वस्त्व्-अपेक्षयैव प्रवर्तनात् । अभेद-वादश् च विशेषानुसन्धान-राहित्येनैवेति ।

अपरे तु, तर्काप्रतिष्ठानात् [वे।सू। २.१.११] इति न्यायेन भेदेऽप्य् अभेदेऽपि निर्मर्याद-दोष-सन्तति-दर्शनेन भिन्नतया चिन्तयितुम् अशक्यत्वाद् अभेदं साधयन्तस् तद्वद् अभिन्नतयापि चिन्तयितुम् अशक्यत्वाद् भेदम् अपि साधयन्तोऽचिन्त्य-भेदाभेद-वादं स्वीकुर्वन्ति ।

तत्र बादर-पौराणिक-शैवानां मते भेदाभेदौ, भास्कर-मते च । मायावादिनां तत्र भेदांशो व्यावहारिक एव प्रातीतिको वा । गौतम-कणाद-जैमिनि-कपिल-पतञ्जलि-मते तु भेद एव । श्री-रामानुज-मध्वाचार्य-मते चेत्य् अपि सार्वत्रिकी प्रसिद्धिः । स्व-मते त्व् अचिन्त्य-भेदाभेदाव् एवाचिन्त्य-शक्तिमयत्वाद् इति ।

—ओ)०(ओ—


  1. श्री-कृष्णो जयति (ग), श्री-कृष्ण-चैतन्याय नमः (घ); श्री-वृन्दावन-चन्द्राय नमः (छ) ↩︎

  2. क्रान्तम् उत्क्रान्त- (जदव्पुर्) ↩︎

  3. इतीत्थं इति क्रम-सन्दर्भ-पाठः। ↩︎

  4. सेन्तेन्चे फ़्रोम् यद्यपि नोत् इन् जदव्पुर्। ↩︎

  5. सर्व-क्षेत्रज्ञस्य इति विविध-पाण्डुलिपिभ्यः पुरीदासैर् धृतः क्रम-सन्दर्भ-पाठः। ↩︎

  6. भगवतो मायया इति क्रम-सन्दर्भस्य ख-[बङ्गीय-साहित्य-परिषत्-स्थित-१३७-साङ्ख्यक-]करलिपेः पाठः। पुरीदास-संस्करणे द्रष्टव्यः। ↩︎

  7. यः शुद्धोऽपि… तिरोहिताश् चेति इत्य् अत्र ख-करलिपेः पठान्तरम्—मनसो मन-आद्य्-उपाधेर् जीवस्याध्यात्मिकावस्थस्य द्रष्टुः, अत एव माया-रचितस्य तयान्यथात्वम् इव प्राप्तस्य, तस्माद् एवाविशुद्ध-कर्तुर् अविशुद्धश् चासौ कर्ता कर्म-सूत्र-पतिश् चेति तस्य, अविशुद्धं भगवद्-बहिर्मुखं कर्म तत्-कर्तुर् वा । नित्याः प्रवाह-रूपेणाविच्छिन्ना जाग्रत्-स्वप्नयोर् आविर्भूता विभूतीः पश्यति, क्वापि सुषुप्तौ तिरोहिताः पश्यति । केवलं पश्यत्य् एव, न तु तत्र तत्र संसक्तो भवतीति सोऽवस्था-त्रय-साक्षी, तस्यैव तूर्य-रूपः क्षेत्रज्ञो जीवः शुद्ध इत्य् अर्थः । एकस्य युगपच् छुद्धत्वम् अशुद्धत्वं चेति व्यवस्था तु वस्तुतस् तस्मिन् नास्ति, किन्त्व् अज्ञानेनैवासौ तद् आत्मनि मन्यत इत्य् अभिप्रायेण तथोक्तं श्री-भगवता, बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः [भा।पु। ११.११.१] इति ॥ ↩︎

  8. अपीश्वरस्य (ज) ↩︎

  9. अन्तर्यामितया (झ) ↩︎

  10. माया-मोहितात् जीवाद् अन्यः, माया-रहितः शुद्धः । (झ; क्रम-सन्दर्भ) ↩︎

  11. एवेत्य् एवार्थं वहति (झ) ↩︎

  12. वैयर्थ्योपपत्तेः (ङ) ↩︎

  13. स-विशेषत्वस्यैव (क्रम-सन्दर्भः) ↩︎

  14. निर्देश्यमाणत्वात् (ख), निर्दिष्टत्वात् (क्रम-सन्दर्भ,ङ) ↩︎

  15. ममेत्य् (जादव्पुर्) ↩︎

  16. -लक्षणस्य (ज) ↩︎

  17. न दृश्यते (छ) ↩︎

  18. यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् । योगेन दान-धर्मेण श्रेयोभिर् इतरैर् अपि ॥ सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा । ↩︎

  19. तत्र मूले न प्राप्तम्। ↩︎

  20. शरीर-क्षेत्रज्ञयोर् (ज) ↩︎

  21. देहोऽसवोऽक्षा मनवो भूत-मात्राम् आत्मानम् अन्यं च विदुः परं यत् । सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्व-ज्ञम् अनन्तम् ईडे ॥ ↩︎

  22. अत्र शङ्कराचार्य-भगवत्-पादानां भाष्ये—“यद् उपक्रमे सन्दिग्धार्थं वाक्यं तच् छेषान् निश्चीयते ।” इति । ↩︎

  23. चेतना-गतं इति क्रम-सन्दर्भे यादवपुर-संस्करणेऽपि च धृत-पाठः। ↩︎

  24. कला-काष्ठा-निमेषादि-काल-सूत्रस्य गोचरे । यस्य शक्तिर् न शुद्धस्य प्रसीदतु स मे हरिः ॥ ↩︎

  25. चासकृद् इति यादवपुर-पाठः । ↩︎

  26. भवानी-नाथैः स्त्री-गणार्बुद-सहस्रैर् अवरुध्यमानो भगवतश् चतुर्मूर्तेर् महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञाम् आत्म-समाधि-रूपेण सन्निधाप्यैतद् अभिगृणन् भव उपधावति इति पूर्ण-वाक्यम् । आत्मनः प्रकृतिम् अंशित्वात् कारणम् इति विश्वनाथः ॥ ↩︎

  27. आदाव् अभूच् छत-धृती रजसास्य सर्गे विष्णुः स्थितौ क्रतु-पतिर् द्विज-धर्म-सेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्य् उद्भव-स्थिति-लयः सततं प्रजासु ॥ अष्टमोऽनुच्छेदो द्रष्टव्यः। ↩︎

  28. सृजमानां ↩︎

  29. इन् लघु-भागवतामृत १.२.९, थिस् इस् गिवेन् अस् सात्वत-तन्त्र। ↩︎

  30. एकं तु (झ) ↩︎

  31. लिङ्गम् इति—यस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थिता [वि।पु। १.९.५३] इति विष्णु-पुराणानुसारेण प्रपञ्चात्मनस् तस्य महा-भगवद्-अंशस्य स्वांश-ज्योतिर्-आच्छन्नत्वाद् अप्रकट-रूपस्य पुरुषस्य लिङ्गं लिङ्ग-स्थानीयः यः प्रपञ्चोत्पादकोऽंशः, स एव शम्भुः । अन्यस् तु तद्-आविर्भाव-विशेषत्वाद् एव शम्भुर् उच्यते इत्य् अर्थः । … तस्माल् लिङ्ग-रूपी प्रपञ्चोत्पादकस् तद्-अंशोऽपि शक्तिमान् पुरुष उच्यते, महेश्वरोऽप्य् उच्यते । ततश् च तस्मिन् भूत-सूक्ष्म-पर्यन्ततां प्राप्ते लिङ्गे स्वयं तद्-अंशी महा-विष्णुर् आविरभूत् प्रकट-रूपेणाविर्भवति । … इति ब्रह्म-संहिता-टीकायां श्री-जीव-गोस्वामि-पादाः। ↩︎

  32. तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्योऽभिचाकशीति ॥ ↩︎

  33. ओन्ल्य् थे फ़िर्स्त् लिने इस् गिवेन् इन् थे तेxत्। ↩︎

  34. परार्ध्य-केयूर-मणि-प्रवेक- पर्यस्त-दोर्-दण्ड-सहस्र-शाखम् । अव्यक्त-मूलं भुवनाङ्घ्रिपेन्द्रम् अहीन्द्र-भोगैर् अधिवीत-वल्शम् ॥ ↩︎

  35. अथ तत्राप्य् एक-देशिनां मतम् आह—केचिद् इत्य्-आदि-सार्ध-चतुष्कैः व्यष्ट्य्-अन्तर्यामिण एव धारणेयम् । गर्भोदक-शायि-रूप-समष्ट्य्-अन्तर्यामि-धारणा तु तृतीय-स्कन्धे तत्-तद्-वर्णनानुसारेण ज्ञेया । सैव सूचिता तं सत्यम् आनन्द-निधिं भजेत [भा।पु। २.१.३९] इत्य् अनेनेति ॥ इति क्रम-सन्दर्भः ॥ ↩︎

  36. तत्र द्वितीय-पुरुषस्य गुणावतारा (ख, च, छ)। ↩︎

  37. विष्णुः सत्त्वेनेत्य् अनुक्तिस् तस्य शुद्ध-सत्त्व-रूपत्वात्, सान्निध्येनैव सत्त्व-गुणोपकारकत्वाच् च इति क्रम-सन्दर्भे । ↩︎

  38. विवृत्तोऽस्ति (यादवपूर) ↩︎

  39. यो वा अहं च गिरिशश् च विभुः स्वयं च स्थित्य्-उद्भव-प्रलय-हेतव आत्म-मूलम् । भित्त्वा त्रि-पाद् ववृध एक उरु-प्ररोहस् तस्मै नमो भगवते भुवन-द्रुमाय ॥ ↩︎

  40. परीक्षायां (ङ, ज)। ↩︎

  41. परमात्माकारत्वेनाप्रकाशात् (ज) ↩︎

  42. मोक्षकः (ग, ज) ↩︎

  43. सकाशाद्… तद्-उक्त-कर्माविर्भावास्पदम् इत्य् अत्र ख-करलिपेः पाठान्तरम्—सकाशाद् धूमः प्रवृत्ति-स्वभावस् त्रयीमयो वेदोक्त-कर्म-प्रचुर ईषत्-कर्माङ्ग-प्रत्यासत्तेः । तस्माद् अपि अग्निः प्रवृत्ति-प्रकाश-स्वभावस् त्रयीमयः, साक्षात् कर्माविर्भावास्पदत्वात् । ↩︎

  44. ब्रह्मणः परतत्त्वस्य (ख) ↩︎

  45. बृहद् उपलब्धम् एतद् अवयन्त्य् अवशेषतया यत उदयास्त-मयौ विकृतेर् मृदि वाविकृतात् । अत ऋषयो दधुस् त्वयि मनो-वचनाचरितं कथम् अयथा भवन्ति भुवि दत्त-पदानि नृणाम् ॥ ↩︎

  46. किंचन ↩︎

  47. नोत् फ़ोउन्द् इन् म्य् एदितिओन् ओफ़् महोपनिषद्। ↩︎

  48. नारायण पूर्व-तापनी उपनिषद् १.४ (अच्चोर्दिन्ग् तो हरिदास शास्त्रीऽस् एदितिओन्)। ↩︎

  49. ब्रह्म-विष्ण्व्-ईश-रूपाणि त्रीणि विष्णोर् महात्मनः । ब्रह्मणि ब्रह्म-रूपः स शिव-रूपः शिवे स्थितः ॥ पृथग् एव स्थितो देवो विष्णु-रूपी जनार्दनः ॥ इति [१२.२ परिच्छेदो द्रष्टव्यः] ↩︎

  50. वक्ति (झ) ↩︎

  51. तामसादि- (ग, छ, ज) ↩︎

  52. -महिमस्यैव (ग) ↩︎

  53. अवगम्यते (ग, छ) ↩︎

  54. थिस् वेर्से अन्द् चोम्मेन्त् अरे नोत् फ़ोउन्द् इन् अल्ल् एदितिओन्स्। ↩︎

  55. अंश- (झ) ↩︎

  56. इत्य् अत्रोक्तं (ह्द्स्)। भ्प् ५.११.१२ इस् क़ुओतेद् अन्द् दिस्चुस्सेद् इन् सेच्तिओन् १। ↩︎

  57. श्री-रामानुजाचार्याद् अतिप्राचीनेन श्री-वैष्णव-सम्प्रदाय-गुरुणा (झ, जादव्पुर) ↩︎

  58. एक-रूप-स्वरूप-भाक् ↩︎

  59. द्रष्टव्यं तत्त्व-सन्दर्भे ७ (५४)। ↩︎

  60. थिस् वेर्से इस् फ़िर्स्त् क़ुओतेद् इन् श्रीधरऽस् चोम्मेन्तर्य् तो भा।पु। ११.१५.१६ अन्द् लतेर् अत् च्च् १.२.५३। ↩︎

  61. ज्ञान-शक्ति-प्रकाश-वस्तुनः (ग) ↩︎

  62. किं तर्हि ज्ञान-मात्रत्वेऽपि ज्ञातृत्वं प्रकाश-वस्तुनः प्रकाश-मात्रत्वेऽपि प्रकाश-मात्रत्ववत् तादृशत्वम् अपि इति ङ-ज-करलिप्योः पाठान्तरम्। ↩︎

  63. निरस्तम् (ख)। थिस् इस् थे मैन् वेर्से इन् पर। ६ ओफ़् थे ग्ग्म् एदितिओन् ओफ़् तत्त्व-सन्दर्भ, सेच्तिओन् ५४ इन् मोस्त् प्रिन्तेद् एदितिओन्स्। ↩︎

  64. सवनवित्त्वेनोक्तम् (ज) ↩︎

  65. इत्य् अर्थः (झ, जदवपुर) ↩︎

  66. स्वरूप- (झ, जदव्पुर्) ↩︎

  67. तस्मात् तु (झ, जदव्पुर्) ↩︎

  68. तत्र प्रकाश… चिद्-रूप उच्यते इत्य् अत्र क-ख-ग-ङ-करलिपीनां तथा ज-ग्रन्थस्य च पाठान्तरम्—प्रकाशोऽपि नाम स्वस्य परस्य व्यवहार-योग्यतापादको वस्तु-विशेषः । स च पदार्थान्तरे (घटादौ) दीपादि-भास्यमानत्वाद् अन्याधीन इति न स्वयं-प्रकाशः । अनन्याधीन-प्रकाशता तु स्व-स्वत्तयैव स्वाश्रयं प्रति प्रकाशमानता यथा दीपादौ न हि दीपादेः स्व-बल-निर्भासितत्वेनाप्रकाशत्वम् अन्याधीन-प्रकाशत्वं वा । किन्तु तर्हि दीपः प्रकाश-स्वभावः स्वयम् एव प्रकाशते, अन्यान् अपि प्रकाशयति । एवम् अपि दीपादिः स्वयं यत् प्रकशते, तन् न स्वार्थं किन्तु परार्थम् एव यत एव जडोऽसौ । आत्मा तु स्वयं स्वात्मानम् प्रत्य् अपि प्रकाशमानः स्वस्मै स्वयं प्रकाशः । अत एवास्याजडत्वम् ॥ ↩︎

  69. चेति (जदव्पुर्) ↩︎

  70. स्पष्टार्थम् (झ, जदव्पुर्) ↩︎

  71. क़ुओतेद् अबोवे इन् सेच्तिओन् २१। ↩︎

  72. प्रतिस्वं (झ, जदवपुर) ↩︎

  73. अबोवे, सेच्तिओन् १९। ↩︎

  74. ज्ञानिनो (झ, जदव्पुर्) ↩︎

  75. आनन्दात्मकत्वं (ज) ↩︎

  76. विशेषाद् (झ,जदव्पुर्) ↩︎

  77. चेतना-गुणेन ↩︎

  78. सर्व- ↩︎

  79. व्यपदेश-मात्रं वा—शिलापुत्रकस्य शरीरम् इत्य्-आदिवत् इत्य् एवं मूले दृश्यते। ↩︎

  80. कार्य-कारण-कर्तृत्वे कारणं प्रकृतिं विदुः इति [§३५]। ↩︎

  81. अप्रविष्टात् (छ, ज) ↩︎

  82. अम्बुवद् अग्रहणात् तु न तथात्वम् इस् थे फ़ुल्ल् सूत्र। ↩︎

  83. अवतारतोक्तिस् (झ) ↩︎

  84. ज्ञातृत्व-कर्तृत्व-भोक्तृत्वम् ↩︎

  85. विवक्षयैव (ज) ↩︎

  86. अथ व्यतिरेकेण (ग) ↩︎

  87. चिद्-रूपत्वाद् विशेषणानि (छ) ↩︎

  88. तेन व्यतिरेकोऽपि (ज) ↩︎

  89. उपदिष्टा (ग) ↩︎

  90. महौजसं (ग, छ) ↩︎

  91. _त्रिपाद्-विभूतेर् लोकास् तु असङ्ख्याः परिकीर्तिताः _ शुद्ध-सत्त्व-मयाः सर्वे ब्रह्मानन्द-सुखाह्वयाः _सर्वे नित्या निर्विकारा हेय-राग-विवर्जिताः _ _सर्वे हिरण्मयाः शुद्धाः कोटि-सूर्य-सम-प्रभाः _ _सर्वे वेदमया दिव्याः काम-क्रोधादि-वर्जिताः _ नारायण-पदाम्भोज-भक्त्य्-एक-रस-सेविनः _निरन्तरं साम-गान-परिपूर्ण-सुखं श्रिताः _ सर्वे पञ्चोपनिषत्-स्व-रूपया वेद-वर्चसः ↩︎

  92. हेतुकाध्यात्मिकावस्था- (झ, जदव्पुर) ↩︎

  93. बीजस्य (ग) ↩︎

  94. मम मदीयं कृत्स्नस्य जगतो योनि-भूतं महद् ब्रह्म यत् तस्मिन् गर्भं दधाम्य् अहम् । भूमिर् आपोऽनलो वायुः खं मनो बुद्धिर् एव च । अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥ अपरेयम् [७.४-५] इति निर्दिष्ट-चेतना प्रकृतिर् महद्-अहंकारादि-विकाराणां कारणतया महद् ब्रह्म इत्य् उच्यते । श्रुतव् अपि क्वचित् प्रकृतिर् अपि ब्रह्म इति निर्दिश्यते । यः सर्वज्ञः सर्व-वित्, यस्य ज्ञान-मयं तपः, तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नं च जायते [मु।उ। १.१.९] इति । इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूताम् [७.५] इति चेतन-पुज-रूपा या प्रकृतिर् निर्दिष्ट, सा इह सकल-प्राणि-बीजतया गर्भ-शब्देनोच्यते । तस्मिन् अचेतने योनि-भूते महति ब्रह्मणि चेतन-पुञ्ज-रूपं गर्भं दधामि । अचेतन-प्रकृत्या भोग-क्षेत्र-भूतया भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन-प्रकृतिं संयोजयामीत्य् अर्थः । ततस् तस्मात् प्रकृति-द्वय-संयोगान् मत्-संकल्प-कृतात् सर्व-भूतानां ब्रह्मादि-स्तम्ब-पर्यन्तानां सम्भवो भवति ॥१४.३॥ इति रामानुजः। ↩︎

  95. उद्दालको हारुणिः श्वेतकेतुं पुत्रम् उवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति, स्वम् अपीतो भवति, तस्माद् एनं स्वपितीत्य् आचक्षते, स्वं ह्य् अपीतो भवति ॥६.८.१॥ ↩︎

  96. नानात्ययानां इति मूल-पाठे। ↩︎

  97. कृष्णा इति पुरी-संस्करणे पाठः। ↩︎

  98. एष साङ्ख्य-विधिः प्रोक्तः संशय-ग्रन्थि-भेदनः । प्रतिलोमानुलोमाभ्यां परावर-दृशा मया ॥ ↩︎

  99. अत्यन्त- (झ) ↩︎

  100. एषा माया भगवतः सृष्टि-स्थित्य्-अन्त-कारिणी । त्रि-वर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि ॥ ↩︎

  101. स्व- (झ) ↩︎

  102. च पञ्ची- (झ) ↩︎

  103. अन्तरङ्गायां (ख, जदव्पुर्) ↩︎

  104. अधिष्ठानतयैव गृह्यत इत्य् अर्थः (ग)। ↩︎

  105. थिस् वेर्से इस् नोत् इन् थे श्वेताश्वतर उपनिषद्। ↩︎

  106. क्वचित् (ग) ↩︎

  107. रजत-दर्शनाद् रजताकार-मनो-वृत्तिर् जातापि (ङ, ज) ↩︎

  108. रजतं (ङ, ज) ↩︎

  109. स्वप्न इव (छ) ↩︎

  110. “साङ्ख्य-विदः… पुनः स जीवात्मा” इत्य् अत्र ख-ङ-कर-लिप्योस् तथा ज-ग्रन्थस्य च पाठान्तरम्—साङ्ख्यानाम् इव तज्-ज्ञानाभाववता केवलात्म-ज्ञानेनेत्य् अर्थः । पुनर् आत्मा… इति । ↩︎

  111. एक इति सार्धकम् । ईश्वरो नारायणो महत्-स्रष्ट्र्-आख्यः सर्व-ब्रह्माण्डान्तर्यामि-पुरुष एकः स्व-शक्ति-व्यतिरिक्त-कारक-शून्यः । कालोऽपि कला यस्यास् तया स्वाधीनतया मायया, यया स्व-शक्ति-रूपया मायया कल्पादौ पूर्वं सृष्टम् इदम्, तथैव कल्पान्ते संहृत्य अखिलानां तेषाम् आश्रयो लय-स्थानं सत्, अत एव एकः सजातीय-चिद्-रूप-जीव-भेद-रहितः । अद्वितीयः विजातीय-प्रधानादि-भेद-रहितश् च सन्, आत्माधारः स्वांशि-रूप-महा-वैकुण्ठ-नाथानाम् आधारोऽभूत् । तस्मिन्न् एव प्रविष्ट आसीद् इत्य् अर्थः ॥१६॥ (क्रम-सन्दर्भः) ↩︎

  112. कालेनेति युग्मकम् । आत्मानुभावेन स्व-प्रभाव-रूपया शक्त्या । आदि-पुरुषः महत्-स्रष्ट्राख्यः प्रथमः पुरुषः । प्रधान-पुरुषेश्वरः प्रकृतेर् जीवानां च नियन्ता ॥ परेषां स्वीयांशानां, अवरेषां विभिन्नांशानां च परम आश्रयोऽसौ कैवल्य-संज्ञितस् तद्-आख्यायाम्नातः सन्न् आस्ते, तदानीम् आसीद् इत्य् अर्थः । केवल एव कैवल्यम्, स्वार्थे ष्यञ्, चातुर्वर्ण्यवत् । तत्र केवलत्वे इति स्वगताभेदं दर्शयति—केवलेति । स्वरूप-शक्ति-वैचित्र्यात् केवलानां शुद्धानां स्वरूप-भूतानाम् अनुभवानाम् आनन्दानां च यः सन्दोहो वैचित्री तद्-रूपः । केवलत्वं दर्शयति—निरुपाधिक इति । तद् उक्तं तृतीये—सुप्त-शक्तिर् असुप्त-दृक् [भा।पु। ३.५.२४] इति ॥१७-१८॥ (क्रम-सन्दर्भः) ↩︎

  113. स्वरूप-शक्तिम् एव स्थापयन् सृष्टिं योजयति—केवलेति । सृष्टि-काले महा-वैकुण्ठ-नाथाद् आविर्भूय स एव शुद्ध-स्वरूप-प्रभाव-रूपया शक्त्या त्रिगुणात्मिकां प्रधानैक-रूपां स्व-मायां सङ्क्षोभयन् सूत्रं सृजति ॥१९॥ (क्रम-सन्दर्भः) ↩︎

  114. सूत्रस्यैव व्यक्ति-शब्देनोच्यमानस्य ताम् इति स्त्री-लिङ्गेन परामर्शः । त्रि-गुण-व्यक्तिं गुण-त्रय-कार्यम् । अत एव विश्वतो-मुखं नाना-विधं त्रि-गुणात्मकं विश्वम् अहङ्कार-द्वारेण सृजन्तीम् । त्रि-गुण-कार्यस्य सूत्र-संज्ञायां कारणम् आह—यस्मिन्न् इति । कारण-भूते समष्टि-रूपे यस्मिन्न् इदं विश्वं प्रोतं ग्रथितम्, वायुर् वै गौतम, सूत्रं वायुना वै गौतम, सूत्रेणायं च लोकः परश् च लोकः सर्वाणि च भूतानि सन्दृब्धानि [बृ।आ।उ। ३.७.२] इति श्रुतेः । येन वाय्व्-आत्मना प्राण-रूपेण जीवः संसरति ॥२०॥ (श्रीधरः) ↩︎

  115. तद् एतच् च यत् किञ्चिद् अंशेन कीट-विशेषं गुरुं मत्वावगतम् इत्य् आह—यथेति । ऊर्णनाभिर् अत्र दीर्घ-सूक्ष्म-तन्तु-लता-विशेषस् तस्यैव वक्त्रेणोद्गिरन-निगिरण-दृष्टेः ॥२१॥ (क्रम-सन्दर्भः) ↩︎

  116. जगतस् त्व् असाधारण्यम् एवेत्य् आह (ज) ↩︎

  117. ननु सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इति श्रूयते । ब्रह्म च भगवद्-एक-रूपम् एव । ततः कथं भगवत एव तादृशत्वम् ? तत्राह—इदं हीति । हि यस्माद् इदं विश्वं भगवान् इव, न तु भगवान् एव स्यात् । यतोऽसौ विश्वस्माद् इतरो विलक्षणः । कथं विश्वं भगवान् इव ? कथं भगवान् विश्वस्माद् इतरः ? तत्राह—यत इति । विश्वस्य तत्-कार्य-रूपत्वात् केनचिद् अंशेनैव तद्-रूपत्वं निरूप्यते । भगवतस् तत्-कारणत्वात् परत्वम्, न तत्-समश् चाभ्यधिकश् च दृश्यते [श्वे।उ। ६.८] इति श्रुत्य्-अन्तरात् । तत्र सर्वज्ञस्यापि भवतः सम्प्रत्य् अपरितोष एवायं प्रमाणम् इत्य् आह—तद् धीति । मया तु यत् किञ्चिद् एवोपदिश्यत इत्य् आह—तथापीति । तद् एवम् अपि परमात्म-सन्दर्भे यद् अन्यथा व्याख्यातम्, तत् तु नातिहृद्यम् इति मन्तव्यम् ॥ इति क्रम-सन्दर्भः ॥ ↩︎

  118. एषा व्याख्या अक्षरशः स्वामिनम् अनुसरति। ↩︎

  119. “परमात्म-लक्षणं सर्व-कारणं वस्त्व् एवेति” इत्य् अत्र पाठान्तरं—परमात्म-चैतन्यम् एवेति (ख, ङ, ज) ↩︎

  120. परमात्म-चैतन्यम् एवेति (ख, ङ, ज) ↩︎

  121. परमात्म-चैतन्यम् एव (ख, ङ, ज) ↩︎

  122. परमात्म-चैतन्यस्य (ख, ङ, ज) ↩︎

  123. यथोल्मुकाद्… इत्य् अर्थः इत्य् अनुच्छेदांशः क-ख-करलिप्योर् उपलभ्यते । क्रम-सन्दर्भ-टीकायां त्व् अत्रायं पठ्यते—तत्रोल्मुकादित्वम् अग्न्य्-अंशाविष्टेन्धनांशत्वं, तत्र प्रकाशकत्वं स्वांशस्य दाहकत्वम् इन्धनांशस्येति विवेचनीयम् ॥ इति ॥ ↩︎

  124. आहुर् भागवताः इत्य् अधिकं पठ्यते जादवपुर-संस्करणे। ↩︎

  125. सुन्दर-स्वरूपाकारतायां (घ) ↩︎

  126. ख-कर-लिप्यां ताम्रिक इत्य् अत्र सर्वत्र कार्सापण इति पाठान्तरम्। ↩︎

  127. प्रवर्तमानत्वात् (ज) ↩︎

  128. परमात्म-चैतन्यस्य (ज) ↩︎

  129. अनादितया (ङ,ज) ↩︎

  130. स्व-वेदान्तिता-ख्यापकानाम् अपि विश्वस्य मनो-विलासत्वेन (ग) ↩︎

  131. दृष्त्या केचिच् चैवं (ज) ↩︎

  132. उक्तिम् इति यत् क्वचिद् दृश्यते तच् छन्दो-भङ्ग-दोषाद् व्यावृत्तम्। ↩︎

  133. यतनीयम् (ङ, छ) ↩︎

  134. आकूतं (जादवपूर) ↩︎

  135. अवयवि… तद्-विपर्ययः इति अनुच्छेदांशः ख-करलिपितः प्राप्तः। ↩︎

  136. समीयते इति पाठो दृश्यते। ↩︎

  137. स्मर्तुर् (झ, यादवपूर) ↩︎

  138. शक्नुम (ग) ↩︎

  139. चिद्-अंश-मात्र ↩︎

  140. तत्र केवलं चिन्मात्रत्वं न इति वाक्यांशो यादवपूर-संस्करणे नास्ति। यादवपूरस्य पाठः क्रम-सन्दर्भम् अनुसरति। तत्र द्रष्टव्यम्। ↩︎

  141. सत्यं परमेश्वरे… न सर्वथा निर्विषयीक्रियते इत्य् एतद्-अनुच्छेदांशः ख-करलिपितः प्राप्तः ॥ ↩︎

  142. दुरवबोध इव तवायं विहार-योगो यद् अशरणोऽशरीर इदम् अनवेक्षितास्मत्-समवाय आत्मनैवाविक्रियमाणेन सगुणम् अगुणः सृजसि पासि हरसि ॥ [भा।पु। ६.९.३४] ↩︎

  143. अथ तत्र भवान् किं देवदत्तवद् इह गुण-विसर्ग-पतितः पारतन्त्र्येण स्व-कृत-कुशलाकुशलं फलं ऊपाददात्य् आहो स्विद् आत्माराम उपशम-शीलः समञ्जस-दर्शन उदास्त इति ह वाव न विदामः ॥ [भा।पु। ६.९.३५] ↩︎

  144. न हि विरोध उभयं भगवत्य् अपरिमित-गुण-गण ईश्वरेऽनवगाह्य-माहात्म्येऽर्वाचीन-विकल्प-वितर्क-विचार-प्रमाणाभास-कुतर्क-शास्त्र-कलिलान्तःकरणाश्रय-दुरवग्रह-वादिनां विवादानवसर उपरत-समस्त-मायामये केवल एवात्म-मायाम् अन्तर्धाय को न्व् अर्थो दुर्घट इव भवति स्वरूप-द्वयाभावात् ॥ [भा।पु। ६.९.३६] ↩︎

  145. इत्य् अनेन इति पुरीदासस्य धृत-पाठः। ↩︎

  146. सम-विषम-मतीनां मतम् अनुसरसि, यथा रज्जु-खण्डः सर्पादि-धियाम्। ↩︎

  147. प्राबल्यं (ङ), क्रम-सन्दर्भे चायं पाठः। ↩︎

  148. भगवत्-सन्दर्भ §८५। ↩︎

  149. भगवत्-सन्दर्भ §१९। ↩︎

  150. भगवत्-सन्दर्भ §५। ↩︎

  151. जीवस्य इति क्रम-सन्दर्भे नास्ति। ↩︎

  152. भगवत्-तत्त्वम् अमायिकं (ज); क्रम-सन्दर्भ-यादवपूर-संस्करणयोस् तु “भगवत्त्वं मायिकम्” इत्य् सन्दिग्धासङ्गत-पाठो दृश्यते। ↩︎

  153. यस्य (झ, यादवपूर, क्रम-सन्दर्भः) ↩︎

  154. न प्राप्तम्। ↩︎

  155. वाग् गद्गदा द्रवते यस्य चित्तं रुदत्य् अभीक्ष्णं हसति क्वचिच् च । विलज्ज उद्गायति नृत्यते च मद्-भक्ति-युक्तो भुवनं पुनाति ॥ ↩︎

  156. तच् चान्यथा (ङ, ज) ↩︎

  157. तत्-तद्-दोषे (झ, यादवपूर) ↩︎

  158. लीलया (ग, छ) ↩︎

  159. प्रयोजनकस्यैव लीला-कैवल्येन (ङ, ज) ↩︎

  160. यथा (ग, यादवपूर) ↩︎

  161. -तुल्यत्वम् (यादवपूर) ↩︎

  162. अत्र श्लोकावतरणिकायां क्रम-सन्दर्भे, क, ख, ग, छ-करलिपिषु च अधिकः पाथः, यथा—“तस्य बाध्य-बाधकतां व्यवस्थापयति द्वाभ्याम् । ये तु तत् त्रयः सत्त्वादयो गुणास् तेषु न तदीयत्वं, न तद्-आवेशः, न च सदैकावस्थात्वं, यतः पूर्वत्र पद्ये तस्य गुणस्यान्यतमत्व-दर्शनाय स्वेति आविश्येति च विशिष्य स्व-माया-गुणम् आविश्येत्य् उक्तम्, न तु माया-गुनम् उपाधायेत्य् आह—सत्त्वम् इत्य् अर्धकेन ।” ↩︎

  163. मूले एतौ श्लोकौ प्रतीकेन उद्धृतौ, अत्र पूर्ण-रूपेणैव सन्निविष्टौ। ↩︎

  164. उपमर्द्यत्वात् (झ, यादवपूर); उपमर्द्य्-उपमर्द्यत्वात् (क्रम-सन्दर्भ) ↩︎

  165. तत्-प्रकृति- इति नास्ति यादवपूर-संस्करणे, क्रम-सन्दर्भे वा। ↩︎

  166. असुरादीन् (ग) ↩︎

  167. अत्र वा इति पाठ्यते पुरी-दासेन, न तु यादवपूर-संस्करणे, न वा क्रम-सन्दर्भे वा-शब्दः प्राप्यते। ↩︎

  168. इति शेषः इति क्रम-सन्दर्भे। ↩︎

  169. तूलादि-दाहेन (झ, यादवपूर, क्रम-सन्दर्भः)। ↩︎

  170. -स्थत्वेनान्यैर् अजानन्ति विविक्तम् इति क्रम-सन्दर्भ-पाठो लब्धः, पुरी-दास-सम्मतः पाठस् तु “-स्थत्वेनान्यैव विविक्तम्” इति। ↩︎

  171. भवतीत्य् उक्त्वा (झ, यादवपूर)। ↩︎

  172. वस्तुना (ह।भ।सु।) ↩︎

  173. अत्र “चरन्तम्” इति क्रम-सन्दर्भे नास्ति। ↩︎

  174. “तदानीं तयोर् न सुर-पक्ष-पातेन वधः, किन्तु ब्रह्म-शापेनाषुरीं योनिं प्राप्तयोर् अनुग्रहार्थ एवेति वक्तुम् इतिहासम् उपक्षिपति—अत्रैवेति । अत्र द्वेषादि-रहितस्यापि दैत्य-वधे नारदेन इतिहासः प्रस्तावितः ॥” इत्य् एषा श्रीधर-स्वामिनां टीका । स्वयं तु श्री-जीव-प्रभुपादैर् इदं क्रम-सन्दर्भे लिखितम्—“अत्र विद्वेषादि-राहित्येन भक्तानन्दनार्थं स्वैर-लीला-मात्रत्वे असुराणाम् अपि परम-हित-पर्यवसायक-स्वभावत्वे च । एव-कारेण सिद्धान्तान्तरं व्यावर्त्यते” इति ॥ ↩︎

  175. मूल-रूप-भगवत्-प्रदर्शनाय (ङ, छ, ज) ↩︎

  176. निर्गुणस्य ब्रह्मणो (ज, यादवपूर) ↩︎

  177. लभ्यते (झ, यादवपूर) ↩︎

  178. निमित्त-परम् (झ, यादवपूर); द्वौ पाठौ मूले प्राप्येते। ↩︎

  179. प्रामाणिकः (झ, यादवपूर); ↩︎

  180. पुराणान्तरतः, द्रष्टव्यः तत्त्व-सन्दर्भः §१९। ↩︎

  181. क्रम-वचनानि (झ, यादवपूर) ↩︎

  182. सेए तत्त्व-सन्दर्भ ५५-५६। भा।पु। २.१०.१-७। ↩︎

  183. महाभारत १२.३३९.४०-४१। ↩︎

  184. पाद्मोत्तर-खण्ड ९१ अध्यायः । ↩︎

  185. मूले प्रथमानुच्छेदे उद्धृत-पञ्चरात्र-वचनम्। ↩︎

  186. १२.३४९.६४ ओर् इन् च्रितिचल् एदितिओन् १२.३३७.५९। इन् थे लत्तेर्, थे सेचोन्द् लिने रेअद्स् एतान्य् अतिप्रमाणानि न हन्तव्यानि हेतुभिः ॥। ↩︎

  187. १२.३४९.६४ ओर् इन् च्रितिचल् एदितिओन् १२.३३७.५९। इन् थे लत्तेर्, थे सेचोन्द् लिने रेअद्स् एतान्य् अतिप्रमाणानि न हन्तव्यानि हेतुभिः। ↩︎

  188. यद्यपि श्लोक एष पूर्वम् एव दत्तः, स पाठकस्य सुविधार्थे पुनः सन्निविश्यतेऽत्र। ↩︎

  189. स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावोऽप्य् अजित-रुचिर-लीलाकृष्ट-सारस् तदीयम् । व्यतनुत कृपया यस् तत्त्व-दीपं पुराणं तम् अखिल-वृजिन-घ्नं व्यास-सूनुं नतोऽस्मि ॥ ↩︎

  190. तत्त्व-सन्दर्भ २१। ↩︎